________________
જ્ઞાનની પ્રમાણતા અને અપ્રમાણતામાં મીમાંસકની સાથે ચર્ચા
अथ येनैव ज्ञानमात्रं निर्णीयते, तेनैव तत्प्रामाण्यमपि, इति स्वतः प्रामाण्यनिर्णयो वर्ण्यते । नन्वर्थप्राकट्योत्थापितार्थापत्तेः सकाशात् त्वया ज्ञाननिर्णीतिस्तावदभीप्सामासे । अर्थप्राकट्यं च यथार्थत्व - विशेषणविशिष्टम्, निर्विशेषणं वाऽर्थापत्तिमुत्थापयेत् ? प्राचि पक्षे तस्य तद्विशेषणग्रहणं प्रथमप्रमाणात्, अन्यस्मात् स्वतो वा भवेत् ? प्रथमपक्षे परस्पराश्रयप्रसङ्गः । निश्चितप्रामाण्याद्धि प्रथमप्रमाणाद् यथार्थत्व-विशिष्टार्थप्राकट्यग्रहणम् । तस्माच्च प्रथमप्रमाणे प्रामाण्यनिर्णय इति । द्वितीयविकल्पे तु- अनवस्था, अन्यस्मिन्नपि हि प्रमाणे प्रामाण्यनिर्णायकार्थापत्त्युत्थापकस्यार्थप्राकट्यस्य यथार्थत्वविशेषणग्रहणमन्यस्मात् प्रमाणादिति ॥
-
૨૨૭
अथ स्वतस्तद्विशेषणग्रहणम् । तथाहि - स्वसंवेदितमर्थप्राकट्यं तच्चात्मानं निर्णयमानं स्वधर्मभूतं यथार्थत्वमपि निर्णयते । तथा च ततोऽनुमीयमाने ज्ञाने स्वतः प्रामाण्यज्ञप्तिरिति ।
तदेतदनवदातम् - एवं सत्यप्रामाण्यस्यापि स्वतो ज्ञप्तिप्रसक्तेः । स्वतो निश्चितवैतथ्यविशेषणादर्थप्राकट्याद् विज्ञानमनुमीयमानमास्कन्दिताप्रामाण्यमेवानुमीयते । ततः कथं प्रामाण्यवदप्रामाण्यस्यापि स्वतो निर्णीतिर्न स्यात् ? अथ तत्र, बाधकादेवाप्रामाण्यनिर्णयो न पुनर्ज्ञाननिर्णायकात् । एवं तर्हि संवादकादेव प्रामाण्यस्यापि निर्णयोस्तु इति तदपि कथं स्वतो निर्णीतं स्यात् ?
निर्विशेषणं चेत्- तदर्थप्राकट्यमर्थापत्त्युत्थापकम् तर्ह्यप्रमाणे अपि प्रामाण्यनिर्णायकार्थापत्त्युत्थापना - ऽऽपत्तिः अर्थप्राकट्यमात्रस्य तत्रापि सद्भावात् । इति सूत्रोक्तैव व्यवस्था सिद्धिसौधमध्यमध्यरुक्षत् ॥ २१॥
હવે કદાચ મીમાંસક એમ કહે કે “આ જ્ઞાન છે” એવા પ્રકારનો જ્ઞાનમાત્રનો નિર્ણય नावडे थाय छे, तेना ४ वडे “खा ज्ञान सायुं छे, यथार्थ छे, प्रभाष छे" खेम ते જ્ઞાનની પ્રમાણતાનો નિર્ણય પણ તેના જ વડે થાય છે. જ્ઞાનના અસ્તિત્વનો નિર્ણય સ્વતઃ થાય છે. તેથી જ્ઞાનની પ્રમાણતાનો નિર્ણય પણ સ્વતઃ જ થાય છે. એમ અમે માનીશું. જેથી કોઈ દોષ આવશે નહી.
જૈન :- આ બાબતમાં અર્થની પ્રગટતાથી ઉત્પન્ન થયેલી એવી અર્થાપત્તિ નામના પ્રમાણ થકી “આ જ્ઞાન છે” એવો શાનનો નિર્ણય તમારાવડે ઈચ્છાયો છે. સારાંશ કે અર્થપ્રાકટ્યથી ઉત્થાપિત એવી અર્થાપત્તિ જ જ્ઞાનનો નિર્ણય કરાવે છે. એમ તમે પૂર્વે જણાવેલું છે. ત્યાં અમે તમને પુછીએ છીએ કે તે અર્થપ્રાકટ્ય કેવું છે ? શું “યથાર્થત્વ”
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org