Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya
Catalog link: https://jainqq.org/explore/022408/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ रायकर यू र TAGS OST AAE ASTER STOLER श्रीपरमात्मने नमः। सनातनजैनग्रंथमालायाः MOR CRAYEE द्वितीयं खंडं। EANLENONY FRAMA 2012 KANYELAYA समयप्राभृतं संपादक :श्रीयुत पंडित गजाधरलालजैनशास्त्री । KA अस्यांकस्य मूल्यमकं रूप्यकं । Page #2 -------------------------------------------------------------------------- ________________ ग्रंथसूची। पृष्ठ संख्या १-८० १। समयप्राभृतं (अपूर्ण) तात्पर्यवृत्त्यात्मख्याति टीकाद्वयोपेतं नियमावली। १। इस ग्रंथमालामें मूल संस्कृत प्राकृत तथा संस्कृतटीकासहित दिगंबरजैनाचार्यकृत दर्शन, सिद्धांत, न्याय, आध्यात्मिक, व्याकरण, काव्य, साहित्य, पुराण, ज्योतिष गणित, वैद्यक प्रभृति सर्वप्रकारके प्राचीन ग्रंथ छपते हैं। २। इस ग्रंथमालाका प्रत्येक खंड (अंक) दश फारमसे (८० पृष्ठ से) कम नहीं होगा और प्रत्येक खंडमें एक दो या तीन से अधिक ग्रंथ नहीं रहेंगे। ३ । इस ग्रंथमाला का मूल्य १२ खंडों का सर्वसाधारण से ८) रु. प्रथम ही ले लिया जायगा किंतु नैयायिक, वैदांतिक और संस्कृत पुस्तकालयोंकी सेवामें यह ग्रंथमाला बिना मूल्य भी भेजी जायगी। परंतु पोष्टेज खर्च प्रत्येक अंक का ) या ) वी. पी. से सबको देना होगा। ४ । जो महाशय एक साथ १००) रु. भेजेंगे वे यावज्जीव स्थायीग्राहक समझे जावेंगे। परंतु मार्ग व्यय उनको भी जुदा देना होगा। ५। जो महाशय पुस्तकालयों मंदिरों, विद्यार्थियों वा विद्वानोंको वितरण करनेकेलिये ग्राहक बनेंगे उनको १००) रु. पेशगी भेजनेसे १२ खंड तक पंद्रह २ प्रति प्रत्येक खंडकी भेजी जायगी । मार्गव्यय पृथक् देना होगा। मूल्य वा पत्र भेजनेका पता-पन्नालाल जैन मंत्री-श्रीजैनधर्मप्रचारिणीसभा काशी पोष्ट-बनारस सिटी। जैनीभाइयोंसे प्रार्थना । यह ग्रंथमाला प्राचीन जैनग्रंथोंके जीर्णोद्धारार्थ व जैनधर्मके प्रचारार्थ प्रकाशित की जाती है । इसमें जो कुछ द्रव्य लाभ होगा वह भी धर्मप्रचार व परोपकारमें ही लगाया जायगा। इसकारण प्रत्येक धर्मात्मा उदार महाशयोंको चाहिये कि प्रथम तो एक २ या दो दो ग्रंथोंको छपाकर जीर्णोद्धार करे। केलिये द्रव्य प्रदान करें । दूसरे प्रत्येक मंदिरजीके शास्त्रभंडारमेंसे ग्राहक बनकर इन सब ग्रंथ. संग्रह करके रक्षा करें अथवा स्वयं ग्राहक बनकर अपने यहांके संस्कृत पढनेवाले विद्यार्थियोंको अथवा संस्कृतच अन्यमती विद्वानोंको दान देकर सत्यार्थ पदार्थोंका प्रचार करें। शास्त्रदानी महाशयोंकेलिये ही हमने पांचवां नियम बनाया है। प्रार्थी-पन्नालाल बाकलीवाल । Page #3 -------------------------------------------------------------------------- ________________ नमः सिद्धेभ्यः। सनातनजैनग्रंथमाला। श्रीमद्भगवत्कुंदकुंदाचार्यविरचितं समयप्राभृतं । मंगलाचरणं। वंदित्तु सव्वसिद्धे धुवममलमणोवमं गर्दि पत्ते वोच्छामि समयपाहुडमिणमो सुदकेवलीभणिदं ॥१॥ वंदित्वा सर्वसिद्धान् ध्रुवामचलामनौपम्यां गतिं प्राप्तां । वक्ष्यामि समयमाभृतमिदं श्रुतकेवलिभणितं ॥१॥ तात्पर्यवृत्तिः। वीतरागं जिनं नत्वा ज्ञानानंदैकसंपदं । वक्ष्ये समयसारस्य वृत्तिं तात्पर्यसंक्षिकां ॥१॥ अथ शुद्धपरमात्मतत्त्वप्रतिपादनमुख्यत्वेन विस्तररुचिशिष्यप्रतिबोधनार्थं श्रीकुंदकुंदाचार्यदेवनिर्मिते समयसारप्राभृतग्रंथे अधिकारशुद्धिपूर्वकत्वेन पातनिकासहितव्याख्यानं क्रियते। तंत्रादौ वंदित्तु सव्वसिद्धे इति नमस्कारगाथामादिं कृत्वा सूत्रपाठक्रमेण प्रथमस्थले स्वतंत्रगाथाषट्कं भवति । तदनंतरं द्वितीयस्थले भेदाभेदरत्नत्रयप्रतिपादनरूपेण ववहारेणुवादिस्सदि इत्यादिगाथाद्वयं । अथ तृतीयस्थले निश्चयव्यवहारश्रुत केवलिव्याख्यानमुख्यत्वेन जो हि सुदेण इत्यादिसूत्रद्वयं । अतः परं चतुर्थस्थले भेदाभेदरत्नत्रयभावनार्थ तथैव भावनाफलप्रतिपादनार्थं च णाणह्मिभावणा इत्यादिसूत्रद्वयं । तदनंतरं पंचमस्थले निश्चयव्यवहारनयद्वयव्याख्यानरूपेण ववहारो भूदत्थो इत्यादिसूत्रद्वयं । एवं चतुर्दशगाथाभिः स्थलपंचकेन समयसारपीठिकाव्याख्याने समुदायपातनिका । तद्यथा-अथ प्रथमतस्तावद्गाथायाः पूर्वार्द्धन मंगलार्थमिष्टदेवतानमस्कारमुत्तरार्द्धन तु समयसारग्रंथव्याख्यानं करोमीत्यभिप्रायं मनसि धृत्वा सूत्रमिदं प्रतिपादयति । ___वंदित्तु इत्यादि । पदखंडनारूपेण व्याख्यानं क्रियते । वंदित्तु निश्चयनयेन स्वस्मिन्नेवाराध्याराधक हार्वरूपेण निर्विकल्पसमाधिलक्षणेन भावनमस्कारेण, व्यवहारेण तु वचनात्मकद्रव्यनमस्कारेण वंदित्वा कान् सबसिद्धे स्वात्मोपलब्धिसिद्धिलक्षणसर्वसिद्धान् । किं विशिष्टान् पत्ते प्राप्तान् कां गदि सिद्धगतिं सिद्धपरिणतिं । कथंभूतां धुवं टंकोत्कीर्णज्ञायकैकस्वभावत्वेन ध्रुवामविनश्वरां । अमलं भावकर्मद्रव्यकर्मनोकर्ममलरहितत्वेन शुद्धस्वभावसहितत्वेन च निर्मलां । अथवा अचलं इति पाठांतरे द्रव्यक्षेत्रादिपंचप्रकारसंसार भ्रमणरहितत्वेन स्वस्वरूपनिश्चलत्वेन च चलनरहितामचलां । अणोवमं निखिलोपमारहितत्वेन निरुपमा Page #4 -------------------------------------------------------------------------- ________________ सनातननग्रंथमालायांस्वभावसहितत्वेन अनुपमा । एवं पूर्वार्द्धन नमस्कारं कृत्वा परार्द्धन संबंधाभिधेयप्रयोजनसूचनार्थ प्रतिज्ञां करोति । वक्ष्यामि किं समयपाहुडं समयप्राभृतं सम्यक् अयः बोधी यस्य स भवति समय आत्मा । अथवा समं एकी भावेनायनं गमनं समयः । प्राभृतं सारं सारशुद्धावस्था । समयस्यात्मनः प्राभृतं समयप्राभृतं । अथवा समयएव प्राभृतं समयप्राभृतं । इणं इदं प्रत्यक्षीभूतं ओ अहो भव्याः कथंभूतं सुदकेवलीमणिदं प्राकृतलक्षणबलात्केवलीशब्ददीर्घत्वं । श्रुते परमागमे केवलिभिः सर्वज्ञैर्भणितं श्रुतकेवलिभणितं । अथवा श्रुतकेव लिभणितं गणधरदेवकथितमिति । संबंधामिधेयप्रयोजनानि कथ्यते । व्याख्यानं वृत्तिग्रंथः व्याख्येयं व्याख्यानतत्प्रतिपादकसूत्रमिति । तयोस्संबंधो व्याख्यानव्याख्येयसंबंधः । सूत्रमभिधानं सूत्रार्थोभिधेयः तयोः संबंधोऽभिधानाभिधेयसंबंधः । निर्विकारस्वसंवेदनज्ञानेन शुद्धात्मपरिज्ञानं प्राप्तिर्वा प्रयोजनमित्यभिप्रायः॥१॥ अथ गाथापूर्वार्द्धन स्वसमयमपरार्द्धन परसमयं च कथयामीत्यभिप्रायं मनास संप्रधार्य सूत्रमिदं निरूपयति आत्मख्यातिः। नमः समयसाराय स्वानुभूत्या चकासते । चित्स्वभावाय भावाय सर्वभावांतरच्छिदे ॥१॥ अनंतधर्मणस्त त्वं पश्यंती प्रत्यगात्मनः । ___ अनेकांतमयी मूर्तिनित्यमेव प्रकाशतां ॥२॥ परपरिणतिहेतोर्मोहनाम्नोऽनुभावा दविरतमनुभाव्यव्याप्तिकल्माषितायाः। मम परमविशुद्धिः शुद्धचिन्मात्रमूर्त र्भवतु समयसारव्याख्ययैवानुभूतेः ॥३॥ अथ सूत्रावतारः वंदित्तु इत्यादि-- अथ प्रथमत एव स्वभावभावभूततया ध्रुवत्वमवलंबमानामनादिभावांतरपरपरिवृत्तिविश्रांतिवशेनाचलत्वमुपगतामखिलोपमानविलक्षणाद्भुतमाहात्म्यत्वेनाविद्यमानौपम्यामपवर्गसंज्ञकां गतिमापन्नान् भगवतः सर्वसिद्धान् सिद्धत्वेन साध्यस्यात्मनः प्रतिच्छंदस्थानीयान् भावद्रव्यस्तवाभ्यां स्वात्मनि परात्मनि च निधायानादिनिधनश्रुतप्रकाशितत्वेन निखिलार्थसार्थसाक्षात्कारिश्रुतकेवलिप्रणीतत्वेन श्रुतकेवलिभिः स्वयमनुभवद्भिरभिहितत्वेन च प्रमाणतामुपगतस्यास्य समयप्रकाशकस्य प्राभृताह्वयस्याहत्प्रवचनावयस्य स्वपरयोरनादिमोहप्रहाणाय भाववाचा द्रव्यवाचा च परिभाषणमुपक्रम्यते ॥१॥ तत्र तावत्समयएवाभिधीयते जीवो चरित्तदंसणणाणछिद तं हि ससमयं जाण । पुग्गलकम्मुवदेसहिदं च तं जाण परसमयं ॥ २ ॥ जीवश्चारित्रदर्शनज्ञानस्थितस्तं हि स्वसमयं जानीहि । पुद्धलकर्मप्रदेशस्थितं च तं जानीहि परसमयं ॥२॥ तात्पर्यवृत्तिः-जीवो चरित्त इत्यादि-जीवो शुद्धनिश्चयेन शुद्धबुद्धैकस्वभावनिश्चयप्राणेन तथैवा शुद्धानिश्चयेन बायोपशमिकाशुद्धभावप्राणैरसद्भूतव्यवहारेण यथासंभवद्रव्यप्राणैश्च जीवति जीविष्यति जीवितपूर्वो वा जीवः । चरित्तदंसणणाणहिद तं हि ससमयं जाण स च जीवश्चारित्रदर्शनज्ञानस्थितो यदा भवति तदा काले तमेव जीवं हि स्फुटं स्वसमयं जानीहि । तथा हि-विशुद्धज्ञानदर्शनस्वभावनिज परमात्मनि यद्दचिरूपं सम्यग्दर्शनं तत्रैव रागादिरहितस्वसंवेदनं ज्ञानं तथैव निश्चलानुभूतिरूपं वीतराग चारित्रमित्युक्तलक्षणेन निश्चयरत्नत्रयेण परिणतजीवपदार्थ हे शिष्य स्वसमयं जानीहि। पुग्गलकम्मुवदेसठिदं चतं जाण परसमयं पुद्गलकर्मोपदेशस्थितं च तमेव जानीहि परसमयं । तद्यथा-पुद्गलकर्मोदयेन जनिता ये नारकाद्युपदेशव्यपदेशाः संज्ञाः पूर्वोक्तनिश्चयरत्नत्रयाभावात्तत्र यदा स्थितो भवत्ययं जीवस्तदा तं जीवं परसमयं Page #5 -------------------------------------------------------------------------- ________________ समयप्राभृतं । जानीहीति स्वसमयपरसमयलक्षणं ज्ञातव्यं ॥२॥अथ स्वगुणैकत्वनिश्चयगतशुद्धात्मैवोपादेयः कर्मबंधेन सहकत्वमतो हेय इति ।अथवा स्वसमय एव शुद्धात्मनः स्वरूपं न पुनः परसमय इत्यभिप्रार्य मनसिधृत्वा। अथवास्य सूत्रस्यानंतरं सूत्रमिदमुचितं भवतीति निश्चत्य विवक्षितसूत्रं प्रतिपादयतीति पातनिकालक्षणं सर्वत्र ज्ञातव्यं । आत्मख्यातिः- योयं नित्यमेव परिणामात्मनि स्वभावे अवतिष्ठमानत्वात् उत्पादव्ययध्रौव्यैक्यानुभूति लक्षणया सत्तयानुस्यूतश्चैतन्यस्वरूपत्वान्नित्योदितविशददृशिज्ञप्तिज्योतिरनंतधर्माधिरूढकधर्मित्वादुद्योतमानद्रव्यत्वः क्रमाक्रमप्रवृत्तविचित्रभावस्वभावत्वादुत्संगितगुणपर्यायः स्वपराकारावभासनसमर्थत्वादुपात्तवैश्वरूप्यैकरूपः प्रतिविशिष्टावगाहगतिस्थितिवर्त्तनानिमित्तरूपत्वाभावादसाधारणचिद्रूपतास्वभावसद्भाका चाकाशधर्माधर्मकालपुद्गलेभ्यो भिन्नोऽत्यंतमनंतद्रव्यसंकरेपि स्वरूपादप्रच्यवनात् टंकोत्कीर्णचित्स्वभावो जीवो नाम पदार्थः स समयः । समयत एकत्वेन युगपज्जानाति गच्छति चेति निरुक्तेः । अयं खलु यदा सकल स्वभावभासनसमर्थविद्यासमुत्पादकविवेकज्योतिरुद्गमनात्समस्तपरद्रव्यात्प्रच्युत्य दृशिज्ञप्तिस्वभावनियतवृत्ति रूपात्मतत्त्वैकत्वगतत्वेन वर्त्तते तदा दर्शनज्ञानचारित्रस्थितत्वात्स्वमेकत्वेन युगपज्जानन् गच्छंश्च स्वसमय इति । यदा त्वनाद्यविद्याकंदलीमूलकंदायमानमाहानुवृत्तितया दृशि ज्ञप्तिस्वभावनियतवृत्तिरूपादात्मतत्त्वात्प्रच्युत्य परद्रव्यप्रत्ययमाहरागद्वेषादिभावैकगतत्वन वर्त्तत तदा पुद्गलकर्मप्रदेशस्थितत्वात्परमेकत्वेन युगपज्जा नन् गच्छंश्च परसमय इति प्रतीयते । एवं किल समयस्य द्वविध्यमुद्धावति ॥