SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ १५८ चतुर्थो भवः धन्याः सत्पुरुषास्ते ये गता मोक्षमनुत्तरम् । यतो न तेऽन्यजन्तूनां कर्मबन्धनिबन्धनम् ॥६२६।। एष मोहवशः कश्चिद् गन्ता मां प्राप्य दुर्गतिम् । अहो कष्टमहो कष्टं बहुदु:खदुरुत्तराम् ॥६२७|| अहं निमित्तमेतस्य दुर्गतेर्गमने हहा । न कारणं विना कार्यसिद्धिरित्यार्हतं वचः ॥६२८।। न शोचामि निजं देहं शोचाम्येतं तु देहिनम् । जिनवाक्यबहिर्भूतं पतन्तं दु:खवारिधौ ॥६२९।। कियदेतदथ क्लिष्टसत्त्वानां मोहशालिनाम् । एष मोहस्वभावो हि धिग्मे संसारवासिताम् ॥६३०॥ इति ध्यानमपध्यानविधस्तस्य व्यवर्धत । ज्वलत्यग्नौ निमग्नस्य सुवर्णस्यैव वर्णिका ॥६३१॥ इत्थं शुभपरीणाम: स हतः पापया तया । अभूत्पञ्चदशाब्ध्यायुः शुके शकसमः सुरः ॥६३२।। इत: ससाध्वसायाता धनश्रीश्चण्डिकागृहम् । प्रविशन्त्यङ्गचिन्तार्थोत्थितयोचे भुजिष्यया ॥६३३॥ क्व स्वामिनि गताऽसि त्वं तया प्रोचे क्वचिन्न हि । चक्रे निशीथकालस्य भगवत्याः प्रदक्षिणा ॥६३४।। वयुद्द्योतं निरीक्ष्यैषा किमेतदिति चेटिका । चिन्तयन्ती पुनः सुप्ता विभाता च विभावरी ॥६३५।। कृत्वा देव्याः पुनः पूजां संमान्य भृतकानलम् । धनश्रीः प्रस्थिता गेहं दृष्टः प्लुष्टो मुनिः पथि ॥६३६।। चेट्या कर्मकराभ्यां च प्रोचे केनाऽपि कीदृशम् । कर्मेदं विदधे प्राह धनश्रीआयते न सः ॥६३७|| समरादित्यसंक्षेपः चेटी दध्यौ मुनेरन्वेषणाय प्रेषिता ह्यहम् । निर्गता चार्धरात्रेऽसौ प्रेक्ष्युद्द्योतस्तदा मया ॥६३८॥ तत्किमेतन्महापापे मा भूवं योजिताऽनया । ध्यायन्तीति गृहं प्राप सा सहैव धनश्रिया ॥६३९।। इत: शाकटिको दृष्ट्वा प्लुष्टं मुनिमचिन्तयत् । केनाऽपि क्लिष्टसत्त्वेन दुर्गतौ पातितोऽस्म्यहम् ॥६४०।। तदाख्यामि नृपायेदमर्धयामे दिनस्य सः । गत्वा न्यवेदयत्तच्चाकर्ण्य क्रुद्धो धराधिपः ॥६४१।। दण्डपाशिकमादिक्षल्लभस्व मुनिघातकम् । चण्डिकायतने गत्वा तेन पृष्टा तचिका ॥६४२।। अद्यात्र रात्रौ कः सुप्तस्तयोचे कोऽपि नापरः । सुप्ता समुद्रदत्तस्य धनश्रीहिणी पुनः ॥६४३।। तलारक्षोऽवदत्तस्याः किं निवासस्य कारणम् । सा प्राह तन्न जानामि तलारक्षस्ततोऽवदत् ।।६४४|| को हेतुर्नाष्टमी नैव नवमी न चतुर्दशी । उपयाचितकं स्याच्चेत् तत् कीदृग् भौमभद्रयोः ॥६४५।। न दुष्टस्त्रीजनं मुक्त्वा कर्म सम्भवतीदृशम् । गृहं समुद्रदत्तस्य तद्गत्वोपलभे स्वयम् ॥६४६|| युग्मम् गतेन तेन द्वारस्था दृष्टा पृष्टा च चेटिका । गृहेऽस्ति गृहिणी भद्रे ! सार्थवाहस्य नाथवा ॥६४७|| चेट्या प्रोचे स संक्षोभं किं तया ते प्रयोजनम् । ज्ञातभावोऽथ साटोपमवदद्दण्डपाशिकः ॥६४८॥ आ: पापे ! विस्मृतः किं ते वृत्तान्तो मुनिसम्भवः । ततः सा कर्मदुष्टत्वान्नियतेश्च बलित्वतः ॥६४९।।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy