SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ २२३ २२४ षष्ठो भवः सा प्राह गुटिका क्वाऽस्ति सोऽवोचत ममाऽञ्चले । तत्कि नाऽनक्षि लक्ष्म्योक्ते स प्राह जलमस्ति न ॥११५|| तयाऽपिते जले जल्पञ्जीवितोऽस्मि त्वया शुभे । स निजे च तदीये चाऽनक्ति स्म नयने क्षणात् ॥११६|| विमुच्य धरणोच्छीर्षे लोप्वमेतौ स्थितौ तटे । प्रातरारक्षकैदृष्ट: सलोनो धरणो धृतः ॥११७।। बद्धश्च दध्यौ दैवे हि विलोमे स्यात्सुधा विषम् । रज्जुः सर्पः सुतो वैरी जलं वह्निः प्रियोरगी ॥११८।। चिन्तयन्नित्ययं नीतस्तलारक्षैर्नृपाऽजिरे । नृपाऽप्रस्तावतस्तस्य धृतस्य दिवसोऽगमत् ।।११९।। प्रस्तावे कथितो राज्ञो वध्यस्तेन निदेशितः । अन्त्यजानां वधादेशकारिणामपितो भटैः ॥१२०॥ ययुस्तेऽन्त्यजमुख्योऽथ प्राह रे कस्य वारकः । वधेऽद्य श्वपचाः प्रोचुमौरिकस्येति तं ततः ॥१२१॥ आहूय सोऽवदच्चौरो देवेन प्रेषितो ह्ययम् । नीत्वा श्मशाने जह्येनं मा प्रमादो भविष्यति ॥१२२॥ तथेत्युदित्वा तेनैष गृहीतश्चोपलक्षितः । मम जीवितदाताऽसावस्याऽपि हि दशेदृशी ॥१२३।। अथवा विपदकॅन्द्वोरपि स्याद् राहुत: क्षणम् । ध्यात्वेति नीत्वैकान्ते तं बन्धांश्छित्त्वाऽपतत्पदोः ॥१२४।। ऊचे चाऽऽर्य स्मरसि मामचौरं चौरवद् धृतम् । वधाय नीयमानं द्राग् नृपाद् द्रव्येण मोचितम् ॥१२५।। समरादित्यसंक्षेपः तेन स्तोकमिदं प्रोक्ते पुनः प्रोवाच मौरिकः । आर्यस्य कि दशेक्षा दैवं पच्छेति सोऽवदत् ॥१२६।। अथोचे मौरिकः शीघ्रं गच्छाऽऽर्य धरणो जगौ । परप्राणैनिजप्राणान्नाहं रक्षामि हिन्धि माम् ॥१२७|| स प्राह सागरोऽप्यस्मान्विनाशयति नो नृपः । त्वय्यगच्छत्यहं तु स्वं हनिष्यामि ततो व्रज ॥१२८।। धरणः प्राह तद्यामि स प्रोचेऽनुग्रहो महान । ततो मुक्त्वा पथे नत्वा तं न्यवर्तत मोरिकः ॥१२९।। धरणोऽथ प्रयान् दध्यौ क्व सा सारङ्गलोचना । तां विना विफलं मन्ये जीवितं सा हि जीवितम् ॥१३०॥ ध्यायन्निति प्रवृत्तस्तां गवेषयितुमादरात् । प्रातः स तटिनीं गत्वाऽऽमज्जच्च ऋजुपालिकाम् ॥१३१।। अथ चौरोऽपि स प्रातर्गतो यक्षालयान् नदीम् । दध्यौ हित्वा पति ही मां भेजेऽसौ कुलपांसना ॥१३२।। विषव्याघ्राहिसिंहेभ्यश्शरभार्कजरक्षसाम् । हेलयाऽपि महेलाभिश्चरितं त्वरितं जितम् ॥१३३|| अलं तदेतया मामप्यनर्थे पातयिष्यति । ध्यात्वेति स्वर्णमादाय तां तत्याजोरगीमिव ॥१३४|| गते चौरेऽथ सा दध्यौ सुन्दरं समभूदिदम् । यदयं निहतो वैरी गच्छामि त्वधुनाऽन्यतः ॥१३५।। व्रजन्ती धरणेनेयं दृष्टा मुदितचेतसा । पृष्टा प्रिये कुतोऽसि त्वं कैतवेन रुरोद सा ॥१३६।। तां संबोध्य जगादैष त्वं सुन्दरि ! विषीद मा । धन्योऽस्मि येन जीवन्ती भवती ददृशे पुनः ॥१३७।। १. क्षणं ख ग घ च ।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy