________________
३२३
३२४
अष्टमो भवः हृष्टः पाणिग्रहं तस्याः सिद्धदेशगिराऽकरोत् । भ्रान्तानि मङ्गलान्युच्चैराचारश्चाखिलः कृतः ॥१६८।। तामादाय समायातः कुमार: सदनं निजम् । सर्व समुचितं चक्रेऽथाऽपठत्कालपाठकः ॥१६९।। समाप्य जगदुद्द्योतकृत्यं भ्रान्त्वाऽखिलं दिनम् । जगाम मज्जितुमिव तरणिवरुणालयम् ॥१७०।। प्रदोषदुर्जने मित्रप्रध्वंसेन प्रसृत्वरे । मिथुनानि रथाङ्गानां भियेव व्यघटन्मिथः ॥१७१॥ नभ:श्रियान्तिकस्थेन्दुप्रियसङ्गमया किल । दिन श्रीमानभङ्गाय ताराभरणामाददे ॥१७२।। प्राचीवधूमुखं तोषेणेव श्यामामुखाद्भुवा । इन्दुः समुदगाज्ज्योत्स्नानिवहेन प्रकाशयन् ॥१७३।। विजृम्भितसुरागन्धं प्रकाशर्भमणिव्रजम् । चन्द्रोज्ज्वलं जगज्जज्ञे क्षीरोदमथने यथा ॥१७४।। तदा समागतो हृष्टः कुमारो वासवेश्मनि । यत्र रत्नवती देवतेवाऽस्ति सपरिच्छदा ॥१७५।। निर्गतेऽथ सखीवर्गे स्नेहतः कूरसूपवत् ।। मिलितं तत्तथा युग्मं यथा भेदो न लक्ष्यते ॥१७६।। क्षणदा क्षणदा जज्ञे तयोः प्रथमसङ्गमे । चित्रं तु क्षीयमाणाऽपि क्षणदात्वं मुमोच न ॥१७७।। प्रदत्तचित्तनिर्वेदः स्त्रीणां प्रियवियोगतः । निनदः कृकवाकूणां प्रासरद्वन्दिनामपि ॥१७८।।
समरादित्यसंक्षेपः निशानाथो निशावध्वा वियोगेन भविष्यता । आकुलः कलयामास किल निष्कलतां तदा ॥१७९।। ध्वान्तारातिरथ ध्वान्ते प्रतिघादिव पाटलः । उदयाचलचूलायामारुरोह महोद्यमः ॥१८०|| रथाङ्गमिथुनान्यासन् संयोगे सुस्थितान्यथ । मित्रस्याभ्युदयः कस्य न स्यादथ सुखप्रदः ॥१८१॥ कुमारगुणचन्द्रोऽथ कृतप्राभातिकक्षणः । गत्वोद्याने चिरं रत्वा सप्रियः पुनराययौ ॥१८२।। इति प्रतिदिनं रत्नवत्या सह मनोहरम् । तस्याऽनुभवतः सौख्यं कालः कोऽपि व्यतीयिवान् ॥१८३।। उद्वृत्तोऽथान्यदा तस्य नृपतेविग्रहो नृपः । विक्षेपः प्रेषितस्तेनाऽविक्षेपेण विनिजितः ॥१८४|| सैनिकैापितश्चैत्याचल-मैत्रीबलः स्वयम् । कुमारेणाथ विज्ञप्तः कीदृग् द्वेधाऽपि विग्रहः ॥१८५।। संरम्भेणाऽलमेतेन तातादिश ततोऽत्र माम् । लभतां तातकोपाग्नावयं शलभतां द्रुतम् ॥१८६|| प्रेषितोऽथ नृपेणैष मुक्त्वा रत्नवतीमगात् । यथासन्नेन सैन्येन सहितो रहितो भिया ।।१८७।। विग्रहो विग्रहे मत्वा कुमारं स्वयमागतम् । तस्थौ दुर्गमधिष्ठाय बिलं कुलिशदन्तवत् ॥१८८।। माययेव महायन्त्रं त्रिस्तं संवेष्ट्य सेनया । चित्रं हीनबलं चके कुमारो नवमान्त्रिकः ॥१८९||
१. क्षणवज्जज्ञे ख ।
१. ततोथमां ख ।