२॥ अथैतद्वाध्यते एयत्तणिच्छयगदो समओ सव्वत्थ सुंदरो लोगे। बंधकहाएयत्ते तेण विसंवादिणी होदि ॥३॥ एकत्वनिश्चयगतः समयः सर्वत्र सुंदरो लोके । बंधकथैकत्वे तेन विसंवादिनी भवति ॥३॥ तात्पर्यवृत्तिः-एयत्तणिच्छयगदो स्वकीयशुद्धगुणपर्यायपरिणतः, अभेदरत्नत्रयपरिणतोवा एकत्व निश्चयगतः समओ समयशब्देनात्मा, कस्माद्धेतोः सम्यगयते गच्छति परिणमति कान् स्वकीयगुणपर्यायानिति व्युत्पत्तेः । सव्वत्थसंदरो सर्वत्र समीचीनः क लोगे लोके अथवा सर्वत्रैकोंद्रियाद्यवस्थासु शुद्धनिश्चयनयेन सुंदर उपादेय इति। बंधकहा कर्मबंधजनितगुणस्थानादिपर्यायाः। एयत्ते एकत्वे तन्मयत्वे या बंधकथा प्रवर्तते तेण तेन पूर्वोक्तजीवपदार्थेन सह सा विसंवादिणी विसंवादिनो कोर्थः विसंवादिणी विसंवादिनीकथा प्राकृतलक्षणबलात् पुलिंगे स्त्रीलिंगनिर्देशः । विसंवादिनी असत्या होदि भवति । शुद्धनिश्चयनयेन शुद्धजीवस्वरूपं न भवतीत्यर्थः । ततः स्थितं स्वसमयएवात्मनः स्वरूपमिति ॥३॥ अथैकत्वपरिणतं शुद्धात्मस्वरूपं सुलभं न भवतीत्याख्याति___आत्मख्यातिः-समयशब्देनात्र सामान्येन सर्वएवार्थोऽभिधीयते । समयत एकीभावेन स्वगुणपर्यायान्गच्छतीति निरुक्तस्ततः सर्वत्रापि धर्माधर्माकाशकालपुद्गलजीवद्रव्यात्मनि लोके ये यावंतः केऽप्यस्तेि सर्वएव स्वकीयद्रव्यांतर्मग्नानंतस्वधर्मचक्रचुबिनोपि परस्परमचुंबतोत्यंतप्रत्ययासत्तावपि नित्यमेव स्वरूपादपतंतः पररूपेणापरिणमनादविनष्टानंतव्यक्तित्वाट्टकोत्कीर्ण इव तिष्ठतः समस्तविरुद्धाविरुद्धकार्यहेतुतया शश्वदेव विश्वमनुगृहतो नियतमेकत्वनिश्चयगतत्वेनैव सौंदर्यमापद्यते । प्रकारांतरेण सर्वसंकरादिदोषापत्तेः । एवमेकत्वे सर्वार्थानां प्रतिष्ठिते सति जीवाह्वयस्य समयस्य बंधकथाया एव विसंवादत्वापत्तिः । कुतस्तन्मूल पुद्गलकर्मप्रदेशस्थितत्वमूलपरसमयोत्पादितमेतस्य द्वैविध्यं । अतः समयस्यैकत्वमेवावतिष्ठते ॥३॥ तथैतद सुलभत्वेन विभाव्यते १ एतन्मते ' विवादिणो' पुलिंग एष पाठः । Page #6 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायांसुदपरिचिदाणुभूदा सव्वस्स वि कामभोगबंधकहा । एयत्तस्सुवलंभो णवरि ण सुलभो विभत्तस्स ॥४॥ श्रुतपरिचितानुभूता सर्वस्यापि कामभोगबंधकया। एकत्वस्योपलंभः केवलं न सुलभो विभक्तस्य ॥४॥ तात्पर्यवृत्तिः-सुदपरिचिदाणुभूदा इत्यादि । सुदा श्रुता अनंतशो भवति । परिचिदा परिचिता सपूर्वानंतशो भवति । अणुभूदा अनुभूतानंतशो भवति कस्य सन्चस्सवि सर्वस्यापि जीवलोकस्य । कासौ कामभोगबंधकहा कामरूपभोगाः कामभोगाः अथवा कामशब्देन स्पर्शनरसनेंद्रियं भागशब्देन घ्राणचक्षुःश्रोत्रत्रयं तेषां कामभोगानां बंधः संबंधस्तस्य कथा। अथवा बंधशब्देन प्रकृतिस्थित्यनुभागप्रदेशबंधस्तत्फलं च नरनारकादिरूपं भण्यते । कामभोगबंधानां कथा कामभोगबंधकथा यतः पूर्वोक्तप्रकारेण श्रुतपरिचितानुभूता भवति ततो न दुर्लभा किंतु सुलभैव । एयसस्स एकत्वस्य सम्यग्दर्शनज्ञानचारित्रैक्यपरिणतिरूपनिर्विकल्पसमाधिबलेन स्वसंवेद्यशुद्धात्मस्वरूपस्य तस्यैकत्वस्य उवलंभो उपलंभः प्राप्ति लाभ णवरि केवलं अथवा नवरि किंतु ण सुलभो नैव सुलभः कथंभूतस्यैकत्वस्य विभत्तस्स विभक्तस्य रागादिरहितस्य । कथं न सुलभ इति चेत् श्रुतपरिचितानुभूतत्वाभावादिति ॥ ४ ॥ अथ यस्मादेकत्वं सुलभं न भवति तस्मात्तदेव कथ्यते आत्मख्यातिः-इह सकलस्यापि जीवलोकस्य संसारचक्रक्रोडाधिरोपितस्याश्रांतमनंतद्रव्यक्षेत्र कालभवभावपरावर्तेः समुपक्रांतभ्रांतेरेकत्रीकृतविश्वतया महता मोहग्रहेण गोरिव बाह्यमानस्य प्रसभोज्जूंभित तृष्णातंकत्वेन व्यक्तांतराधेरुत्तम्योत्तम्य मृगतृष्णायमानं विषयग्राममुपरुंधानस्य परस्परमाचार्यत्वमाचरंतो नंतशः श्रुतपूर्वानंतशः परिचितपूर्वाऽनंतशोऽनुभूतपूर्वाचैकत्वविरुद्धत्वेनात्यंतविसंवादिन्यपि कामभोगानुबद्धा कथा। इदं तु नित्यव्यक्ततयांतः प्रकाशमानमपि कषायचक्रेण सहैकीक्रियमाणत्वादत्यंततिरोभूतं सत्स्वस्यानात्मज्ञतया परेषामात्मज्ञानामनुपासनाच्च न कदाचिदपि श्रुतपूर्व न कदाचिदपि परिचितपूर्व न कदाचिदप्यनुभूतपूर्व च निर्मलविवेकालोकविविक्तं केवलमेकत्वं अतएकत्वस्य न सुलभत्वं ॥ ४ ॥ अथ एवैतस्य उपदर्शाते तं एयत्तविभत्तं दाएहं अप्पणो सविहवेण । जदि दाएज पमाणं चुकिज छलं ण चित्तव्वं ॥ ५॥ तमेकत्वविभक्तं दर्शयेहमात्मनः स्वविभवेन । __ यदि दर्शयेयं प्रमाणं स्खलितं छलं न गृहीतव्यं ॥५॥ तात्पर्यवृत्तिः-तं तत्पूर्वोक्तं एयत्तविभत्तं एकत्वविभक्तं अभेदरत्नत्रयैकपरिणतं मिथ्यात्वरागादिरहितं परमात्मस्वरूपमित्यर्थः । दाएहं दर्शयेहं केन अप्पणो सविहवेण आत्मनः स्वकीयमिति विभवेन आगमतर्कपरमगुरूपदेशस्वसंवेदनप्रत्यक्षेणेति । जदि दाएज यदि दर्शयेयं तदा पमाणं स्वसंवेदनज्ञानेन परीक्ष्य प्रमाणीकर्त्तव्यं भवद्भिः । चुकिज यदि च्युतो भवामि छलंणचित्तव्वं तर्हि छलं न ग्राह्यं दुर्जनवदिति ॥५॥ अथ कोयं शुद्धात्मेति पृष्ट प्रत्युत्तरं ददाति___ आत्मख्यातिः-इह किल सकलोद्भासिस्यात्पदमुद्रितशब्दब्रह्मोपासनजन्मा समस्तविपक्षक्षोदक्षमातिनिस्तुषयुक्तयवलंबनजन्मा निर्मलविज्ञानघनांतर्निमग्नपरापरगुरुप्रसादीकृतशुद्धात्मतत्त्वानुशासनजन्मा अनवरतस्यंदिसुंदरानंदमुद्रितामंदसंविदात्मकस्वसंवेदनजन्मा च यः कश्चनापि ममात्मनः स्वो विभवस्तेन समस्तेनापि यमेकत्वविभक्तमात्मानं दर्शयेहमिति बद्धव्यवसायोस्मि । किंतु यदि दर्शयेयं तदा स्वयमेव स्वानुभवप्रत्यक्षेण परीक्ष्य प्रमाणीकर्त्तव्यं । यदि तु स्खलेयं तदा तु न छलग्रहणजागरूकैर्भवितव्यं ॥ ५ ॥ Page #7 -------------------------------------------------------------------------- ________________ समयप्राभृतं । वि होदि अप्पमत्तो ण पमत्तो जाणगो दु जो भावो । एवं भणति सुद्धा णादा जो सो दु सो चेव ॥ ६॥ नापि भवत्यप्रमत्तो न प्रमत्तो ज्ञायकस्तु यो भावः । एवं भणति शुद्धा ज्ञाता यः स तु स चैव ॥ ६ ॥ तात्पर्यवृत्तिः - वि होदि अप्पमत्तो ण पमत्तो शुद्धद्रव्यार्थिकनयेन शुभाशुभपरिणमनाभावान्न भवत्यप्रमत्तः प्रमत्तश्च । प्रमत्तशब्देन मिथ्यादृष्ट्यादिप्रमत्तांतानि षड्गुणस्थानानि, अप्रमत्तशब्देन पुनरप्रमत्ताद्ययोग्यंतान्यष्टगुणस्थानानि गृह्यंते । स कः कर्त्ता जाणगो दु जो भावो ज्ञायको ज्ञानस्वरूपो यो ऽसौ भावः पदार्थः शुद्धात्मा। एवं भांति सुद्धा शुद्धनयावलंबिन:, तर्हि किं भवति णादा जो सो दु सोचेव ज्ञाता शुद्धात्मा यः कथ्यते स तु स चैव ज्ञातैवेत्यर्थः ॥ ६ ॥ इति स्वतंत्रगाथाषट्केन प्रथमस्थलं गतं । अथानंतरं तथाप्रमत्तादिगुणस्थानविकल्पा जीवस्य व्यवहारनयेन विद्यते शुद्धद्रव्यार्थिकनिश्चयेन न विद्यते तथा दर्शनज्ञानचारित्रविकल्पोपीत्युपदिशति hist शुद्ध आत्मेति चेत् आत्मख्यातिः–यो हि नाम स्वतः सिद्धत्वेनानादिरनंतोनित्योद्योतोविशदज्योतिर्ज्ञायक एको भावः स संसारावस्थायामनादिबंधपर्यायनिरूपणया क्षीरोदकवत्कर्मपुद्गलैः सममेकत्वेपि द्रव्यस्वभावनिरूपणया दुरंत - कषायचक्रोदयवैचित्र्यवशेन प्रवर्त्तमानानां पुण्यपापनिर्वर्त्तकानामुपात्तवैश्वरूप्याणां शुभाशुभभावानां स्वभावेनापरिणमनात्प्रमत्तोऽप्रमत्तश्च न भवत्येष एवाशेषद्रव्यांतरभावेभ्यो भिन्नत्वेनोपास्यमानः शुद्ध इत्यभिलप्यते । न चास्य ज्ञेयनिष्ठत्वेन ज्ञायकत्वप्रसिद्धेः दाह्यनिष्कनिष्ठदहनस्येवाशुद्धत्वं यतो हि तस्यामवस्थायां ज्ञायकत्वेन यो ज्ञातःस स्वरूपप्रकाशनदशायां प्रदीपस्येव कर्तृकर्मणोरनन्यत्वात् ज्ञायक एव ॥६॥ दर्शनज्ञानचारित्रवत्वेनाशुद्धत्वमिति चेत् — ववहारेणुवदिस्सदि णाणिस्स चरित्तदंसणं णाणं । णविणाणं ण चरितं ण दंसणं जाणगो सुद्धो ॥ ७ ॥ व्यवहारेणोपदिश्यते ज्ञानिनश्चारित्रं दर्शनं ज्ञानं । नापि ज्ञानं न चारित्रं न दर्शनं ज्ञायकः शुद्धः ॥ ७॥ तात्पर्यवृत्तिः - ववहारेण सद्भूतव्यवहारनयेन उवदिस्सदि उपदिश्यते कथ्यते । कस्य णाणिस्स · ज्ञानिनो जीवस्य । किं चरित्तदंसणं णाणं चारित्रदर्शनज्ञानस्वरूपं । णवि णाणं ण चरित्तं ण दंसणं शुद्धनिश्चयनयेन न पुनर्ज्ञानं न चारित्रं न दर्शनं । तर्हि किमस्तीति चेत् जाणगो ज्ञायकः शुद्धचैतन्यस्वभावः । सुद्धो शुद्ध एव रागादिरहित इति । अयमत्रार्थः यथा निश्चयनयेनाभेदरूपेणाग्निरेक एव पश्चाद्भेद रूपव्यवहारेण दहतीति दाहकः पचतीति पाचकः प्रकाशं करोतीति प्रकाशकः इति व्युत्पत्त्या विषयभेदेन त्रिधा भिद्यते । तथा जीवोपि निश्चयरूपाभेदनयेन शुद्धचैतन्यरूपोपि भेदरूपव्यवहारनयेन जानातीति ज्ञानं, पश्यतीति दर्शनं चरतीति चारित्रमिति व्युत्पत्त्या विषयभेदेन त्रिधा भिद्यते इति ॥७॥ अथ यदि शुद्धनिश्चयेन जीवस्य दर्शनज्ञानचारित्राणि न संति तर्हि परमार्थएवैको वक्तव्यो न व्यवहार इति चेत्तन्न आत्मख्यातिः - आस्तां तावद्वेधप्रत्ययात् ज्ञायकस्याशुद्धत्वं दर्शनचारित्राण्येव न विद्यते । यतोनंत धर्मण्येकस्मिन् धर्मिणि निष्णातस्यांतेवासिजनस्य तदवबोधायिभिः कैश्चिद्धर्मैस्तमनुशासतां सूरीणां धर्मधर्मिणां स्वभावतोऽभेदेपि व्यपदेशतो भेदमुत्पाद्य व्यवहारमात्रेणैव ज्ञानिनो दर्शनं ज्ञानं चारित्रमित्युपदेशः । परमार्थ - तस्त्वेकद्रव्यनिष्पीतानंतपर्यायतयैकं किंचिन्मिलितास्वादमभेदमेकस्वभावमनुभवतो न दर्शनं न ज्ञानं न चारित्रं ज्ञायक एवैकः शुद्धः ||७|| तर्हि परमार्थ एवैको वक्तव्य इति चेत् Page #8 -------------------------------------------------------------------------- ________________ सनातननग्रंथमालायांजह णवि सक्कमणजो अणजभासं विणा दु गाहेदु । तह ववहारेण विणा परमत्थुवदेसणमसकं ॥