________________
चतुर्थो भवः
१४१
१४२
न्यस्य पञ्चनमस्कारं तस्मिन्पञ्चगृहिव्रती । न्यस्ता भगवताऽऽवाभ्यामपि जातिः स्मृता निजा ॥४४०।। ततः सम्पन्नबोधाभ्यामावाभ्यां कूजितं मुदा । दूष्यान्तरस्थितेनेदं श्रुतं गुणधरेण च ॥४४१|| जयावल्या समं देव्या क्रीडां कुर्वन्नयं नृपः । आदाय तीरिकासारमिषुमिष्वासमप्यलम् ॥४४२॥ पश्य मे शब्दवेधित्वं देवीमुक्त्वाऽमुचच्छरम् । हतौ मृतौ जयावल्याः कुक्षावावां बभूविव ॥४४३॥ युग्मम् गर्भाऽनुभावतो जातेऽभयदानस्य दोहदे । नृपः सकलसत्त्वेष्वभयदानमदापयत् ॥४४४|| दारको दारिका चापि जातावावामनेहसि । ममाऽभयरुचिः पुत्र्याः संज्ञाभयमतिस्त्वभूत् ॥४४५॥ पुत्र्या विवाहं मे यौवराज्यं दध्यौ च भूपतिः । अथ पुर्या विनिर्याय पापद्ध्य वनमभ्यगात् ॥४४६।। स्पृष्टः सुरभिवातेन तदुद्यानं विलोकयन् । महामुनि सुदत्ताख्यं ध्यानस्थं नृप ऐक्षत ॥४४७|| तं चापशकुनं ध्यायन्नृपस्तस्य कदर्थनाम् । विधित्सुर्मोचयाञ्चके वकधीर्वक्रवालधीन् ॥४४८|| ते वेगादागतास्तस्य तपसा नि:प्रभीकृताः ।
औषधप्रभया ध्वस्तविषा विषधरा इव ॥४४९॥ ततः प्रदक्षिणां कृत्वा शुनके: प्रणतो मुनिः । सत्रपोऽथ नृपोऽध्यायद्वरमेते श्वपुरुषाः ॥४५०॥ नमुनः पुरुषश्वाहमस्यापि हि महामुनेः । ध्यान्नकुशलं यावदिति ध्यायति भूपतिः ॥४५१||
समरादित्यसंक्षेपः तस्यैव तावदाबाल्यान्मित्रं जिनवचोरतिः । अर्हद्दत्ताभिधः श्रेष्ठितुग्नन्तुं मुनिमागमत् ॥४५२।। ज्ञात्वोपसर्गबुद्धि तां राज्ञो मुनिपति प्रति । स प्राह किमिदं देव ! राज्ञोचे नृशुनोचितम् ॥४५३।। स प्राह नरसिंहस्त्वं तदुत्तर तुरङ्गमात् । वन्दस्व भगवन्तं च सुदत्ताख्यं महामुनिम् ॥४५४|| अस्य ह्यमरदत्ताख्यकलिङ्गाधीशजन्मनः । यौवने कुर्वतो राज्यमारक्षेण धृतोऽन्यदा ॥४५५।। स्तेनोऽस्याऽन्तिकमानीय प्रोक्तं चैतेन देव यत् । प्रविश्य वेश्म मुष्टं च निहतश्च महानरः ॥४५६।। नि:सरन् विधृतोऽस्माभिः प्रमाणं सम्प्रति प्रभुः । एतेनाह्वाय्य पृष्टाश्च धर्मशास्त्रस्य पाठकाः ॥४५७॥ एतदीयागसः कः स्याद्दण्डस्ते च बभाषिरे । अयं पुरुषहन्ता च परद्रव्यहरश्च यत् ॥४५८|| परितो भ्रमयित्वा तच्चत्वरेषु त्रिकेषु च । जनाऽध्यक्ष महादण्डः क्रियेतेति ऋषेर्वचः ॥४५९॥ पञ्चभिः कुलकम् श्रुत्वेत्यनेन धिग् राज्यं यत्रैतदनुमन्यते । तदलं राज्यसौख्येन विपाककटुकेन मे ॥४६०।। ध्यात्वेत्यानन्दसंज्ञाय राज्यं दत्त्वा स्वबन्धवे । प्रतिपन्नव्रतो गुर्वन्तिकेऽयं वन्द्य एव हि ॥४६१।। ससंभ्रममथो गत्वा राजर्षिमनमन्नृपः । पारयित्वा ततो ध्यानममुना धर्मलाभितः ॥४६२॥ भाषितश्च महाराजोपविशेति सगौरवम् । हृदि सानुशयो दध्यौ धिग्धिग्मामृषिघातकम् ॥४६३।।