________________
षष्ठो भवः
सहर्षखेदस्तं वीक्ष्योपलक्ष्य च किरातराट् । पतित्वा पादयोः प्राह ममागः क्षम्यतां त्वया ॥ १६२ ||
धरणोऽवददिष्टाऽर्थदानान्नागो गुणस्त्वयम् । पल्लीशेन किमिष्टं ते प्रोक्ते स प्राह मारणम् ॥१६३|| पल्लीशः प्राह ते मृत्यौ कि निर्वेदस्य कारणम् । स प्राहैषा कथा गुर्वी त्वं विधेहि निजेहितम् ॥१६४॥
न मां वेत्त्येष पल्लीशो ध्यात्वेति तमभाषत । सार्थवाहसुत ! त्वं मां न वेत्सि स्वेन जीवितम् ॥१६५॥ यस्त्वया जीवितः सिंहात् कृतघ्नः सोऽस्म्यहं खलु । प्रागप्राप्तां मया येन लम्भितोऽसीदृशीं दशाम् ॥१६६॥
धरणोऽथ त्रपानम्रवदनस्तमभाषत ।
कोऽहं जीवयितव्ये ते स्वपुण्येनाऽसि जीवितः ॥ १६७॥
कृतघ्नश्च कथं यस्त्वं क्षणमात्रेक्षिते जने । अज्ञानादीदृशं कृत्वा खिद्यसे हृदयेऽधिकम् ॥१६८॥
किं वादः प्रस्तुतं लज्जमानो नोवाच पल्लिप: । संगमाख्यादि मृत्यन्तमाख्यताऽस्य किशोरकः || १६९ ।। ध्यायंस्तस्याऽथ माहात्म्यसस्नेहत्वकृतज्ञताः । स प्राह क्रियते पूजा पुष्पाद्यैर्न तु हिंसया ॥ १७० ॥
भवेद् गोः शृङ्गतः क्षीरं जलाच्च ज्वलनो भवेत् । विषादपि सुधा नैव हिंसातः सुकृतं पुनः ॥ १७१ ॥
तदेनं व्यवसायं त्वं मुञ्च दुर्गतिकारणम् । प्रतिपेदे गिरं सोऽथ धरणस्य गुरोरिव ॥ १७२ ॥ अन्नाऽभावेऽथ भक्ष्यार्थं विना हिंसां मुमोच सः । कादम्बरीप्रविष्टस्य सार्थस्य च विसूत्रणाम् ॥ १७३॥
२२७
२२८
समरादित्यसंक्षेपः
चर्चित्वा चर्चिकां सोऽथ सुमकुङ्कुमचन्दनैः । सर्वबन्दयुतं गेहे निनाय धरणं निजे ॥ १७४॥ भुक्तोर्ध्वमुपनीयाऽस्मै तद्द्रव्यं प्राभृते व्यधात् । मुक्ताफलानि दन्तांश्च चामराणि च लक्षशः ॥ १७५ ॥ परेऽपि किञ्चन द्रव्यं दत्त्वा तेन विसर्जिताः । ययुर्यथासखं बन्दा बन्धमुक्ताः खगा इव ॥ १७६ ॥ कालं कियन्तमप्येष कालसेनगिरा स्थितः । तद्विसृष्टः ससार्थोऽपि माकन्दीं धरणो ययौ ॥ १७७॥
तुष्ट गुरुजनः सर्वोऽभ्येयुः पौरमहत्तमाः । सपादा कोटिरस्याऽभूद् द्रव्यसंख्या कृता च तैः ॥ १७८ ॥ पश्चात्तस्याऽर्धमासेन देवनन्दी समागतः । तद्रव्यमपि संख्यातमर्धकोटिर्महत्तमैः ॥ १७९ ॥ दत्त्वा च द्विगुणां नीवीमर्थिसार्थमनोरथान् । तस्य पूरयतोऽनङ्गत्रयोदश्यागमच्च सा ॥१८०॥ उक्तो महत्तमैः सोऽथ निस्सारय रयाद् रथम् ।
स प्राह बालकेल्याऽलं श्लाघितोऽथ महत्तमैः ॥ १८१|| अन्यदा धरणो दध्यौ नियोज्य द्रव्यमर्थिषु । त्रिवर्गों गृहिणाऽऽराध्योऽर्थादेव स्याद् द्वयं परम् ॥ १८२ ॥
अर्थो हि जनयत्येष सौभाग्यं गौरवं कुलम् । रूपं मति महार्घत्वं श्लाघां च प्रार्थनीयताम् ॥१८३॥
स यद्यपि प्रभूतोऽस्ति मम पूर्वनराऽर्जितः । तथाऽपि स्वभुजोपात्तवित्ताच्चित्ते धृतिर्मम ॥ १८४॥ ध्यात्वेति स वणिज्याऽर्थं द्राक् समुद्रतटे गतः । वैजयन्त्यां पुरि प्राप लाभं तु न तथाविधम् ॥ १८५ ॥