________________
१३९
१४०
चतुर्थो भवः राजादेशात्ततः पक्वं पक्वं छित्त्वाऽस्य जाङ्गलम् । प्रेषि सूपकृताऽऽगाच्च नृपस्य परिवेषकः ॥४१६।। स प्रोचेऽमुं विजातीयमरे किञ्चिद्भटित्रकम् । समर्पय ततस्तेन कूरदृष्ट्याऽहमीक्षितः ॥४१७|| ततस्त्रस्तस्य मूढस्य मम कण्ठगताऽऽत्मनः । द्वितीये पार्श्वके छिन्ने देहो जीवेन तत्यजे ॥४१८॥ समं सैरिभजीवश्चाऽहं च भद्र गतायुषौ । अभूव कुक्कुटीगर्भे विशालाऽन्त्यजपाटके ॥४१९।। समये प्रसवस्याऽस्मन्माता विशसितौतुना । तेन सा भक्षिता पुञ्जे पतितं त्वण्डकद्वयम् ॥४२०॥ त्यजन्त्याऽन्त्यजया पुजं कयाऽपि स्थगितं च तत् । तदूष्मणा न जीवेन त्यक्तावावां स्वकर्मतः ॥४२१।। स्फुटिताण्डकयोस्ताम्रचूडोऽहं सा तु कुक्कुटी । जातौ दृष्टौ च चण्डालदारकेणाऽथ जीवितौ ॥४२२।। आवयोश्चन्द्रिकाशुभ्रा पिच्छश्रेणिरभूत्क्रमात् । गुञ्जार्धकीरवक्वाऽऽभा बभूव मम मञ्जरी ॥४२३|| गरुत्मच्चक्षुतुल्या च चञ्चरजनि मेऽसिता । अन्यदाऽऽवामपश्यत्तु तत्पार्श्वे दण्डपाशिकः ॥४२४।। योग्यं युग्ममिदं राज्ञः खेलनायेति सोऽग्रहीत् । दीनारेणोपदीचके राज्ञो गुणधरस्य च ॥४२५।। तुष्टो राजा जगादैनं यत्र यत्र व्रजाम्यहम् । आनेयौ तत्र तत्रैतौ तदादेशं च सोऽग्रहीत् ॥४२६।। नृपोऽन्यदा सशुद्धान्तो वसन्तक्रीडया ययौ । कुसुमाकरमुद्यानमक्रीडत्कदलीगृहे ॥४२७।।
समरादित्यसंक्षेपः आवाभ्यां सहितो दण्डपाशिकोऽशोकवीथिकाम् । ययौ शशिप्रभं सूरि साधुयुक्तं ददर्श च ॥४२८।। अलीकं वन्दनं कृत्वा तन्मूले न्यषदत्तु सः । शान्तमूतिममुं वीक्ष्य मनाक् शान्त उवाच च ॥४२९।। कीदृशो भवतां धर्मो भगवानाह सुन्दर ! | एक एव भवेद्धर्मो भेदान्मूढस्तु कल्पयेत् ॥४३०॥ संक्षेपात्कथ्यते सैष न कार्य परपीडनम् । नाऽसत्यं भाष्यमादेयं नाऽदत्तं परवस्तु च ॥४३१॥ अब्रह्म वयं स्वर्णाद्यः परित्याज्यः परिग्रह: । भक्तं निशि द्विचत्वारिंशद्दोषाढ्यं च वर्जयत् ॥४३२॥ युग्मम् स प्राह यतिधर्मोऽयं गृहिधर्म निवेदय । गुरुणाऽणुव्रताद्येऽथाऽऽख्याते धर्मे जगाद सः ॥४३३।। करोम्यमुमहं धर्म वेदोक्तविधिना पुनः । त्यजामि पशुहिंसां न प्रभुस्तं प्रत्यभाषत ॥४३४|| यदि त्यजसि नो हिंसामिदं कुक्कुटयुग्मवत् । ततस्त्वमपि संसारसागरेऽनर्थमाप्यस्यसि ॥४३५॥ तेनोक्ते कथमेतेनाऽनर्थः प्राप्तोऽवदद्गुरुः । इयं जनन्ययं सूनुः पिष्टकुक्कुटघातकौ ॥४३६।। शिखिश्वानावभूतां तौ ततः पृषतभोगिनौ । सुंसुमारमहामत्स्यावजामेषौ चतुर्थके ॥४३७।। अभूतां मेषमहिषौ ततः कुक्कुटपक्षिणौ । दु:खजातं तयोर्जातं जन्तुघातजपातकात् ।।४३८।। विशेषकम् तद्दण्डपाशिकः श्रुत्वा प्रोवाचाऽलं वधेन मे । देहि व्रतानि भगवन् ! गृहिधर्मोचितानि तु ॥४३९॥