________________
अष्टमो भवः
३१३
समरादित्यसंक्षेपः
वश्यानां क्व नरे प्रीतिर्नीरसं कीदृशं फलम् । उपक्षये च को धातुर्वाजिनां किं प्रशस्यते ॥५५॥ प्रद्युम्नस्य कवेरस्य गुरूणां श्रीमतामिह । कनकप्रभसूरीणां गुरवः के च विश्रुताः ॥५६॥ पाठयित्वा पुनस्तं च श्लाधित्वा कवितागुणान् । मैत्रीबलात्मजः प्राह श्रीदेवानन्दसूरयः ॥५७।। प्रोचे चित्रमतिश्चित्रमति देवमतेरहो । मया कर्मक्रियागुप्तं कृतमस्त्यवधार्यताम् ॥५८।। परकीयमनायासादभिप्रायं प्रकाशयन् । कुमार स्वर्गतः स्वर्गी भवानिति मतिर्मम ॥५९॥ कुमार प्राह कुं पृथ्वीमाजगामेति ते मतिः । बभाषे भूषणश्चके देव एव किल स्वयम् ॥६०|| तयोविस्मितयोरित्थं कोशाध्यक्षं नृपात्मजः । धनदेवं जगौ देहि दीनाराँल्लक्षमेतयोः ॥६१।। स दध्यौ मुग्धभावेन लक्षमानं न वेत्त्ययम् । दृष्टं करोमि तद्येन पुनर्नाज्ञापयत्यदः ॥६२|| तत्पुञ्जितं पुरो वीक्ष्य गुणचन्द्रो व्यचिन्तयत् । मन्येऽमुष्य मनस्येतद् बहु मे दर्शयत्यदः ॥६३।। तद् बोधायावदल्लक्षमेतावन्मात्रकं भवेत् । तद् द्वयोरनयोर्नालं द्वितीयमपि देह्यदः ॥६४॥ तथैव च तदादेशे कोशाध्यक्षेण निर्मिते । जातौ चित्रकृती चित्रभृतौ तत्त्यागरागतः ॥६५||
कालज्ञस्य स्वयं शत्रुवर्गे कालसधर्मणः । मध्याह्नकालमेतस्याऽऽचख्यौ कालनिवेदकः ॥६६।। मध्यस्थः पुरुषोऽवश्यं विश्वस्योपरि जायते । आख्यानिवेदमारोहन्नभोमध्यं नभोमणिः ॥६७|| देवमज्जनमेदिन्यां देवमज्जनसज्जधीः । वारवेश्याजनश्चागादुत्क्षिप्तस्वर्णकुम्भयुक् ॥६८॥ अथोत्थाय कृतस्नानभोजनः शयनीयगः । दध्यौ शङ्खायनसुताकन्यायोगो नयोचितः ॥६९।। इति चिन्तयतस्तस्याऽऽस्थानवेला समाययौ । निविष्टस्य सदस्येत्य वयस्याः समुपाविशन् ॥७०।। अथ विद्याधरद्वन्द्वमालिखन् नृपनन्दनः । तच्च पश्यत्युपायातौ तौ चित्रमतिभूषणौ ॥७१।। नत्वोचतुश्च तौ देव ! किमिदं सोऽवदत्ततः । वीक्षध्वं स्वयमित्युक्त्वाथाऽर्पयच्चित्रपट्टिकाम् ॥७२।। वीक्ष्य तौ विस्मितौ बाढमूचतुश्चित्रकर्मणि । दुःसाधाऽऽराधना भावे देवेन विदधे च सा ॥७३॥ नवस्नेहोत्सुकत्वेन मिथ: स्मेरविलोचनम् । अलङ्घितोचितस्थानमारूढप्रेमभावतः ॥७४|| इदं विद्याधरद्वन्द्वं लिखितं देव यत्नतः । मन्वहे विश्वकर्माऽसि विश्वकर्मसु कर्मठः ॥७५॥ विशेषकम् किं चास्ति चित्रशास्त्रेऽदश्चित्रं यादृक् प्रजायते । ताहग्भावस्य सम्पत्तिध्रुवं चित्रकृतो भवेत् ॥७६।।
१. दर्शयत्यतः ख ग घ च । २. इयदेव कथं भवेत् ख ग घ ङ च ।
१. जाड्यते क ।