________________
द्वितीयो भवः आजगाम ममाऽभ्यणे वायुवाजेन वाजिना । मामपश्यच्च निक्षेप्तुं कण्ठे पाशं समुद्यतम् ॥२१७।। उदस्तहस्तो मां राजा मा साहसमिति ब्रुवन् । आगत्य पाशकं छित्त्वाऽऽरोहयामास वाहने ॥२१८॥ ऊचे सबहुमानं च तव सार्थेशनन्दन ! । युक्तं मयाऽपि पृष्टस्य सद्भावस्याऽनिवेदनम् ॥२१९॥ ममाग्रे हि प्रविश्याऽम्बां देव्या सर्व निवेदितम् । निर्दोषश्चक्रदेवोऽयं यज्ञदेवस्तु दोषवान् ॥२२०।। तत्क्षन्तव्यं त्वयाऽज्ञातपरमार्थेन यन्मया । निदेशितोऽसि देशस्य त्यागे साधुधुरन्धरः ॥२२१।। मयोक्तं नास्ति देवस्य दोषो न्यायगवेषणे । मूलशुद्धिस्तु देवेन विप्रस्याऽपि विधीयताम् ॥२२२॥ राज्ञोचे तस्य देव्यैव मूलशुद्धिनिवेदिता । कृत्वा तेन स्वयं स्तेयं त्वयि दोषोऽधिरोपितः ॥२२३॥ आनीतोऽत्राऽन्तरे बद्धः स विप्रो नृपतेभटैः । नृपस्तदादिशज्जिह्वाछेदलोचनकर्षणे ॥२२४॥ विषण्णे यज्ञदेवेऽथ पतित्वा पदयोर्मया । नृपो व्यज्ञपि देवेन मन्तुर्मे क्षम्यतामयम् ॥२२५।। नृपेणोक्तं न युक्तोऽयं मोक्तुमन्यत्त्वमर्थय । मया प्रोचे न याचेऽन्यदयमेव विमुच्यताम् ।।२२६।। ततो मदीयनिर्बन्धाद्यज्ञदेवं नृपोऽमुचत् । संमान्य मां महद्ध्या च प्राहिणोन्निजवेश्मनि ॥२२७।।
समरादित्यसंक्षेपः जनप्रवादमाकर्ण्य यज्ञदेवस्य दुःसहम् । अतीव भवनिर्वेदो बभूव मम चेतसि ॥२२८।। अत्राऽन्तरे पुरोद्याने क्षमाकान्तः समागमत् । दुष्कर्मकक्षदावाग्निरग्निभूतिर्गणेशिता ॥२२९।। बहिर्गतश्च तं वीक्ष्य नेत्वा च समुपाविशम् । तस्माद्धर्ममपृच्छं च सर्वदुःखक्षयावहम् ॥२३०।। क्षान्त्याद्ये दशधा धर्मे प्रथिते कथिते सति । संजाततत्परीणामस्तत्पार्श्वे व्रतमात्तवान् ॥२३१।। प्रपाल्य विधिना तच्च काले त्यक्त्वा शरीरकम् । ब्रह्मलोके सुरोऽभूवं नवसागरजीवितः ।।२३२।। विप्रोऽपि शर्करापृथ्व्यां द्विर्गत्वा श्वभवान्तरः । त्रित्रिवाOयुरत्राऽगादथ तिर्यक्षु नैकशः ॥२३३।। च्युत्वाऽहं तु विदेहेऽस्मिन्पुरे रत्नपुराभिधे । विजये गन्धिलावत्यामिलातलविभूषणे ॥२३४|| रत्नसाराभिधाख्यातसार्थवाहस्य नन्दनः । अभूवं श्रीमतीकुक्षौ चन्द्रसारोऽभिधानतः ॥२३५।। युग्मम् यज्ञदेवोऽपि हि भ्रान्त्वा गृहदास्यामजायत । दारको नर्मदाऽऽख्यायां विहितनहकाभिधः ॥२३६।। मय्येष प्राग्भवाभ्यासाद्वञ्चनापरिणामवान् । इभ्यकन्यां त्वहं चन्द्रकान्ताख्यां परिणीतवान् ॥२३७।। तत्राऽन्यदा समायाते सूरौ विजयवर्धने । गृहीतस्तत्पदोर्मूले श्राद्धधर्मो मयाऽनघः ॥२३८॥
१. सत्यं निवेदितं क ।
१. नत्वा तं ख । २. आप्तवान् क ।