________________
चतुर्थो भवः
१०९
धनो दध्यौ विवेकेन ध्रुवमेष महामनाः । यदात्मदुःकृतं वेत्ति सानुतापश्च चेतसि ॥६५।। पृष्टे धनेन किं कुर्वे तवेत्यस्मिन्नवाङ्मुखे । प्रेषितो नन्दकः पृच्छ कितवान्कि धरत्ययम् ॥६६|| तैरुक्तान्षोडश स्वर्णान्दापयामासिवान्धनः । अथ संस्नप्य तं क्षौमयुगलं पर्यधापयत् ॥६७।। ऊचे भुक्तोत्तरं किं ते द्यूतेन धनमर्पये । व्यवसायं कुरु द्यूतं लोकद्वयविरोधि यत् ॥६८।। सोऽथ दध्यावधन्योऽहं यतो वात्सल्यतो वदन् । अयं हि रुद्रदेवस्य पितुस्तुल्योऽहमीदृशः ॥६९।। न तथा लाघवं लोके नरस्याऽनुपकुर्वतः । क्रियमाणोपकारस्य यथाऽन्येन कृपावता ॥७०।। ततः पौरुषमालम्ब्य कुर्वे पितृकुलोचितम् । कथञ्चिदात्मनः प्राच्यं वाच्यमुत्तरयामि च ॥७१।। युग्मम् ध्यात्वेत्युवाच धन्योऽस्मि यत्तवाऽजनि दर्शनम् । द्यूतकृत्त्वं मया त्यक्तमाहृतं पुरुषव्रतम् ॥७२॥ हीणोऽस्मि स्वचरित्रेणाऽपवित्रेणाऽमुनाऽधुना । किं बहुक्तैः करिष्यामि सफलं ते परिश्रमम् ॥७३|| वदन्निति तदावासान्नगर्याश्च विनिर्ययौ । ध्यायंश्च निश्चिकायैकं धर्म लोकद्वये हितम् ॥७४।। अथ योगीश्वराभिख्यमहाव्रतभृतोऽन्तिके । दीक्षां जनकमित्रस्य जगृहे धर्मसाग्रहः ॥७५।। इतश्च कथिताऽऽकूतं धनश्रीनन्दको धनम् । ऊचतुः कुरुतामार्यो रुचितं निजचेतसः ॥७६।।
समरादित्यसंक्षेपः भाण्डे च वहने चापि सज्जिते परतीरगे । धनश्रीनन्दकं प्राह किं वार्धितरणेन नौ ॥७७|| व्यापाद्याऽमुं धनं लात्वा गच्छावोऽन्यत्र सोऽवदत् । स्वाम्येष न खलु द्रोह: स्वप्नेऽप्यस्य विचिन्त्यते ॥७८|| इत्युक्त्वा सा स्वयं नागदत्ताप्रवाजिकाऽन्तिकात् । आतङ्ककारकं तस्य योगमात्मकरेऽकरोत् ॥७९॥ धनस्तु मुदितो दीनादीनां दत्त्वा धनं मुदा । पूजयित्वाऽम्बुधि पोतमारोहत्सपरिच्छदः ॥८०|| ततः पवनवेगेन पोते गच्छति वारिधौ । दत्तः प्राग्वर्णितो योगो धनस्याऽथ धनश्रिया ॥८१|| सोऽभूत्तस्यानुभावेन शुष्कबाहुमहोदरः । उच्छूनवदनस्त्यक्तः क्षुधा संबाधितस्तृषा ॥८२॥ दध्यौ धनो विषण्णः सन्कि पतामि महोदधौ । एवं कृते हि दुखं स्यादनयो त्यभार्ययोः ।।८।। जनन्या शिक्षितश्चाऽस्मि यद्भाव्यमविषादिना । प्रत्यासन्नं च तत्कूलं यस्मिञ्जिगमिषा मम ॥८४|| पुनश्च किञ्चिन्निश्चित्य धनो नन्दकमूचिवान् । कर्मणः परिणामेन ममाऽवस्थेयमीदृशी ॥८५।। निकटं च तटं स्वामी स्वस्य तत्त्वं भवाऽधुना । मय्युत्तीर्णेऽम्बुधि कुर्या यथोचितमुपक्रमम् ॥८६॥ अपैति यदि रोगो मे तत: सुन्दरमन्यथा । तातस्य सुकृतं भ्रातृस्नेहं च मयि विभ्रता ॥८७|| असौ पित्रन्तिकं प्राप्या धनश्रीभर्तृवत्सला । प्रिये पापं विना सोऽयं द्रष्टव्योऽहमिव त्वया ॥८८।। कलापकम्