________________
सप्तमो भवः
३०७
अष्टमो भवः
अहो ते पापकर्मत्वमनार्यत्वमहो तव । अहो ते क्लिष्टचित्तत्वमहो ते निविवेकता ॥५८३।। वासीचन्दनतुल्यस्य यदस्याऽपि व्यवस्यसि । इत्थं तस्माद् व्रजेत्युक्त्वा कृपयोत्तम्भितस्तया ॥५८४॥ प्रवृत्तोऽथ मुनि हन्तुं पुनर्देवतया ततः । हतश्चपेटया पृथ्व्यां पतितो रुधिरं वमन् ॥५८५॥ आश्वास्य कृपया कृष्टस्तया साधोरवग्रहात् । मुक्तो वननिकुञ्जेऽथ स्वयं देवी तिरोदधे ॥५८६।। वत्सले बान्धवे साधौ विकारं भेजिवानयम् । उचितं तद्विकारो हि तस्य नाम्नि धुरि स्थितः ॥५८७।। एवं स्थितेऽपि हन्म्येनं कथं न्विति विचिन्तयन् । महताऽभिनिवेशेन नरकायुरपोषयत् ॥५८८॥ काले कियत्यप्येकाकी शबरैः पिच्छकाङ्क्षिभिः । गृध्राऽवतारणार्थं स विषेणो निहितो मृतः ॥५८९।। समुत्पन्नस्तमाख्यायां षष्ठावन्यां स नारकः । द्वाविंशत्यब्धिसंख्यायुरसंख्या वेदनाः सहन् ॥५९०।। श्रीमान्सेनमहामुनिः शमसुखं पीयूषकल्पं पिबन् वन्दित्वा चरणाञ्जिनेश्वरततेः कृत्वा च संलेखनाम् । संगृह्याऽनशनं विशुद्धहृदयस्त्यक्त्वा तनुं जातवांस्त्रिंशत्सागरजीवितस्तु नवमग्रैवेयके निर्जरः ॥५९१।। इति श्रीहरिभद्रोक्त्या प्रद्युम्नाचार्यगुम्फिते । समरादित्यसंक्षेपे सप्तमः समभूद्भवः ।।५९२।।
इतश्च भरतेऽत्रैव विश्वकर्मविनिर्मिता । अस्त्ययोध्याऽभिधाऽयोध्या परिपन्थिगणैः पुरी ॥१॥ ययोत्पत्तिभुवा देवाधिदेवानां विनिर्जिता । मन्ये शून्ये स्थिता देवोत्पत्तिभूरमरावती ॥२॥ तत्र मैत्रीबलो नाम नृपो भुजबलोत्कटः । बलोद्दामोऽपि नो यस्य बलो बन्धुसखः समः ||३|| कुमुदं तन्वतो नेत्रानन्दिनो हरतस्तमः । यद्यशःशशिनः स्पष्टः शशः प्रत्यथिदुर्यशः ॥४|| उत्फुल्लमुखपद्माऽस्ति तस्य पद्मावती प्रिया । यत्कान्त्या विजिता पद्मा मन्ये पद्माऽऽश्रयाऽभवत् ॥५|| उर्वी तां च गुणैरुर्वी भुञ्जानस्याऽविरोधतः । भूनेतुर्दक्षिणस्याऽस्याऽतीतः कालः कियानपि ॥६॥ नवमादप्यनवमादथ ग्रैवेयकाच्च्युतः । कुक्षौ पद्मावतीदेव्याः सेनजन्तुरवातरत् ।।७।। अपश्यन्निश्यसौ तस्यां सर: सरसिजाकुलम् । चक्रचक्रसमाकीणं भ्रमद्भमरशोभितम् ।।८।।
१. चक्रवाक
ख ।