________________
तृतीयो भवः यच्चोक्तं चञ्चला लक्ष्म्यः स्थिरा: किं श्रमणत्वतः । उपायेन तु रक्ष्यन्ते दक्षतामक्षतां श्रितैः ॥२०५।। यदुक्तं पुष्पसारं तु यौवनं तत्र युज्यते । कर्तुं रसायनं किं नु श्रमणत्वे कृते भवेत् ॥२०६|| यच्चोक्तं परलोकारि: कामस्तदपि नोचितम् । न दत्ते दर्शनं कश्चिद्यदेत्य परलोकतः ॥२०७।। असन्नपि विकल्प्येत परलोक: कथञ्चन । यदि नाम ततो लोकेऽतिप्रसङ्गः प्रजायते ॥२०८।। दारुणा विषया यच्च प्रोक्तं तदपि नोचितम् । विपाकदारुणस्तु स्यादाहारोऽपि कथञ्चन ॥२०९।। मृगाः सन्तीति किं नाम नोप्यन्ते यववल्लयः । विपाकदारुणत्वं च नोपायज्ञे नरे भवेत् ॥२१०॥ दुर्वारो मृत्युरित्युक्तं यच्च तद्बालभाषितम् । श्रमणेनापि मर्तव्यमेव पूर्णे निजायुषि ॥२११।। न च मर्तव्यमस्तीति श्मशाने वास इष्यते । न दुःखसेवया सौख्यं परलोके च सत्यपि ॥२१२।। सदाऽभ्यस्तं समभ्येति सुखं हि सुखसेवया । अभ्यस्तस्य प्रकर्षों हि लोके दृष्टोऽन्यथा न तु ॥२१३।। विरम त्वं तदेतस्माच्छ्रामण्यव्यवसायतः । शिखी प्रोवाच सर्वं तेऽनुचितं वचनं शृणु ॥२१४|| अथवा युज्यते नैव मम वक्तुं गुरोः पुरः । भगवानेव तत्सर्वमत्राऽऽदेशं प्रदास्यति ॥२१५/ गुरुः प्राह महाविप्र ! शृणु प्राग् यत् त्वयोदितम् । केन प्रतारितोऽस्त्येष न केनाऽपि प्रतारितः ॥२१६।।
समरादित्यसंक्षेपः किं तु जैनागमोद्भूतक्षयोपशमभावतः । भवस्वभावं विज्ञाय विरक्त: स्वयमप्ययम् ॥२१७|| यच्चोक्तं नास्ति भूतेभ्यो जीवोऽन्यस्तदसंगतम् । अचेतनेभ्यो भूतेभ्यश्चेतनोत्पद्यते कुतः ॥२१८।। यद्यत्र नास्ति प्रत्येकं तद्गणेऽपि न तद्भवेत् । न तैलं पीडितासु स्यात्सिकतासु बहुष्वपि ॥२१९।। अथ प्रत्येकमेतानि चेतनानीति मन्यसे । तत्सिद्धं बहुचैतन्यसमुदायः पुमानिति ॥२२०॥ एकेन्द्रियास्तथा जीवा घटादीनां च चेतना । घटादीनां च चैतन्यं न क्वाऽप्युपलभामहे ॥२२१॥ तस्मादन्योऽस्ति भूतेभ्यश्चेतनः परलोकगः । यच्चोक्तं भूतपार्थक्ये नरो मृत इतीर्यते ॥२२२।। तद्वाग्मात्रं हि जीवस्य भूतपार्थक्यवृत्तितः । प्रत्यक्षलक्ष्यं चैतन्यं केन शक्यं निषेधितुम् ॥२२३।। यदुक्तं दृश्यते देहान्नात्माऽन्यश्चटवद्घटात् । भूतेभ्यश्चेतने भिन्ने कथिते तन्निषेधितम् ॥२२४।। यच्चोक्तं परलोकस्याऽभावे मिथ्याभिमानतः । मा त्याक्षीभॊगर्ज सौख्यमात्मानं दर्शयाऽथवा ॥२२५।। शृणु तत्राऽपि चैतन्यसिद्धौ परभवोऽस्ति हि । तत्सिद्धौ स्यात्कथं मिथ्याभिनिवेशोऽस्य धीमतः ॥२२६।। किं चैषु विषयेषु स्यात्कि सुखं शिवशत्रुषु । पशूनामपि तुल्येषु क्लेशायासघनेषु च ॥२२७।।
१. उदीरितः ख ग घ च ।