________________
तृतीयो भवः
सर्वत्र समता कार्या धार्या पञ्चमहाव्रती । निश्याहारो न कार्यश्च ग्राह्यः शुद्धो दिवाप्यसौ ॥ १८२ ॥
अपञ्चदोषं भोक्तव्यं ध्येयाः शासनमातरः । धार्याश्च प्रतिमा भाव्या भावनाः पञ्चविंशतिः ॥ १८३ || द्रव्याद्यभिग्रहाः कार्या भूशय्या स्नानवर्जनम् । लोचो निःप्रतिकर्मत्वं गुर्वादेशविधायिता ॥ १८४॥ परीषहोपसर्गाश्च सह्याः किं बहुनाऽथवा । धार्याष्टादशशीलाङ्गसहस्त्री दुर्वहा सदा || १८५ || मरुद्वस्त्रेण धार्योऽयं तार्या गङ्गा विलोमतः । जेयमेकाकिना सैन्यं मेरुस्तोल्यस्तुलाधृतः ॥१८६॥ राधावेधो विधेयोऽसावगृहीतः पुरा क्वचित् । निरन्तरं ग्रहीतव्यो जगत्त्रयजयध्वजः ॥ १८७॥ मुदा श्रुत्वेति शिख्याह सत्यमेतत्परं प्रभो । भवोद्विग्नस्य नो किञ्चिदुष्करं भवभेदकम् ॥१८८॥ प्रभुः प्राह महामोहः सर्वाऽनर्थनिबन्धनम् । तस्मात्स एव हन्तव्यो लोकद्वयहितैषिणा ॥ १८९ ॥ शिख्यूचे हननोपायस्तस्य श्रमणता मता । कुर्वन्त्वनुग्रहं पूज्या मह्यं तस्याः प्रदानतः ॥१९०||
गुरुः प्राह मया त्वय्यनुग्रहः कृत एव हि । किं तु स्थितिर्नः शास्त्रार्थं कञ्चित्संबोध्य दीक्ष्यते ॥ १९१ ||
शिख्याह दीक्षितेनाऽपि विधेया समयस्थितिः । तदेवमस्तु तौ यावदित्थं संलपतो मिथः ॥ १९२॥
१. विधायिना क ।
८९
९०
समरादित्यसंक्षेपः
तावन्मत्वाऽस्य वृत्तान्तमनेकजनसंयुतः । ब्रह्मदत्तः पिता तस्य वशारूढः समागमत् ॥१९३॥
नत्वा गुरुमसौ लब्धधर्मलाभ उपाविशत् । प्रणस्य शिखिना प्रोचे देहि मे तात याचितम् ॥ १९४॥ ब्रह्मदत्तोऽवदद्वत्स ! मत्प्राणा अपि ते वशे । शिख्यूचे ज्ञातवृत्तान्तो भववासे भवानलम् ॥१९५॥ दुर्लभं मानुषं जन्म न नित्याः प्रियसंगमाः । चञ्चला ऋद्धयः पुष्पसारं यौवनमङ्गिनाम् ॥१९६॥ परलोकरिपुः कामो दारुणो विषयव्रजः । दुर्निवारः सदा मृत्युस्तन्मह्यं दापय व्रतम् ॥१९७॥ उवाच ब्रह्मदत्तोऽथ सुतस्नेहेन गद्गदम् । अकालो यतिधर्मस्य शिख्याह न मृतेरिव ॥ १९८ ।।
तदा च ब्रह्मदत्ताऽनुजीवी पिङ्गलनामकः । नास्तिक: प्रोचिवान्केन कुमार त्वं प्रतारितः ॥ १९९ ॥ यन्नास्ति पञ्चभूतेभ्यो जीवोऽन्यः परलोकगः । तथाहि भूतसंघातो मिलितो जीव इष्यते ॥ २००॥ पृथग्भूतेषु तेष्वेव नरो मृत इतीर्यते । देहादन्योऽस्ति नैवाऽत्मा घटाच्चटकवद्भवे ॥२०१ || परलोकं विना मिथ्याऽभिनिवेशप्रतिर्भवन् । त्यज भोगसुखं त्वं मा चेतनं दर्शयाऽथवा ॥२०२॥ यत्त्वयोक्तं मनुष्यत्वं दुर्लभं तदसंगतम् । भूतसंघातलभ्येऽत्र का नामाकुलता सताम् ॥२०३॥ यच्चोक्तं प्रियसंयोगा न नित्यास्तदकारणम् । श्रमणत्वेऽपि ते यस्मान्न स्युर्नित्यत्वभाजनम् ||२०४||