________________
द्वितीयो भवः
अन्यदा तत्पुरं दीर्घदण्डयात्रागते नृपे ।
गतेष्वस्मासु च ग्रामे नामतो विन्ध्यकेतुना ||२३९ ||
पल्लीशेन समागत्य हतविप्रहतं कृतम् ।
कियानपि धृतो बन्दे जनोऽस्माभिश्च तच्छ्रुतम् ॥ २४०॥ युग्मम् आगतैस्तत्पुरं दृष्टं श्मशानागारसोदरम् । मानुषैः शोधितैर्ज्ञातं भिल्लैर्भार्या हृता मम ॥२४१ ||
अथाऽरतिमताऽध्यायि मया सेयं वराकिका | मद्वियोगे कथङ्कारं प्राणानपि धरिष्यति ॥ २४२॥
तदाऽहं देवशर्माख्यवृद्धविप्रेण भाषितः । सार्थवाहसुत ! स्वान्ते त्वं खेदं मा विधा मुधा ॥२४३॥ देशेऽत्रैव पुरा भिल्लैः श्रीस्थलग्रामतो हृतः । जनोऽखण्डितचारित्रो मुक्तश्चार्थेन भूयसा ||२४४ ॥ ततोऽहमिदमाकर्ण्य गतैः कतिपयैर्दिनैः । गते स्वपल्ली पल्लीशेऽनहकेनानुजीविना ॥ २४५॥ सार्धं शम्बलमादाय सारद्रव्यं च पुष्कलम् । चन्द्रकान्ताविमोक्षाय चलितोऽस्मि तदुत्सुकः ॥ २४६ ॥ युग्मम् द्रव्यं च शम्बलं चापि क्रमेण वहतोरभूत् । वञ्चनायाः परीणामोऽनहकस्य ममोपरि || २४७।। अन्यदा तस्य हस्तेऽस्ति द्रव्यं मम तु शम्बलम् । सन्ध्याकालश्च कूपश्चासन्न एकोऽस्ति वर्त्मनः ॥ २४८॥
तत्र स्थितोऽहं तेनैत्य कूपान्तः प्रेर्य पातितः । लग्नेन प्रतिकूपैकदेशे स्पृष्टं च मानुषम् ॥ २४९ ॥ नमोऽर्हद्भ्य इति प्रोक्ते तेन शब्दोपलक्षणात् । मत्कान्ता चन्द्रकान्तासावित्यज्ञायि मया मुदा || २५०||
५३
५४
समरादित्यसंक्षेपः
उक्ता च न भयं जैनशासनस्थे जने भवेत् । मच्छब्दं प्रत्यभिज्ञाय प्रवृत्ता रोदितुं च सा ॥२५१ ॥
आश्वासिता मया पृष्टा वृत्तान्तमिति साऽवदत् । शीलभङ्गभयादत्राऽऽर्यपुत्र ! पतितास्म्यहम् ॥२५२॥ तत्पृष्टेन स्ववृत्तान्ते ख्यातेऽनहकनिर्मिते । सावोचद्दुष्टु दासेरश्चके सुष्ठु मयोदितम् ॥२५३॥ उपकारी महात्माऽसौ येन त्वं मम योजिता । अल्पनिद्रतया रात्रिरतीता भानुरुद्गतः ॥ २५४ ॥ मयाथ दत्ते पाथेये सतीपथपथिक्यसौ । बहूनामुपवासानामपि पारणकेऽवदत् ॥ २५५॥ युष्माभिरगृहीतेऽहं कथं गृह्णाम्यतो मया । अकालेऽपि तदा भुक्तं कान्तया तदनन्तरम् ॥ २५६॥ कूपाद्भवादिवागाधादुत्तारोऽस्मात्कथं भवेत् । इति चिन्तयतोः क्षीणं पाथेयं कतिथैर्दिनेः ॥ २५७॥
नष्टायां जीविताशायामिति चिन्ता ममाऽजनि । प्राप्तेऽप्यर्हन्मते किं नु मरिष्याम्यकृतव्रतः ॥ २५८॥
इत्थं चिन्तयतश्चक्षुर्दक्षिणं स्फुरितं मम ।
तस्याश्च वामं साऽऽचख्यौ ममाहं च स्वचिन्तितम् ॥ २५९ ॥ प्रियेऽनेन निमित्तेन क्लेशोऽयं न चिरस्थिरः । इत्थं यावदहोरात्रमतीतमिदमावयोः ॥ २६० ॥ तावज्जिगमिषुः सार्थः पुरं रत्नपुरं प्रति । नन्दिवर्धनसंज्ञस्य सार्थेशस्य समागमत् ॥ २६१ ॥
१. सोवाच दुष्टु क ।