SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ पञ्चमो भवः १८७ १८८ यावन्नाजगरो दूरं याति तावद्विशाम्यहम् । मुखेऽस्य संमतो मृत्युरपि देव्या समं मम ॥२९५।। ध्यात्वेत्यहं समीपेऽस्य गत्वा कोपयितुं च तम् । न्यहनं मूनि पादेन पटस्तेनोदगीर्यत ।।२९६।। ततः कुण्डलिताङ्गेऽस्मिन्नहं पटमुपाददे । हृद्य, हृद्यमाधायोद्बन्धनं च व्यधां वटे ॥२९७|| रक्षितुं मां समुल्लासिशाखामिषभुजस्तदा । वनदेवी: खगारावैरिवाढत महावटः ॥२९८।। ममाऽथ लम्बमानस्य पश्यतो भ्रमतस्तरून् । मूर्छाऽतुच्छा समागच्छत्रुटितः पाशकस्तु सः ॥२९९|| अत्राऽन्तरे मुनिः कश्चिदकस्मादेत्य सत्वरः । कमण्डलुजलैर्गात्रं सिञ्चति स्म ममोच्चकैः ।।३००।। मूर्छाव्यपगमे चाऽहमालोक्य स्वं भुवि स्थितम् । अचिन्तयं कथं मन्दभाग्योऽहं न मृतोऽस्मि हा ॥३०१॥ मुनिर्मदीयमङ्गं च मृदुना पाणिना स्पृशन् । मयोचे किमिदं चके भगवन्भवता मम ॥३०२।। मुनिरूचे मया वीक्ष्य त्वामात्मनिधनोद्यतम् । चिन्तितं कुरुते कर्म कोऽपि कापुरुषोचितम् ॥३०३।। ध्यात्वेति शीघ्रमायामि यावत्तावदमुच्यत । त्वयाऽऽत्मात्राऽऽगतश्चाऽहं पाशश्च त्रुटितस्तव ॥३०४।। मूर्छितः पतितः सिक्तः कमण्डलुगतै लैः । लब्धसंज्ञः परामृष्टः पाणिनेति कृतं मया ॥३०५।। तदाचक्ष किमीक्षमृत्योस्तव निबन्धनम् । न किञ्चन मया प्रोचे लज्जासज्जात्मना मनाक् ॥३०६।। समरादित्यसंक्षेपः मनिरूचे मुनिजने जननीजनसन्निभे । का त्रपाऽत्र ततः सत्यं वृत्तान्तं मे निवेदय ॥३०७।। ततोऽहं पुरतस्तस्य सर्वं वृत्तान्तमात्मनः । श्वेतवीतः समारभ्योद्बन्धनान्तं न्यवेदयम् ॥३०८॥ अथाह मुनिरीदृक्ष एवायं दुःखभूर्भवः । तद्विषादनिषादं मा स्पृश मालिन्यकारणम् ॥३०९।। सर्वदुःखक्षयोपायं धर्मकर्म समाश्रय । यद्विनाऽन्यभवेऽप्यङ्गी सुखमङ्गीकरोति न ॥३१०।। मयोचे सत्यमेवेदं भगवन्भवतो वचः । अहं कान्तावियोगातॊ धर्तुं प्राणान्न तु क्षमः ॥३११।। तदुपायं समाख्याहि मुमूर्षोस्तादृशं मम । प्राप्नोमि प्रेयसीं येन परलोकगतामपि ॥३१२॥ मनिः प्रोवाच यद्येवं तदस्त्यत्र महीधरे । तीर्थभूतं तटं यस्मात्पतनं सर्वकामदम् ॥३१३।। ततो मुनिसमादिष्टवर्त्मनाऽगां त्रिभिर्दिनैः । तत्राऽऽरुह्य प्रियाप्राप्तिकामः कामं पपात च ॥३१४|| एकेन खेचरेणाऽहं दृष्टश्च निपतस्ततः । हहा प्रमाद इत्युच्चैर्वदता विधृतोऽस्मि च ॥३१५।। श्रीखण्डद्रुमखण्डेऽहं नीत्वा तेनाऽस्मि भाषितः । किं ते साहसिकोत्तंस कर्मेदं प्राकृतोचितम् ॥३१६।। किं चाऽत्र कारणं भ्रान्त कथ्यं चेत्कथयस्व मे । मयोचे किमकथ्यं स्यात्त्वादृशामीदृशां सखे ॥३१७।। प्रियावियोगतो मर्तुकामस्य मुनिना मम । कथितो भृगुपातोऽयं परत्राऽपीष्टमेलकृत् ॥३१८।।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy