SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ प्रथमो भवः धन्योऽस्म्यहं मया येनाऽपारे संसारसागरे । धर्मचिन्तामणिर्लेभे भवकोट्याऽपि दुर्लभः ||३३६|| एतस्य हि प्रभावेण दौर्गत्यं न कदाचन । भ्राम्यतस्तद्भवेऽनादौ सफलोऽयं भवोऽभवत् ||३३७|| यच्चाग्निशर्मणश्चक्रेऽभिभवो नर्मकर्मणा । प्रचुरीकारितः क्रोधस्तन्मां स्पृशति मर्मणि ॥३३८|| मैत्री सर्वेषु सत्त्वेषु प्रतिपन्नाऽधुना मया । पुरात्यन्तं पराभूते विशेषादग्निशर्मणि ॥ ३३९ ॥ इत्थं शुभपरीणामस्तेन तातकिना हतः । मृत्वाऽसौ धर्ममर्मज्ञः कल्पे सौधर्मनामनि ||३४०|| विमाने नामतश्चन्द्रानन एकाब्धिजीवितः । क्षणादेव क्षणातुल्यदिव्यदेहधरोऽजनि ॥ ३४९ ॥ युग्मम् अज्ञानज्ञानयोर्भेदात्तापसस्याग्निशर्मणः । विद्युत्त्वं गुणसेनस्य गृहस्थस्याऽपि नाकिता ||३४२ ॥ तत्र पूर्वजननान्तसंगत श्रीजिनेश्वरवचः प्रभावतः । दिव्यनाट्यरसदिव्यसुन्दरीभूरिभोगभवनं भवेऽभवत् ॥३४३|| इति श्रीहरिभद्रोक्त्या प्रद्युम्नाचार्यगुम्फिते । समरादित्यसंक्षेपे कथितः प्रथमो भवः || ३४४ || ३१ द्वितीयो भवः इहैव जम्बूद्वीपेऽस्ति वसुमत्या विशेषके । क्षेत्रे वरविदेहाऽऽख्ये नाम्ना जयपुरं पुरम् ॥१॥ सुवर्णश्रीभृता नित्यं येन पुण्यजनाऽऽश्रिता । स्वतुल्यत्वधृताशङ्का वार्धी लङ्काऽपतद् ध्रुवम् ॥२॥ क्लीबः परस्य दारेषु गताक्षश्छिद्रवीक्षणे । अवर्णे यत्र मूकश्च नरवर्गे निसर्गतः ||३|| मेरुणा मण्डलाग्रेण निर्मथ्य प्रधनाऽम्बुधिम् । यः स्वायत्तां श्रियं चक्रे प्रत्यक्षः पुरुषोत्तमः ||४|| नृपः पुरुषदत्ताख्यः स तत्र परुषो द्विषाम् । अस्तवामनरूपोऽपि बलिबन्धविधिक्षमः ||५|| युगमम् श्रीकान्ता निजरूपेण कान्ताय सतताऽऽनता । श्रीकान्ता नाम तस्याऽस्ति कान्ता गुणगणाऽन्विता ||६|| छाययेव तया सार्धमवियुक्तस्य गोपतेः । गोपतेरिव तस्याऽगुर्वासराः सुखवासराः ॥७॥ च्युत्वाऽथ गुणसेनः श्रीकान्तायाः कुक्षिमासदत् । तदाऽपश्यच्च सा ज्वालाजालापिङ्गलकेसरम् ॥८॥ १. अवर्णवादे क ।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy