________________
चतुर्थो भवः
भृत्यस्तदाऽरुददुः खाद्धनश्रीरपि कैतवात् । कृत्यं कालोचितं कृत्यमित्युक्त्वा तेन बोधितौ ॥८९॥
द्वीपं महाकटाहाख्यं प्राप्तानां नन्दको नृपम् । ददर्श धाम्नि तद्दत्तेऽस्थाच्च वैद्यानुपानयत् ॥ ९० ॥
अजाते च प्रतीकारे नन्दकः स्वपुरोत्सुकः । भाण्डं विक्रीय तत्रत्यं गृहीत्वा चाचलद् द्रुतम् ॥९१॥ सज्जिते वहने वीक्ष्य नृपं तेन प्रपूजितः । गन्तुं प्रवृत्तः स्वं देशं विधित्सुर्नीरुजं धनम् ॥९२॥ अथ दध्यौ धनश्रीर्न विपन्नोऽयं रिपुर्मम । तत्क्षिपामि महाम्भोधौ कायचिन्तास्थितं स्यात् ॥९३॥ ध्यात्वेति तत्तथा कृत्वा चक्रे हाहारवं ततः । किमिदं स्वामिनि प्रोचे नन्दकः सा निजां तनुम् ॥९४॥
अधिकं ताडयन्ती हा नाथ ! नाथ! वदन्त्यलम् । पोतान्तर्न्यपतच्चित्तजाताशङ्कोऽथ नन्दकः ॥ ९५ ॥
शय्यां वीक्ष्य तमप्रेक्ष्य पुनरूचे सगद्गदम् ।
किमिदं स्वामिन प्राह सोऽम्भोधौ न्यपतद्धनः || ९६ || विशेषकम्
साश्रुः श्रुत्वेदमम्भोधौ नन्दको निपतन्ननु ।
धृतः परिजनेनाऽलं तं सर्वत्राऽगवेषयत् ॥९७॥
तमप्राप्य सदुःखः सन् प्रवृत्तो देशसंमुखः । धनः फलकमेकं तु जीवितव्यमिवाऽसदत् ॥९८॥
नीरधि सप्तरात्रेणोत्तीर्य तीरमुपागतः ।
शरीरे क्षारपानीयसेवया विगताऽऽमयः ॥ ९९ ॥
पुनर्जातमिवात्मानं ध्यायंस्तिमिरशाखिनः । पार्श्वे निविष्टो दध्यौ स स्त्रीवर्गे कैतवं कियत् ॥१००॥
१११
११२
समरादित्यसंक्षेपः
अहो तस्या नृशंसत्वमहो वैरं ममोपरि ।
को हेतुर्निर्विवेके वा स्त्रीजने किं स चिन्त्यते ॥ १०१ ॥
स्त्री ह्यलीकच्छलापायदोषसाहसमन्दिरम् ।
अर्गला कुशलद्वारे सोपानं नरकाऽध्वनि ॥ १०२ ॥
तदस्तु वस्तुनश्चिन्ताऽतीतस्य हि न युज्यते ।
अध्यात्वेत्युत्थाय भूभागं गतः स्तोकमशोकहत् ॥१०३॥ कलापकम्
दृष्टा च तेन श्रावस्तीनृपपुत्र्याः परैधिता । पोतभङ्गे मृता तीरे क्षिप्ता नीरधिवीचिभिः ॥ १०४ ॥
तदुपान्ते च तद्वत्रबद्धा रत्नावली शुभा । नाम्ना त्रैलोक्यसारेति व्यलोक्यत महाद्युतिः ॥ १०५ ॥
तां गृहीत्वा स्वदेशाऽभिमुखं तेन यियासता । दृष्टः स द्यूतकृत्तत्र वसन्नात्तमहाव्रतः ॥ १०६ ॥ धनेन प्रत्यभिज्ञातः स प्राह त्वं कुतो धन ! | कथं चेदृगवस्था ते सोऽवोचत्पोतभङ्गतः ॥ १०७॥
ऋषिराह यथा क्षीणः शशी पूर्णः पुनर्भवेत् । तथा त्वमपि मन्येऽहं पुनर्लक्ष्मीमवाप्स्यसि ॥ १०८ ॥ उपकारकरी चैषा विपन्निकषलाभतः । सदसद्रक्तविरक्तसत्त्वनिः सत्त्वताजुषाम् ॥ १०९ ॥ विनाऽग्नि गन्धमाहात्म्यं न हि कृष्णागुरोर्यथा । सात्त्विकस्य तथा पुंसो दुस्तरामापदं विना ॥ ११० ॥
अधुना त्यक्तसङ्गेऽहं किं तवोपकरोमि तत् । तथाऽप्यधीतसिद्धं मे मन्त्रमादत्स्व गारुडम् ॥ १११ ॥ असंस्तुतमिमं जानन्मन्त्रं जग्राह नो धनः । तेनाऽथ ज्ञापयित्वा स्वं कैतवं ग्राहितो बलात् ॥ ११२ ॥