SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ सप्तमो भवः सा प्राह रुदती नाहमागो वेद्मि बभाण तु । भर्ता निस्सर मद्गेहाद्धलिष्येऽहं मयोदिता ॥ ६६ ॥ प्रतिश्रुते तया भ्राता मयोचेऽदः किमीदृशम् । स प्राह स्त्री हि दुःशीला विनाशयति संततिम् ॥६७॥ कुलं मलिनयत्युच्चैर्विधत्ते वचनीयताम् । दयितं हन्त्यलं तस्मादनयाऽपनयाऽत्मना ॥६८॥ मयोचे त्वं कथं वेत्सि स प्राह ज्ञेयमत्र किम् । श्रुता हि देशनाद्वारा वारयन्ती भवत्यमूम् ॥६९॥ मयोचे तव पाण्डित्यमहो ते सुविचारता । अहो अहो महार्थत्वमहो स्नेहानुबन्धिता ॥ ७० ॥ बहुदोषं जिनप्रोक्तमिदमस्या निवेदितम् । न तु दोषं मया वीक्ष्य वारिता तत्कुतोऽसती ॥ ७१ ॥ युग्मम् सत्रपः सोऽपि जातानुतापस्तां बह्वमानयत् । ध्यातं मयाऽथ भ्राताऽयं श्वेतं कृष्णं प्रपद्यते ॥७२॥ वीक्षितश्च द्वितीयोऽपि तद्भार्याहस्तरक्षणे । प्रोक्ता सर्वं च पाश्चात्यं तथैव हि यथाऽग्रजे ||७३ || तदा मयाऽऽलदानेन तीव्रं कर्म न्यबध्यत । कालेनाऽहं व्रतं त्वादां भ्रातृभ्रातृजनीयुता ॥ ७४ ॥ दिवं गतानि सर्वाणि मम प्राग् भ्रातरौ च्युतौ । अत्रैव पुण्यदत्तेभ्यसम्बातनयतां गतौ ॥७५॥ बन्धुदेवः सागरश्च तयोर्नाम प्रतिष्ठितम् । वृद्धौ चैकालवालस्थबालशालसमाविमौ ॥७६॥ च्युता गजपुरेऽहं तु शङ्खभ्यस्य सुताऽभवम् । शुभङ्कायां भार्यायां नाम्ना सर्वाङ्गसुन्दरी ॥७७॥ २६३ २६४ समरादित्यसंक्षेपः प्रजावत्यावपि च्युत्वा नगरे कोशलापुरे । जज्ञाते देविलापल्यां नन्दिलेभ्यस्य नन्दने ॥७८॥ एका कान्तिमती नाम्ना द्वितीया श्रीमतीति च । मिथः प्रीतियुते ते च विवर्धेते लते इव ॥७९॥ मया श्राद्धकुलोत्पत्त्या लेभे धर्मो जिनोदितः । पुष्पचापनृपक्रीडावनं प्रापे च यौवनम् ||८०|| इतो गजपुराऽयातो बन्धुदेवो वणिज्यया । लीलोद्यानाद् गृहं यान्तीं मामैक्षत सखीवृताम् ॥८१॥ पृष्टे च कस्य कन्येयं शङ्खस्याऽऽख्यत कश्चन । याचितायां च मे तातोऽवोचत्साधर्मिकोऽसि न ॥८२॥ बन्धुदेवोऽवदत्साधर्मिकं कुरुत मां ततः । ततः प्राहाऽऽर्हतं धर्मं प्रतिपद्यस्व भावतः ||८३|| सोऽथ मल्लोभतः साधुसमीपे मसृणोऽशृणोत् । जिनधर्म निकृत्या तं प्रशशंस न भावतः ॥ ८४॥ प्रारब्धं चैत्यनत्यादि दानाद्यं च प्रवर्तितम् । कियत्यपि गते काले गतस्ताताऽन्तिके पुनः ॥८५॥ अभाषत च धन्योऽस्मि येन त्वदुपदेशतः । लब्धो मयाऽऽर्हतो धर्मस्तत्त्वं मे देवता गुरुः ॥ ८६ ॥ अल्पं प्रयोजनं कन्या ज्ञाततत्त्वस्य मेऽधुना । यास्माम्यहं निजं देशमादेशोऽस्तु ततो मम ॥८७॥ स्थिरीकार्यः सदा धर्मे समादेश्यं यथोचितम् । द्रष्टव्यो निजबुद्ध्या चेत्युदित्वा न्यपतत्पदोः ॥८८॥ विशेषकम् तातस्तं बहुमानेन प्राह धन्योऽस्ति सुन्दर ! | अप्रमादवता भाव्यं धर्मरत्नेऽत्र दुर्लभे ॥८९॥
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy