________________
षष्ठो भवः
स्वगोत्र देवतायाश्च स जजल्पोपयाचितम् । तत्प्राप्त्यै तव दास्ये यद्दशभिः पुरुषैर्बलिम् ॥९१॥ कृत्वेति शबरान् प्रैषीद्धरणस्य गवेषणे । दिश्येकस्यां स्वयं चैष प्रवृत्तस्तं गवेषितुम् ॥९२॥ धरणस्त्वौषधीमात्रद्रव्यः पल्या सह व्रजन् । पिलिन्धिनिलयं नाम गिरिं प्रापाऽतिभीषणम् ॥९३॥ फलादि तत्र न प्राप्तं द्वितीयदिवसे तु सा । क्षुधिता तृषिता पत्नी पपात भुवि मूर्च्छिता ॥९४॥ वस्त्राऽन्तवीजिताऽऽश्वस्ता सा प्राह तृषिताऽस्म्यहम् । धरणोऽथ द्रुमारूढोऽदृष्टवारिर्व्यचिन्तयत् ॥९५॥
ऊरोर्मासं सिरातोऽस्रमाकृष्य प्रीणयाम्यमूम् । अन्यथा न भवत्येषा विनैतां जीवितेन किम् ॥९६॥
ध्यात्वेति स तथा कृत्वा पलाशपुटकद्वये । व्रणं संरोह्य चौषध्या विदधे सुस्थितामिमाम् ॥९७॥
ततो महासरोनाम्नि पुरे सन्ध्याक्षणे गतौ ।
न प्रविष्टौ पुरस्याऽन्तर्बहिर्यक्षालये स्थितौ ॥९८॥
व्यतीते यामिनीयामे तृषिताऽस्मीति सावदत् । स लात्वा करकं नद्यां भृत्वाऽपीप्यच्च तां जलम् ॥९९॥ प्रसुप्ते धरणे लक्ष्मीर्विबुद्धेति व्यचिन्तयत् । अनुकूलो विधिर्मे यदसौ प्रापेदृशीं दशाम् ॥१००॥
इतोऽप्यभ्यधिकां केनाऽप्युपायेन दशामसौ । लभते यदि तच्चारु यावद् ध्यायत्यसाविति ॥ १०१ ॥
तावदारक्षकव्रातत्रस्तस्तेनः सलोप्त्रकः । चण्डरुद्राऽभिधस्तत्र प्राविशद्यक्षवेश्मनि ॥ १०२ ॥
२२१
२२२
समरादित्यसंक्षेपः
क्व यास्यत्येष जल्पन्तस्तद्द्द्वारं रुरुधुर्भटाः । श्रुत्वेति लक्ष्मीरध्यायद्धेतुं पृच्छाम्यमुं नरम् ॥१०३॥ वैरिणोऽस्य वधाच्चेन्तु पूर्यन्ते मे मनोरथाः । ध्यात्वेति तं ससूत्कारं गत्वा पप्रच्छ को भवान् ||१४|| क एते च वदन्तीहक् स प्राहाऽलं मया शुभे । जलमत्राऽस्ति सा प्राह किं तेनाऽऽख्याहि कारणम् ॥१०५॥
स दध्यौ साहसं धैर्यं गीश्च कीहगहो स्त्रियः । पात्रभूता तदेषा मे ध्यात्वेति स जजल्पताम् ॥१०६॥ महती मे कथा भद्रे । संक्षेपात् कथ्यते पुनः । मया चौरेण सौवान्ताद् रत्नसर्वस्वमाददे ॥ १०७॥ निस्सरन् नगराल्लब्धस्तलारक्षैरनुद्रुतः । श्रान्तोऽत्र प्राविशं ते च द्वारं रुद्ध्वा व्यवस्थिताः ॥ १०८ ॥
सा तु भर्तृवधं सिद्धं मत्वा तं प्राह तस्करम् । त्वां जीवयामि वाक्यं चेन् मदीयं कुरुषे श्रुतौ ॥ १०९ ॥
स प्राहाऽऽदिश सा प्राह प्राग्भवाऽरिर्धवो मम । सुप्तोऽस्त्यत्र तदुच्छीर्षे मुञ्च मोषं गृहाण माम् ॥ ११०॥ म्रियतामेषकल्ये तु त्वां वक्ष्यामि निजं प्रियम् । नैनं तु नृपतेरग्रे तद्भाव्येष यमाऽतिथिः ॥ १११ ॥
स प्रोचेऽहमिहत्योऽस्मि महिला विदिता च मे । सर्वलोकस्य सा प्रोचे कश्चोपायस्ततो भवेत् ॥ ११२ ॥
स प्रोवाचाऽस्त्युपायोऽत्र यदि स्तोकं जलं भवेत् । तयोचे किं भवेत्तेन स प्राह शृणु मे वचः ॥११३॥
प्रदत्ता स्कन्दरुद्रेण गुरुणा गुटिकाऽस्ति मे । तयाञ्जितदृशं मत्यं देवोऽपि हि न पश्यति ॥ ११४॥