________________
प्रथमो भवः
कुर्वे दुः कर्ममर्मावित्तदहं दुस्तपं तपः । जन्मान्तरेऽपि येनैवं न भवेयुविडम्बना: ॥ ६१ ॥
विचिन्त्येति सवैराग्यो निर्गत्य नगरादसौ । मासमात्रेण कालेन स्थितं तद्देशसीमनि ॥ ६२ ॥ नैकानोकहसच्छायं शान्तशाश्वतशात्रवम् । सुगन्धि हव्यगन्धेन धुनीसम्बन्धबन्धुरम् ॥६३॥ तपोधनमनःप्रत्तपरितोषं समित्कुशैः । ततः सम्परितोषाख्यमाससाद तपोवनम् ॥६४॥ विशेषकम्
तत्र प्रविश्य चापश्यद्धर्मध्यानपरायणम् । ऋजुमार्जवकौण्डिन्यं नाम्ना कुलपति स तु ॥६५॥
तं वीक्ष्य जातरोमाञ्चः पञ्चाङ्गस्पृष्टभूतलः । धन्यमान्यो ननामाऽयममायमृषिपुङ्गवम् ॥६६॥ विमुच्य मुनिना ध्यानं स्वागतप्रश्नपूर्वकम् । आसने दापिते हृष्टो निविष्टः स विशिष्टधीः ॥६७॥ मुनिरूचे च तं भद्र ! समायातः कुतो भवान् ।
सर्वं पूर्वं स्ववृत्तान्तं सोऽथ तस्मै न्यवेदयत् ॥६८॥
ऊचे कुलपतिः क्लेशतप्तानां हि तपोवनम् । तपोवनं च सम्प्राप्तो वत्स मा गच्छ दीनताम् ॥ ६९ ॥
योग्योऽस्मि यदि तद्दत्त व्रतं तेनेति भाषिते । स्वाचारं मुनिनाऽख्याय सुमुहूर्ते स दीक्षितः ||७०||
तदैवाभिनवोद्भूतवैराग्यातिशयादयम् ।
गुस्तपस्विनां चाग्रे प्रतिज्ञामीदृशीं व्यधात् ॥७१॥
१. All mss have स्थितं; it would be better to read स्थितः ।
समरादित्यसंक्षेपः
मासाद्भोज्यं मया लाभेऽलाभे वापि गृहान्तरम् ।
न गन्तव्यं च भाव्यं च पुनर्मासोपवासिना ॥ ७२ ॥ युग्मम्
तां निर्वाहयतस्तस्य प्रतिज्ञां दारुणामपि । व्यतीयुर्बहवः पूर्वलक्षाः कक्षाश्रयश्रितः ॥७३|| तदासन्नस्य लोकस्य वसन्तपुरवासिनः । निःस्पृहे बहुमानोऽस्मिन्नीलीरागनिभोऽजनि ॥७४॥ यत्कृतं कैतवेनापि निःस्पृहत्वं फलप्रदम् । तच्चेन्निः कैतवं कीदृक् चिन्ता चिन्तामणेस्ततः ॥ ७५ ॥
इतः पितृनिदेशेन गुणसेन उपायत । कन्यां वसन्तसेनाख्यां सेनामिव मनोभुवः ॥ ७६ ॥
अवज्ञा पितुराज्ञाया मा भूदिति भयातुरः । राज्यश्रियमुपादत्त स द्वितीयां वधूमिव ॥७७॥ पूर्णचन्द्रनरेन्द्रस्तु विमुच्य विषयान् द्विधा । कुमुदिन्या समं देव्या वनवासमशिश्रियत् ॥७८॥
नृपतिर्गुणसेनोऽथ विष्वक्सेन इवापरः । वसन्तसेनया देव्या समं रेमे श्रियेव सः ॥ ७९ ॥ दिग्यात्रानिर्गतोऽन्येद्युर्वसन्तपुरमागतः । विमानच्छन्दकाभिख्ये प्रासादे प्राविशन्नृपः ॥ ८० ॥
दुर्दिनं धूपधूम्याभिः क्षणां माणिक्यराशिभिः । मुक्तास्रग्भिः पयोधाराश्चामरैश्च बलाकिकाः ॥८१॥ दधदिन्द्रधनुः पञ्चवर्णपट्टांशुकोच्चयैः । गन्धोदकेन वर्षश्च वर्षारात्र इवात्र यः ॥८२॥ युग्मम्
तत्र पौरन्यथायोग्यं सम्मान्य च विसृज्य च । तन्नाटकादिभिस्तेनाहोरात्रमतिवाहितम् ॥८३॥