________________
२२६
षष्ठो भवः सोचेऽथ लघुनीत्यर्थमुत्थितां मां मलिम्लुचः । जग्राह व्याहृतं किञ्चिन्न मया स्त्रीस्वभावतः ॥१३८।। स्नेहात्तथाऽऽर्यपुत्रस्य स मुषित्वा मुमोच माम् । अनिच्छन्ती बलान्नैव गृह्यते स्त्रीति कारणात् ॥१३९।। किं च मेऽर्तिकरी तादृग् न तस्करकदर्थना । यादृशीयं तवाऽवस्था विकल्प्यं नाऽन्यथा ततः ॥१४०।। विशेषकम् धरणः प्राह वीक्ष्य त्वां नावस्थेयं दुनोति माम् । सा तु दध्यौ कृतान्तस्य मुखादप्येष जीवितः ॥१४१।। अथ गन्तुं प्रवृत्तौ तौ विज्ञातपुरमागतौ । विनिद्रो धरणश्चिन्तामिति चेतसि निर्ममे ॥१४२॥ अमूं दन्तपुरे स्कन्ददेवमातुलमन्दिरे । विमुच्याऽथ यथायुक्तं करोमीति विमृश्य सः ॥१४३।। आख्याय तस्यै प्राचालीत्तत्पुरं स तया सह । मार्गे च गच्छतस्तस्य यज्जातं तन्निबोधत ॥१४४|| पल्लीश: कालसेनः स्वप्रतिज्ञापूरणोन्मुखः । बालेयमानानेतुमप्रैषीत्परितो भटान् ॥१४५।। स्नात्वा च कारयित्वा च दारुभिर्निचितां चिताम् । कात्यायन्या गतो वेश्म प्रणम्याऽपूजयच्च ताम् ॥१४६।। युग्मम् ततश्च कालसेनस्य भटैर्दन्तपुरं व्रजन् । सस्त्रीको धरणः प्राप्तो बद्धो वल्लीगुणेन च ॥१४७|| आनीतश्चण्डिकापार्श्वप्रदेशमतिभीषणम् । नीतश्च चण्डिकावेश्ममध्यमध्याममानसः ॥१४८।। उत्तोरणं नृमुण्डैर्यत्सोल्लोचं चित्रकत्वचा । दन्तिदन्तसमुद्भूतभित्त्युत्कीर्णत्रिशूलकम् ॥१४९॥
समरादित्यसंक्षेपः कात्यायन्या महारौद्रदृशाऽध्यासितमन्तरे । धृतकोदण्डघण्टाऽसिमहिषाऽसुरपुच्छया ॥१५०॥ विशेषकम् दध्यौ च पन्नगान् मत्ताद् द्विपात् पञ्चाननादपि । शक्यते नष्टुमुद्दामाद्दुष्कृतात्सुकृतान्न तु ॥१५१।। कालसेनः प्रणम्याऽथ चचिकामिदमूचिवान् । देवि ! त्वया प्रसादो मेऽधुना यद्यपि नादधे ॥१५२।। तथापि हि यथेदृक्षदुःखभाग् न भवाम्यहम् । भवान्तरेऽपि तद्देवि ! त्वया कार्य प्रसन्नया ॥१५३।। उक्त्वेत्युक्तः कुरङ्गाख्यो नरं बालेयमानय । तेनाऽथ केशेष्वाकृष्य क्षिप्तो अग्रे (प्तोऽग्रे ?) बस्तवन्नरः ॥१५४।। दुर्गिलो लेखवाह्येष कुङ्कमेनाऽथ चर्चितः । कोशादसिं समाकृष्य कालसेनेन भाषितः ॥१५५॥ सुदृष्टं कुरु लोकं त्वं गन्तव्यं हि त्वया दिवि । विमुच्य जीवितं किं ते वद सम्पाद्यते परम् ॥१५६।। भीतो न किञ्चित् स प्रोचे पुनरुक्तोऽपि नाऽवदत् । अपूर्णकामो नो वध्यस्तत्पल्लीशो विषण्णवान् ॥१५७|| धरणोऽथ सुरुङ्गः सन्कुरङ्गमिदमूचिवान् । आख्याहि निजनाथस्य यथा प्राक् स निहन्ति माम् ॥१५८॥ तदाख्यातेऽथ पल्लीश: प्रोचे सार्थेशजन्मनः । निजप्राणैः परप्राणत्राणकृत्तस्य सन्निभः ॥१५९।। इत्युक्त्वा मूर्छितः पल्लीपतिल्केन वीजितः । किशोरकाख्यभिल्लेनाऽऽश्वस्तस्तं प्रोचिवानिति ॥१६०।। क एष सदृशस्तस्य परोपकरणोद्यतः । स प्रोवाच स्वयं स्वामी निरूपयतु तं नरम् ॥१६१।।