८॥ यथा नापि शक्योऽनार्योऽनार्यभाषां विना तु ग्राहयितुं । तथा व्यवहारेण विना परमार्थोपदेशनमशक्यं ॥८॥ तात्पर्यवृत्तिः-जह णवि सक्कं यथा न शक्यः कोसौ अणज्जो अनार्यो म्लेच्छः । किं कर्तुं गाहेदं अर्थग्रहणरूपेण संबोधयितुं । कथं अणज्जभासं विणा अनार्यभाषा म्लेच्छभाषा तां विना । दृष्टांतो गतः । इदानीं दार्टीतमाह-तह तथा ववहारेण विणा व्यवहारनयं विना परमत्थुवदेसणमसकं परमार्थोपदेशनं कर्तुमशक्यं इति । अयमत्राभिप्रायः । यथा कश्चिद्राह्मणो यतिर्वा म्लेच्छपल्ल्यां गतः तेन नमस्कारे कृते सति ब्राह्मणेन यतिना वा स्वस्तीति भणिते स्वस्त्यर्थमविनश्वरत्वमजानन्सन् निरीक्ष्यते मेष इव । तथायमज्ञानिजनोप्यात्मतिभाणते सत्यात्मशब्दस्यार्थमजानन्सन् भ्रांत्या निरीक्ष्यत एव । यदा पुन निश्चयव्यवहारज्ञपुरुषेण सम्यग्दर्शनज्ञानचारित्राणि जीवशब्दस्यार्थ इति कथ्यते तदा संतुष्टो भूत्वा जानातीति । एवं भेदाभेदरत्नत्रयव्याख्यानमुख्तया गाथाद्वयेन द्वितीयं स्थलं गतं ॥८॥ अथ पूर्वगाथायां भणितव्यवहारण परमार्थों ज्ञायते ततस्तमेवार्थ कथयति आत्मख्यातिः-यथा खलु म्लेच्छः स्वस्तीत्यभिहिते सति तथाविधवाच्यवाचकसंबंधावबोधबहिष्कृ तत्वान्न किंचदपि प्रतिपद्यमानो मेष इवानिमेषोन्मेषितचक्षुः प्रेक्षत एव । यदा तु स एव तदेतद्भाषासंबंधैकार्थज्ञेनान्येन तेनैव वा म्लेच्छभाषां समुदाय स्वस्तिपदस्याविनाशो भवतो भवत्वित्यभिधेयं प्रतिपाद्यते तदा सद्यएवोद्यदमंदानंदमयाश्रुजलझलज्झललोचनपात्रस्तत्प्रतिद्यत एव । तथा किल लोकोप्यात्मेत्यभिहि ते सति यथावस्थितात्मस्वरूपपरिज्ञानवहिष्कृतत्वान्न किंचदपि प्रतिपद्यमानो मेष इवानिमेषोन्मेषितचक्षुः प्रेक्षत एव । यदा तु स एव व्यवहारपरमार्थपथप्रस्थापितसम्यग्बोधमहारथरथिनान्येन तेनैव वा व्यवहारपथमास्थाय दर्शनज्ञानचारित्राण्यततीत्यात्मेत्यात्मपदस्थाभिधेयं प्रतिपाद्यते तदा सद्य एवोद्यदमंदानंदतः सुंदरबंधुरबोधतरंगस्तत्प्रतिपद्यत एव । एवं म्लेच्छभाषास्थानीयत्वेन परमार्थप्रतिपादकत्वादुपन्यसनीयोऽथ च ब्राह्मणो न म्लेच्छितव्य इति वचनाद्व्यवहारनयो नानुसतव्यः।।८॥कथं व्यवहारस्य प्रतिपादकत्वमिति चेत् । जो हि सुदेणभिगच्छदि अप्पाणमिणं तु केवलं सुद्धं । तं सुदकेवलिमिसिणो भणंति लोगप्पदीवयरा ॥९॥ जो सुदणाणं सव्वं जाणदि सुदकेवलिं तमाहु जिणा। णाणं अप्पा सव्वं जमा सुदकेवली तह्मा ॥१०॥ यो हि श्रुतेनाभिगच्छति आत्मानमिमं तु केवलं शुद्धं । तं श्रुतकेवलिनमृषयो भणंति लोकप्रदीपकराः ॥९॥ यः श्रुतज्ञानं सर्व जानाति श्रुतकेवलिनं तमाहुर्जिनाः । ज्ञानमात्मा सर्व यस्माच्छुतकेवली तस्मात् ॥१०॥ तात्पर्यवृत्तिः-जो यः कर्ता हि स्फुटं सुदेण भावश्रुतेन स्वसंवेदनज्ञानेन निर्विकल्पसमाधिना करणभूतेन आभिगच्छदि अभि समंताज्जानात्यनुभवति कं अप्पाणं आत्मानं इणं इमं प्रत्यक्षीभूतं तु पुनः किं विशिष्टं केवलं असहायं सुद्धं रागादिरहितं तं पुरुषं सुदकेवलिं निश्चयश्रुतकेवलिनं इसिणो परम ऋषयः भणंति कथयति लोगप्पदीवयरा लोकप्रदीपकराः लोकप्रकाशका इति । अनया गाथया निश्च Page #9 -------------------------------------------------------------------------- ________________ समप्रभृतं । यश्रुतकेवलिलक्षणं । अथ जो सुदणाणमित्यादि - जो यः कर्त्ता सुदणाणं द्वादशांगद्रव्यश्रुतं सव्वं सर्वे परिपूर्ण जाणदि जानाति सुदकेवाळं व्यवहारश्रुतकेवलिनं तमाहुजिणा तं पुरुषं आहुः ब्रुवंति के ते जिनाः सर्वज्ञाः । कस्मादिति चेत् जह्मा यस्मात्कारणात् सुदणाणं द्रव्यश्रुताधारेणोत्पन्नं भावश्रुतज्ञानं आदा आत्मा भवति कथंभूतं सव्वं आत्मसंवित्तिविषयं परपरिच्छित्तिविषयं वा तह्मा तस्मात्कारणात् सुदकेवली द्रव्यश्रुतकेवली स भवतीति । अयमत्रार्थ यो भावश्रुतरूपेण स्वसंवेदनज्ञानेनं शुद्धात्मानं जाना तिस निश्चयश्रुतकेवली भवति । यस्तु स्वशुद्धात्मानं न संवेदयति न भावयति बहिर्विषयं द्रव्यश्रुतार्थं जानाति स व्यवहारश्रुतकेवली भवतीति । ननु तर्हि स्वसंवेदन ज्ञानबलेनास्मिन् कालेपि श्रुतकेवली भवति तन्न यादृशं पूर्वपुरुषाणां शुक्लध्यानरूपस्वसंवेदनज्ञानं तादृशमिदानीं नास्ति किंतु धर्म्यध्यानं योग्यमस्तीत्यर्थः । एवं निश्चयव्यवहारश्रुतकेवलिव्याख्यानरूपेण गाथाद्वयेन तृतीयस्थलं गतं ॥ ९-१० ॥ अथ गाथायाः पूर्वार्द्धेन भेदरत्नत्रय भावनामुत्तरार्द्धेनाभेद्रत्नत्रय भावनां च प्रतिपादयति आत्मख्यातिः - यः श्रुतेन केवलं शुद्धमात्मानं जानाति स श्रुतकेवलीति तावत्परमार्थो यः श्रुतज्ञानं सर्वे जानाति स श्रुतकेवलीति व्यवहारः । तदत्र सर्वमेव तावत् ज्ञानं निरूप्यमाणं किमात्मा किमनात्मा, न तावदनात्मा समस्तस्याप्यनात्मनश्चेतनेतरपदार्थपंचतयस्य ज्ञानतादात्म्यानुपपत्तेः । ततो गत्यंतराभावात् ज्ञानमात्मेत्यायात्यतः श्रुतज्ञानमप्यात्मैव स्यात् । एवं सति यः आत्मानं जानाति स श्रुतकेवलीत्यायाति स तु परमार्थ एव । एवं ज्ञानज्ञानिनो भेदेन व्यपदिश्यता व्यवहारेणापि परमार्थमात्रमेव प्रतिपद्यते न किंचिदप्यतिरिक्तं अथ च यः श्रुतेन केवलशुद्धमात्मानं जानाति स श्रुतकेवलीति परमार्थस्य प्रतिपादयितुमशक्यत्वाद्यः श्रुतज्ञान सर्वे जानाति स श्रुतकवलीति व्यवहारः परमार्थप्रतिपादकत्वेनात्मानं प्रतिष्ठापयति ॥ ९-१० ॥ कुतो व्यवहारनयो नानुसर्त्तव्य इति चेत् णालि भावणा खलु कादव्वा दंसणे चरिते य । ते पुण तिणिवि आदा तला कुण भावणं आहे ॥११॥ ज्ञाने भावना खलु कर्त्तव्या दर्शने चारित्रे च । तानि पुनः त्रीण्यपि आत्मा तस्मात् कुरु भावना आत्मनि ॥११॥ तात्पर्यवृत्तिः–सम्यग्दर्शनज्ञानचारित्रत्रयभावना खलु स्फुटं कर्त्तव्या भवति । पुनस्त्रीण्यपि निश्चये नात्मैव यतः कारणात् तस्मात् कुरु भावनां शुद्धात्मनीति ॥ ११॥ अथ भेदाभेदरत्नत्रयभावनाफलं दर्शयति— जो आदभावणमिणं णिच्चुवजुत्तो मुणी समाचरदि । सो सव्वदुक्खमोक्खं पावदि अचिरेण काले ॥१२॥ यः आत्मभावनामिमां नित्योद्यतः मुनिः समाचरति । सः सर्वदुःखमोक्षं प्रामोत्यचिरेण कालेन ||१२|| तात्पर्यवृत्तिः– यः कर्ता आत्मभावनामिमां नित्योद्यतः सन् मुनिः तपोधनः समाचरति सम्यगाचरति भावयति स सर्वदुःखमोक्षं प्राप्नोत्यचिरेण स्तोककालेनेत्यर्थः । इति निश्चयव्यवहाररत्नत्रयभावनाभावनाफलव्याख्यानरूपेण गाथाद्वयेन चतुर्थस्थलं गतं । अथ यथा कोपि ब्राह्मणादिविशिष्टोजनो म्लेच्छप्रतिबोधनकाले एव म्लेच्छभाषां ब्रूते न च शेषकाले तथैव ज्ञानी पुरुषोंप्यज्ञानिप्रतिबोधनकाले व्यवहारमाश्रयति न च शेषकाले ॥ १२॥ कस्मादभूतार्थत्वादिति प्रकाशयति ववहारो भूदत्थो भूदत्थो देसिदो दु सुद्धणओ | भूदत्थमस्सिदो खलु सम्मादिट्ठी हवदि जीवो ॥१३॥ १- २ अतयोरात्मख्यातिर्व्याख्या नोपलब्धा । Page #10 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायांव्यवहारोऽभूतार्थो भूतार्थो दर्शितस्तु शुद्धनयः । भूतार्थमाश्रितः खलु सम्यग्दृष्टिर्भवति जीवः ॥१३॥ तात्पर्यवृत्तिः-ववहारो व्यवहारनयः अभूदत्थो अभूतार्थः असत्यार्थो भवति । भूदत्यो भूतार्थः सत्यार्थः देसिदो देशितः कथितः दु पुनः कोसौ सुद्धणओ शुद्धनयः निश्चयनयः । तर्हि केन नयेन सम्यग्दृष्टिर्भवतीति चेत् भूदत्थं भूतार्थ सत्यार्थ निश्चयनयं अस्सिदो आश्रितो गतः स्थितः । खलु स्फुटं सम्मादिट्ठी हवदि जीवो सम्यग्दृष्टिर्भवति जीव इति टीकाव्याख्यानं । द्वितीयव्याख्यानेन पुनः ववहारो अभूदत्थो व्यवहारोऽभूतार्थो भूदत्थो भूतार्थश्च देसिदो देशितः कथितः । न केवलं व्यव हारो देशितः सुद्धणओ शुद्धनिश्चयनयोपि दु शब्दादयं शुद्धनिश्चयनयोपीतिव्याख्यानेन भूताभूतार्थभेदेन व्यवहारोपि द्विधा शुद्धनिश्चयाशुद्धनिश्चयभेदेन निश्चयनयोपि द्विधा इति नयचतुष्टयं । इदमत्र तात्पर्य यथा कोपि ग्राम्यजनः सकर्दमं नीरं पिवति नागरिकः पुनः विवेकीजनः कतकफलं निक्षिप्य निर्मलोदकं पिवति । तथा स्वसंवेदनरूपभेदभावनाशून्यजनो मिथ्यात्वरागादिविभावपरिणामसहितमात्मानमनुभवति सदृष्टिजनः पुनरभेदरत्नत्रयलक्षणनिर्विकल्पसमाधिबलेन कतकफलस्थानीयं निश्चयनयमाश्रित्य शुद्धात्मानमनुभवतीत्यर्थः ॥१३॥ अथ पूर्वगाथायां भणितं भूतार्थनयाश्रितो जीवः सम्यग्दृष्टिर्भवति । अत्र तु न केवलं भूतार्थो निश्चयनयो निर्विकल्पसमाधिरतानां प्रयोजनवान् भवति । किंतु निर्विकल्पसमाधिरहितानां पुनः षोडषवर्णिकासुवर्णलाभाभावे अधस्तनवर्णिकासुवर्णलाभवत्केषांचित्प्राथमिकानां कदाचित् सविकल्पावस्थायां मिथ्यात्वविषयकषायदुर्ध्यानवंचनार्थ व्यवहारनयोपि प्रयोजनवान् भवतीति प्रतिपादयति__आत्मख्याति:-व्यवहारनयोहि सर्व एवाभूतार्थत्वादभूतमर्थ प्रद्योतयति । तथा हि यथा प्रबलपंकसंवलनतिरोहितसहजैकार्थभावस्य पयसोनुभवितारः पुरुषाः पंकपयसोविवेकमकुर्वतो बहवोनर्थमेव तदनुभवंति । केचित्तु स्वकरविकीर्णकतकनिपातमात्रोपजनितपंकपयोविवेकतया स्वपुरुषाकाराविर्भावित सहजैकार्थभावत्वादर्थमेव तदनुभवति । तथा प्रबलकर्मसंवलनतिरोहितसहजैकज्ञायकभावस्यात्मनोऽनुभवितारः पुरुषा आत्मकर्मणोविवेकमकुर्वतो व्यवहारविमोहितहृदयाः प्रद्योतमानभाववैश्वरूप्यं तमनुभवंति । भूतार्थदर्शिनस्तु स्वमतिनिपातितशुद्धनयानुबोधमात्रोपजनितात्मकर्मविवेकतया स्वपुरुषाकाराविर्भावितसहजैकज्ञायकस्वभावत्वात् प्रद्योतमानैकज्ञायकभावं तमनुभवंति । तदत्र ये भूतार्थमाश्रयंति तएवं सम्यक् पश्यंत सम्यग्दृष्टयो भवंति न पुनरन्ये कतकस्थानीयत्वात् शुद्धनयस्यातः प्रत्यगात्मदर्शिभि र्व्यवहारनयो नानुसतव्यः ॥