________________
२३३
२३४
षष्ठो भवः यानं चीनागतं श्रुत्वा धरणोऽथ समाययौ । दृष्ट्वा सुवदनं लक्ष्मीसहितं तुष्यति स्म सः ॥२३४|| लक्ष्मी: सुवदनश्चैतौ जातौ कुवदनौ पुनः । दत्तासनोपविष्टोऽयं पृष्टः सुवदनेन तु ॥२३५।। आख्याति स्म यथावृत्तं ततः सुवदनोऽवदत् । त्वं जीवितोऽसि तज्जातं भव्यं स्वं स्वं गृहाण तत् ॥२३६।। धरणः प्राह पोतेश मत्प्राणा अपि ते वशे । लक्ष्मीसंगमकर्तुः का वार्ता स्वर्णादिवस्तुनः ॥२३७।। जगाद धरणश्चैतौ पुरमध्ये प्रविश्यते । आर्यपुत्र ! त्वमप्यत्र वसेत्यस्य प्रियाऽवदत् ॥२३८।। अभ्यक्तोऽयमथालोचि ताभ्यामद्यैव निश्यसौ । कथञ्चिदपि हन्तव्यः कृतपानाऽशनो रिपुः ॥२३९|| ध्यात्वेति मज्जयित्वाऽसौ पायितः कापिशायनम् । भुक्तः सुप्तश्च शय्यायां रजन्यामथ योषिता ॥२४०॥ कण्ठे पाशः प्रदत्तोऽस्य पोतेशेन दृढीकृतः । ततो मृत इति त्यक्तस्ताभ्यां जलनिधेस्तटे ॥२४१॥ युग्मम् तयोश्च गतयोर्याने समुद्रतटवायुना । शीतलेन समाश्वस्तो धरणो हृद्यचिन्तयत् ॥२४२।। किमिन्द्रजालं किं स्वप्नः किं वा मे मतिविभ्रमः । सत्येनैवाऽथ पाथोधितटमभ्यागतोऽस्म्यहम् ॥२४३|| जातेऽथ निश्चये दध्यावहो दुश्चरितं स्त्रियाः । अहो सुवदनस्यापि कीदृशं पुरुषव्रतम् ॥२४४।। जलज्वलनवायूनामस्ति वायुभुजामपि । प्रतीकारो न कोऽप्यस्ति महिलामनसः पुनः ॥२४५।।
समरादित्यसंक्षेपः इदं सुवदनेनाऽपि विषयाऽऽमिषगृधुना । अहितं विहितं मन्ये लोकयोरुभयोरपि ॥२४६|| इति ध्यायन्नयं श्रेष्ठिपुरुषैः साश्रुलोचनैः । प्रातदृष्टश्च पृष्टश्च किं त्वं निश्यपि नागतः ॥२४७|| विधुतातिना तेन प्रेषितास्त्वां गवेषितम् । तद्देहि दर्शनं देहि तापनिर्वापणौषधम् ॥२४८।। स ध्यायन्नन्तरं नृणां श्रेष्टिनो गृहमागतः । पृष्टो वत्स ! कृतोऽसि त्वं हेतुना केन दुर्मनाः ॥२४९।। न किञ्चिदिति तेनोक्ते श्रेष्ठी प्राह श्रुतं मया । यानं चीनात्समायातमुपलेभे त्वया न वा ॥२५०॥ सबाष्पं तं च पप्रच्छ भार्या जीवति ते न वा । धरण: प्राह शीलेन मृता देहेन जीवति ॥२५१।। कथं वेत्सीति तेनोक्ते स प्रोचे तात कार्यतः । पृष्टोऽथ श्रेष्ठिना सत्यं सर्वं वृत्तान्तमाख्यत ॥२५२।। तादृशं वैशसं श्रुत्वा ततः सुवदनं प्रति । कोपाटोपयुतष्टोपश्रेष्ठी व्यजिज्ञपन्नृपम् ॥२५३॥ ततः पोतेशमाकार्य कार्यवेदी नृपेश्वरः । उवाच श्रूयते स्वर्ण घनं तत्कथमर्जितम् ॥२५४|| स प्रोवाच क्रमायातमियं भार्या कुतस्तव । स प्राह गुरुभिर्दत्ता राज्ञा श्रेष्ठ्यथ वीक्षितः ॥२५५॥ प्राह देवाऽनृतं सर्वं ततः सुवदनोऽवदत् । किं पुनः सत्यमत्रेति श्रेष्ठी प्रोचेऽथ धीरधीः ॥२५६॥ वर्णिनी च सुवर्णं च धरणस्येति सूनृतम् । ऊचे सुवदनोऽपूर्वदैवज्ञ ! प्रत्ययोऽत्र कः ॥२५७।।