________________
समरादित्यसंक्षेपः
प्रथमो भवः
सुवृत्तः सिन्धुसिद्धान्तः सप्तक्षेत्रीप्रकाशकः । जैनाचार्य इव द्वीपो जम्बूद्वीपोऽस्ति विश्रुतः ॥४०॥ मेरुविभाति यन्मध्ये योगवल्लक्षयोजनः । चूलिकानिर्वृतिः सन्नन्दनः सौमनसान्वितः ॥४१॥ तत्रापरविदेहेषु रामणीयकमन्दिरम् । क्षितिप्रतिष्ठितं नाम नगरं सुप्रतिष्ठितम् ॥४२।। अट्टस्तबकयुग् यत्र प्राकारः परितः स्थितः । भाति क्षितिनितम्बिन्याः प्रालम्बमिव लम्बितम् ॥४३।। निश्युत्पलैर्दिवा पद्यैः कलितालिकुलारवैः । रक्ष्यते सिन्धुशुद्धान्तवद्यत्र सरसीव्रजः ॥४४॥ सूरतारस्फुरद्धिष्ण्यगुरुज्ञकविमङ्गलैः । युतं तेजस्विनां स्थानं व्योमवद्यदवातरत् ॥४५॥ पूर्णचन्द्रनृपस्तत्र पूर्णचन्द्र इवोदयी । कलाकलापसम्पूर्णश्चित्रं दिनकरः सताम् ॥४६॥ यत्कीर्तिकौमुदी सर्वमधुराणां धुरि स्थिता । चित्रं द्विषद्विपत्रातदन्तभेदप्रदाऽभवत् ॥४७|| उचितं पूर्णचन्द्रस्य कुमुदिन्यभिधा प्रिया । असूर्यपश्यता यस्याः कथञ्चिदपि नान्यथा ॥४८॥
एतयोः शिवयोः सूनुर्गुणसेनाभिधोऽजनि । महासेन इवाश्चर्य तारकस्वस्तिकारकः ॥४९॥ निहताहितवर्गेऽस्मिन्निसर्गेण बलीयसि । कुमारे भारमारोप्य सुखमास्ते पितेश्वरः ॥५०॥ कुमारभावसुप्रापकेलिप्रियतया च सः । प्रायः प्राप धृति चित्ते कुब्जवामननर्तनैः ॥५१॥ इतश्चास्त्यत्र नीतिज्ञो जनमान्यः षडङ्गवित् । स्वभावादल्पसंतुष्टो यज्ञदत्तः पुरोहितः ॥५२॥ तस्यास्ति तनयः सोमदेवाकुक्षिसमुद्भवः । अग्निशर्माभिधः कर्मानुभावेन कुरूपकः ॥५३।। त्रिकोणमस्तकः पिङ्गनेत्रश्चिपिटनासिकः । बिलमात्रश्रुतिदीर्घरदस्तुच्छरदच्छदः ॥५४|| वक्रग्रीवोऽल्पवक्षाश्च हुस्वबाहुमहोदरः । एकपक्षोन्नतश्रोणिविषमोरुद्वयोऽपि च ॥५५॥ जङ्घायुगे लघुः स्थूलशूर्पाकारक्रमद्वयः । प्रज्वलज्ज्वलनज्वालाजालपिङ्गलकुन्तलः ॥५६॥ कलापकम् कुरूपशेखरं शीर्षे शेखरन्यासपूर्वकम् । कुमारस्तूर्यनादैस्तं नित्यं नर्तयते पुरि ॥५७।। तं धूलिनृपवद्धूलिधूसरं रोपितं खरे । क्षुद्रडिम्भपरीवारं वाद्यमानाग्रडिण्डिमम् ॥५८॥ विधृताच्छित्तिरच्छत्रं जनैः सह हसन्नसौ । नित्यं भ्रमयते च श्रीपथे कर्मेव संसृतौ ॥५९॥ युग्मम् इत्थं विडम्ब्यमानोऽयं चिरं चित्ते व्यचिन्तयत् । मम प्राग्भवदुःकर्मप्रभवोऽयं पराभवः ॥६०॥