________________
समरादित्यसंक्षेपः
प्रथमो भवः दिग्यात्राकरणे नित्योद्यतस्य यमभूपतेः । ढक्कामिव प्रयाणाय जीवलोकरिपुं प्रति ॥३१२॥ अट्टहासं भवाभिख्यरक्षसः खरवक्षसः । निर्घातमिव निर्मन्तुजन्तुष्वपि भयप्रदम् ॥३१३।। हाहाकाररवापूर्ण परिदेवितभितम् । डामरं डिण्डिमध्वानं शुश्राव श्रुतिदुःश्रवम् ॥३१४॥ कलापकम् अद्राक्षीच्च क्षणादेष चतुर्भिः पुरुषैधृतम् । शवं स्वबन्धुवर्गेण कोशता सर्वतो वृतम् ॥३१५।। ततः परमसंवेगभावितात्मा भुवो विभुः । इन्द्रजालनिभं मत्वा जीवलोकं व्यचिन्तयत् ॥३१६।। इत्थं विरसपर्यन्ते भवे धन्यास्त एव हि । त्रैलोक्यबन्धुभूतं ये समासाद्य जिनागमम् ॥३१७|| प्राप्तानगारताः पञ्चमहाव्रतधृतौ रताः । सर्वदोषपरित्यक्तपिण्डतः पिण्डधारिणः ॥३१८।। अष्टभिश्चिन्त्यमानाश्च नित्यं शासनमातृभिः । चतुर्धाभिग्रहांस्तेभ्यो बिभ्राणास्त्रिगुणं तपः ॥३१९।। धृतनिःप्रतिकर्मत्वात् सर्वत्र समताजुषः । कष्टाष्टादशशीलाङ्गसहस्रभरधारिणः ॥३२०॥ प्रशमामृतसम्पूर्ण विहरन्तो महीतले । प्रबोध्य भव्यपद्मानि सद्धर्मकथनांशुना ॥३२१।। प्रान्ते संलेखनापूर्वं जिनोद्दिष्टेन वर्त्मना । पादपोपगमादीनि श्रित्वा देहं त्यजन्त्यदः ॥३२२॥ षड्भिः कुलकम् ततोऽहमपि सम्प्राप्य भवाम्भोराशितारकम् । गुरुं विजयसेनाख्यं मोहसेनाविदारकम् ॥३२३।।
समीपेऽस्य समादाय महाव्रतभरं परम् । पूर्वोक्तविधिना देहं त्यक्ष्याम्यक्षामभावनः ॥३२४|| इति ध्यात्वा समाहूय सुबुद्ध्यादिकमन्त्रिणः । तेषां निजमभिप्रायमयमाख्यन्महामनाः ॥३२५॥ तेऽथ तत्सङ्गविज्ञातजैनसारा महाधियः । अन्वमन्यन्त धन्यं तमादरेण व्रताथिनम् ॥३२६।। अथ प्रतत्य चैत्येषु स्पष्टमष्टाहिकामहम् । दीनादीनां महादानं दापयित्वा च सादरम् ॥३२७|| संमान्य प्रणयिव्रातं नागरान् बहुमानयन् । चन्द्रसेनाभिधे ज्येष्ठपुत्रे राज्यं निवेश्य सः ॥३२८।। भावनात्तव्रतः प्रातर्गन्तास्मि गुरुसन्निधौ । ध्यात्वेति विजने तस्थौ निशि प्रतिमया स्थिरः ॥३२९|| विशेषकम् इतः कृतनिदानत्वाद्भरितापः स तापसः । अग्निशर्माऽऽत्तदुष्कर्माऽनशनोज्झितजीवितः ॥३३०॥ जातो विद्युत्कुमारेषु सार्धपल्योपमस्थितिः । सर्वं पूर्वभवोदन्तं परिज्ञाय विभङ्गतः ॥३३१॥ कुपितो गुणसेनाय रभसेनाऽयमागतः । तं तत्राऽप्रतिमक्रोधोऽपश्यत्प्रतिमया स्थितम् ॥३३२।। विशेषकम् प्राच्यक्षुद्वेदनातप्तः सरजस्कभवं निजम् । शंसन्निवाऽस्य तप्तेन रजसा वृष्टवानयम् ॥३३३।। दह्यमानोऽप्यसह्येन रजसा तेन सात्त्विकः । स दध्यौ विशदध्यानसंतानस्थिरमानसः ॥३३४|| शारीरमानसैर्दुःखैः परितः पूरिते भवे । दु:खं हि सुलभं धर्मप्रतिपत्तिस्तु दुर्लभा ॥३३५।।