________________
चतुर्थो भवः
पनसाद्यैः कृतप्राणवृत्तिस्तत्र दिनं स्थितः । तमापृच्छ्य प्रवृत्तश्च विषयाऽभिमुखो धनः ॥११३॥
त्रातरत्नावलिर्यत्नान्नारङ्गादिकृताशनः । भवितव्यतयाऽऽकृष्टः श्रावस्ती नगरीमगात् ॥ ११४॥
विचारधवलाख्यस्य राज्ञस्तत्र मलिम्लुचैः । मुष्टः कोशस्ततो धृत्वा गृह्यन्ते पथिकादयः ॥ ११५ ॥ ।
पौरा अपि भुजङ्गाभा नीयन्ते मन्त्रिणः पुरः परीक्ष्य च विमुच्यन्ते तदाकर्ण्यान्यतोऽव्रजन् ॥ ११६॥ धनः प्राप्तो भटैरुक्तः कुतस्त्वं क्व च यास्यसि । तेनोक्तं वारिधेस्तीरात्सुशर्मनगरं गमी ॥ ११७ ॥ विशेषकम्
अनिच्छन्नपि तैनत्वा मन्त्रिणो दर्शितश्च सः । तेन पृष्ठस्तदेवाह सत्यानां नाऽन्यथा हि गीः ॥ ११८ ॥ मन्त्र्यूचे किमपि द्रव्यं पाथेयं वाऽस्ति सोऽवदत् । अज्ञानलो भयोर्दोषान्न किञ्चिदपि तादृशम् ॥ ११९ ॥
मन्त्र्यूचे स्फुटमाख्याहि स्फुटमेतद्धनोऽवदत् । तर्हि गच्छेति गच्छंश्च मन्दुराकपिनाऽपि सः ॥ १२० ॥ वस्त्रे च पाटितेऽनेनाऽपतद् रत्नावली भुवि । तं विमोच्य कपेर्मन्त्री स्वयं रत्नावलीं ललौ ॥ १२१ ॥ प्रत्यभिज्ञाय दध्यौ च राजपुत्र्याः शिवं न हि । अन्यथा कथमस्येयं करगोचरमागमत् ॥ १२२॥ ध्यात्वेत्युक्तः कुतस्तेऽसौ स प्राह प्राप्यसौ मया । द्वीपे काहे तस्माच्चाऽऽयातः पोते व्यभिद्यत ॥ १२३ ॥
जातोऽस्मि तदियन्मात्रवित्तस्वाम्यथ मन्त्रिणा । पृष्टः कालं जगादाऽब्दं सचिवोऽथ व्यचिन्तयत् ॥ १२४॥
११३
११४
समरादित्यसंक्षेपः
वक्ति वर्षमयं मासद्वयं तु समभूदितः । गताया राजपुत्र्यास्तदिदं न हि समञ्जसम् ॥ १२५ ॥ ध्यात्वेति राज्ञे मन्त्र्याख्यत्कोशाध्यक्षाय दर्शिता । रत्नावली महीशेन प्रत्यभ्यज्ञायि तेन सा ॥ १२६ ॥
धनः पृष्टस्तथैवाह ज्ञप्तो वध्योऽथ भूभुजा । मषीविलिप्तसर्वाङ्गो ध्वनद्विरसडिण्डिमः ॥१२७॥ आगो ज्ञापयितुं रत्नावल्या पटलकस्थया ।
भटैः प्रवर्तितो वध्यभूमिकां प्रति बस्तवत् ॥ १२८॥ युग्मम् हट्टमार्गेऽथ तां रत्नावलीं शोणमणीमयीम् ।
श्येनो मांसमिति ज्ञात्वा हत्वा नीडे निजेऽनयत् ॥ १२९ ॥ धनोऽथ कुपितैर्नीतः श्मशानं राजपुरुषैः । समर्पितोऽन्त्यजस्यैष वधकस्य वधाय च ॥ १३०॥ दध्यौ निषादो नाकृत्यानयायं कृत्यकृत्यकृत् । किं तया चिन्तया मे स्यादादेश्यस्य प्रशस्यया ॥ १३१ ॥ ध्यात्वेति यमदण्ड्यां तं निवेश्य प्राह बुक्कसः । सुदृष्टं जीवलोकं त्वं विधेह्यन्तो हि तेऽधुना ॥१३२॥ किं च नः सुहृदः श्राद्धास्तत्सङ्गाच्चौरदृष्टयः । न वयं किं तु राजाज्ञा कार्येति तद्विधीयते ॥१३३॥ नृपो व्यज्ञपि चास्माभिर्धार्यो वध्यो मुहूर्तकम् । शुभभावो म्रियेतैष यथाऽमंस्त नृपश्च तत् ॥१३४॥ तदादिशाऽऽर्य किं कुर्वे तवाऽथाऽचिन्तयद्धनः । उपकार्यनुकम्पावान्दीनसत्त्वेषु वत्सलः ॥१३५॥ अयं न कर्मचण्डालो जातिचण्डाल एव हि । सतस्तदस्याप्रस्तावदर्शने किं करोम्यहम् ॥ १३६ ॥