________________
पञ्चमो भवः
तं चतुर्ज्ञानिनं श्रुत्वा बाह्योद्याने समागतम् । निर्गतो वन्दनायाऽहं देवीसुतयुतस्ततः ॥४८३||
तं प्रणम्याऽथ लब्धाशीरुपाविक्षमहं पुरः । उक्तो भगवता भो भो विद्याधरधराधिप ||४८४ ॥ पूर्वपुण्यफलं मत्वा पुनः पुण्यं समर्जय । मयोचे तदुपायं तद्वद सद्यः प्रसद्य मे ||४८५|| गुरुणादेशितं धर्मं सम्यक्त्वाऽऽणुव्रतात्मकम् । अस्माभिरात्मसात्कृत्वा पृष्टोऽथ भगवानिति ॥ ४८६ ॥ भगवन् ! किं पुरा कर्म मर्माविद्विदधे मया । प्रियावियोगसंतापाऽनलेन प्लोषितोऽस्मि यत् ||४८७|| गुरुः प्रोवाच भरतश्रेष्ठे काम्पील्यनामनि । पुरे त्वं रामगुप्ताख्यश्चन्द्रगुप्तनृपात्मजः ||४८८||
इयं तव प्रियतमा तारापीडनृपात्मजा । नाम्ना हारप्रभा हारप्रभाताररदद्युतिः ॥ ४८९ ॥
अन्यदा सुरभी पुष्पसमूहसुरभौ युवाम् । ययथुर्भवनोद्याने पुष्पावचयलीलया ॥४९० ॥ क्रीडावाप्यां च मज्जित्वा सुचिरं सारसाविव । तत्तीरसंस्थिते हृष्टौ निविष्टौ कदलीगृहे ॥ ४९१||
तत्कारिकोपनीतेऽथ कुङ्कुमस्य विलेपने । युवाभ्यामनुरागिभ्यामङ्गरागः कृतो मिथः ||४९२ || अथ तत्राऽऽगतं हंसमिथुनं पृथुनर्मणा । भवता जगृहे हंसी कुङ्कुमाक्तेन पाणिना ||४९३ ॥
1
हंसस्तव गृहिण्या तु रञ्जित कुङ्कमेन त अन्योऽन्यं विरहक्लान्तौ मुक्तौ च स्तोकवेलया ॥ ४९४॥
२०३
२०४
समरादित्यसंक्षेपः
हंसेन चक्रवाकीति हंस्या चक्र इति भ्रमात् । परस्परपरित्यक्तौ दर्शनेऽपि न संगतौ ॥ ४९५ ॥ ततो व्यवसितौ मृत्यै गृहवाप्याममज्जताम् । स्थितौ निरुद्धनिःश्वासौ वेलां च महतीमपि ॥ ४९६॥
असूनां दुस्त्यजत्वेन भावित्वेन च संगतेः । कर्मणोऽचिन्त्यशक्तित्वाद्धौतकुङ्कुमवर्णौ ॥४९७||
ततः कण्ठगतप्राणान्मग्नौ दीर्घिकाजलात् ।
स्वयं च प्रत्यभिज्ञाय मिलितौ कलितौ मुदा ॥ ४९८ ॥ षड्भिः कुलकम्
असमाद्व्यतिकरात्कर्म युवाभ्यां यदबध्यत । तदीयपरिणामस्य दुस्तरो विस्तरो हासौ ॥ ४९९ ॥
ततोऽचिन्ति मयाऽल्पस्य निदानस्य महानहो । विपाको दुस्सहस्तत्किं प्रयासेनाऽमुनाऽधुना ॥ ५०० ॥ ततो नत्वा मया प्रोचे भगवन्कुर्वनुग्रहम् । उत्तारय भवाटव्या देहि श्रामण्यमुज्ज्वलम् ॥ ५०१ ॥
अनुज्ञातस्ततस्तेन दत्त्वा राज्यं स्वसूनवे । समं मित्रेण देव्या च श्रामण्यं प्रत्यपादिषि ॥ ५०२||
इदं मम व्रतप्राप्तौ तद्विशेषनिबन्धनम् ।
प्रोचे जयकुमारेण सुन्दरं भगवन्नदः ||५०३ || तद्धन्योऽसि प्रभो ! किं तु कथमुत्तीर्यते जनैः । असौ भवाटवी तस्या उत्तीर्णैः क्व च गम्यते ॥ ५०४ ॥
गुरुः प्राहाऽटवी द्वेधा द्रव्यभावविभेदतः । तदुदाहरणं द्रव्याऽटव्या मे वादिनः शृणु ॥ ५०५ ॥ कुतश्चिन्नगरात्कश्चित्सार्थवाहः पुरान्तरम् । यियासुर्घोषयत्येवमागच्छत यियासवः ||५०६ ॥