________________
प्रथमो भवः
२७
समरादित्यसंक्षेपः
दया सूनृतमस्तेयं ब्रह्म त्यागस्तपस्तथा । सहिष्णुत्वं मृदुत्वं च ऋजुता शौचमित्यमी ॥२८८॥ तमस्ततिहतः साधुधर्मस्य दश वाजिनः । त एते न्यकृतस्वर्गवाजिनो दश वाजिनः ॥२८९।। द्वादशात्मा त्वसौ श्राद्धधर्मः सर्वप्रकाशकः । क्षीणोऽपि साधुधर्मः स्याद्यस्मात्पुष्टः पुनः पुनः ॥२९०।। अणूनि गुणरूपाणि शिक्षारूपाणि चाङ्गिनाम् । पञ्च त्रीणि च चत्वारि व्रतानीत्यर्कसङ्ख्यया ॥२९१।। निषिद्धैः स्युर्वधासत्यस्तेयाब्रह्मपरिग्रहैः । अणुव्रतानि पञ्चापि राजन्महदपेक्षया ।।२९२॥ गुणव्रतत्रयी ज्ञेया दिग्मर्यादानतिकमः । भोगोपभोगमानं चानर्थदण्डनिषेधनम् ॥२९३।। शिक्षाव्रतान्यहो सामायिकं देशावकाशिकम् । पौषधः संविभागश्चातिथीनां समताजुषाम् ॥२९४॥ धर्मयोरनयोरिन्दुसूर्ययोरिव पुष्करम् । सम्यग्दर्शनमेवैकं यत्र सर्वं प्रतिष्ठितम् ॥२९५।। तच्च जीवादितत्त्वौघे जिनोक्ते रुचिरुच्यते । स्वभावादुपदेशाद्वा सुगुरोः सा प्रजायते ॥२९६।। देवेऽर्हति गुरौ साधौ धर्मे सर्वज्ञभाषिते । निश्चलत्वं मतेः सम्यग्दर्शनं दशितं जिनैः ॥२९७|| सम्यक्त्वस्यास्य कः स्तोतु महिमानं महीतले । यद्विनाऽल्पफलं ज्ञानं चारित्रं चाऽतिदुष्करम् ॥२९८।। दुर्भेदग्रन्थिभेदेन सम्यग्दर्शनमाप्यते । पल्योपमपृथक्त्वेन श्राद्धत्वं तदनन्तरम् ॥२९९।।
तच्च व्रतानि चैतानि पालयन्स्थिरमानसः । नरो निरतिचाराणि श्रद्धा इत्यभिधीयते ॥३००॥ श्राद्धत्वानन्तरं जीवः सङ्ख्यातैः सागरोपमैः । यतिधर्ममहिंसाद्यं लभते पूर्ववणितम् ॥३०१|| लघुकर्मतया सर्व कश्चित्तत्क्षणमश्नुते । सम्यक्त्वं श्रावकत्वं च यतित्वमपि निर्मलम् ॥३०२।। क्षपकश्रेणिमारूढः प्राप्य केवलमुज्ज्चलम् । प्राग्वणितं महाराज ! लभते शाश्वतं पदम् ॥३०३।। भावपावकनिर्दग्धभूरिकर्मेन्धनस्तदा । गुणसेननृपो वाचमुवाच रचिताञ्जलिः ॥३०४|| धन्योऽस्मि भगवन् कर्णनिपीतत्वद्वचःसुधः । सौमनस्यमवापं त्वां निर्निमेषं विलोकयन् ॥३०५।। तन्मे प्रयच्छ सम्यक्त्वं व्रतानि द्वादशापि च । उक्त्वेति गुरुदत्तं तद्विधिना सर्वमग्रहीत् ॥३०६।। ततः शिक्षामवाप्यैष नत्वा च सपरिच्छदम् । गुरुं पुरं प्रविष्टोऽथ भोजनं विदधे सुधीः ॥३०७|| पुनः समेत्य संध्यायामुपदेशरसायनम् । अपारपारसंसारगदविच्छेदकोविदम् ॥३०८।। इति द्विसंध्यमप्यस्य पर्युपास्ति वितन्वतः । त्रिंशता दिवसैज्ञे श्रावकत्वं सुनिश्चलम् ॥३०९।। मासकल्पेऽथ सम्पूर्णे सूरयः कल्पवेदिनः । विहारं विदधुर्भव्याम्भोजबोधनभानवः ॥३१०॥ गुरौ विहितवीहारे गतैः कतिपयैदिनैः । गुणसेननृपोऽन्येधुः स्वप्रासादतलस्थितः ॥३११।।