________________
सप्तमो भवः
३०५
३०६
बुद्धोऽथ नृपतिः सार्धं जसादित्येन तेन च । महेश्वेरण सहितो व्रतं जग्राह साग्रहः ॥५५९॥ श्रुत्वेति साऽनुतापोऽथ तस्करोऽपि समागतः । निर्वेदवानुवाचैवं पापकर्माऽस्म्यहं प्रभो ! ॥५६०।। मयेदं कर्म निस्त्रिंशं कृतं धर्मोऽवमानितः । पापं बहुमतं चक्रे मानुषत्वं च दूषितम् ॥५६१|| तत्कि गीविस्तरेणाऽहं त्यक्तुकामोऽस्मि जीवितम् । तदादिश यथायोग्यं ज्ञानी ध्यात्वा ततो जगौ ॥५६२।। गृहाणाऽनशनं सोऽथ प्रतिपेदे गुरोर्वचः । शिक्षितश्च नमस्कारं पञ्चानां परमेष्ठिनाम् ॥५६३।। तानि त्रीण्यप्यनशनं परिपाल्य समाधिना । बभूवुर्भाजनं स्वर्गसुखानां नृपनन्दन ! ॥५६४|| तत्त्वया न कृतं भव्यं राज्यमात्रकृतेऽपि यत् । संग्रामो विदधे प्रौढकर्मबन्धनिबन्धनम् ॥५६५।। कुमारस्त्वेतदाकर्ण्य चारित्रपरिणामवान् । ऊचे परिभवाऽमर्षाद्विदधे भगवन्निदम् ॥५६६।। असुन्दरमिदं ज्ञातमधुना ह्युपदेशतः । तदहं यदि योग्योऽस्मि तत्प्रसीद व्रतेन मे ॥५६७|| गुरुः प्रोवाच साध्वेतत् त्वयाऽध्यवसितं ननु । हेय एव भवः सोऽयमुचितश्च व्रते भवान् ॥५६८|| शीघ्रमिष्टं विधेहीदमनित्यं हि शरीरकम् । सेनोऽमात्यं जगावार्य ! श्रुतं भगवतो वचः ॥५६९।। करोमि कियया त्वत्तो नाऽन्यो मे हितचिन्तकः । अनुमन्यस्व मां सोऽथाऽवदद्देव ! भवत्वदः ॥५७०।।
समरादित्यसंक्षेपः किं त्वष्ट दिवसान्देवोऽनुग्रहं कुरुतां मयि । प्रतिश्रुते कुमारेणाऽमात्यो दानमदापयत् ॥५७१।। अष्टाहिकामहं चक्रे राज्ये न्यास्थच्च नन्दनम् । आनन्दिताः प्रजाः सन्मानिताः सामन्तमन्त्रिणः ॥५७२॥ सेनः शुभे मुहर्तेऽथ शान्तिमत्या द्विधा युतः । सहितोऽमरगुर्वादिप्रधानैश्चाऽग्रहीद् व्रतम् ।।५७३॥ ततोऽधीतश्रुतो ज्ञाततदर्थः सेवितक्रियः । योग्यत्वाद् गुर्वनुज्ञातो जिनकल्पं प्रपन्नवान् ॥५७४।। स चैकरात्रिकं ग्रामे नगरे पञ्चरात्रिकम् । विहरन्नन्यदाऽऽयातः कोल्लाके संनिवेशने ॥५७५।। स्थितः प्रतिमयैकान्ते युतेन कतिथैनरैः । दृष्टश्च भ्रष्टराज्येन विषेणेन विषीदता ॥५७६॥ प्राक्कर्मदोषतः कुद्धो दध्यौ जातमिदं शुभम् । यन्मुक्ताऽऽयुध एकाकी विविक्ते च हिनस्मि तत् ॥५७७॥ वधोऽस्य पश्यतामेषां साम्प्रतं तु न साम्प्रतम् । ध्यात्वेति स तदासन्नभिन्नदेवकुले स्थितः ॥५७८।। अनुगानामनाख्यातभावो निद्राविवर्जितः । अर्धरात्रे गृहीताऽसिः सेनं हन्तुं गतोऽन्तिके ।।५७९।। तं वीक्ष्य निश्चलध्यानमिद्धकोधधनञ्जयः । निस्त्रिंशः कृष्टनिस्त्रिंशः स प्रोवाच मुनि प्रति ॥५८०|| अरे कुरु दुराचार ! सुदृष्टं जीवविष्टपम् । विपन्नोऽस्यधुना तेन ध्यानिना तत्तु न श्रुतम् ॥५८१।। श्रुतं तु क्षेत्रदेव्या तत्ततः कुपितया तया । हत्वाऽसिं वाहितं साधौ स्तम्भितो भणितश्च सः ।।५८२।।