________________
३२१
३२२
अष्टमो भवः ज्ञात्वा कुतोऽपि वृत्तान्तं तं मैत्रीबलभूपतिः । प्रैषीच्छङ्खायनसुतां याचितुं वरकान् निजान् ॥१४६।। इतो रत्नवती गाढोद्विग्नाङ्गीकृतशून्यता । स्मरज्वरभराऽऽकान्ता सख्याख्यातशिरोव्यथा ॥१४७॥ शयनीयगता मुक्तमाना पाण्डुकपोलभृत् । सास्त्रदृष्टिरलब्धाशा यावदस्ति क्षणाऽन्तरम् ॥१४८॥ युग्मम् तावदुत्फुल्लनेत्रत्य प्रोचे मदनमञ्जुका । स्वामिनि ! त्वं चिरं जीव पूर्णास्तव मनोरथाः ॥१४९।। यन्मया तर्कितं तच्च तथैव समजायत । स हि चित्रप्रतिच्छन्दो वरस्तव वरोऽजनि ॥१५०॥ सांप्रतं हि किमेतेन रतप्रत्यूहकारिणा । इतीव तस्यै संतुष्टा कटिसूत्रमदात्तदा ॥१५१॥ अपृच्छच्च कथं सोचे गता देव्यन्तिकेऽस्म्यहम् । दृष्टा देवी च हृष्टाऽऽस्या सचित्रमतिभूषणा ॥१५२।। ऊचे च मत्सुतां ब्रूहि पूर्णास्तव मनोरथाः । कुमारगुणचन्द्राया दत्ता त्वमसि याचिता ॥१५३|| यस्त्वयाऽऽराधिताश्चित्रे स एव विधिना वरः । परितुष्टेन ते दत्तोऽकृतदारपरिग्रहः ॥१५४॥ हृष्टाऽथ रत्नवत्यस्यै ददौ सर्वाङ्गभूषणम् । ध्यात्वेतीव स सर्वाङ्गे भविता मम भूषणम् ॥१५५|| ऊचे च सत्यसंज्ञोऽयं गुणचन्द्रो यतोऽमुतः । मम व्यपगतस्तापो गृहिणीशब्दमात्रतः ॥१५६।।
समरादित्यसंक्षेपः सख्यूचे भणितं देव्या वन्दस्व गुरुदेवताः । मज्जित्वाऽथ विभूत्या सा गुरुदेवानवन्दत ॥१५७|| शङ्खायननृपेणाऽथ कृत्वा वर्धापनं वरम् । प्रैषि रत्नवती साम्बा महाभूत्या स्वयंवरा ॥१५८|| मासमात्रेण कालेन सैता ज्ञाततदागमः । तुष्टो मैत्रीबलो बन्धमोक्षादिकमकारयत् ॥१५९।। प्रतिपत्तिः कृता योग्या मुहूर्तश्च निरीक्षितः । विवाहस्याऽनुरूपं च समग्रमपि कारितम् ॥१६०॥ हट्टशोभा समारब्धा द्रव्यं दीनेषु दापितम् । कोशपत्रं समाकृष्याऽऽभरणादि निरूपितम् ॥१६॥ हास्तिकाश्वीयरथ्याढ्योऽभवद्धवलमङ्गलः । कुमारोऽथ समारोहदुपवाह्यं महागजम् ॥१६२।। पृष्ठे विशालबुद्ध्याद्या वयस्यास्तस्य तस्थिरे । रथाश्वादिसमारूढो राजलोकोऽखिलोऽपि च ॥१६३॥ नन्दन्मङ्गलतूर्योऽथ नृत्यद्दारवधूजनः । नन्द्यमानश्च पौरीभिरागाद्विवाहमण्डपम् ॥१६४|| प्रयुज्य च विधि सर्व प्रेषितोऽथ वधूगृहम् । अपश्यच्चित्रतो रम्यां रतेरपि मनोहराम् ॥१६५।। ईषल्लम्बाधरां चक्रयुग्मतुल्यपयोधराम् । त्रिवलीकलितां मध्ये पल्लवाऽऽभकरदयाम् ॥१६६।। नितम्बबिम्बपृथुला स्थलाम्भोजनिभकमाम् । सर्वाङ्गसुन्दरां रत्नवतीं नृपतिनन्दनः ॥१६७|| विशेषकम्
१. स एवांगे क ।
१. this verse is wanting in
ख
ग घ ।