SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ पञ्चमो भवः १८३ १८४ तैरदृष्टमहं द्रष्टुं वत्स ! त्वामुत्सुकागमम् । भवितव्यतया नित्योद्यतया दशितोऽसि च ॥२४८|| तदेहि दर्शनं देहि देहसंदेहसंयुजः । स्मरज्वरजुषस्तस्या जीवसंजीवनौषधम् ॥२४९।। तया समं समाजग्मिवानस्म्यथ तदाश्रमम् । तां पद्मवदनां पद्मनस्तरस्थामलोकयम् ॥२५०।। तापस्या गौरवेणाऽहमासने विनिवेशितः । साऽपि सापत्रपेवाशु प्राविशन्मम मानसम् ॥२५१॥ तापसीवचसा चासावर्षपाद्यादिकं व्यधात् । तदा माध्यन्दिनीं सन्ध्यामध्यास्त च दिनाधिपः ॥२५२।। आतिथ्यं पनसैः कृत्वा तापसी साश्रु मां जगौ । किमातिथ्यं विधत्तां ते निःसङ्गो मादृशो जनः ॥२५३|| तद्विलासवती सेयं धात्रा सम्पादिता पुरा । पुनः सम्पाद्यते तुभ्यं जीविताऽभ्यधिका मम ॥२५४।। इत्युक्त्वा रुदती वल्कपिहितास्यामहं जगौ । इदं भगवति त्यक्तसंसारायाः किमद्य ते ॥२५५।। ततस्तापसकन्याभिरुपनीतेन पाथसा । सा प्रक्षाल्य मुखं वल्कान्तेन निर्मार्थे चोत्थिता ॥२५६।। स्वालङ्कारयुतामेतामदान्मेऽनलसाक्षिकम् । पर्यणैषमहं स्विन्नकराङ्गलिमिलत्करम् ॥२५७|| वने रन्तुं गतावावामवाचिन्व कुमोत्करम् । मयोक्ताऽप्याश्रमं गन्तुं नैच्छत्सा पुष्पलोभतः ॥२५८।। वञ्चिताऽथ मयाऽवृत्य पटं नयनमोहनम् । मामनालोक्य साऽकस्मान्मूर्छिता न्यपतद्भुवि ॥२५९।। समरादित्यसंक्षेपः हा किमेतदुपक्रान्तमित्यहं संत्यजन्पटम् । तां समाश्वासयामास कदलीदलवीजनैः ॥२६०।। स्वस्थीभूता जगादैषा नाथ दृष्टोऽसि नो मया । मयोचे नाऽगमं क्वापि साऽऽह तत्कि न वीक्षितः ॥२६१|| तदप्रत्ययभीतेन पटव्यतिकरो मया । निवेदितः समस्तोऽपि तं परीक्ष्य च साऽग्रहीत् ॥२६२।। इति प्रीतिमये काले कियत्यपि गते प्रिया । मयोक्ता देशयानाय साऽमन्यत च मद्वचः ॥२६३।। तापस्यनुज्ञया भिन्नपोतसंसूचनं ध्वजम् । तीरे नीरेशितुः प्रांशुतरे वंशे व्यधामहम् ॥२६४|| तत्र स्थितं च नौकास्था निर्यामा एत्य मां जगुः । भग्नवाहन हे भानुदेवेन प्रहिता वयम् ॥२६५॥ महाकटहवास्तव्यः स गच्छन्मलयाचलम् । भग्नपोतध्वजं दृष्ट्वा त्वामाह्वयति संचर ॥२६६।। मयोचे मम कान्ताऽस्ति ते प्रोचुः साप्युपैतु तत् । अथावां दम्पती तापस्यादीनापृच्छय जग्मिव ॥२६७।। सप्रियः सार्थवाहस्य बहुमानेन वाहनम् । आरूह्याऽहं प्रिया पाश्र्वात्पटरत्नमुपाददे ॥२६८।। सार्थवाहसुतेनाऽथ प्रस्रवन्पातितोऽम्बुधौ । सम्प्राप्तफलक: पञ्चरात्रान्मलयमासदम् ॥२६९।। दध्यौ च वणिजा तेन कुतोऽहं पातितोऽम्बुधौ । हुँ विलासवतीलोभान्मूढोऽयं वेत्ति तां न हि ॥२७०।। जीवनं मां विना सा यच्छफरीव न जीवति । पटाऽवगुण्ठनाज्ज्ञातमिति पुष्पोच्चयक्षणे ॥२७१।।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy