________________
पञ्चमो भवः
१९१
खेरचद्वयमागत्य तदा चामुं व्यजिज्ञपत् । देवादेशादहिसार्थमावां ययिव कानने ॥३४२॥ अद्राक्ष्वाऽजगरत्रस्तामसंव्यानां वराङ्गनाम् । हहार्यपुत्र ! हाहार्यपुत्रेति च विलापिनीम् ॥३४३।। तद्विपत्तिभियावाभ्यामानीता शिखरेऽपि सा । हहार्यपुत्र ! हाहार्यपुत्रेति प्रालत्पुनः ॥३४४|| ततश्च भणितावाभ्यामलमार्ये भिया तव । क्वार्यपुत्रस्तवेत्येषाऽऽचख्यावस्ति गतोऽम्भसे ॥३४५।। गवेषयद्भयामावाभ्यां न स दृष्टः कचित्पुनः । सा तु तन्नामलग्नाऽस्ति तदादि त्यक्तभोजना ॥३४६।। इति श्रुत्वा तयोर्वाचं विद्याधरपुरन्दरः । मामभाषत भद्र ! त्वं जानीहि तव सा किमु ॥३४७|| विद्याधरद्वितीयोऽहमथ तत्र प्रयातवान् । लतामिवाब्दः स्वाभावक्लान्तां कान्तां च दृष्टवान् ॥३४८।। आश्वास्य प्रीणयित्वाऽऽत्मदर्शनेनाशनेन च । तामानयमवक्रस्य चक्रसेनस्य सन्निधौ ॥३४९।। चक्रसेनोऽभ्यधाद् भद्र ! किं ते कुर्वे प्रियं पुनः । अहं जजल्प देवातः परमप्यस्ति किं प्रियम् ॥३५०॥ चक्रसेनः पुनः प्राह तथाप्यातिथ्यमस्तु ते । विद्याजितबला नाम साधिता खेचरत्वदा ॥३५१|| ततोऽध्यायि मया नैमित्तिकदृष्टमिदं पुरा । निरुपाध्युपकारी च मान्य एव महामनाः ॥३५२।। चिन्तयित्वेति तद्दत्तां विद्यामहमुपाददे । साधनोपायमाख्याय खेचरेन्द्रो जगाम च ॥३५३||
समरादित्यसंक्षेपः तां सिसाधयिषुर्विद्यां दध्यावुत्तरसाधकम् । वसुभूति तदा यावत्तावदागात्कुतोऽप्ययम् ॥३५४।। अहो विधिपरीणाम इत्यनेन प्रजल्पता । एत्य तापसवेषेण सुदृढं पर्यरम्भ्यहम् ॥३५५।। किमेतदिति साकूतावावां नेमिव तं ततः । आवयोः स यथौचित्यमाशीर्वादमदान्मुदा ॥३५६।। मया स्वरेण विज्ञातो वसुभूतिरसाविति । हर्षाश्रु मुञ्चताऽस्मै च मुमुचे पल्लवासनम् ॥३५७।। चक्रे विलासवत्याऽथ क्षालनं तस्य पादयोः । भोजनाऽनन्तरं चैष सतोषं भाषितो मया ॥३५८।। सखे कथय पाथोधिः कथं तीर्मस्त्वया तदा । तापसत्वं कथं प्रापे सांप्रतं च कुतो भवान् ॥३५९।। वसभतिरथोवाच प्राप्यकं फलकं मया । तेनाऽब्धि पञ्चरात्रेण ती| मलयमासदम् ॥३६०।। दृष्टस्तपस्विनाऽऽनीतोऽनमं कुलपति वने । भोजनान्तेऽमुना पृष्टः सर्वं तस्मै न्यवेदयम् ॥३६१।। ततः कुलपतिः प्राह वत्सेहविप्लवं भवम् । विचिन्त्य मुनयो भेजुस्तदातङ्कावनं वनम् ॥३६२।। स मया याचितो दिक्षां प्राह जीवति ते सखा । मिलिष्यति च शुश्रूषापरः साधुषु तिष्ठ तत् ॥३६३|| ज्ञानिनोऽस्य गिरा जातप्रत्याशस्तव दर्शने । अस्थामहमिहैवेयत्कालं सालम्बनव्रतः ॥३६४|| इतोऽतीते तृतीयेऽहन्येकेनाऽहं तपस्विना । तव वृत्तान्तमश्रौषं कथ्यमानं गुरोः पुरः ॥३६५।।