________________
सप्तमो भवः
२६५
इत्यङ्गीकृत्य चैतस्मिन्गते ततो निजैः सह । अमन्त्रयदयं पुत्र्या वर: समुचितो वरः ॥९०|| तैरप्येवमिति प्रोक्ते दत्तस्याऽनिच्छतोऽपि हि । वृत्तो विवाह: कर्तव्यं समस्तमुचितं कृतम् ॥९१।। दिनैः कतिपयैस्तातमनुज्ञाप्य समागतः । निजं देशमसौ काल: कियानपि गतस्ततः ॥९२।। आगतोऽथाऽऽनिनीषर्मा प्राविशत्तातमन्दिरे । स्ववैभवाऽनुमानेन तातश्च तमुपाचरत् ॥९३॥ अतीतेऽथ दिने सज्जं विदधे वासमन्दिरम् । शय्या च प्रस्तुता रम्या कृता मङ्गलदीपकाः ॥९४|| पुष्पमालाः समुत्क्षिप्ता प्रदत्ता धूपवर्तयः । सर्वोपकरणाऽऽकीर्णपटलं च पुरस्कृतम् ॥१५॥ तदा प्रथमबद्धं मे कर्माऽभ्युदयमागतम् । कर्मणोऽचिन्त्यमाहात्म्यात् क्षेत्रपालोऽत्र चाऽऽययौ ॥९६।। वधूवरमयं वीक्ष्य दध्यौ यद्वञ्चयाम्यमुम् । बन्धुदेवं यथा न स्यादनयोः संगमः पुनः ॥९७|| ध्यात्वेत्यत्र गवाक्षस्थनररूपेण सोऽवदत् । सर्वाङ्गसुन्दरी क्वाऽद्य तं पृष्ट्वेति तिरोदधे ॥९८।। विकल्पोऽस्य ततो जज्ञे गता दूरे विचारणा । कषायैर्बाधितो बाढं बभूव हृदयेऽरतिः ॥९९।। दध्यौ च मे महेलाऽसौ दुःशीला कथमन्यथा । आलोक्येति च जल्पित्वा गतः कश्चन मानवः ॥१००।। स्नेहो विगलितश्चित्तादथाऽहं वासमन्दिरे । आगता विहितं तेन निद्राविद्राणकैतवम् ॥१०१।।
समरादित्यसंक्षेपः स्वपिहि स्वामीनीत्युक्त्वा सख्यो मम विनिर्गताः । दत्त्वा द्वारमुपाविक्षं शय्याप्रान्ते कथञ्चन ॥१०२।। उत्थितो बन्धुदेवोऽथ मया दध्ये ससाध्वसम् । किमेतदिति नो पृष्टो मया शय्यान्तरे गतः ॥१०३।। कथञ्चिदपि तस्याऽथ निद्रागच्छद्विकल्पिनः । प्राप्ताऽहं तु महाशोकमुपविष्टा महीतले ॥१०४।। गता मे रजनी दुःखान्नारकस्येव जीवितम् । सख्यः समाययुर्मेऽथ बन्धुदेवो विनिर्ययौ ॥१०५।। अस्थानस्थां च मां प्रोचुः सख्यः स्वामिनि किन्वदः । मया शोकदकथ्यत्वात्कार्यस्य च न जल्पितम् ॥१०६।। सनिर्बन्धं पुन: पृष्टे ताभिरूचे मया हलाः । मम पृच्छत भाग्यानि वृत्तमाख्यं ततो निशः ॥१०७।। दध्युस्ता नैहिको दोषः स्वामिन्याः कोऽप्यसौ न च । सार्थवाहसुतोऽविज्ञस्तत्कर्मैव पुरातनम् ॥१०८।। तदाऽनापृच्छ्य तातादीनबन्धुदेवो विनिर्गतः । आख्याय सूरिलाख्यस्य नरस्य स्वां पुरीं ययौ ॥१०९॥ पितरौ बन्धुदेवाय कुपितौ स्नेहलौ मयि । व्यवहारोऽखिलो भग्नः कालः कोऽपि व्यतीयिवान् ॥११०|| दध्ये मयाऽन्यदा हन्त सैष दु:खमयो भवः । तन्मेऽलं गृहवासेन गृह्णामि व्रतमञ्जसा ॥१११।। तदा यशोमतिर्नाम समायाता प्रवर्तिनी । पित्रोनिवेद्य स्वाऽऽकूतं विधिना व्रतमाददे ॥११२।। इतश्च बन्धुदेवेन कोशलापुरमीयुषा । उदूढा श्रीमती कान्तिमती चाऽस्य कनीयसा ॥११३।।