________________
पञ्चमो भवः
कथाऽन्ते मे सखा सैष इत्यापृच्छय मुनीश्वरम् । अगां मनोरथापूरं शिखरं त्वत्प्रवृत्तये ॥ ३६६ ॥
दृष्टो विद्याधरस्तत्र पृष्टोऽशंसत्कथां तव । त्वामन्विष्यंस्ततोऽप्यत्राऽऽगमं मित्राऽसि वीक्षितः || ३६७||
अहं दध्यौ ध्रुवं विद्यासम्पदा भाव्यमेव मे । वसुभूतिरकाण्डेऽसावागतः कथमन्यथा ॥३६८||
ततो न्यवेदयं विद्यासम्पदं वसुभूतये ।
स प्रीतः प्राह सपदि सम्पादय समीहितम् ॥ ३६९||
ततस्तत्रैव षण्मासं पूर्वसेवां व्यधामहम् । देवीमूचे च सिद्धि मे विद्ध्यहोरात्रमध्यतः || ३७० ॥
तत्त्वया नातिदूरेऽत्र स्थेयं गिरिगुहागृहे । विषोढकष्टयाऽद्यैकं कष्टं सोढव्यमस्ति ते ॥ ३७१ ॥ युग्मम्
तदुभाकणि चाकर्ण्य सा विलासवती सती । उवाच तव पूर्यन्तामार्यपुत्र मनोरथाः ||३७२ || न्यस्यैतां स्थानके कृत्वा मित्रमुत्तरसाधकम् । पूजयित्वाऽजितबलामूर्ति च स्थण्डिलस्थिताम् ||३७३||
होमकुण्डं प्रचण्डाग्नि मण्डयित्वा च मण्डले । आत्मरक्षां दधल्लक्षहोममारब्धवानहम् ||३७४ ॥ युग्मम् तदा क्रमेण मत्तेभपिशाचीप्रलयाऽम्बुदैः । वेतालराक्षसीवृन्दैर्ममाभूवन् विभीषिकाः ॥ ३७५ ॥ ताः स्वर्गिगिरिणा वात्या इवोच्चैर्भैरवारवाः । असह्या अप्यसह्यन्त मया निश्चलताजुषा ॥ ३७६ ॥
त्रियामायां ततो यामशेषायां पवनो ववौ । होमे समापितप्राये कुसुमामोदमेदुरः ||३७७ ||
१९३
१९४
समरादित्यसंक्षेपः
पुष्पगन्धाऽम्बुवृष्टिश्च जज्ञे जयजयध्वनिः । प्रकाशश्च शरज्ज्योत्स्नासनाभिरभवत्परः ॥ ३७८ ॥
स्तूयमानाऽमरीवर्गैर्गीयमाना च किन्नरैः । राजमानाऽऽतपत्रेण वीज्यमाना च चामरैः ॥ ३७९ ॥
पीयूषवृष्टिवष्टिममलां मयि तन्वती । किलाऽजितबला देवी ततः प्रत्यक्षतामिता ॥ ३८० ॥ युग्मम्
होमशेषं समाप्याऽऽशु प्रणनाम च तामहम् ।
देवी तु प्राह मां वत्स ! यच्छ मे यत्समीहितम् ॥ ३८२॥ व्यजिज्ञपमहं देवि किं तद्भूयोऽपि साऽवदत् । द्वात्रिंशल्लक्षणजुषो नार्या नुर्वाऽथ जाङ्गलम् ||३८२||
मयोचे विदधे नाऽहं मातः स्त्रीघातपातकम् । मनसाऽपि निशुम्भामि नरं न च निरागसम् ॥ ३८३ ॥ द्वात्रिंशल्लक्षणोऽहं चेत्तदादिश यथेप्सितम् । किमनेन शरीरेण रक्षितेन विनाशिना || ३८४॥ एवमस्त्विति देव्याऽऽहमुक्तो रोमाञ्चमुद्वहन् । होमकुण्डे पतन् देव्या स्वेनाऽह्नाय भुजे धृतः ||३८५ ॥ अहमूचेऽथ मां मुञ्च मुञ्च देवि ! महाबले । असारेण शरीरेण यश: सारं यथाऽर्जये || ३८६ ॥
अथाऽजितबला देवी प्रोचे विरम साहसात् । परीक्षितोऽसि धर्मे त्वं निर्व्यूढोऽसि च वत्स ! यत् ॥ ३८७||
अहो धैर्यमहो वीर्यमहो स्थैर्यमहो महः ।
अहो ते वत्स ! गाम्भीर्यमहो ते धर्मशीलता ॥ ३८८ ॥
तवाऽहं भक्तितः सत्त्वशक्तितः सुकृतोक्तितः । तुष्टाऽस्मि सर्वथेत्युक्त्वा ततो देवी तिरोदधे ॥ ३८९ ॥ विशेषकम्