________________
चतुर्थो भवः
उपायोऽस्ति जिनोक्तस्य प्रतिपत्तिर्निबोधताम् । दुष्कृतेष्वनुतापेन चित्तरत्नस्य शोधनम् ||४८७||
सर्वारम्भपरित्यागश्चारित्रस्योर कृतिः । मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानां च जन्तुषु ॥ ४८८||
प्राक्कर्माणि क्षपन्तीत्थं न बघ्नन्ति नवानि च । ततः क्षपितकर्माणः प्रयान्ति परमां गतिम् ||४८९ ॥ विशेषकम्
राज्ञोचे स्वल्पकेनाऽपि पापेन गतिरीदृशी ।
भवेत्तन्मे महापापकृतः स्यात्सुगतिः कथम् ||४९०॥
मुनिरूचे चरित्रस्याऽसाध्यमस्ति न किञ्चन । कल्पद्रुकामधुक्चिन्तारत्नाऽतीतप्रभावतः ॥४९१॥ विषं यथाप्रतीकारमल्पमप्यसुनाशनम् । पापमप्यप्रतीकारं तथा सौख्यस्य नाशनम् ॥ ४९२ ॥ यथा कृतप्रतीकारा जरयन्ति महाविषम् । चारित्रेण महापापमपि संसारिणस्तथा ॥ ४९३॥
नृपः प्रोवाच भगवंश्चारित्रं कीदृगुच्यते । गुरुः प्राह ज्ञानपूर्व रुच्या दोषनिवर्तनम् ||४९४ ॥
उक्तं च ज्ञानवान् रोचमानो दोषान्निवर्तते ।
अन्यथा त्वप्रवृत्ताश्चानवृत्तिश्चेव भावतः ||४९५ ॥ इदं सानुभवं कर्मविगमस्य निबन्धनम् । राज्ञोचे सेवमानस्य त्वां मे ज्ञानं न दुर्लभम् ||४९६ ।।
ततस्तीव्ररुचिस्तस्या दोषपोषनिवर्तनम् ।
तद्धन्योऽस्मि त्वया सार्धं दर्शनं यस्य मेऽभवत् ॥४९७||
१. माध्यस्थानि क ।
२. प्रभामृतः ख ।
१४५
१४६
समरादित्यसंक्षेपः
कदापि दर्शनं दत्ते नाऽधन्यानां महानिधिः । आज्ञां भगवतस्तस्मादनुतिष्ठामि साम्प्रतम् ॥४९८ ॥
किं चास्मि श्रमणत्वस्य योग्योऽहं गुरुरूचिवान् । कोऽन्यो योग्यस्ततो हृष्टो नृपः प्रोवाच मन्त्रिणः ॥ ४९९ || कार्योऽभयरुचे राज्याभिषेकः खेदवर्जितैः ।
भाव्यं भगवतः पार्श्वे मुदा गृह्णाम्यहं व्रतम् ||५००॥
प्रभोः प्रमाणमादेश इत्युक्त्वा ते ययुः पुरे । निवेदिते च पौराणां श्रुतमन्तः पुरेण तत् ॥५०१॥ हित्वा गुणनिकालेख्यगान्धर्वाद्यसमापितम् । हाहारवं प्रकुर्वाणमन्तः पुरमवाप च ॥ ५०२ || ततश्चरणचारेणाऽभयमत्या युतोऽप्यहम् । समेतस्तत्र दृष्टश्च सर्वैरपि नरेश्वरः ||५०३||
भूमौ निविष्टं संविग्नं तं वीक्ष्यच्छत्रचामरम् । उवाचाऽन्तःपुरं देव किमुद्विग्न इवेक्ष्यसे ॥५०४ ॥
स प्राह भववैराग्याज्जगादाऽन्तःपुरं ततः ।
कीदृक् ते भववैराग्यं स प्राहाऽथाऽऽवयोः कथाम् ||५०५ ॥
तच्छ्रुत्वा मूर्च्छितावावामसंज्ञौ पतितौ भुवि । हाहेति सर्वदेवीभिर्गदितं च सगद्गदम् ||५०६ ॥
अम्बा बाष्पजलक्लिन्ननेत्रा नौ पतितोपरि । आवाभ्यां लब्धसंज्ञाभ्यां दुःखेनाऽऽश्वसिता ततः ॥ ५०७।। विज्ञप्तोऽथ नृपो राजन्नलं नौ विषयैरिमैः । आवयोरनुजानीहि दुःखौघशमनं व्रतम् ||५०८ ||
तदनुज्ञाय दत्त्वा च राज्यं विजयवर्मणः । जामेयस्य विधायाऽथ चैत्येष्वष्टाहिकामहम् ||५०९ ||