________________
सप्तमो भवः
२७५
२७६
स सात्त्विकावतंसस्तानपातयदिलातले । जग्राह मण्डलानांश्च किमसाध्यं हि दोष्मताम् ॥२०७।। उद्यानपालिका तच्च वीक्ष्य चुक्रोश पुष्कलम् । ततः कलकले जाते समेता अङ्गयामिकाः ॥२०८|| तान् हन्तुं तान् विकृष्टाऽसीन् कुमार इदमभ्यधात् । द्विधा तपस्विनो ह्येते विपन्नपुरुषव्रताः ॥२०९॥ सत्यशीलमृतास्तस्मात्कीदृशं मृतमारणम् । श्रुत्वेत्याऽऽगत्य भूपालो बन्धयामास घातकान् ॥२१०|| तानपृच्छच्च के यूयं कस्य किं घातकारणम् । द्वित्रिः पृष्टा अपि प्रोचुर्न विद्म इति ते यदा ॥२११।। तदा दूनाः कशाघातैः कातरत्वेन तेऽवदन् । विषेणस्य वयं तेन कारिताश्चेति साहसम् ॥२१२।। कुपितेऽत्र नृपे सेनः प्राह जीवितलोभतः । इमेऽधमा वदन्तीदं स किमेतद् व्यवस्यति ॥२१३।। गवेषणाद्विषेणस्य दुर्वृत्ते निश्चिते नृपः । राज्यान्निर्वासनं तस्यादिशद् घातं च घातिनाम् ॥२१४|| पतित्वाऽथ पदोः सेनोऽवदन्मा तात ! साहसम् ।। क्रियमाणेऽत्र मेऽवस्था भाविनी तात शोककृत् ॥२१५।। नराणामन्तरं कीदृगिति ध्यात्वा नृपोऽवदत् ।। यद्येवं वत्स ! जानासि तत्त्वं युक्तं तु न ह्यदः ॥२१६|| स प्रोच्याऽनुगृहीतोऽस्मि घातकांस्तानमोचयत् ।। व्रणं सुस्थं विधाप्याऽथ नृपोऽपि सदनं ययौ ॥२१७।। जनवादेन दुर्वृत्ते विषेणस्य प्रसृत्वरे । असद्वक्ति जनोऽस्येति दून: सेनो मनोऽन्तरे ॥२१८॥
समरादित्यसंक्षेपः अथ रूढवणे सेने स्नाते वर्धापनं नृपः । व्यधापयन्महाश्चर्यभूतं संतुष्टमानसः ॥२१९|| इतस्ततः प्रभृत्येवाऽपरिपूर्णमनोरथः । शोकग्रस्त इवाऽनैषीद्विषेणो विमना दिनान् ॥२२०|| वर्धापनेऽप्यनायाते तस्मिन्सेनोऽवदन्नृपम् । लगित्वा पादयोस्तस्य समाकारणहेतवे ॥२२१।। विषेणेन विषेणेव किं तेनेति नृपोदिते । सेनः प्रोवाच तातेदं मिथ्यावाक्यं परित्यज ॥२२२।। राज्ञोचे यदि निर्बन्धस्तत्त्वमेव समाह्वय । कुमारोऽथ स्वयं तस्याऽऽह्वानायागात्तदालये ॥२२३॥ नव्यवैधव्यनारीवत्तमधोवदनं शुचा । वीक्ष्य सेनश्चिरं दध्यावहो सत्यमिदं वचः ॥२२४|| दु:खं सद्गुणनाशे यदसद्दोषोद्भवे तथा । तच्छोषयति पाथोधि किं पुनर्मानिनां मनः ॥२२५।। उपसृत्याऽथ तं प्राह किमिदं बालचेष्टितम् । स प्रोचे पृच्छ मत्पापमथ सेनो जगाद तम् ॥२२६|| अलं पापेन धन्यो हि तातपुत्रतया भवान् । तदुत्तिष्ठ यथा ताताऽन्तिकं यावो युतौ मिथः ॥२२७|| अनिच्छन्तं बलात्सेनस्तं बालवदसज्जयत् । नीत्वा च नृपतेः पावें पादयोरप्यपातयत् ॥२२८।। वर्धापने व्यतीते च गतः कालः कियानपि । सेनस्य सुखिनोऽन्यस्य क्लिष्टचित्तत्वदुःखिनः ॥२२९।।
१. कुमारोयं ख ग घ च ।