SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ २६७ से लेकर ३३० तक बटर काढना सप्तमो भवः २६८ तज्जातप्रीति चम्पायां दम्पतिद्वयमागतम् । गृहवासः प्ररूढश्च विश्रम्भजनको मिथः ॥११४।। अथाहमपि चम्पायां प्रवर्तिन्या सहाऽऽगमम् । प्रविष्टा गोचरे याता बन्धुदेवस्य मन्दिरे ॥११५।। दृष्टा च श्रीमतीकान्तिमतीभ्यां ते ममोपरि । प्राग्भवाऽभ्यासतः प्रीते प्रत्यलाभयतां च माम् ॥११६।। तयोरागतयोर्धर्मः ख्यातः परिणतश्च सः । श्राविकात्वे च संजाते ताभ्यामुक्ताऽस्मि सादरम् ॥११७|| कार्यः प्रसादो गेहस्याऽऽगमनेन यथाऽऽवयोः । बोधः परिजनोऽप्येति गुर्वनुज्ञावशात्ततः ॥११८॥ नित्यं गन्तुं समारब्धा तदा मायानिबन्धनम् । प्राच्यं ममोदितं कर्म हस्तं रक्ष यदीरितम् ॥११९|| तयोर्भक्तिमसामान्यां भवनव्यन्तरो मयि । वीक्ष्य दध्यौ परीक्षेऽहमिमे हाराऽपहारतः ॥१२०॥ कान्तिमत्यन्यदा हारं प्रोयमाणा मयैक्ष्यत । गतया वेश्म कौसुम्भसिक्छन्नपटलीस्थितम् ॥१२१।। अथाऽभ्युत्थाय मां नत्वाऽऽसनान्युपनिनाय सा । ससाध्वीका निविष्टाऽहं विदधे धर्मदेशनाम् ॥१२२।। चलितायां मयि प्राह साऽऽर्येऽद्य तव पारणम् । इदं लाभनकं प्रासु तद् ग्राहय समागतम् ॥१२३।। गृह्णीतेति मया प्रोक्ता साध्व्यः कान्तिमतीयुताः । निर्ययुर्व्यन्तरस्याऽथ प्रयोगाच्चित्रगः शिखी ॥१२४॥ समरादित्यसंक्षेपः हारं गृहीत्वा प्रक्षिप्य कुक्षौ स्थाने निजे स्थितः । दध्यावहं महच्चित्रं प्रक्ष्याम्यथ महत्तराम् ।।१२५।। संक्षुब्धा हृदये वासगृहाच्चाऽहं विनिर्गता । कान्तिमत्यागता साध्वीसहिताऽथ वयं गताः ॥१२६।। प्रविष्टा कान्तिमत्यन्तरदृष्ट्वा हारमाह च । निजं परिजनं तेन प्रोचे साध्वी निरूपय ॥१२७|| नान्यः कोऽपि प्रविष्टो यत्तमथ प्राह सा कुधा । किं वक्तेदमसंबद्धं समस्वर्णोपला हि सा ॥१२८।। तल्लोके ख्यातमाख्यातं प्रवर्तिन्यै मयाऽपि च । सा प्राह वत्सेऽसंभाव्यं किञ्चिन्नास्त्यस्य कर्मणः ॥१२९।। तपः कुरु ततस्तीव्र न गम्यं तत्र मन्दिरे । अन्यच्चैतत्प्रयत्नेन रक्ष्यं शासनलाघवम् ॥१३०॥ जाते शासनमालिन्ये धर्मबुद्धिः प्रहीयते । जनो विपरिणामं च भजते नव्यधर्मधीः ॥१३१॥ ततः परमगुर्वाज्ञाभङ्गाबोधि निहन्त्ययम् । ततो भ्रमति संसारं दीर्घ शासनलाघवात् ॥१३२।। तपो मयाऽथ प्रारब्धं त्यक्ता तत्र गृहे गतिः । दधे परिजनः शङ्का श्राविके तु न शङ्किते ॥१३३।। ताभ्यामचिन्ति चाऽऽर्याऽत्र नैति सङ्कटशङ्कया । इहलोकवितृष्णानां कि कार्य परवेश्मना ॥१३४|| अस्मद्धर्मानुरागाऽनुबन्धेनैवाऽऽगमत्पुरा । तदावां तत्र यास्यावस्तत्रायातस्ततश्च ते ॥१३५।। आरूढक्षपक श्रेणर्मम जज्ञे च केवलम् । शिखिना व्यन्तरो हारं कर्माऽभावादमोचयत् ॥१३६।। १. प्येतिगुर्व० क ख ग घ च ।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy