________________
२१७
२१८
समरादित्यसंक्षेपः
षष्ठो भवः तत्कीगिति तातेन प्रोक्तः प्रोवाच तत्सखा । अवन्त्यां श्रीप्रभो राजा जयश्री म तत्सुता ॥४४॥ तेन सा याचतोऽप्युच्चैः कुङ्कणाधीशजन्मनः । न दत्ता शिशुपालस्य बालस्यैकावली यथा ॥४५।। सदा परोपकारैकरसिकाय महात्मने । वत्सेश्वरस्य पुत्राय दत्ता श्रीविजयाय तु ॥४६।। ततो विवाहे प्रारब्धेऽभ्येते श्रीविजये तथा । कन्या कामाऽर्चने यान्ती शिशुपालेन सा हता ॥४७|| गत्वा श्रीविजयः पृष्ठे शिशुपालं विजित्य च । गाढप्रहारविधुरो द्वेधाऽनैषीज्जयश्रियम् ।।४।। स तु श्रीविजयः प्राणसंशये वर्ततेऽधुना । जयश्रीरपि चैतस्मिन्न भुङ्क्ते नात्ति किञ्चन ॥४९॥ तदिदं वैशसं मेऽत्र वैमनस्यस्य कारणम् । तातः प्राह सदाऽप्येष भव ईदृश एव हि ॥५०॥ मयाऽथ चिन्तितं कल्पे गन्धर्वरतिना मम । गन्धर्वककुमारेण कथिताऽस्त्यौषधी वरा ॥५१।। हिमाद्रिगह्वरस्था सा दर्शिता च यदेतया । खड्गघातान् पृथग्भूतं भग्नं सन्धीयतेऽस्थ्यपि ॥५२॥ प्रक्षालनजलेनाऽस्यास्तत्क्षणाद्गतवेदनः । रुह्यते च प्रहारोऽतस्तामानेतुं गतोऽस्म्यहम् ॥५३॥ विशेषकम अत्रायातश्च विश्रान्तः क्षणं कुरुबके तरौ । चलितस्य नभोगामिविद्याया विस्मृतं पदम् ॥५४॥ पक्षिपोत इवोत्पातनिपातौ तत्करोम्यहम् । धरणः प्राह कोप्यस्त्युपायो नास्तीति सोऽवदत् ॥५५।।
अतोऽहं राजपुत्रासुशया व्यषदं दृढम् । धरणः प्राह विद्या किं पुरतोऽन्यस्य पठ्यते ॥५६।। स प्राह पठ्यते तर्हि पठेति धरणोदिते । सोऽपाठीद्धरणस्तस्य पदं चाऽऽख्यत विस्मृतम् ॥५७|| पदानुसारिप्रज्ञोऽयं धरण: खेचरस्य यत् । पदमाख्यत विद्यायाचित्रमत्र न किञ्चन ॥५८|| प्रज्ञप्त्याद्या महाविद्या युगाद्यजिनभृत्ययोः । पुरा नमिविनम्योरप्यमुनैव प्ररूपिताः ॥५९।। स तस्मै मुदितो दत्त्वौषधीवलयमञ्जसा । जगामोज्जयिनीं सार्थे धरणस्तु समाययौ ॥६०॥ अन्यदाऽद्रिनदीतीरस्थिते सार्थे किरातकान् । रुदतो वीक्ष्य पप्रच्छ धरणस्तन्निबन्धनम् ॥६॥ ते प्रोचः कालसेनाऽऽख्यः पल्लीनाथोऽस्ति नः प्रभुः । नृसिंहः सिंहमभ्येतं ससत्त्वः स त्वधावत ॥६२।। तं वटाऽन्तरितः सिंहोऽग्रहीत्पृष्ठेऽमुना पुनः । स शस्त्रया निहतोऽमुष्याऽत्रोटयच्छीर्षखण्डकम् ।।६३॥ नास्ति मे जीवितं मत्वा स वह्नि प्रविविक्षति । गुर्वी तद्गृहिणी तं चानुयान्ती न निवर्तते ॥६४|| तद्बोधनाय तद्वस्तुः समीपे प्रहिता वयम् । असमर्थाः प्रतीकारे बालका इव रोदिमः ॥६५|| तं दर्शयत जीवन्तं धरणेनेति भाषितम् । तेऽप्यूचुस्तर्हि वेगेन प्रसादं कुरु नायक ! ॥६६।। अथ वेगसरारूढः सौषधीवलयश्च सः । गतस्तत्र चितान्ते तं सकलत्रं व्यलोकत ॥६७||