SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ पञ्चमो भवः १८५ १८६ तरौ क्वाऽपि समुद्बन्ध्य तत्त्यजाम्यहमप्यसून् । इति पश्यन् दिशोऽपश्यं नीपमेकं समीपत: ॥२७२।। स्थलमौलिस्थिते तस्मिन् गतोऽहं विगतोत्सवः । ससरोजं सरोऽद्राक्षं सनक्षत्रमिवाऽम्बरम् ॥२७३॥ हंसं विरहिणं वीक्ष्य तत्र हंसीयुतं पुनः । अहं दध्यौ ममाऽस्येव प्रियाऽवश्यं मिलिष्यति ॥२७४॥ अन्यच्च मुनिनाऽप्यस्ति कथितं यदियं पतिम् । प्राप्य विद्याधरीत्वं चोत्तमार्थं साधयिष्यति ॥२७५।। तन्न स्वं घातयिष्यामि विचित्रा कर्मणां गतिः । प्राप्तकालं ममाऽप्येतत्तस्या एव गवेषणम् ॥२७६।। चिन्तयित्वेति नारङ्गः कृतनारङ्गभोजनः ।। तामन्वेष्टुं प्रवृत्तोऽब्धेर्यावत्तटमटाम्यहम् ॥२७७॥ अपश्यं तावदाश्लिष्टफलकामात्मनः प्रियाम् । रुरोद सापि मां वीक्ष्याऽपृच्छमाश्वास्य तामहम् ॥२७८।। सोचे त्वयि तदा नाथ पतिते मन्दभाग्यतः । सार्थेशपोत: पोतश्चोत्पथेनाऽभजतां गतिम् ॥२७९।। त्वद्वियोगेन मे कन्दमानाया इव पीडया । विलीने रजनी नौश्च द्राग्निमीलिततारके ॥२८०|| ततः फलकमासाद्य निजं पुण्यमिवाञ्जसा । लक्षितो दु:खवद्वांधिदृष्टश्च त्वं तदन्तवत् ॥२८१|| तत्पृष्टेन मयाऽप्यूचे प्रमादात्पतितोऽस्म्यहम् । प्राच्यनौफलकं प्राप्यात्रागतस्त्वामलोकयम् ॥२८२।। समरादित्यसंक्षेपः सोचे नाथ तृषार्ताऽहं मयोक्तं निकटं सरः । सा तु नाशकदागन्तुं खिन्ना मृद्वी नितम्बिनी ॥२८३।। मयोचे तावदत्रैव देवि ! तिष्ठ लतागृहे । पद्मिनीपुटके तोयं यावत्त्वद्योग्यमानये ॥२८४।। तयोचे तोयतृष्णा मां न तथा नाथ बाधते । यथा त्वद्वदनाम्भोजतृष्णाऽथ जगदे मया ॥२८५।। तावद्धीरा भवेदानीं यावत्पानीयमानये । इत्युक्त्वा पल्लवेः कृत्वा स्रस्तरं तामशाययम् ॥२८६।। पटं चास्या समोचे विघ्नव्यूहघने वने । पटेन च्छन्नया स्थेयं त्वया यावदिहैम्यहम् ।।२८७|| तया मदीय आदेश: प्रत्यगृह्यत मौलिना । गत्वाऽहं तु सरो नीरं फलानि च समानयम् ॥२८८॥ आगच्छन्वामहक्स्पदन्दसाशङ्कस्त्वहमूचिवान् । दृग्मोहनपटं मुञ्च जलं देवि ! गृहाण च ॥२८९॥ अलब्धप्रतिवाचा च तदेवोचे पुनर्मया । तथैव पुनरप्राप्तोत्तरः स्रस्तरमस्पृशम् ।।२९०।। अलब्धायां ततो देव्या हा हतोऽस्मीति जल्पतः । पपात मे विलक्षस्य बलं चित्ताज्जलं करात् ॥२९१।। विलपन्देवि देवीति परितः पदपद्धतिम् । वीक्षमाणोऽजगरस्य घर्षणी च व्यलोकयम् ।।२९२।। तां दृष्ट्वा हा हता हन्त कान्ता मेऽजगरेण किम् । इति शोकार्णवे मज्जन्निव मूर्छामुपागमम् ॥२९३॥ ततोऽम्भोधितटाऽऽसन्नसशीकरसमीरणैः । मूर्छाव्यपगमे जाते चिन्तयामासिवानहम् ॥२९४|| १. मन्दभाग्यतः क ।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy