________________
पञ्चमो भवः अथाश्रौषमहं व्योम्नि भेरीभाङ्कारभासुरम् । किङ्किणीकणितं हस्तिबंहितं हयहेषितम् ॥३९०॥ यावत्पश्यामि विस्मेरदृगहं विस्मितो नभः । तावद्विद्याधरचमूमागच्छन्तीमलोकयम् ॥३९॥ चत्वारः पुरतः कान्तिहृद्या विद्याधरास्ततः । आगत्य मां नमस्कृत्य कृत्यमित्यभ्यधुः स्फुटम् ॥३९२।। देव सद्गुणवित्ताढ्यं(?) वैताढ्यगिरिभूषणम् । समस्ति दक्षिणश्रेण्यां पुरं गगनवल्लभम् ॥३९३।। तत्र विद्याधराधीशः पुराऽऽसीत्कनकध्वजः । अपुत्रः प्राप पञ्चत्वमेष दैवप्रपञ्चतः ॥३९४|| ततो राज्यप्रधानान्नः स्वामिशोकविसंस्थुलान् । एत्याऽजितबला देवी स्वप्नान्तरिदमादिशत् ॥३९५।। सनत्कुमारनामाऽयं यशोवर्मनृपात्मजः । मलयेऽस्ति स वः स्वामी प्रदत्तस्तुष्टया मया ॥३९६।। देव्यादेशेन तद् देव मुदिता वयमागताः । राज्यं वैद्याधरं चैतत् तवायाति स्वयंवरम् ॥३९७|| अत्रान्तरे परेऽप्येत्य मां नमन्ति स्म खेचराः । ऊचे विद्याधरै राज्याभिषेकाय च तैरहम् ॥३९८।। तदा वामभुजादण्डस्पन्दमन्दमना अपि । अवोचं धैर्यमालम्ब्य तानहं सुमना इव ॥३९९।। भवत्वेवं पुनर्मित्रं वसुभूति: समेतु मे । सोऽथ तैः शब्दितो नोचे नालक्ष्यत च दीक्षितः ॥४००॥ मयाऽथ तं स्वयं द्रष्टुमुत्पेते सह खेचरैः । ततो दृष्टः स दृष्ट्वा तु साक्षेपं खेचराजगौ ॥४०१॥
समरादित्यसंक्षेपः खेटखेटा मदीयस्य सुहृदो हृदयेश्वरीम् । हा विलासवतीं हत्वा क्व प्रयास्यथ सम्प्रति ॥४०२।। तन्निशम्य मयाऽचिन्ति किं केनाऽपि हृता प्रिया । निष्फलो मन्दभाग्यस्य प्रयासस्तोसौ मम ॥४०३|| मया नीचेन भूत्वाऽथ वसुभूतिरभाष्यत । स तु मां विटपेनाऽहन् मया घातोऽस्य वञ्चितः ।।४०४|| आच्छिद्य विटपं हस्तात्पुनरप्येष भाषितः । प्रत्यभिज्ञाय मां विज्ञस्त्यक्त्वा संरम्भमब्रवीत् ॥४०५।। देव ! त्वया समारब्धे विद्यासाधनकर्मणि । प्राप वैद्याधरं वृन्दं मया तदवधीरितम् ॥४०६।। क्षणार्धेन ततोऽश्रौषं देव्याः कन्दितमुच्चकैः । सशङ्कस्तामपश्यं च विद्याधरविमानगाम् ॥४०७।। हहाऽऽर्यपुत्र ! हा तस्य मित्र त्रायस्व मामिति । निशम्य कन्दितं तस्या गुहां गत्वा न्यभालयम् ॥४०८।। तामदृष्ट्वाऽनुधावंश्च विमानं न व्यलोकयम् । तन्न वेद्मि हृता देवी केनाऽपि क्वाऽपि तिष्ठति ॥४०९|| ततोऽहमवदं मित्र वसुभूते विषीद मा । ममाऽजितबला देवी तुष्टाऽस्ति किमिदं ततः ॥४१०॥ अथो मलयशैलस्य शृङ्गे तत्रैव तस्थुषा । मयाऽऽत्मसेवकैः सार्धममन्त्र्यत नभश्चरैः ॥४११॥ तेऽप्यूचुः खेचराः स्वामिन् ! देवी येन हृता यदि । सोऽपि विद्याधरस्तन्न भक्ष्यते नखिभिनखी ॥४१२।। विग्रहीष्यामहे तं च विज्ञायेति निगद्य माम् । शुद्ध्यै पवनगत्याख्यं प्राहिण्वन् खेचरं च ते ॥४१३॥ युग्मम्