________________
षष्ठो भवः
२३१
२३२
दिव्यौषध्या कृतः सज्जः प्रत्यभिज्ञाय तं जगौ । सखे ! श्रीविजयोऽजीवत् खेचरः प्राह जीवितः ॥२१०|| श्रुत्वैतद्धरणस्तुष्टस्तं लात्वा हेमकुण्डलः । गन्तुं प्रावर्तत प्रीतो रत्नद्वीपं विहायसा ॥२११।। गन्धर्वस्त्रीजनाऽऽरब्धगीतस्थिरमृगव्रजम् । नागवल्लीसमाश्लिष्टपूगपूगमनोरमम् ॥२१२।। तीरस्थिततमालगुन्यकृताऽम्बुधिसंवरम् । सिद्धविद्याधराकीर्णं रत्नद्वीपमवाप सः ॥२१३।। युग्मम् यः कल्लोलभुजैः श्लिष्टो विष्वक्कल्लोलमालिना । प्रियसारङ्गशावाक्षीमनोहरशरीखत् ॥२१४॥ स तत्र फलशाखाभिर्नम्यमान इव द्रुमैः । पूज्यमान इव मरुत्पातितैः कुसुमोत्करैः ॥२१५।। विहितस्वागतप्रश्न इव भ्रमरनि:स्वनैः । विश्रम्य दीर्घिकातीरे सहकारफलानलात् ॥२१६।। युग्मम् खेचरो धरणं क्लृप्तस्नानभोजनमूचिवान् । क्व प्राप्तोऽस्यनया सोऽथ सर्वं वृत्तान्तमाख्यत ।।२१७|| खेचर: प्राह किं कुर्वे तवाऽथ धरणोऽब्रवीत् । कृतं कृत्यं त्वया किं तु मां संयोजय जायया ॥२१८।। स प्राहाऽत्र रत्नगिरौ किन्नरोऽस्ति सुहृन्मम । सुलोचनाख्यस्तं प्रेक्ष्य त्वां हि देवपुरे नये ॥२१९॥ गतस्य तत्र तेऽवश्यं तया योगो भविष्यति । आमेति धरणेनोक्ते जग्मतू रत्नपर्वतम् ॥२२०।। तत्राऽऽरुह्य महारम्ये सुलोचनगृहे गतौ । गन्धर्वदत्तया सार्धं स दृष्टश्चोपवीणयन् ॥२२१॥
समरादित्यसंक्षेपः हेमकुण्डलमाश्लिष्यदभ्युत्थाय सुलोचनः । अप्राक्षीच्च कुतोऽसि त्वं कुतश्चैष महापुमान् ॥२२२।। किं चागमनकार्य तेऽथ प्रोचे हेमकुण्डलः । अहं सुवेलान् मन्मित्रं स्वर्णद्वीपादसौ पुनः ॥२२३।। अस्मै दापयितुं रत्नान्यागतोऽस्मि तवान्तिके । ततः प्रत्यशृणोत् फुल्ललोचनस्तत्सुलोचनः ॥२२४।। विशेषकम् दिनैः कतिपयैर्जात्यरत्नदानपुर:सरम् । धरणः खेचरेणाथ मुक्तो देवपुराद् बहिः ॥२२५॥ जायामिह प्रतीक्षस्वेत्युक्त्वाऽयासीच्च खेचरः । क्षणं स्थित्वा पुरस्याऽन्तर्धरणः प्रविवेश च ॥२२६।। टोपाख्यश्रेष्ठिना दृष्टः संभाष्याऽनायि मन्दिरे । पृष्ठो भुक्तोत्तरं वत्स ! कुतस्त्वमिति सादरम् ॥२२७।। पितृतुल्यस्य तस्याऽग्रे माकन्दीनिर्गमादिकम् । तत्पुरागमवृत्तान्तावसानं च स आख्यात ॥२२८|| अर्पयित्वाऽथ रत्नानि धरणः श्रेष्ठिनं जगौ । तात संगोपयैतानि ततो गोपयति स्म सः ॥२२९|| इत: सुवदनो लक्ष्मी तामाश्वासयति स्म सः । भव ईदृश एवाऽयं गतोऽयं मम तेन तु ॥२३०|| भवत्या नैव सन्तप्यमथ सा कैतवाज्जगौ । त्वयि जीवति सन्तापो न कोऽपि मम मानसे ॥२३१।। पोतेशो जातरूपं तज्जातरूपनिभा च ताम् । विधातुमात्मसात्तस्याश्चित्तमावर्जयद् दृढम् ।।२३२।। तेन सा गृहिणी चके जातरूपमधिष्ठितम् । दिनैः कतिपयैः कूलं यानपात्रमथाऽऽगमत् ॥२३३।।