SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ षष्ठो भवः २३७ २३८ हष्टष्टोपः परः क्षुब्ध आहूताः स्वर्णकारकाः । सम्पुटस्फोटने दृष्टा स्फुटा च धरणाभिधा ॥२८१|| कुद्धः सुवदनायाऽथ लक्ष्म्यै च नृपतिर्जगौ । हतैनं वणिज स्तेनं निर्वासयत चाऽसतीम् ॥२८२।। इमामलक्ष्मी मे राज्याधरणस्य च काञ्चनम् । सर्वमर्पयतान्यच्च किं कुर्वे तव सार्थप ॥२८३।। युग्मम् स प्राह वसुनाऽलं मे प्रसादं कुरुतां पुनः । देवः सुवदनस्याऽस्य जीवितव्यप्रदानतः ॥२८४॥ अहो महानुभावत्वमस्य ध्यात्वाऽऽह भूपतिः । न युक्तं सार्थवाहेदं परं वेद पुनर्भवान् ॥२८५।। धरणोऽथावददेव प्रसादोऽयं महान् मयि । राज्ञोक्तस्त्वं गृहाण स्वमादेश इति सोऽवदत् ॥२८६॥ राजपञ्चकुलेनैष समं सुवदनेन च । गतः स्वर्णेऽपिते प्राह धरणः पोतनायकम् ॥२८७|| परित्यज विषादं त्वमालम्बस्व स्वपौरुषम् । कस्य वा स्खलितं नैति पुरुषस्येह दैवतः ॥२८८।। अन्यच्च भवतः स्वर्णलक्षो मे भणितस्तदा । त्वया बहूकृतोऽहं तु तत्तेऽनर्ध्यमिदं वचः ॥२८९।। तद् गृहाणेप्सितं स्वर्णमित्युक्त्वाऽस्मै त्रपावते । अष्टौ सुवर्णलक्षाणि धरणो दत्तवान्मुदा ॥२९०।। नृपति पूजयित्वाऽथ भाण्डं सुस्थं विधाय च । गतो गृहमथ स्नात्वा बुभुजे श्रेष्ठिना सह ॥२९१।। समरादित्यसंक्षेपः भुक्तोत्तरं पतित्वांऽयोर्धरण: श्रेष्ठिनं जगौ । याचे किमपि ताताऽहं तातो मां यदि मन्यते ॥२९२।। श्रेष्ठी प्रोवाच वत्स ! त्वं यदि दासीकरोषि माम् । सकुटुम्बं तथाप्युच्चेर्याञ्चां ते न भनज्म्यहम् ॥२९३|| धरणः प्राह यद्येवं देहि वाचां त्रयं निजम् । स प्रोवाचैकगीर्लोपी त्रिगीर्लोपे न कि क्षमः ॥२९४|| उक्त्वेति श्रेष्ठिना वाचां त्रितये विहिते सति । सोऽथ प्रागपितं रत्नसहस्रं तदयाचत ॥२९५।। कृत्वा पूजां तदर्धेन धरणः श्रेष्ठिनः पदोः । उवाच प्रार्थना सेयं मदीया तात मन्यताम् ।।२९६।। अनेन च्छलितोऽस्मीति श्रेष्ठी ध्यायन्नमन्यत । सम्मान्य च सुसार्थेन प्रेषयन्नगरी निजाम् ॥२९७|| बहिरावासितो राज्ञा विज्ञातोऽभ्युद्गतश्च सः । प्रवेशितो महद्धर्या च नीतो निजनिकेतने ॥२९८।। स्नपितो भोजितः स्वाङ्गभूषणैश्च विभूषितः । प्रेषितः पितरौ नन्तुं ताभ्यामाशीभिरेधितः ॥२९९।। वितीर्णं च महादानं सर्वचैत्याऽर्चनं कृतम् । निमन्त्र्याथ महाराजो धरणेन प्रपूजितः ॥३००।। सर्वे सम्मानिताः पौरा मन्त्रिणश्च यथोचितम् । सर्वैरामन्त्र्य गेहेषु तैरपि प्रतिपूजितः ॥३०१॥ पितृभ्यामन्यदा पृष्टः क्व वत्स ! गृहिणी तव । अलं तत्कथयेत्युक्त्वा धरणस्ताववारयत् ॥३०२॥ राजाऽथ कतिचिद् द्रङ्गशासनाऽर्पणहेतवे । धरणस्य गृहेऽभ्येतः स्वयं तेन न पूजितः ॥३०३।। १. राज्ञोक्तः स्वं क ख ग घ, राज्ञाक्तत्युं च । २. लक्षा मे भणिता तदा क ।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy