________________
२१४
षष्ठो भवः
इतश्च भरतेऽत्रैव माकन्दी नामतः पुरी । माकन्दी भूविशेषेण यत्र सर्वो वनव्रजः ॥१॥ समदप्रमदालीलागतिक्वणितनूपुरैः । यत्र हंसा विडम्ब्यन्ते क्रीडावापीगता अपि ॥२॥ कालमेघो नृपस्तत्र कालमेघ इवापरः । शस्यवृद्धिविधाताऽपि जलपङ्काश्रयो न यः ॥३॥ यदसेर्जलदश्यामात् प्रतापाग्निः समुत्थितः । ततः स्पृष्टमदीपिष्ट शत्रुस्त्रीनेत्रवारिभिः ॥४॥ तत्र धर्मार्जने लुब्धः परलोके च भीरुकः । बन्धुदत्तोचितः श्रेष्ठी बन्धुदत्तोऽस्ति विश्रुतः ॥५॥ तेन प्रावृडिवाऽब्देन चन्द्रेणेव शरन् निशा । चूतेनेव वसन्तश्रीनगरी सा व्यभूष्यत ॥६॥ तस्य हारप्रभा नाम्ना प्रिया हाखभाऽस्ति च । दधानाऽन्तर्गुणं दोषवजिता विशदाशया |७|| तस्य चाऽभग्नधर्मार्थप्रसरं सममेतया । इन्द्रियार्थभवं सौख्यं भजतो यान्ति वासराः ॥८॥
समरादित्यसंक्षेपः अथ हारप्रभाकुक्षौ जयजीवो दिवश्च्युतः । अवतीर्णो महालक्ष्मीस्वप्नसूचितवैभवः ॥९॥ दयिताय तयाऽऽचख्ये स्वप्नस्तेन व्यचार्यत । असमश्रीनिवासस्ते प्रिये पुत्रो भविष्यति ॥१०॥ कियत्यपि गते काले समये प्रसवस्य सा । सुषुवे दारकं पुण्यधारकं सुखकारकम् ॥११॥ वर्धापिकां च संतोष्य कृत्वा वर्धापनादिकम् । चक्रे धरण इत्यस्य नाम पैतामहं पिता ॥१२॥ समये च कलाचार्यस्याऽपितः सकला: कलाः । पदानुसारिप्रज्ञोऽसौ जग्राह लसदाग्रहः ॥१३।। इतश्च नरकोवृत्तः सोऽयं विजयनारकः । भवं भ्रान्त्वा चिरं चक्रे किञ्चिन् मर्त्यभवोचितम् ॥१४|| ततस्तत्रैव माकन्द्यां कार्तिकश्रेष्ठिमन्दिरे । जयाऽभिधानजायायां सुतात्वेनोदपद्यत ॥१५॥ लक्ष्मीरिति कृताऽभिख्या यौवनं प्राप सा कमात् । भवितव्यवशात्तेन व्यूढा च धरणेन सा ॥१६॥ अमुष्यां धरणस्याऽस्ति प्रीतिप्रीतिरत्र तु । तस्या ध्यायति सा चैवं वैरी मे संगतः कुतः ॥१७॥ लक्ष्मीर्लक्ष्मीयते तस्य धरणस्य मनस्यलम् । उद्वेगकारी तस्याऽस्तु धरणो धरणायते ॥१८॥ ततो विडम्बनाप्रायं तयोर्वैषयिकं सुखम् । भुञ्जानयोयंतीयाय समयस्तु कियानपि ॥१९॥ यथाकालमथाऽमुष्यां पुरि शृङ्गारजीवितम् । प्रावर्तत वसन्तर्तुर्नर्तयन् कामिनां मनः ॥२०॥
१. भूतेनेव
क
ख
ग
घ
ङ ।