________________
तृतीयो भवः
अस्त्यस्य जम्बूद्वीपस्य क्षेत्रेऽवरविदेहके । नृस्त्रीरत्नभृतं कोशमिव कोशाभिधं पुरम् ॥१॥ तत्रास्त्यजितसेनाख्यः सेनाजितदिगन्तरः । वैरिराजशिरोरत्नद्योतितांह्रिनखो नृपः ॥२॥ व्योमाऽञ्जनवतः शत्रुशलभक्षयकारिणः । यत्प्रतापप्रदीपस्य च्छायेव द्वेषिदुर्यशः ||३|| तस्याऽऽत्मनिर्विशेषोऽस्ति सर्वराज्यस्य चिन्तकः । इन्द्रशर्माभिधो मन्त्री प्रत्तशर्मा जने द्विजः ॥४॥
आनन्दनारकः सोऽथ नरके सागरोपमम् । चत्वार्यन्यानि संसारे भ्रान्त्वा चाऽस्य द्विजन्मनः ॥५॥ शुभङ्कराख्यभार्यायां नारीत्वेनोदपद्यत । जज्ञे च समये पुत्री जालिनीति कृताऽभिधा ॥६॥
अथ तस्यैव राज्ञोऽस्ति सचिवो बुद्धिसागरः । तत्पुत्रो ब्रह्मदत्तस्तामुपयेमे सयौवनाम् ॥७॥ तयोः परस्परस्नेहगुणेनाऽऽनद्धचेतसोः । कियानपि ययौ कालः पञ्चगोचरसेवया ||८||
इतश्चाऽचिन्त्यमाहात्म्यात्कर्मणां कृत्तमर्मणाम् । सिंहदेवो दिवश्च्युत्वा तस्याः कुक्षाववातरत् ॥९॥
७४
समरादित्यसंक्षेपः स्वप्नेऽपश्यच्च सा स्वर्णपूर्णकुम्भं निजोदरे । प्रविष्टं निर्गतं भग्नं स्वहस्तेन कथञ्चन ॥ १० ॥ ससाध्वसा विबुद्धा सा संकीर्णरसभागभूत् । नाऽख्यत्तु ब्रह्मदत्ताय स्त्रियो हि दृढकैतवाः ॥ ११ ॥ प्रवर्धमानगर्भाऽथ सव्यथाऽङ्गे मनस्यपि । सा गर्भपातनोपायान्निर्ममा निर्ममे बहून् ||१२||
न विपदे स गर्भस्तु प्राच्यकर्मविपाकतः । तत्कान्तो ज्ञातवृत्तान्तोऽवदत्परिजनं निजम् ॥१३॥ तथा यत्यं यथा गर्भः प्रसवे न विपद्यते । वञ्चयित्वा च तच्चित्तं निवेद्यो मे कथञ्चन ॥ १४ ॥
तदाऽस्या दोहद: प्राण्यद्रोहदः समजायत । देवाऽर्चागुरुशुश्रूषाधर्मश्रवणसुन्दरः ||१५||
दोहदे पूरिते पत्या साऽभूद् गर्भप्रभावतः । रमावत्परमानन्ददायिनी जनचेतसाम् ॥ १६ ॥ समयेऽथ प्रसूतेयं तनयं हृद्यचिन्तयत् । कथं व्यापादयाम्येनमियतीनां दृशां पुरः ||१७|| ज्ञाततन्मतया स्मृत्वा ब्रह्मदत्तवचस्तदा । उदिता बन्धुजीवाख्यबालसख्येति जालिनी ॥ १८ ॥ पापः स्वामिन्ययं गर्भः क्लेशदेनाऽमुना कृतम् । करोम्येकान्तगं तस्माद्यद्यादिशि मामिह ॥ १९ ॥ वधे सखीत्रपावत्या कषायायत्तचित्तया । तदा जजल्पे जालिन्या यूयं जानीथ किञ्चन ||२०|| बन्धुजीवापनीयैतं तत्कान्ताय समापर्यत् । तत्कृत्वा सुस्थितं लोके मृतं गर्भमघोषयत् ॥२१॥