________________
नवमो भवः
आरुह्य मणिसोपानमाले तत्राऽभिवन्द्य च । जगत्त्रयगुरुं चैत्यैकदेशे न्यषदद् गुरुः ॥४६९ ॥ चारणश्रमणैर्विद्याधरैः सिद्धैश्च वन्दितः । तदागमं वनीपालोऽवनीपालाय चाख्यत || ४७० ॥ तं संतोष्य प्रमोदेन भगवद्वन्द्वनोत्सुकः । आगात् प्रसन्नचन्द्रो द्रागयोध्यायाः पुरोऽधिपः || ४७१
कृत्वा भगवतः पूजां वन्दित्वा चैत्यसंहितम् । नत्वा च समरादित्यवाचकं समुपाविशत् ||४७२ ।।
अपृच्छच्च कथं धर्मचक्याद्यो वृषभः प्रभुः । कथं धर्मः पुरा नाऽभूत्कथितस्त्वमुनाऽधुना ||४७३॥ भगवानाह भरतेऽवसर्पिण्यामयं प्रभुः । धर्मचक्रयादिमो नैव नाऽभूद्धर्मः परेण तु ॥ ४७४ ॥ अनादयो जिना धर्मस्तदाख्यातोऽप्यनादिमान् । नृपः प्रोवाच सर्वत्र भवत्येषाऽवसर्पिणी ||४७५ ॥
भगवानूचिवान् कर्मभूपञ्चदशकान्तरे । भरतैरावतक्षेत्रदशके सम्भवत्यसौ ||४७६ ॥
विदेहेषु सदैव स्युश्चक्रिणो धर्मचक्रिणः । शाङ्गिणः सीरिण: सिद्धिस्तत्र कालो ह्यवस्थितः ||४७७ ||
भरतैरावतक्षेत्रदशके तु प्रवर्तते । कालश्चकमिवैतच्च द्वादशारं प्रचक्षते ||४७८॥ षडरा अवसर्पिण्यामुत्सर्पिण्यां च तेऽन्यथा । एवं द्वादशभिस्तैस्तु कालचक्रं यदूचिरे || ४७९ ||
तत्रैकान्तसुषमारचतस्रः कोटिकोटयः ।
सागराणां सुषमा तु तिस्रस्तत्कोटिकोटयः ||४८० |
३९७
३९८
समरादित्यसंक्षेपः
सुषमदुःषमा ते द्वे दुःषमसुषमा पुनः । सैका सहस्त्रैर्वर्षाणां द्विचत्वारिंशतोनिता ||४८१ ॥
प्रत्येकं कथ्यते वर्षसहस्राण्येकविंशतिः । दुषमाऽतिदुःषमा च विलोमोत्सर्पिणी च सा ॥४८२||
तत्राद्येऽस्त्रये मर्त्यास्त्रिद्वयेकपल्यजीविताः । त्रिद्वयेकगव्यूतोच्छ्रायास्त्रिद्वयेकदिनभोजनाः ॥४८३॥ कल्पद्रुफलसंतुष्टा धर्माऽधर्मबहिष्कृताः । क्षीणप्राये तृतीयाऽऽरे धर्मचक्री तु जायते ॥ ४८४॥
तत्प्रणीतं विवाहाद्यं धर्मश्चैष चतुर्विधः । दानशीलतपोभावरूपः श्रेष्ठः प्रवर्तते ||४८५ ॥ प्रसन्नचन्द्र भूपाल चतुर्थे त्वरके नराः । पूर्वकोट्यायुषः पञ्चधनुःशतसमुच्छ्रयाः ॥४८६|| पञ्चमे तु वर्षशतायुषः सप्तकरोच्छ्रयाः । द्वयोरप्यनयोर्धर्माऽधर्मसंज्ञा प्रवर्तते ॥ ४८७॥
षष्ठे पुनः षोडशाऽब्दायुषो हस्तसमुच्छ्रयाः । भवत्येषां पुनर्धर्माधर्मसंज्ञा न तादृशी ||४८८॥ एकान्तदुःखप्रचिता उत्सर्पिण्यामपीदृशाः । पश्चानुपूर्व्या विज्ञेया अरेषु किल षट्स्वपि ॥ ४८९ ॥ एवं हि भरतक्षेत्रे प्रथमो धर्मचक्रययम् ।
न पुनः परतो नाऽभूद्धर्मः शर्मभरप्रदः ||४९० || अथाऽऽह नृपतिर्मोहोऽपनीतः प्रभुणा मम । बाढं चानुगृहीतोऽस्मि तदिच्छाम्यनुशासनम् ||४९१॥
१. भवेत्तेषां ख.