________________
२२९
२३०
षष्ठो भवः भूरि भाण्डमथाऽरोह्याऽरोहत्पोतेऽर्थलिप्सया । भग्नेऽत्र फलकं प्राप्य स्वर्णद्वीपमवाप सः ॥१८६।। विधाय कदलैः प्राणवृत्ति भीतः स शीततः । पातयित्वाऽरणेः काष्ठैर्वह्नि चिरमसेवत ॥१८७।। प्रातस्तद्भूमिखण्डं तु स्वर्णीभूतं विलोक्य सः । स्वर्णद्वीपममुं मत्वा विदधे बहुधेष्टिकाः ॥१८८।। कृत्वा धरणनामाङ्कास्ताश्चाऽऽर्द्राः सम्पुटे व्यधात् । एवं दशसहस्राणि सम्पुटानां चकार सः ॥१८९॥ भिन्नपोतध्वजं कृत्वा स्थितेऽत्राऽऽययुरन्यदा । निर्यामाः प्रोचुरेनं ते भग्नपोतवणिग्वरम् ॥१९०॥ चीनवासी व्रजन् देवपुरं सुवदनाभिधः । यानपात्रस्थितः प्रैषीदस्मानागच्छ तल्लघु ॥१९१॥ धरणः प्राह वित्तेन पोतः पूर्णोऽस्ति कीदृशा । ते प्रोचुरल्पवित्तत्वादसारेणाऽस्ति पूरितः ॥१९२।। धरणः प्राह तमुत्र सार्थवाह: समेतु सः । कथिते तैः समेतोऽयं धरणेनेति भाषितः ॥१९३|| तव प्रवहणे भाण्डं द्रव्यस्य कियतः सखे । सुवर्णैकसहस्रस्येत्येवं सुवदनोऽवदत् ॥१९४॥ प्रोवाच धरणस्तर्हि तदसारं परित्यज । मदीयेन सुवर्णेन यानपात्रं च पूरय ॥१९५|| दास्यामि स्वर्णलक्षं ते वहने तीरमागते । स प्राह स्वर्णलक्षेण किमस्माकं भवान्बहुः ॥१९६।। पूर्वभाण्डं ततस्त्यक्त्वा स्वर्णस्य वहनं भृतम् । संख्या च स्थापिता रूढो धरणस्तरणीमथ ॥१९७।।
समरादित्यसंक्षेपः इतश्च धरणे भिल्लैर्धते लक्ष्मी: पलायिता । क्वाऽपि द्वीपे समारूढा तत्रैवाऽस्ति वहिबके ॥१९८॥ एतां निरीक्ष्य तत्रैष मुदितो व्यथिता तु सा । आख्यत्सुवदनायैष बाढमानन्दितः स च ॥१९९|| पञ्चयोजनमात्रं तु भूभागं वहने गते । तद्द्वीपस्वामिनी पृष्ठे सुवर्णाऽऽख्याऽऽगतावदत् ॥२००॥ अरे रे दुष्टसार्थेशसुताऽनुज्ञां विना मम । गृहीत्वा द्रव्यमकृतोपचारः क्व नु यास्यसि ॥२०१।। कम्पयन्त्यम्बुधि वेगगत्या गगनगामिनी । नृबलि दत्त सारं मे गृहीतं मुञ्चताऽथवा ॥२०२॥ विशेषकम् शौल्किक्येव तयेत्युक्त्वा तत्रैव वहने धृते । धरणो ध्यातवानेष मोचितो द्रविणं निजम् ॥२०३।। उपकारी च मे लक्ष्मीपत्नीसम्पादनादयम् । तदिदं प्राप्तकालं मे नृबलीभवनं स्वयम् ॥२०४।। ध्यात्वेति व्यन्तरीमाह नैतज्ज्ञातं मया पुरा । तन्मामेव प्रतीच्छ त्वमहमेव बलिः पुमान् ॥२०५।। देव्यूचे पत तद्वाधौं यथा त्वां घातयाम्यहम् । लक्ष्मीर्दध्यौ भगवत्या महान् मेऽनुग्रहः कृतः ॥२०६।। पोतेशं धरणः प्राह लक्ष्मीः प्राप्या गुरूंस्त्वया । उक्त्वेत्यक्षिपदब्धौ स्वं भिन्नः शूलेन चैतया ॥२०७|| स्वर्णद्वीपे च तं नीत्वा शान्ता सा वहनं ययौ । तं कण्ठस्थासुमद्राक्षीत्खेचरो हेमकुण्डलः ॥२०८।। सुवेलाद् व्रजता रत्नद्वीपं तेनोपलक्षितः । पुरा परिचयाद्देवी मुपरुध्य स मोचितः ॥२०९।।
१. "मुपरोध्य क ।