________________
तृतीयो भवः
शिखीत्यभिख्यया बालं तमुवाच पिता मुदा । कलाकलापसम्पूर्णः स सत्यामतनोच्च ताम् ॥२२॥ तं प्रौढं पुत्रकत्वेन ब्रह्मदत्त उपाददे । ज्ञातस्वपुत्रवृत्तान्ता कुधा जज्वाल जालिनी ||२३|| गृहकृत्यं परित्यज्य ब्रह्मदत्तं जगाद च । नैकत्राऽसिद्वयं कोशे गृहेऽयं वाऽहमेव वा ॥ २४ ॥ एतस्मिन्सत्यहं किं च प्राणानपि न धारये । बद्ध्वा शिलां गले कुर्वे जले पतनमप्यलम् ||२५||
स्वप्नादि जलपातान्तं स श्रुत्वा मातृचेष्टितम् । शिखी दध्यौ विरक्तात्मा कषायाणां प्रगल्भताम् ||२६|| अमी कषायाः संसारतरुसेकघनाघनाः । मोक्षार्थमुद्यतैः पुंभिर्वर्जनीयाः प्रयत्नतः ||२७|| कर्मवृद्धिः कषायेभ्यो भवस्तस्यास्ततोऽसुखम् । तस्मादुद्विजमानेन त्यजनीयास्त एव तत् ॥२८॥ उक्तं च वीतरागः सन्कलुषेण न युज्यते । यथा तथा कषायालीं निगृह्णन्नपि तत्समः ॥ २९ ॥ किं च मत्कर्मणः प्राच्याच्चन्द्रादग्निकणावलिः । प्रद्योतनात्तमो जज्ञे कालकूटः सुधारसात् ॥३०॥
अन्नान्मृत्युर्जलात्तृष्णा यन्मातुर्देष एष मे । तस्माच्च दुःखं तातस्य स्थातुं तन्नेह बुध्यते ||३१||
ध्यात्वेति हृदये तातमनापृच्छय विरागवान् । निर्गत्य नगरादेष गतोऽशोकवने वने ॥३२॥
१. मोक्षार्थमुत्थितैः ख ग घ ।
७५
७६
समरादित्यसंक्षेपः
तत्राऽशोकतलासीनं बहुशिष्यसमाकुलम् । एकत्र संयमे लीनमपध्यानद्वयोज्झितम् ||३३|| दण्डत्रयेण निर्मुक्तमकषायचतुष्टयम् । खपञ्चकेन चाऽजय्यं षट्काययतनापरम् ||३४|| भयसप्तकहीनं च समुज्झितमदाष्टकम् ।
नवधा ब्रह्मगुप्तं च दशधा धर्मधारिणम् ||३५||
एकादशाङ्गज्ञातार्थं श्रितं द्वादशधा तपः ।
सूरिं विजयसिंहऽख्यमद्राक्षीदक्षतं गुणैः ||३६|| कलापकम्
वीक्ष्य रूपचरित्राभ्यां तं निर्जितझषध्वजम् । नत्वोपविश्य पप्रच्छ भवनिर्वेदकारणम् ||३७| रूपान्निरूप्यते द्रव्यं तेन च स्वजनो जनः । तत्किं सर्वं परित्यज्य प्रपन्नोऽसि व्रतं प्रभो ! ||३८||
सुगुरुः प्राह किं रूपं देहे मांसास्थिसंचये । कीदृश: प्रतिबन्धश्चाऽस्थिरयोः स्वजनाऽर्थयोः ||३९|| एक: संक्लिश्यते रोगैरेककञ्च विपद्यते । स्वस्वकर्मफलस्याऽनुभवे स्वः कस्य को भवे ||४०|| याति वैर्यपि मातृत्वं पुत्रोऽपि रिपुतां व्रजेत् । तदेवमनवस्थायां स्वाजन्यं मोहवल्गितम् ॥ ४१ ॥ अन्यच्च यन्ममाऽध्यक्षमनुभूतं स्वयं च यत् । आकर्णय महाभाग तन्मे कथयतः सतः ॥ ४२॥ अत्रैव विजये लक्ष्मीनिलयाख्ये पुरे वरे । इभ्यसागरदत्तस्य श्रीमत्यां तनयोऽस्म्यहम् ||४३||
१. धर्मचारिणं क ।