________________
द्वितीयो भवः
अद्राक्षं तत्र तत्पूर्वप्रनष्टं कुण्डलद्वयम् । अचिन्तयं कथं लब्धमनया पुनरप्यदः || ३०७॥
तदा ससाध्वसायाता मुद्रारलं करे मम । निरीक्ष्य लज्जिता भावं ज्ञात्वाऽहं निर्गतो गृहात् ॥ ३०८ ॥
सा दध्यौ ज्ञातमेतेन द्विधाऽप्येष गतो मम । यावज्जनो न जानाति तावद्व्यापादयाम्यमुम् ||३०९|| ध्यात्वेति मद्बधायैषा विधायौषधमीलनम् । स्थापयन्त्येकदेशे तद्दष्टा दुष्टेन भोगिना ॥ ३१०|| सा हि दष्टा ममाऽऽख्याता रुद्रदेवपुरोधसा । त्वरितोऽहं समागत्य मान्त्रिकादीनुपानयम् ॥३११॥ कालदष्टेति तैरुक्ते मय्याकन्दपरायणे । विपन्ना सा मया तस्या विदधेऽथोर्ध्वदेहिकम् ॥३१२||
तन्निर्वेदादहं ध्यायन्संसाराऽऽसारतां हृदि । व्रतमादामियं षष्ठ्यां पृथ्व्यां त्वजनि कर्मतः ॥ ३१३|| मुक्ति पृष्टो नरेन्द्रेणाऽमरगुप्तो न्यवेदयत् । अनन्तैर्जन्मभिस्तस्याः स्वस्य तत्रैव जन्मनि ॥ ३१४||
श्रुत्वेत्यहं सपौरोऽपि तस्मादेवाभवं व्रती । अयं विशेषहेतुर्मे निर्वेदे नृपनन्दन ! ||३१५||
ऊचे सिंहकुमारेण युक्तं निर्वेदकारणम् । आख्याहि भगवन् ! किं नु भवः कतिगतिः स्मृतः ॥ ३१६ ||
कानि कानि च दुःखानि तत्र गात्रे मनस्यपि । कश्च मोक्षयितुं शक्तो धर्मः संसारचारकात् ॥३१७॥ धर्मघोषः प्रभुः प्राह शृणु वत्स ! समाहितः । श्वभ्रतिर्यग्नृदेवत्वैर्भव एष चतुर्गतिः ||३१८||
६०
समरादित्यसंक्षेपः
दुःखं जन्म जरा मृत्यू रागद्वेषवशात्मनाम् । किमेकं कथ्यते तथ्यं शृण्वत्राऽर्थे कथानकम् ॥३१९॥
तथाहि पुरुषः कोऽपि दुःखदारिद्र्यतापितः । निजं देशं परित्यज्याऽन्यदेशं गन्तुमुद्यतः ॥ ३२० ॥
स च मार्गपरिभ्रष्टः स्पष्टश्वापदसंकुलाम् । ज्वलद्दवानलज्वालाजालतापितलोचनाम् ॥३२१॥ वहगिरिनदीभीमां विषमां गिरिगह्णरैः । अटन् महाटवीं प्राप सभां प्रेतपतेरिव ॥ ३२२ ॥ युग्मम् तत्र वित्रस्तनेत्रेण दुष्टश्वापददर्शनात् ।
क्षुधातृषाभिभूतेन स्खलता च पदे पदे ॥३२३||
दृष्टः प्रलयकालोत्थाम्बुदवृन्दसहोदरः । ऊर्जितं गर्जितं कुर्वन्दुष्टस्तेन वनद्विपः || ३२४ ॥ युग्मम्
पृष्ठतस्तस्य चात्युग्रकरवालकरामसौ ।
ददर्श राक्षसीमेकां भीषणेभ्योऽपि भीषणाम् ॥ ३२५ ॥
तं च तां च निरीक्ष्यैष कम्पमानशरीरकः । वटमुच्छ्रितमालोक्य तत्रारोढुमपारयन् ॥३२६|| आगच्छन्तमिभं वीक्ष्य न्यग्रोधव्यधहेतवे । जीर्णकूपं तृणच्छन्नं कान्दिशीको व्यलोकत ॥३२७॥ अशरण्यमरण्यस्थमुच्चं मुक्त्वा महावटम् । अशिश्रियदयं निम्नममुमूर्षुर्महावटम् ॥३२८॥ पतंस्तद्धित्तिसंभूतशरस्तम्बे व्यलम्बत । अपश्यदस्य कूपस्य चतुः कोणस्य भूतलम् ॥३२९॥
स्वपातप्रतिघातेन कुपितान् दष्टुमुद्यतान् । अद्राक्षीत्सर्वकोणेषु सपांश्चतुर आतुरः ||३३०||