१३॥ अथ च केषांचित्कदाचित्सोपि प्रयोजनवान् । यतः सुद्धोसुद्धादेसो णादवो परमभावदरिसीहिं । ववहारदेसिदो पुण जे दु अपरमे हिदा भावे ॥१४॥ शुद्धः शुद्धादेशो ज्ञातव्यः परमभावदर्शिभिः । व्यवहारदेशितः पुनर्ये त्वपरमे स्थिता भावे ॥१४॥ तात्पर्यवृत्तिः सुदो शुद्धनयः निश्चयनयः कथंभूतः सुद्धादेसो शुद्धद्रव्यस्यादेशः कथनं यत्र स भवति शुद्धादेशः । णादव्वो ज्ञातव्यः भावयितव्यः कैः परमभावदरसीहिं शुद्धात्मभावदर्शिभिः । कस्मादिति चेत् यतः षोडशवर्णिकाकार्तस्वर्णलाभवदभेदरत्नत्रयस्वरूपसमाधिकाले सप्रयोजनो भवति । निःप्रयोजनो न भवतीत्यर्थः । ववहारदेसिदो व्यवहारेण विकल्पेन भेदेन पर्यायेण दार्शितः कथित इति व्यवहारदेशितो व्यवहारनयः पुण पुनः अधस्तनवर्णिकसुवर्णलाभवत्प्रयोजनवान् भवति । केषां जे ये पुरुषोः दु पुनः अपरमे अशुद्धे असंयतसम्यग्दृष्ट्यपेक्षया श्रावकापेक्षया वा सरागसम्यग्दृष्टिलक्षणे शुभोपयोग प्रमत्ताप्रमत्तसंयतापेक्षया च भेदरत्नत्रयलक्षणे वा ठिदा स्थिताः कस्मिन् स्थिताः भावे जीव Page #11 -------------------------------------------------------------------------- ________________ समयप्राभृतं । पदार्थे तेषामिति भावार्थः॥एवं निश्चयव्यवहारनयव्याख्यानप्रतिपादनरूपेण गाथाद्वयेन पंचमं स्थलं गतं ॥ इति चतुर्दशगाथाभिः स्थलपंचकेन पीठिका समाप्ता । ___ अथ कश्चिदासन्नभव्यः पीठिकाव्याख्यानमात्रेणैव हेयोपादेयतत्वं परिज्ञाय विशुद्धज्ञानदर्शनस्वभाव निजस्वरूपं भावयति । विस्तररुचिः पुनर्नवाभिरधिकारैः समयसारं ज्ञात्वा पश्चाद्भावनां करोति तद्यथाविस्तररुचिशिष्यं प्रति जीवादिनवपदार्थाधिकारैः समयसारव्याख्यानं क्रियते । तत्रादौ नवपदार्थाधिकारगाथाया आर्तरौद्रपरित्यागलक्षणनिर्विकल्पसामायिकस्थितानां यच्छुद्धात्मरूपस्य दर्शनमनुभवनमवलोक नमुपलब्धिः संवित्तिः प्रतीतिः ख्यातिरनुभूतिस्तदेव निश्चयनयेन निश्चयचारित्राविनाभावि निश्चयसम्यक्त्वं वीतरागसम्यक्त्वं भण्यते । तदेव च गुणगुण्यभेदरूपनिश्चयनयेन शुद्धात्मस्वरूपं भवतीत्येका पातनिका। अथवा नवपदार्था भूतार्थेन ज्ञाताः संतस्तएव भेदोपचारेण सम्यक्त्वविषयत्वाव्यवहारसम्यक्त्वानमित्तं भवंति निश्चयनयेन तु स्वकीयशुद्धपरिणाम एव सम्यक्त्वमिति द्वितीया चेति पातनिकाद्वयं मनसि धृत्वा सूत्रमिदं प्ररूपयति । ____ आत्मख्यातिः-ये खलु पर्यंतपाकोत्तीर्णजात्यकार्त्तस्वरस्थानीयपरमं भावमनुभवति तेषां प्रथमद्वितीयाद्यनेकपाकपरंपरापच्यमानकार्तस्वरानुभवस्थानीयापरमभावानुभवनशून्यत्वाच्छुद्धद्रव्यादेशितया समुद्योतितास्खलितैकस्वभावैकभावः शुद्धनय एवोपरितानेकप्रतिवर्णिकास्थानीयत्वात्परिज्ञायमानः प्रयोजनवान् । अन्ये तु प्रथमद्वितीयाद्यनेकपाकपरंपरापच्यमानकार्तस्वरस्थानीयमपरमं भावमनुभवंति तेषां पर्यतपाकोत्तीर्ण जात्यकार्तस्वरस्थानीयपरमभावानुभवनशून्यत्वादशुद्रव्यादेशितयोपदर्शितप्रतिविशिष्टेकभावानेकभावोव्यवहारनयो विचित्रवर्णमालिकास्थानीयत्वात्परिज्ञायमानस्तदात्वे प्रयोजनवान् तीर्थतीर्थफलयोरित्थमेव व्यवस्थितत्वात् । उक्तं च " जइजिणमयं पवजह तामा ववहारणिच्छए मुयह । एकेण विणा छिज्जइ तित्थं अण्णेण उण तच्छं ।" उभयनयविरोधध्वंसिनि स्यात्पदांके जिनवचसि रमंते ये स्वयं वांतमोहाः । सपदि समयसारं ते परं ज्योतिरुच्चैरनवमनयपक्षाक्षुण्णमीक्षत एव ॥४॥ व्यवहरणनयः स्याद्यद्यपि प्राक्पदव्यामिह निहितपदानां हंत हस्तावलंबः । तदपि परममर्थ चिच्चमत्कारमानं परविरहितमंतः पश्यतां नैष किंचित् ॥५॥ एकत्वे नियतस्य शुद्धनयतो व्याप्तुर्यदस्यात्मनः पूर्णज्ञानघनस्य दर्शनमिह द्रव्यांतरेभ्यः पृथक् । सम्यग्दर्शनमेतदेव नियमादात्मा च तावानयं तन्मुक्त्वा नवतत्त्वसंततिमिमामात्मायमेकोस्तु नः ॥६॥ अतः शुद्धनयायत्तं प्रत्यग्ज्योतिश्चकास्ति तत् । नवतत्त्वगतत्वेपि यदेकत्वं न मुंचति ॥७॥ भूदत्थेणाभिगदा जीवाजीवा य पुण्णपावं च । आसवसंवरणिजरबंधोमोक्खो य सम्मत्तं ॥१५॥ भूतार्थेनाभिगता जीवाजीवौ च पुण्णपापं च । आस्रवसंवरनिर्जरा बंधो मोक्षश्च सम्यक्त्वं ॥१५॥ तात्पर्यवृत्तिः- भूदत्थेण भूतार्थेन निश्चयनयेन शुद्धनयेन अभिगदा अभिगता निर्णीता निश्चिता झाताः संतः के ते जीवाजीवा य पुण्णपावं च आसवसंवरणिज्जरबंधो मोक्खो य जीवाजीव पुण्यपापास्रवसंवरनिर्जराबंधमोक्षस्वरूपा नव पदार्थाः सम्मत्तं तएवाभेदोपचोरण सम्यक्त्वविषयत्वात्कारणत्वात्सम्यक्त्वं भवति । निश्चयेन परिणाम एव सम्यक्त्वमिति । नव पदार्थाः भूतार्थेन ज्ञाताः संतः सम्यक्त्वं भवंतीत्युक्तं भवद्भिस्तत्कीदृशं भूतार्थपरिज्ञानमिति पृष्टे प्रत्युत्तरमाह । यद्यपि नव पदार्थाः तीर्थवर्तनानिमित्तं प्राथमिकशिक्षापेक्षया भूतार्था भण्यंते तथाप्यभेदरत्नत्रयलक्षणनिर्विकल्पसमाधिकाले अभूतार्था अस Page #12 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायांस्यार्थी शुद्धात्मस्वरूपं न भवति । तस्मिन् परमसमाधिकाले नवपदार्थमध्ये शुद्धनिश्चयनयेनैक एव शुद्धात्मा प्रद्योतते प्रकाशते प्रतीयते अनुभूयत इति । या चानुभूतिः प्रतीतिः शुद्धात्मोपलब्धिः साचैव निश्चयसम्यक्त्वमिति साचैवानुभूतिर्गुणगुणिनोनिश्चयनयेनाभेदविवक्षायां शुद्धात्मस्वरूपमिति तात्पर्य । किं च ये च प्रमाणनयनिक्षेपाः परमादितत्त्वविचारकाले सहकारिकारणभूतास्तेपि सविकल्पावस्थायामेव भूतार्थाः । परमसमाधिकाले पुनरभूतार्थास्तेषु मध्ये भूतार्थेन शुद्धजीव एक एव प्रतीयत इति नवपदार्थाधिकारगाथा गता । ततो नवाधिकारेषु मध्ये प्रथमतस्तावदष्टाविंशतिगाथापर्यंतं जीवाधिकारः कथ्यते । तथा हि-सहजानंदैकस्वभावशुद्धात्मभावनामुख्यतया जो पस्सदि अप्पाणमित्यादि सूत्रपाठक्रमेण प्रथमस्थले गाथात्रयं । तदनंतरं दृष्टांतदाष्र्टीतद्वारेण भेदाभेदरत्नत्रयभावनामुख्यतया दंसणणाणचरित्ताणि इत्यादि द्वितीयस्थले गाथात्रयं । ततः परं जीवस्याप्रतिबुद्धत्वकथनेन प्रथमगाथा, बंधमोक्षयोग्यपरिणामकथनेन द्वितीया, जीवो निश्चयेन रागादिपरिणामाणामेव कर्तेति तृतीया, चेत्येवं कम्मेणोकम्मा हि य इत्यादि तृतीयस्थले परस्परसंबंधनिरपेक्षस्वतंत्रगाथात्रयं । तदनंतरमिंधनाग्निदृष्टांतेनाप्रतिबुद्धलक्षणकथनार्थं अहमेदामित्यादि चतुर्थस्थले सूत्रत्रयं । अतः परं शुद्धात्मतत्त्वसम्यकूश्रद्धानज्ञानानुभूतिलक्षणाभदरत्नत्रयभावनाविषये योऽसावप्रतिबुद्धस्तत्प्रतिबोधनार्थ अण्णाणमोहिदमदी इत्यादि पंचमस्थले सूत्रत्रयं । अथ निश्चयरत्नत्रयलक्षणशुद्धात्मतत्त्वमजानन् देहएवात्मेति योऽसौ पूर्वपक्षं करोति तस्य स्वरूपकथनार्थ जदि जीवो इत्यादि पूर्वपक्षरूपेण गाथैका । तदनंतरं व्यवहारेण देहस्तवनं निश्चयेन शुद्धात्मस्तवनमिति नयद्वयविभागप्रतिपादनमुख्यत्वेन ववहारेण तु भासदि इत्यादि परिहारसूत्रचतुष्टयं । अथ परमोपेक्षालक्षणशुद्धात्मसंवित्तिरूपनिश्चयस्तुतिमुख्यत्वेन जो इंदिए जिणित्ता इत्यादि सूत्रत्रयं । एवं गाथाष्टकसमुदायेन षष्ठस्थलं । ततःपर निर्विकारस्वसंवेदनज्ञानमेव विषयकषायादिपरद्रव्याणां प्रत्याख्यानमिति कथनेन, णाणं सव्वे भावा इत्यादि सप्तमस्थले गाथाचतुष्टयं । तदनंतरमनंतज्ञानादिलक्षणशुद्धात्मसम्यक्श्रद्धानज्ञानानुचरणरूपाभेदरत्नत्रयात्मकस्वसंवेदनमेव भावितात्मनः स्वरूपमित्युपसंहारमुख्यतया अहमेको खलु सुद्धो इत्यादि सूत्रमेकं । एवं दंडकान्विहायाष्टाविंशतिसूत्रैः सप्तभिरंतरस्थलैर्जीवाधिकारसमुदायपातनिका तद्यथा-अथ प्रथमगाथाया मबंधस्पृष्ठमनन्यकं नियतमविशेषमसंयुक्तं संसारावस्थायामपि शुद्धनयेन विसिनीपत्रमृत्तिकावार्द्धिसुवर्णोष्णरहितजलवत्पंचविशेषणविशिष्टं शुद्धात्मानं कथयति । आत्मख्यातिः--अमूनि हि जीवादीनि नवतत्वानि भूतार्थेनाभिगतानि सम्यग्दर्शनं संपद्यंत, एवामीषु तीर्थप्रवृत्तिनिमित्तमभूतार्थनयेन व्यपदिश्यमानेषु जीवाजीवपुण्यपापास्रवसंवरनिर्जराबंधमोक्षलक्षणेषु नवतत्वेष्वेकत्वद्योतिना भूतार्थनयेनैकत्वमुपानीय शुद्धनयत्वेन व्यवस्थापितस्यात्मनोनुभूतेरात्मख्यातिलक्षणायाः संपद्यमानत्वात्ततो विकार्यविकारकोभयं पुण्यं तथा पापं । आस्राव्यास्रावकोभयमास्रवः, संवार्यसंवारकोभयं संवरः निर्जर्यनिर्जरकोभयं निर्जरा बंध्यबंधकोभयं बंधः मोच्यमोचकोभयं मोक्षः । स्वयमेकस्य पुण्यपापास्रवसंवरनिर्जराबंधमोक्षानुपपत्तेः । तदुभयं च जीवाजीवाविति । बहिर्दृष्ट्या नवतत्त्वान्यमूनि जीवपुद्गलयोरनादिबंधपर्यायमुपेत्यैकत्वेनानुभूयमानतायां भूतार्थानि अथवैकजीवद्रव्यस्वभावमुपेत्यानुभूययानतायामभूतानि । ततोऽमीषु नवतत्त्वेषु भूतार्थनयेनैको जीव एव प्रद्योतते । तथांतर्दृप्ट्या ज्ञायको भावो जीवो जीवस्य विकारहेतुरजीवः केवलजीवविकाराश्च पुण्यपापात्रवसंवरनिर्जराबंधमोक्षलक्षणाः । केवलाजीवविकारहेतवः पुण्यपापास्रवसंवरनिर्जराबंधमोक्षा इति । नवतत्वान्यमून्यपि जीवद्रव्यस्वभावमपोह्य स्वपरप्रत्ययैकद्रव्यपर्यायत्वेनानुभूयमानतायां भूतार्थानि अथ च सकलकालमेवास्खलंतमेकं जीवद्रव्यस्वभावमुपेत्यानुभूयमानतायामभूतार्थानि । ततोऽमीष्वपि नवतत्वेषु भूतार्थनयेनैको जीव एव प्रद्योतते एवमसावेकत्वेन द्योतमानः शुद्धनयत्वेनानुभूयतएव । पात्वनुभूतिः सात्मख्यातिरेवात्मख्यातिस्तु सम्यग्दर्शनमेवेति समस्तमेव निरवद्यं । Page #13 -------------------------------------------------------------------------- ________________ समयप्राभृतं । चिरमिति नवतत्त्वच्छन्नमुन्नीयमानं कनकमिव निमग्नं वर्णमालाकलापे । अथ सततविविक्तं दृश्यतामेकरूपं प्रतिपदमिदमात्मज्योतिरुद्योतमानं ॥८॥ अथैवमेकत्वेन द्योतमानस्यात्मनोऽधिगमोपायाः प्रमाणनयनिक्षेपाः ये ते खल्वभूतार्थास्तेष्वप्ययमेकएव भूतार्थः । प्रमाणं तावत्परोक्षं प्रत्यक्षं च तत्रोपात्तानुपात्तपरद्वारेण प्रवर्त्तमानं परोक्षं केवलात्मप्रतिनियतत्वेन वर्तमानं प्रत्यक्षं च तदुभयमपि प्रमातृप्रमाणप्रमेयभेदस्यानुभूयमानतायां भूतार्थमथ च व्युदस्तसमस्तभेदैकजीवस्वभावस्यानुभूयमानतायामभूतार्थ । नयस्तु द्रव्यार्थिकश्च पर्यायार्थिकश्च तत्र द्रव्यपर्यायात्मके वस्तुनि द्रव्यं मुख्यतयानुभावयतीति द्रव्यार्थकः पर्यायमुख्यतयानुभावयतीति पर्यायार्थिकः तदुभयमपि द्रव्यपर्याययोः पर्यायेणानुभूयमानतायां भूतार्थे । अथ च द्रव्यपर्यायानालीढशुद्धवस्तुमात्रजीवस्वभावस्यानुभूयमानतायामभूतार्थ । निक्षेपस्तु नाम स्थापना द्रव्यं भावश्च । तत्रातद्गुणे वस्तुनि संज्ञाकरणं नाम । सोयमित्यन्यत्र प्रतिनिधिव्यवस्थापनं स्थापना । वर्तमानतत्पर्यायादन्यद्रव्यं, वर्तमानतत्पर्यायोभावस्तच्चतुष्टयं स्वस्वलक्षणवैलक्षण्येनानुभूयमानतायां भूतार्थ । अथ च निर्विलक्षणस्वलक्षणैकजीवस्वभावस्यानुभूययानतायामभूतार्थ अथैवममीषु प्रमाणनयनिक्षेपेषु भूतार्थत्वेनैको जीव एव प्रद्योतते । उदयति न नयश्रीरस्तमेति प्रमाणं क्वचिदपि च न विमो याति निक्षेपचक्र । किमपरमभिदध्मो धानि सर्वकषेऽस्मिन्ननुभवमुपयाते भाति नं द्वैतमेव ॥९॥ आत्मस्वभावं परभावभिन्नमापूर्णमाद्यंतविमुक्तमेकं ।। विलीनसंकल्पविकल्पजालं प्रकाशयन् शुद्धनयोभ्युदेति ॥१०॥ जो पस्सदि अप्पाणं अवद्धपुढे अणण्णयं णियदं। अविसेसमसंजुत्तं तं सुद्धणयं वियाणीहि ॥१६॥ यः पश्यति आत्मानं अवद्धस्पृष्टमनन्यकं नियतं । अविशेषमसंयुक्तं तं शुद्धनयं विजानीहि ॥१६॥ सात्पर्यवृत्तिः-जो पस्सदि यः कर्ता पश्यति जानाति कं अप्पाणं शुद्धात्मानं कथंभूतं अवद्धपुढे द्रव्यकर्मनोकर्मभ्यामसंस्पृष्टं जले विसिनीपत्रवत् । अणण्णयं अनन्यकं नरनारकादिपर्यायेषु द्रव्यरूपेण तमेव थासकोशकुशूलघटादिपर्यायेषु मृत्तिकाद्रव्यवत् णिययं नियतमवस्थितं निस्तरंगोत्तरगावस्थासु समुद्रवत् अविसेसं अविशेषमभिन्नं ज्ञानदर्शनादिभेदरहितं गुरुत्वस्निग्धत्वपीतत्वादिधर्मेषु सुववत् असंजुत्तं असंयुक्तमसंबद्धं रागादिविकल्परूपभावकर्मरहितं निश्चयनयेनोष्णरहितजलवदिति तं सुद्धणयं वियाणीहि तं पुरुषमेवाभेदनयेन शुद्धनयविषयत्वाच्छुद्धात्मसाधकत्वाच्छुद्धाभिप्रायपरिणतत्वाच्च शुद्धं विजानीहीति भावार्थः । अथ द्वितीयगाथायां या पूर्व भणिता शुद्धात्मानुभूतिः सा चैव निर्विकारस्वसंवेदनज्ञानानुभूतिरिति प्रतिपादयति । ___ आत्मख्यातिः-या खल्वबद्धस्पृष्टस्यानन्यस्य नियतस्याविशेषस्यासंयुक्तस्य चात्मनोऽनुभूतिः स शुद्धनयः सात्वनुभूतिरात्मैवेत्यात्मैकएव प्रद्योतते कथं यथोदितस्यात्मनोनुभूतिरिति चेद्वद्धस्पृष्टत्वादीनामभूतार्थत्वात्तथाहि-यथा खलु विसिनीपत्रस्य सलिलनिमग्नस्य सलिलस्पृष्टत्वपर्यायेणानुभूयमानतायां सलिलस्पृष्टत्वभूतार्थमप्येकांततः सलिलास्पृश्यं विसिनीपत्रस्वभावमुपेत्यानुभूययानतायामभूतार्थ । तथात्मनोनादिबद्धस्पृष्टत्वपर्यायेणानुभूयमानतायां बद्धस्पृष्टत्वं भूतार्थमप्येकांततः पुद्गलास्पृश्यमात्मस्वभावमुपेत्यानुभूयमानतायामभूतार्थ । यथा च मृत्तिकायाः कस्ककरीरकर्करीकपालादिपर्यायेणानुभूयमानतायामन्यत्वं भूतार्थमपि सर्वतोप्यस्स्वलंतमेकं मृत्तिकास्वभावमुपेत्यानुभूयमानतायामभूतार्थ तयात्मनो नारकादिपर्यायेणानुभूयमानतायामन्यत्वं भूतार्थमपि सर्वतोप्यस्वलंतमेकमात्मस्वभावमुपेत्यानुभूयमानतायामभूतार्थे । नथा च Page #14 -------------------------------------------------------------------------- ________________ १२ सनातनजैनग्रंथमालायांवारिधर्वृद्रिहानिपर्यायेणानुभूयमानतायामनियतत्वं भूतार्थमपि नित्यव्यवस्थितं वारिधिस्वभावमुपेत्यानु भूयमानतायामभूतार्थ तथात्मनो वृद्धिहानिपर्यायेणानुभूयमानतायामनियतत्वं भूतार्थमपि नित्यव्यवस्थितमात्मस्वभावमुपेत्यानुभूयमानतायामभूतार्थ । यथा च कांचनस्य स्निग्धपीतगुरुत्वादिपर्यायेणानुभूयमानतायां विशेषत्वं भूतार्थमपि प्रत्यस्तमितसमस्तविशेषकांचनस्वभावमुपेत्यानुभूयमानतायामभूतार्थ तथात्मनो ज्ञानदर्शनादिपर्यायेणानुभूयमानतायां विशेषत्वं भूतार्थमपि प्रत्यस्तमितसमस्तविशेषमात्मस्वभावमुपेत्यानुभूयमानतायामभूतार्थ । यथा वापां सप्तार्चिःप्रत्ययोष्णसमाहितत्वपर्यायेणानुभूयमानतायां संयुक्तत्वं भूतार्थमप्येकांततः शीतस्वभावमुपेत्यानुभूयमानतायामभूतार्थ तथात्मनः कर्मप्रत्ययमोहसमाहितत्वपर्यायेणानुभूयमानतायां संयुक्तत्वं भूतार्थमप्येकांततः स्वयंबोधबीजस्वभावमुपेत्यानुभूयमानतायामभूतार्थं । न हि विदधति वद्धस्पृष्टभावादयोमी स्फुटमुपरितरंतोप्येत्य यत्र प्रतिष्ठां । अनुभवतु तमेव द्योतमानं समंतात् जगदपगतमोहीभूय सम्यक्स्वभावं ॥ ११ ॥ भूतं भांतमभूतमेवं रभसान्निभिद्य बंध सुधीर्यातः किल कोप्यहो कलयति व्याहत्य मोहं हठात् । आत्मात्मानुभवैकगम्यमहिमा व्यक्तोयमास्ते ध्रुवं नित्यं कर्मकलंकपंकविकलो देवः स्वयं शास्वतः ॥१२॥ आत्मानुभूतिरिति शुद्धनयात्मिका या ज्ञानानुभूतिरियमेव किलेति बुद्धा । आत्मानमात्मनि निवेश्य सुनिष्प्रकंपमेकोस्ति नित्यमवबोधघनः समंतात् ॥ १३ ॥ जो पस्सदि अप्पाणं अवद्धपुढे अणण्णमविसेसं। अपदेससुत्तमझ पस्सदि जिणसासणं सव्वं ॥१७॥ यः पश्यति आत्मानं अवद्धस्पृष्टमनन्यमविशेषं । अपदेशसूत्रमध्यं पश्यति जिनशासनं सर्वं ॥१७॥ तात्पर्यवृत्तिः- जो पस्सदि यः कर्ता पश्यति जानात्यनुभवति कं अप्पाणं शुद्धात्मानं किं विशिष्टं अवद्धपुढे अवद्धस्पृष्टं । अत्र बंधशब्देन संश्लेषरूपबंधो ग्राह्यः । स्पृष्टशब्देन तु संयोगमात्रमिति । द्रव्यकर्मनोकर्मभ्यामसंस्पृष्टं जले विसिनीपत्रवत् । अणणं अनन्यं मृत्तिकाद्रव्यवत् । अविसेसं अविशेषमभिन्नं सुवर्णवत् नियतमवस्थितं समुद्रवत् असंयुक्तं परद्रव्यसंयोगरहितं निश्चयनयेनोष्णरहितजलवदिति । नियतासंयुक्तविशेषणद्वयं सूत्रे नास्ति । कथं लभ्यत इति चेत् सामर्थ्यात् तदपि कथं श्रुतप्रकृतसामर्थ्ययुक्तो हि भवति सूत्रार्थः इति वचनात् । स पुरुषः पस्सदि पश्यति जानाति किं तत् जिणसासणं जिनशासनं अर्थसमयरूपं जिनमतं सव्वं सर्व द्वादशांगपरिपूर्ण कथंभूतं अपदेससुत्तमज्झं अपदेशसूत्रमध्यं अपदिश्यतेर्थो येन स भवत्यपदेशशब्दो द्रव्यश्रुतमिति यावत् सूत्रपरिछित्तिरूपं भावश्रुतं ज्ञानसमय इति तेन शब्दसमयेन वाच्यं ज्ञानसमयेन परिच्छेद्यमपदेशसूत्रमध्यं भण्यते इति । अयमत्र भावः यथा लवणखिल्य एकरसोपि फलशाकपत्रशाकादिपरद्रव्यसंयोगेन भिन्नभिन्नास्वादः प्रतिभात्यज्ञानिनां । ज्ञानिनां पुनरेकरसएव तथात्माप्यखंडज्ञानस्वभावोऽपि स्पर्शरसगंधशब्दनीलपीतादिवर्णज्ञेयपदार्थविषयभेदेनाज्ञानिनां निर्विकल्पसमाधिभ्रष्टानां खंडखंडज्ञानरूपः प्रतिभाति ज्ञानिनां पुनरखंडकेवलज्ञानस्वरूपमेव इति हेतोरज्ञानरूपे शुद्धात्मनि ज्ञाते सति सर्व जिनशासनं ज्ञातं भवतीति मत्वा समस्तमिथ्यात्वरागादिपरिहारेण तत्रैव शुद्धात्मनि भावना कर्त्तव्येति । किं च मिथ्यात्वशब्देन दर्शनमोहो रागादिशब्देन चारित्रमोह इति सर्वत्र ज्ञातव्यं । अथ तृतीयगाथायां सम्यग्ज्ञनादिकं सर्वशुद्धात्मभावनामध्ये लभ्यत इति निरूपयति ।। आत्मख्यातिः-येयमवद्धस्पृष्टस्यानन्यस्य नियतस्य विशेषस्यासंयुक्तस्य चात्मनोनुभूतिः सा खल्वखिलस्य जिनशासनस्यानुभूतिः श्रुतज्ञानस्य स्वयमात्मत्वात्ततो ज्ञानानुभूतिरेवात्मानुभूतिः किंतु तदानों सामान्यविशेषाविर्भावतिरोभावाभ्यामनुभूयमानमपि ज्ञानमबुद्धलुब्धानां न स्वदते । तथाहि—यथा Page #15 -------------------------------------------------------------------------- ________________ १३ समयप्राभृतं । विचित्रव्यंजनसंयोगोपजातसामान्यविशेषतिरोभावाविर्भावाभ्यामनुभूयमानं लवणं लोकानामवुद्धानां व्यजनलुब्धानां स्वदते न पुनरन्यसंयोगशून्यतोपजातसामान्यविशेषाविभीवीतरोभावाभ्यां । अथ च यदेव विशेषाविर्भावेनानुभूयमानं लवणं तदेव सामान्याविर्भावेनापि तथा विचित्रज्ञेयाकारकरंवितत्वोपजातसामान्यविशेषतिरोभावाविर्भावाभ्यामनुभूयमानं ज्ञानमबुद्धानां ज्ञेयलुब्धानां स्वदते न पुनरन्यसंयोगशून्यतोपजातसामान्यविशेषाविर्भावतिरोभावाभ्यां । अथ च यदेव विशेषाविर्भावेनानुभूयमानं ज्ञानं तदेव सामान्याविर्भावनाप्यलुब्धवुद्धानां यथा सैंधवखिल्योन्यद्रव्यसंयोगाव्यच्छेदेन केवल एवानुभूयमानः सर्वतोप्येकलवणरसत्वाल्लवणत्वेन स्वदते तथात्मापि परद्रव्यसंयोगव्यवच्छेदेन केवलएवानुभूयमानः सर्वतोप्येकविज्ञानघनत्वात् ज्ञानत्वेन स्वदते। अखंडितमनाकुलं ज्वलदनंतमंतर्बहिर्महः परममस्तु नः सहजमुद्विलासं सदा । चिदुच्छलननिर्भरं सकलकालमालंबते यदेकरसमुल्लसल्लवणखिल्यलीलायितं ॥ १४ ॥ एष ज्ञानधनो नित्यमात्मसिद्धमभीप्सुभिः । साध्यसाधकभावेन द्विधैकः समुपास्यतां ॥१५॥ आदा खु मज्झ णाणे आदा मे दंसणे चरित्ते य । आदा पञ्चक्खाणे आदा मे संवरे जोगे ॥१०॥ आत्मा स्फुटं मम ज्ञाने आत्मा मे दर्शने चरित्रे च । आत्मा प्रत्याख्याने आत्मा मे संवरे योगे ॥१८॥ तत्पर्यवृत्तिः-आदा शुद्धात्मा खु स्फुटं मज्झ मम भवति क विषये गाणे आदा मे दंसणे चरित्ते य आदा पञ्चक्खाणे आदा मे संवरे जोगे सम्यग्ज्ञानदर्शनचारित्रप्रत्याख्यानसंवरयोगभावना विषये । योगे कोऽर्थः : निर्विकल्पसमाधौ परमसामायिके परमध्याने चेत्येको भावः भोगाकांक्षानिदानबंधशल्यादिभावरहिते शुद्धात्मनि ध्याते सर्व सम्यग्ज्ञानादिकं लभ्यत इत्यर्थः एवं शुद्धनयव्याख्यानमुख्यत्वेन प्रथमस्थले गाथात्रयं गत । इत ऊर्ध्वं भेदाभेदरत्नत्रयमुख्यत्वेन गाथात्रयं कथ्यते तद्यथा-प्रथम गाथायां पूर्वार्द्धन भेदरत्नत्रयभावनामपरार्द्धन चाभेदरत्नत्रयभावनां कथयति दंसणणाणचरित्ताणि सेविदव्वाणि साहुणा णिचं । ताणि पुण जाण तिण्णिवि अप्पाणं चेव णिच्छयदो॥१९॥ दर्शनज्ञानचारित्राणि सेवितव्यानि साधुना नित्यं । तानि पुनर्जानीहि त्रीण्यप्यात्मानमेव निश्चयतः ॥१९॥ तात्पर्यवृत्तिः-दसणणाणचारित्ताणि सेविदव्वाणि साहुणा णिचं सम्यग्दर्शनज्ञानचारित्राणि सेवितव्यानि साधुना व्यवहारनयेन नित्यं सर्वकालं ताणि पुण जाण तिण्णवि तानि पुनर्जानी हि त्रीण्यपि अप्पाणं चेव शुद्धत्मानं चैव णिच्छयदो निश्चयतः शुद्धनिश्चयतः । अयमत्रार्थः-पंचेंद्रियविषयक्रोधकषायादिरहितनिर्विकल्पसमाधिमध्ये सम्यग्दर्शनज्ञानचारित्रत्रयमस्तीति । अथ गाथाद्वयेन तामेव भेदाभेदरत्नत्रयभावना दृष्टांतदाष्टांताभ्यां समर्थयति । __आत्मख्याति:-येनैव हि भावनात्मा साध्यं सावनं च स्यात्तेनैवायं नित्यमुपास्य इति स्वयमाकूय परेषां व्यवहारेण साधुना दर्शनज्ञानचारित्राणि नित्यमुपास्यानीति प्रतिपाद्यते । तानि पुनस्त्रीण्यपि परमार्थनात्मैक एव वस्त्वंतराभावात् यथा देवदत्तस्य कस्यचित् ज्ञानं श्रद्धानमनुचरणं च देवदत्तस्य स्वभावानातक्रमाद्देवदत्त एव न वस्त्वंत्तरं तथात्मन्यप्यात्मनो ज्ञानं श्राद्धानमनुचरणं चात्मस्वभावानतिक्रमादात्मैव नवस्त्वतरं तत आत्मा एक एवोपास्य इति स्वयमेव प्रद्योतते स किल Page #16 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायांदर्शनज्ञानचारित्रैस्त्रित्वादेकत्वतः स्वयं । मेचको मेचकश्चापि सममात्मा प्रमाणतः ॥१६॥ दर्शनज्ञानचारित्रैत्रिभिः परिणतत्वतः । एकोपि त्रिस्वभावत्वाद्व्यहारेण मेचकः ॥१७॥ परमार्थेन तु व्यक्तज्ञातृत्वज्योतिषैककः । सर्वभावांतरध्वंसिस्वभावत्वादमेचकः ॥१८॥ आत्मा नश्चितयैवालं मेचकामेचकत्वयोः । दर्शनज्ञानचारित्रः साध्यसिद्धिर्न चान्यथा ॥१९॥ जह णाम को वि पुरिसो रायाणं जाणिऊण सद्दहदि । तो तं अणुचरदि पुणो अत्थत्थीओ पयत्तेण ॥२०॥ एवं हि जीवराया णादब्यो तह य सदहे दब्यो । अणुचरिदव्वो य पुणो सो चेव दु मोक्खकामेण ॥२१॥ यथानाम कोपि पुरुषो राजानं ज्ञात्वा श्रद्दधाति । ततस्तमनुचरति पुनरथोर्थिक प्रयत्नेन ॥२०॥ एवं हि जीवराजो ज्ञातव्यस्तथैव श्रदातव्यः । अनुचरितव्यश्च पुनः स चैव तु मोक्षकामेन ॥२१॥ तात्पर्यवृतिः-जह यथा णाम अहो स्फुटं वा कोवि कोपि कश्चित् पुरिसो पुरुषः रायाणं राजानं जाणिऊण छत्रचामरादिराजचिलैत्विा सद्दहदि श्रद्धत्ते अयमेव राजेति निश्चिनोति तो ततो ज्ञानश्रद्धानानंतरं तं तं राजानं अणुचरदि अनुचरति आश्रयत्याराधयति कथंभूतः सन् अत्थत्थीओ अर्थार्थिको जीवितार्थी पयत्तण सर्वतात्पर्येणेति दृष्टांतगाथा गता एवं अनेन प्रकारेण हि स्फुट जीवराया शुद्धजीवराजा णादव्वो निर्विकारस्वसंवेदनज्ञानेन ज्ञातव्यः । तह य तथैव सद्दहेव्वद वो अयमेव नित्यानंदैकस्वभावो रागादिरहितः शुद्धात्मेति निश्चतव्यः अणुचरिदव्यो य अनुचरितव्यश्च निर्विकल्प समधिनानुभवनीयः । पुनः सो एव स एव शुद्धात्मा दु पुनः मोक्खकामेण मोक्षार्थिना पुरुषेणेति दार्टीतः । इदमत्र तात्पर्य भेदाभेदरत्नत्रयभावनारूपया परमात्मचिंतयैव पूर्यतेऽस्माकं किं विशेषेण शुभाशुभ रूपविकल्पजालेनेति । एवं भेदाभदरत्नत्रयव्याख्यानमुख्यतया गाथात्रयं द्वितीयस्थले गतं । अथ स्वतंत्रव्याख्यानमुख्यतया गाथात्रयं कथ्यते तद्यथा स्वपरभेदविज्ञानाभावे जीवस्तावदज्ञानी भवति परं किंतु कियत्कालपर्यतं इति न ज्ञायते एवं पृष्टे सति प्रथमगाथायां प्रत्युत्तरं ददाति । आत्मख्याति:-यथा हि कश्चित्पुरुर्षोऽर्थार्थी प्रयत्नेन प्रथममेव राजानं जानीते ततस्तमेव श्रद्धत्ते ततस्तमेवानुचरति । तथात्मना मोक्षार्थिना प्रथममेवात्मा ज्ञातव्यः तत स एव श्रद्धातव्यः ततः सएवानुचरितव्यश्च साध्यसिद्धस्तथान्यथोपपत्त्यनुपपत्तिभ्यां । तत्र यदात्मनोनुभूयमानानेकभावसंकरेपि परमविवेककौशलेनायमहमनुभूतिरित्यात्मज्ञानेन संगच्छमानमेव तथेतिप्रत्ययलक्षणं श्रद्धानं चरणमुत्प्लवमानमा स्मानं साधयतीति साध्यसिद्धस्तथोपपत्तेः यदात्वाबालगोपालमेव सकलकालमेव स्वयमेवानुभूयमानेपि भगवत्यनुभूत्यात्मन्यनादिबंधवशात् परैः सममेकत्वाध्यवसायेन विमूढस्यायमहमनुभूतिरित्यात्मज्ञानं नोत्प्लवते तदभावादज्ञानखर,गश्रद्धानसमानत्वाच्छ्रद्धानमपि नोत्प्लवते तदा समस्तभावांतरविवेकेन निःशकमेव स्थातुमशक्यत्वादात्मानुचरणमनुत्प्लवमानं नात्मानं साधयीति साध्यसिद्धेरन्यथानुपपत्तिः । कथमपि समुपात्तत्रित्वमप्यकताया अपतितमिदमात्मज्योतिरुद्गच्छदच्छं । सततमनुभवामोनतचैतन्यचिह्न न खलु न खलु यस्मादन्यथा साध्यसिद्धिः ॥२०॥ ननु ज्ञानतादात्म्यादात्मात्मानं नित्यमुपास्व एव कुतस्तदुपास्यत्वेनानुशास्यत इति चेन्न यतो न Page #17 -------------------------------------------------------------------------- ________________ समयप्राभृतं । १५ खल्यात्मा ज्ञानतादात्म्येपि क्षणमपि ज्ञानमुपास्ते स्वयं बुद्धबोधितबुद्धत्वकारणपूर्वकत्वेन ज्ञानस्योत्पत्तेः । तर्हि तत्कारणात्पूर्वमज्ञानएवात्मा नित्यमेवाप्रतिबुद्धत्वादेवमेतत् । तर्हि कियंतकालमयमप्रतिबुद्धो भवतीत्यभिधीयतां । कम्मे णोकमयि अहमिदि अहकं च कम्म णोकम्मं । जा एसा खलु बुद्धी अप्पडिबुद्ध हवदि ताव ॥२२॥ कर्मणि नोकर्मणि चाहमित्यहकं च कर्म नोकर्म यावदेषा खलु बुद्धिरप्रतिबुद्धो भवति तावत् ||२२|| तात्पर्यवृत्तिः - कम्मे कर्मणि ज्ञानावरणादिद्रव्यकर्मणि रागादिभावकर्मणि च णोकम्मल य शरीरादिनोकर्मणि च अहमिदि अहमिति प्रतीतिः अहकं च कम्म णोकम्मं अहकं च कर्म नोकर्मेति प्रतीति: यथा घटे वर्णादयो गुणा घटाकारपरिणतपुद्गलस्कंधाश्च वर्णादिषु घट इत्यभेदेन जा यावंतं कालं एसा एषा प्रत्यक्षीभूता खलु स्फुटं बुद्धी कर्मनोकर्मणा सह शुद्धबुद्धैकस्वभावनिजपरमात्मवस्तुनः एका बुद्धिः अप्पाढबुद्धो अप्रतिबुद्धः स्वसंवित्तिशून्यो बहिरात्मा हवदि भवति ताव तावत्कालमिति । अत्र भेदविज्ञानमूलं शुद्धात्मानुभूतिः स्वतः स्वयंबुद्धापेक्षया परतो वा बोधितबुद्धापेक्षया ये लभंते ते पुरुषाः शुभाशुभबहिर्द्रव्येषु विद्यमानेष्वपि मुकुरुंदवदविकारा भवतीति भावार्थ: । अथ शुद्धजीवे यदा रागादिरहित परिणामस्तदा मोक्षो भवति । अजीवे देहादौ यदा रागादि परिणामस्तदा बंधो भवतीत्याख्याति - जीवेव अजीवे वा संपदि समय जत्थ उवजुत्तो । तत्व बंध मोक्खो होदि समासेण णिद्दिट्ठो || २३॥ जीवे वा अजीवे वा संप्रतिसमये यत्रोपयुक्तः । तत्रैव बंधः मोक्षो भवति समासेन निर्दिष्टः || २३॥ तात्पर्यवृतिः - जीवेव स्वशुद्धजीवे वा भजीवे वा देहादौ वा संपादेसमयमि वर्त्तमानकाले जत्थ उवजुतो यत्रोपयुक्तः तन्मयत्वेनोपादेयबुद्ध्या परिणतः तत्थेव तत्रैव अजीवे जीवे वा बंधमोक्खो अजीवदेहादौ बंधो, जीवे शुद्धात्मनि मोक्षः हवदि भवति समासेण णिद्दिद्वो संक्षेपेण सर्वज्ञैर्निर्दिष्ट इति । अत्रैव ज्ञात्वा सहजानंदैकस्वभावनिजात्मनि रतिः कर्त्तव्या । तद्विलक्षणे परद्रव्ये विरतिरित्यभिप्रायः ॥ अथाशुद्धनिश्चयेनात्मा रागादिभावकर्मणां कर्त्ता अनुपचरितासद्भूतव्यवहारनयेन द्रव्यकर्मणामित्यावेदयति । 1 जं कुणदि भावमादा कत्ता सो होदि तस्स भावस्स । पिच्छयदो ववहारा पोग्गलकम्माण कत्तारं ॥२४॥ यं करोति भावं आत्मा कर्त्ता स भवति तस्य भावस्य । निश्रयतः व्यवहारनयात् पुद्गलकर्मणां कर्त्ता ||२४|| तात्पर्यवृत्तिः - जं कुणदि भावमादा कत्ता सो होदि तस्स भावस्स यं करोति रागादि भावमात्मा स तस्य भावस्य परिणामस्य कर्त्ता भवति । णिच्छयदो अशुद्धनिश्चयनयेन अशुद्धभावानां शुद्धानेश्चयनयेन शुद्धभावानां कर्त्तेति भावानां परिणमनमेव कर्तृत्वं । ववहारा अनुपचरितासद्भूतव्यवहारनयात् पोग्गलकम्माण पुद्गलद्रव्यकर्मादीनां कत्तारं कर्त्तेति । कर्तारं इति कर्मपदं कर्त्तेति कथं भवतीति श्वेत् प्राकृते क्वापि कारकव्यभिचारोलिंगव्यभिचारश्च । अत्र रागादीनां जीवः कर्त्तेति भणितं ते च Page #18 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायांसंसारकारणं ततः संसारभयभीतेन मोक्षार्थिना समस्तरागादिविभावरहिते शुद्धद्रव्यगुणपर्याये स्वरूपे निज परमात्मनि भावना कर्त्तव्येत्यभिप्रायः । एवं स्वतंत्रव्याख्यानमुख्यत्वेन तृतीयस्थले गाथात्रयं गतं । अथ यथाकोप्यप्रतिबुद्धः अग्निरिंधनं भवति इंधनमग्निर्भवति अग्निरिंधनमासीत् इंधनमग्निरासीत् अग्निरिंधनं भविष्यति इंधनमग्निर्भविष्यतीति वदति तथा यः कालत्रयेपि देहरागादिपरद्रव्यमात्मनि योजयति सोऽप्रतिबुद्धो बहिरात्मा मिथ्याज्ञानी भवतीति प्ररूपयति । आत्मख्यातिः–यथा स्पर्शरसगंधवर्णादिभावेषु पृथुवुध्नोदराद्याकारपरिणतपुद्गलस्कंधेषु घटोयमिति घटे च स्पर्शरसगंधवर्णादिभावाः पृथुतुनोदराद्याकारपरिणतपुद्गलस्कंधाश्चामी इति वस्त्वभेदेनानुभूतिस्तथा कर्मणि मोहादिष्वंतरंगेषु, नोकर्मणि शरीरादिषु बहिरंगेषु चात्मतिरस्कारिषु पुद्गलपरिणामेष्वहमित्यात्मनि च कर्ममोहादयोऽतरंगा नोकर्मशरीरादयो बहिरंगाश्चात्मतिरस्कारिणः पुद्गलपरिणामा अमी इति वस्त्वभेदेन यावंतं कालमनुभूतिस्तावंतकालमात्मा भवत्यप्रतिबुद्धः । यदा कदाचिद्यथारूपिणो दर्पणस्य स्वपराकारावभासिनी स्वच्छतैव वन्हेरौष्ण्यं ज्वाला च तथा नीरूपस्यात्मनः स्वपराकारावभासिनी ज्ञातृतैव पुद्गलानां कर्म नोकर्मचेति स्वतःपरतो वा भेदविज्ञानमूलानुभूतिरुत्पश्यति तदैव प्रतिबुद्धो भविष्यति । कथमपि हि लभंते भेदविज्ञानमूलामचलितमनुभूतिं ये स्वतो वान्यतो वा । प्रतिफलननिमग्नानंतभावस्वभावैर्मुकुरवदविकारा संततं स्युस्तएव ॥ २१॥ ननु कथमयमप्रतिबुद्धो लक्ष्येत अहमेदं एदमहं अहमेदस्सेव होमि मम एदं । अण्णं जं परदव्वं सचित्ताचित्तमिस्सं वा ॥२५॥ आसि मम पुव्वमेदं अहमेदं चावि पुवकालनि । होहिदि पुणोवि मझं अहमेदं चावि होस्सामि ॥२६॥ एयत्तु असंभूदं आदवियप्पं करेदि संमूढो । भूदत्थं जाणतो ण करेदि दु तं असंमूढो ॥२७॥ अहमेतदेतदहमेतस्यामि ममैतत् ।। अन्यद्यत्परद्रव्यं सचित्ताचित्तमिश्र वा ॥२५॥ आसीन्मम पूर्वमेतदेतत् अहमिदंच पूर्वकाले। भविष्यति पुनरपिमम अहमिदं चैव पुनर्भविष्यामि ॥२६॥ एतत्त्वसद्भूतमात्मविकल्पं करोति संमूढः । भूतार्थ जानन करोति तु तमसंमूढः ॥२७॥ तात्पर्यवृत्तिः-अहमेदं एदमहं अहं इदं परद्रव्यं इदं अहं भवामि । अहमेदस्सेव हि होमि ममएदं अहमस्य संबंधी भवामि मम संबंधीदं । अण्णं जं परद्रव्यं देहादन्यद्भिन्नं पुत्रकलत्रादि यत्पर द्रव्यं सचित्ताचित्तमिस्सं वा सचित्ताचित्तमिश्रं वा। तच्च गृहस्थापेक्षया सचित्तं स्त्र्यादि, अचित्तं सुवर्णादि, मिश्रं साभरणस्यादि । अथवा तपोधनापेक्षया सचित्तं छात्रादि, अचित्तं पिच्छकमंडलुपस्तकादि मिश्रमुपकरणसहितछात्रादि । अथवा सचित्तं रागादि अचित्तं पुद्गलादि पंच द्रव्यरूपं मिश्रं गुणस्थानजीवमार्गणादि परिणतसंसारिजीवस्वरूपमिति वर्तमानकालापेक्षया गाथा गता । आसीत्यादि आसि मम पुब्वमेदं आसीत् मम पूर्वमेतत् । अहमेदं चावि पुवकालहि अहमिदं चैव पूर्वकाले होहिदि पुणोबि Page #19 -------------------------------------------------------------------------- ________________ - समयप्राभृतं । मज्झं भविष्यति पुनरपि मम अहमेदं चावि होस्सामि अहमिदं चैव पुनर्भविष्यामि इति भूतभाविकालापेक्षया गाथा गता । एदमित्यादि एदं इमं तु पुनः असंभूदं असद्भूतं कालत्रयपरद्रव्यसंबंधिमिथ्यारूपं आदषियप्पं आत्मविकल्पं अशुद्धनिश्चयेन जीवपरिणामं करेदि करोति संमूढो सम्यङ्मूढः अज्ञानी बहिरात्मा भूदत्थं भूतार्थ निश्चयनयं जाणंतो जानन् सन् ण करेदि न करोति दु पुनः कालत्रयपरद्रव्यसंबंधिमिथ्याविकल्पं असंमूढो असंमूढः सम्यग्दृष्टिरंतरात्मा ज्ञानी भेदाभेदरत्नत्रयभावनारतः । किं च यथा कोप्यज्ञानी अग्निरिंधनं इंधनमग्निः कालत्रये निश्चयेनैकांतेनाभेदेन वदति तथा देहरागादिपरद्रव्यमिदानीमहं भवामि पूर्वमहमासं पुमरने भविष्यामीति यो वदति सोऽज्ञानी बहिरात्मा तद्विपरीतो ज्ञानी सम्यग्दृष्टिरंतरात्मेति । एवं अज्ञानी ज्ञानी जीवलक्षणं ज्ञात्वा निर्विकारस्वसंवेदनलक्षणे भेदज्ञाने स्थित्वा भावनां कर्तेति तामेव भावनां दृढयति यथा कोपि राजसेवकपुरुषो राजशत्रुभिः सह संसर्ग कुर्वाणः सन् राजाराधको न भवति तथा परमात्माऽराधकपुरुषस्तत्प्रतिपक्षभूतमिथ्यात्वरागादिभिः परिणममाणः परमात्माराधको न भवतीति भावार्थः । एवमप्रतिबुद्धलक्षणकथनेन चतुर्थस्थले गाथात्रयं गतं । अथाप्रतिबुद्धसंबोधनार्थ व्यवसायः क्रियते ।। __आत्मख्यातिः-यथाग्निरिंधनमस्तीधनमग्निरस्त्यग्नेरिंधनमस्तीधनस्याग्निरस्त्यग्नेरिंधनं • पूर्वमासीद्धिनस्याग्निः पूर्वमासीदग्नेरिंधनं पुनर्भविष्यतींधनस्याग्निः पुनर्भविष्यतीतींधन एवासद्भूताग्निविकल्पत्वेनाप्रतिवुद्धः कश्चिलक्ष्येत तथाहमेतदस्म्येतदहमस्ति ममैतदस्त्येतस्याहमस्मि ममैतत्पूर्वमासीदेतस्याहं पूर्वमासं ममैतत्पुनभविष्यत्येतस्याहं पुनर्भविष्यामीति परद्रव्यएवासद्भूतात्मविकल्पत्वेनाप्रतिबुद्धो लक्ष्येतात्मा । नाग्निरिंधनमस्ति नेधनमग्निरस्त्यग्निरग्निरस्तींधनमिंधनमस्ति । नाग्नेरिंधनमस्ति नेधनस्याग्निरस्त्यग्नेरग्निरस्तींधनस्यधनमस्ति । नाग्नेरिंधनं पूर्वमासीन्धनस्याग्निः पूर्वमासीदग्नेरग्निः पूर्वमासीदिधनस्येंधनं पूर्वमासीन्नाग्नेरिधनं पुनर्भविष्यति नेधनस्याग्निः पुनर्भविष्यत्यग्नेरग्निः पुनर्भविष्यतींधनस्येंधनं पुनर्भविष्यतीति कस्यचिदग्नावेव सद्भूताग्नि विकल्पवन्नाहमेतदस्मि नैतदहमस्त्यहमहमस्म्येतदतदस्ति न ममैतदस्ति नैतस्याहमस्मि ममाहमस्म्येतस्यैतदस्ति न ममैतत्पूर्ममासीन्तस्याहं पूर्वमासं ममाह पूर्वमासमेतस्यैतत्पूर्वमासीन्न ममैतत्पुनर्भविष्यति नैतस्याहं पुनर्भविध्यामि ममाहं पुनर्भविष्याम्येतस्यैतत्पुनर्भविष्यतीति स्वद्रव्य एव सद्भूतात्मविकल्पस्य प्रतिबुद्धलक्षणस्य भावात्। त्यजतु जगदिदानी मोहमाजन्मलीनं रसयतु रसिकानां रोचनं ज्ञानमुद्यत् ।। इह कथमपि नात्मानात्मना साकमेकः किल कलयति काले क्वापि तादात्म्यवृत्तिं ॥ २२ ॥ अथाप्रतिबुद्धबोधनाय व्यवसाय: अण्णाणमोहिदमदी मज्झमिणं भणदि पुग्गलं दव्वं । . वद्धमवद्धं च तहा जीवो बहुभावसंजुत्तो ॥२८॥ सवण्हणाणदिठो जीवो उवओगलक्षणो णिचं । किह सो पुग्गलदव्वी भूदो जं भणसि मज्झमिणं ॥२९॥ जदि सो पुग्गलदवी भूदो जीवत्तमागदं इदरं । तो सत्ता वुत्तुं जे मज्झमिणं पुग्गलं दव्वं ॥३०॥ अज्ञानमोहितमतिर्ममेदं भणति पुद्गलद्रव्यं । बद्धमबद्धं च तथा जीवो बहुभावसंयुक्तः ॥२८॥ सर्वज्ञज्ञानदृष्टो जीव उपयोगलक्षणो नित्यं । कथं स पुद्गलद्रव्यीभूतो यद्भणास ममेदं ॥२९॥ Page #20 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायांयदि स पुदलद्रव्यीभूतो जीवत्वमानताभिसरत् । तच्छतो वक्तुं यन्ममेदं पुरलं द्रव्यं ॥३०॥ तात्पर्यटचिः-अण्णाणेत्यादिव्याख्यानं क्रियते अण्णाणमोहिदमदी अज्ञानमोहितमतिः मन्ममिणं भणदि पुग्गळं दव्यं ममेदं भणति पुद्गलं द्रव्यं । कथं भूतं बदमबद्धं च बद्धं संबंधदेहरूपं अबद्धं च असंबंध देहाद्भिन्नं पुत्रकलत्रादि तहा तथा जीवे जीवद्रव्ये बहुभावसंजुत्ते मिथ्यात्वरागादि बहुभावसंयुक्ते । अज्ञानी जीवो देहपुत्रकलत्रादिकं परद्रव्यं ममेदं भणतीत्यर्थः । इति प्रथमगाथा गता । अथास्य बहिरात्मनः संबोधनं क्रियते रे दुरात्मन् सबण्हु इत्यादि सब्बण्हुणाणदिहो सर्वज्ञज्ञानदृष्टः जीवो जीवपदार्थः कथंभूतो दृष्टः उवओगलक्खणो केवलज्ञानदर्शनोपयोगलक्षणः णिच्चं नित्यं सर्वकालं। कह कथं सो स जीवः पुग्गलदव्वीभूदो पुद्गलद्रव्यं जातः न कथमपि जं येन कारणेन भणसि भणसि त्वं मज्झमिणं ममेदं पुद्गलद्रव्यं। इति द्वितीया गाथा गता।जदि इत्यादि-जदि यदि चेत् सो स जीवः पुग्गलदवीभूदो पुद्गलद्रव्यजातः जीवो जीवः जीवत्तं जीवत्वं आगदं आगतं प्राप्तं इदरं इतरत् शरीरपुद्गलद्रव्यं तो सक्का वुत्तुं ततः शक्यं वक्तुं जे अहो अथवा यस्मात्कारणात् मज्झमिणं पुग्गलं दव्वं ममेदं पुद्गलद्रव्यमिति । नचैवं यथा वर्षासु लवणमुदकी ग्रीष्मकाले जलं लवणीभवति । तथा यदि चैतन्यं विहाय जीवद्रव्यं पुद्गलद्रव्यस्वरूपेण परिणमति पुद्गलद्रव्यं च मूर्त्तत्वमचेतनत्वं विहाय चिद्रूपं चामूर्तत्वं च भवति तदा भवदीयवचनं सत्यं भवति । रे दुरात्मन् न च तथा, प्रत्यक्षविरोधात् । ततो जीवद्रव्यं देहाद्विन्नममूर्त शुद्धबुद्धैकस्वभावं सिद्धमिति । एवं देहात्मनोर्भेदज्ञानं ज्ञात्वा मोहोदयोत्पन्न समस्तंविकल्पजालं त्यक्त्वा निर्विकारचैतन्यचमत्कारमात्रे निजपरामात्मतत्त्वे भावना कर्त्तव्येति तात्पर्य । इत्यप्रतिबुद्धसंबोधनार्थं पंचमस्थले गाथात्रयं गतं ।। अथ पूर्वपक्षपरिहाररूपेण गाथाष्टकं कथ्यते तत्रैकगाथायां पूर्वपक्षः गाथाचतुष्टये निश्चयव्यवहारसमर्थनरूपेण परिहारः । गाथात्रये निश्चयस्तुतिरूपेण परिहार इति षष्ठस्थले समुदायपातानका । तद्यथाप्रथमतस्तावत् यदि जीवशरीरयोरेकत्वं न भवति तदा तीर्थकराचार्यस्तुतिवृथा भवतीत्यप्रतिबुद्धशिष्यः पूर्वपक्षं करोति__आत्मख्यातिः-युगपदनेकविधस्य बंधनोपाधेः सन्निधानेन प्रधावितानामस्वभावभावानां संयोगवशाद्विशेषाश्रयोपरक्तः स्फटिकोपल इवात्यंततिरोहितस्वभावभावतया अस्तमितसमस्तविवेकज्योतिर्महता स्वयमज्ञानेन विमोहितहृदयो भेदमकृत्वा तानेवास्वभावभावान् स्वीकुर्वाणः पुद्गलद्रव्यं ममेदमित्यनुभवति किलाप्रतिवुद्धो जीवः । अथायमेव प्रतिवोध्यते रे दुरात्मन् आत्मपंसन् जहीहि जहीहि परमाविवेकघस्मरसतृणाभ्यवहारित्वं । दूरनिरस्तसमस्तसंदेहविपर्यासानध्यवसायेन विश्वकज्योतिषा सर्वज्ञज्ञानेन स्फुर्टाकृतं किल नित्योपयोगलक्षणं जीवद्रव्यं । तत्कथं पुद्गलद्रव्यीभूतं येन पुद्गलद्रव्यं ममेदमित्यनुभवसि । यतो यदि कथंचनापि जीवद्रव्यं पुद्गलद्रव्यीभूतं स्यात् । पुद्गलद्रव्यं च जीवद्रव्यीभूतं स्यात् तदैव लवणस्योदकमिव ममेदं पुद्गलद्रव्यमित्यनुभूतिः किल घटेत तत्तु न कथंचनापि स्यात् तथा हि-यथा क्षारत्वलक्षणं लवणमुदकीभवत् द्रवत्वलक्षणमुदकं च लवणीभवत् क्षारत्वद्रवत्वसहवृत्त्यविरोधादनुभूयते न तथा नित्योपयोगलक्षणं जीवद्रव्यं पुद्गलद्रव्यीभवत् नित्यानुपयोगलक्षणं पुद्गलद्रव्यं च जीवद्रव्यीभवत् उपयोगानुपयोगयोः प्रकाशतमसोरिव सहवृत्तिविरोधादनुभूयते । तत्सर्वथा प्रसीद विबुध्य स्वद्रव्यं ममेदमित्यनुभव । अयि कथमपि मृत्वा तत्त्वकौतूहली सन् अनुभव भवमूर्तेः पार्श्ववर्ती मुहूर्त । पृथगथ विलसंतं स्वं समालोक्य येन त्यजसि झगिति मूर्त्या साकमेकत्वमोहं ॥२३॥ अथाहाप्रतिबुद्धः१ आत्मविनाशक । Page #21 -------------------------------------------------------------------------- ________________ ... समयप्राभृतं । जदि जीषो ण सरीरं तित्थयरायरियसंथुदी चैव । सव्वावि हवदि मिच्छा तेण दु आदा हवदि देहो ॥३१॥ यदि जीवो न शरीरं तीर्थकराचार्यसंस्तुतिश्चैव ।। ___ सर्वापि भवति मिथ्या तेन तु आत्मा भवति देहः ॥३१॥ तात्पर्यवृत्तिः-जदि जीवो ण सरीरं हे भगवन् ! यदि जीवः शरीरं न भवति तित्थयरापरिय संथुदीचैव तर्हि "द्वौ कुंदेदुतुषारहारधवलावित्यादि" तीर्थकरस्तुतिः “देसकुलजाइसुद्धा" इत्याचार्यस्तुतिश्च सव्वावि हवदि मिच्छा सर्वापि भवति मिथ्या तेण दु आदा हवदि देहो तेन त्वात्मा भवति देहः । इति ममैकांतिकी प्रतिपत्तिः । एवं पूर्वपक्षगाथा गता। हे शिष्य यदुक्तं त्वया तम घटते यतो निश्चयव्यवहारनयपरस्परसाध्यसाधकभावं न जानासि त्वमिति । आत्मख्यातिः–यदि य एवात्मा तदेव शरीरं पुद्गलद्रव्यं न भवेत्तदा । कात्यैव स्नपयंति ये दशदिशो धाम्ना निरंधंति ये धामोद्दाममहस्विनां जनमनो मुष्णंति रूपेण ये । दिव्येन ध्वनिना सुखं श्रवणयोः साक्षात्क्षरंतोऽमृतं वंद्यास्तेऽष्टसहस्रलक्षणधरास्तीर्थेश्वराः सूरयः ॥२४॥ इत्यादिका तीर्थकराचार्यस्तुतिः समस्तापि मिथ्या स्यात् ततो य एवात्मा तदेव शरीरं पुद्गलद्रव्यमिति ममैकांतिकी प्रतिपत्तिः । नैवं नयविभागानभिज्ञोसि वहहारणयो भासदि जीवो देहो य हवदि खलु इक्को । ण दु णिच्छयस्स जीवो देहो य कदापि एकठो ॥३२॥ व्यवहारनयो भाषते जीवो देहश्च भवति खल्वेकः । न तु निश्चयस्य जीवो देहश्च कदाप्येकार्थः ॥३२॥ तात्पर्यवृत्तिः--ववहारणयो भासदि व्यवहारनयो भाषते ब्रूते किं ब्रूते जीवो देहो य हवदि खलु इको जीवो देहश्च भवति खल्वेकः ण दु णिच्छयस्स जीवो देहो य कदावि एकहो न तु निश्चयस्याभिप्रायेण जीवो देहश्च कदाचित्काले एकार्थः एको भवति । यथा कनककलधौतयोः समावर्त्तितावस्थायां व्यवहारेणैकत्वेपि निश्चयेन भिन्नत्वं तथा जीवदेहयोरिति भावार्थः । ततः कारणात् व्यवहारनयेन देहस्तवनेनात्मस्तवनं युक्तं भवतीति नास्ति दोषः । तथाहि आत्मख्याति:--इह खलु परस्परावगाढावस्थायामात्मशरीरयोः समवर्त्तितावस्थायां कनककलधौतयोरेकस्कंधव्यवहारवद्व्यवहारमात्रेणैवैकत्वं न पुनर्निश्चयतः । निश्चयतो ह्यात्मशरीरयोरुपयोगानुपयोगस्वभावयोः कनककलधौतयोः पीतपांडुरत्वादिस्वभावयोरिवाल्यंतव्यतिरिक्तत्वेनैकार्थत्वानुपपत्तेः नानात्वमेव हि किल नयविभागः । ततो व्यवहारनयेनैव शरीरस्तवनेनात्मस्तवनमुपपन्नं । तथाहि -इणमण्णं जीवादो देहं पुग्गलमयं थुणिन्तु मुणी। मण्णदि हु संथुदो वंदिदो मए केवली भयवं ॥३३॥ इदमन्यत् जीवादेहं पुद्गलमयं स्तुत्वा मुनिः । मन्यते खलु संस्तुतो वंदितो मया केवली भगवान् ॥३३॥ तात्पर्यवृतिः-इणमण्णं जीवादो देहं पुग्गलमयं थुणितु मुणी इदमन्यद्भिन्नं जीवात्सकाशादेहं पुद्गलमयं स्तुत्वा मुनिः । मण्णदि हु संथुदो वंदिदो पए केवली भयवं पश्चाद्व्यवहारेण मन्यते संस्तुतो वंदितो मया केवली भगवानिति । यथा सुवर्णरजतैकत्वे सति शुक्लं सुवर्णमिति व्यवहारो न निश्चयः Page #22 -------------------------------------------------------------------------- ________________ २० सनातनजैनग्रंथमालायांतथा शुक्लरक्तोत्पलवर्णः केवलिपुरुष इत्यादिदेहस्तवने व्यवहारेणात्मस्तवनं भवति न निश्चयनयेनेति तात्पर्यार्थः । अथ निश्चयनयेन शरीरस्तवने केवलिस्तवनं न भवतीति दृढयति । आत्मख्यातिः—यथा कलधौतगुणस्य पांडुरत्वस्य व्यपदेशेन परमार्थतोऽतत्स्वमावस्यापि कार्त्तवरस्य व्यवहारमात्रेणैव पांडुरं कार्तस्वरमित्यस्ति व्यपदेशः । तथा शरीरगुणस्य शुक्ललोहितत्वादेः स्तवनेन परमार्थतोऽतत्स्वभावस्यापि तीर्थकरकेवलिपुरुषस्य व्यवहारमात्रेणैव शुक्ललोहितस्तीर्थकरकेवलिपुरुष इत्यस्ति स्तवनं । निश्चयनयेन तु शरीरस्तवेननात्मस्तवनमनुपपन्नमेव तथाहि तं णिच्छये ण जुजदि ण सरीरगुणा हि होंति केवलिणो । केवलिगुणो थुणदि जो सो तचं केवलिं थुणदि ॥३४॥ तनिश्चयेन न युज्यते न शरीरगुणा हि भवंति केवलिनः । केवलिगुणान् स्तौति यः स तत्त्वं केवलिनं स्तीति ॥३४॥ तात्पर्यवृत्तिः-तं णिच्छयेण जुज्जदि तत्पूर्वोक्तदेहस्तवने सति केवलिस्तवनं निश्चयेन न युज्यते कथमिति चेत् ण सरीरगुणा हि होंति केवलिणो यत: कारणाच्छरीरगुणा शुक्लकृष्णादयः केवलिनो न भवंति । तर्हि कथं केवलिस्तवनं भवति केवलिगुणो थुणदि जो सो तच्चं केवलिं थुणदि केवलिगुणान् अनंतज्ञानादीन् स्तौति यः स तत्त्वं वास्तवं स्फुटं वा केवलिनं स्तौति । यथा शुक्लवर्णरजतशब्देन सुवर्णं भण्यते तथा शुक्लादिकेवलिशरीरस्तवनेन चिदानंदैकस्वभावं केवलिपुरुषस्तवनं निश्चयनयेन न भवती त्यभिप्रायः । अथ शरीरप्रभुत्वेपि सत्यात्मनः शरीरस्तवनेनात्मस्तवनं न भवति निश्चयनयेन तत्र दृष्टांतमाह । आत्मख्यातिः-यथा कार्तस्वरस्य कलधौतगुणस्य पांडुरत्वस्याभावान्न निश्चयतस्तद्व्यपदेशेन व्यपदेशः । कार्तस्वरगुणस्य व्यपदेशेनैव कार्तस्वरस्य व्यपदेशात् तथा तीर्थकरकेवलिपुरुषस्य शरीरगुणस्य शुक्ललोहितत्वादेरभावान्न निश्चयतस्तत्स्तवनेन स्तवनं तीर्थकरकेवलिपुरुषगुणस्य स्तवनेनैव तीर्थकरकेवलि पुरुषस्य स्तवनात् । कथं शरीरस्तवनेनं तदधिष्टातृत्वादात्मनो निश्चयेन स्तवनं न युज्यते इति चेत् णयरम्म वण्णिदे जह ण वि रण्णो वण्णणा कदा होदि । देहगुणे थुव्वंते ण केवलिगुणा थुदा होंति ॥३५॥ नगरे वर्णिते यथा नापि राज्ञो वर्णना कृता भवति । देहगुणेस्तूयमाने न केवलिगुणाः स्तुता भवंति ॥३५॥ तात्पर्यवृत्तिः यथा प्राकारोपवनखातिकादिनगरवर्णने कृतेपि नैव राज्ञो वर्णना कृता भवति तथा शुक्लादिदेहगुणस्तूयमानेप्यनंतज्ञानादिकेवलिगुणाः स्तुता न भवतीत्यर्थः । इति निश्चयव्यवहाररूपेण गाथाचतुष्टयं गतं । अथानंतरं यदि देहगुणस्तवनेन निश्चयस्तुतिर्न भवति तर्हि कीदृशी भवतीति पृष्टे सति द्रव्येंद्रियभावेंद्रियपचेंद्रियविषयान्स्वसंवेदनलक्षणज्ञानेन जित्वा योसौ शुद्धमात्मानं संचेतयते स जिन इति जितेंद्रिय इति साचैव निश्चयस्तुतिपरिहारं ददाति । आत्मख्यातिः--तथाहि प्राकारकवलितांवरमुपवनराजीनिगीर्णभूमितलं । पिवतीव हि नगरमिदं परिखावलयेन पातालं ॥२६॥ इति नगरे वर्णितेपि राज्ञः तदधिष्ठातृत्वेपि प्राकारोपवनपरिखादिमत्वाभावाद्वर्णनं न स्यात् तथैव नित्यमविकारसुस्थितसर्वांगमपूर्वसहजलावण्यं । अक्षोभमिव समुद्रं जिनेंद्ररूपं परं जयति ॥२६॥ Page #23 -------------------------------------------------------------------------- ________________ समयप्राभृतं । इति शरीरे स्तूयमानेपि तीर्थकरकेवलिपुरुषस्य तदधिष्ठातृत्वेपि सुस्थितसर्वागत्वलावण्यादिगुणाभावात्स्तवनं न स्यात् । अथ निश्चयस्तुतिमाह तत्र ज्ञेयज्ञायकसंकरदोषपरिहारेण तावत् जो इंदिये जिणत्ता णाणसेहावाधिअं मुणदि आदं । तं खलु जिदिदियं ते भणंति जे णिच्छिदा साहू ॥३६॥ यः इंद्रियाणि जित्वा ज्ञानखभावाधिकं जानात्यात्मानं । तं खलु जितेंद्रियं ते भणति ये निश्चिताः साधवः ॥३६॥ तात्पर्यवृत्तिः-जो इंदिये जिणत्ता णाणसहावाधिों मुणदि आदं यः कर्ता द्रव्येद्रिय भावेंद्रियपंचेंद्रियविषयान् जित्वा शुद्धज्ञानचेतनागुणेनाधिकं परिपूर्ण शुद्धात्मानं मनुते जानात्यनुभवति संचेतयति तं खलु निदिदियं ते भणंति जे णिच्छिदा साहू तं पुरुषं खलु स्फुटं जितेद्रियं भणंति ते साधवः के ते ये निश्चताः निश्चयज्ञा इति । किंच ज्ञेयाः स्पर्शादिपंचेंद्रियविषयाः बायकानि स्पर्शनादिद्रव्येद्रियभावेंद्रियाणि तेषां योसौ जीवेन सह संकरः संयोगः संबंधः स एव दोषः तं दोषं परमसमाधिबलेन' योसौ जयति सा चैव प्रथमा निश्चयस्तुतिरिति भावार्थः । अथ तामेव स्तुतिं द्वितीयप्रकारेण भाव्यभावकसंकरदोषपरिहारेण कथयति । अथवा उपशमश्रेण्यपेक्षया जितमोहरूपेणाह । आत्मख्यातिः-यः खलु निरवधिबंधपर्यायवशेन प्रत्यस्तमितसमस्तस्वपरविभागानि निर्मलभेदा भ्यासकौशलोपलब्धांतःस्फुटातिसूक्ष्मचित्स्वभावावष्टंभवलेन शरीरपरिणामापन्नानि द्रव्येद्रियाणि प्रतिविशिष्टस्वस्वविषयव्यवसायितया खंडशः आकर्षति प्रतीयमानाखंडैकचिच्छक्तितया भावद्रियाणि ग्राह्यग्राहकलक्षणसंबंधप्रत्यासत्तिवशेन सह संविदा परस्परमेकीभूतानि च चिच्छक्तेः स्वयमेवानुनूयमानासंगतया भावेद्रियावगृह्यमाणान् स्पर्शादीनिंद्रियार्थीश्च सर्वथा स्वतः पृथक्करणेन विजित्योपरतसमस्तज्ञेयज्ञायकसंकरदोषत्वेनैकत्वे टंकोत्कीर्ण विश्वस्याप्युस्पोपरितरता प्रत्यक्षोद्योततया नित्यमेवांतः प्रकाशमानेनानपायिना स्वतः सिद्धेन परमार्थसता भगवता ज्ञानस्वभावेन सर्वेभ्यो द्रव्यांतरेभ्यः परमार्थतोतिरिक्तमात्मानं संचेतयते स खलु जितेंद्रियो जिन इत्येका निश्चयस्तुतिः । अथ भाव्यभावकसंकरदोषपरिहारेण-- जो मोहं तु जिणित्ता णाणसहावाधियं मुणइ आदं । तं जिदमोहं साहुं परमवियाणया विति ॥३७॥ यो मोहं तु जित्वा ज्ञानस्वभावाधिकं जानात्यात्मानं । तं जितमोहं साधुं परमार्थविज्ञायका विदंति ॥३७॥ तात्पर्यवृत्तिः-जो मोहं तु जिणित्ता णाणसहावाधियं मुणदि आदं यः पुरुषः उदयागतं मोहं सम्यग्दर्शनज्ञानचारित्रैकाग्यरूपनिर्विकल्पसमाधिवलेन जित्वा शुद्धज्ञानगुणेनाधिकं परिपूर्णमात्मानं मनुते जानाति भाक्यति तं जिदमोहं साहुं परमवियाणया विति तं साधुं जितमोहं रहितमोहं परमार्थविज्ञायका ब्रवंति कथयंतीति । इयं द्वितीया स्तुतिरिति । किंच भाव्यभावकसंकरदोषपरिहारेण द्वितीया स्तुतिर्भवतीति पातनिकायां भणितं भवद्भिस्तत्कथं घटतेति-भाव्यो रागादिपरिणत आत्मा, भावको रंजक उदयागतो मोहस्तयो र्भाव्यभावकयोः शुद्धजीवेन सह संकरः संयोगः संबंधः सएव दोषः । तं तेषं स्वसंवेदनज्ञानबलेन योसौ परिहरति सा द्वितीया स्तुतिरितिभावार्थः । एवमेव च मोहपदपरिवर्त्तनेन रागद्वेषक्रोधमानमा यालोभकर्मनोकर्ममनोवचनकायसूत्राण्यैकादश पंचानां श्रोत्रचक्षुर्घाणरसनस्पर्शनसूत्राणामिंद्रियसूत्रेण पृथग्व्याख्यातत्वाव्याख्येयानि । अनेनैव प्रकारेणान्यान्यप्यसंख्येयलोकमात्रविभावपरिणामरूपाणि ज्ञातव्यानि । अथवा भाव्यभावकभावाभावरूपेण तृतीया निश्चयस्तुतिः कथ्यते । अथवा तामेव क्षपकश्रेण्यपेक्षयाक्षीणमोहरूपेणाह Page #24 -------------------------------------------------------------------------- ________________ २२ सनातनजैनग्रंथमालायांआत्मख्याति:-यो हि नाम फलदानसमर्थतया प्रादुर्भूय भावकत्वेन भवंतमपि दूरत एव तदनु वृत्तेरात्मनो भाव्यस्य व्यावर्त्तनेन हठान्मोहं न्यक्कृत्योपरतसमस्तभाव्यभावकसंकरदोषत्वेनैकत्वे टंकोत्कीर्ण विश्वस्याप्यस्योपरितरता प्रत्यक्षोद्योतितया नित्यमेवांतः प्रकाशमानेनानपायिना स्वतः सिद्धेन परमार्थसता भगवता ज्ञानस्वभावेन द्रव्यांतरस्वभावभाविभ्यः सर्वेभ्यो भावांतरेभ्यः परमार्थतोतिरिक्तमात्मानं संचेतयते स खलु जितमोहो जिन इति द्वितीया निश्चयस्तुतिः । एवमेव च मोहपदपरिवर्त्तनेन रागद्वेषक्रोधमानमायालोभकर्मनोकर्ममनोवचनकायसूत्राण्येकादश पंचानां श्रोत्रचक्षुर्घाणरसनस्पर्शनसूत्राणामिंद्रियसूत्रेण पृथग्व्याख्यातत्वाव्याख्येयानि । अनया दिशान्यान्यप्यूह्यानि । अथ भाव्यभावकभावाभावेन । जिदमोहस्स दु जइया खीणो मोहो हविज साहुस्स । तइया हु खीणमोहो भण्णदि सो णिच्छयविदूर्हि ॥३८॥ जितमोहस्य तु यदा क्षीणो मोहो भवेत्साधोः । तदा खलु क्षीणमोहो भण्यते स निश्चयविद्भिः ॥३८॥ तात्पर्यवृत्तिः-जियमोहस्स दु जइया खीणो मोहो हविज्ज साहुस्स पूर्वगाथाकथितक्रमण जितमोहस्य सतो जातस्य यदा निर्विकल्पसमाधिकाले क्षीणो मोहो भवेत् कस्य साधोः शुद्धात्मभावकस्य तहिया हु खीणमोहो भण्णदि सो णिच्छयविहिं तदा तु गुप्तिसमाधिकाले स साधुः क्षीणमोहो भण्यते कैर्निश्चयविद्भिः परमार्थज्ञायकैर्गणधरदेवादिभिः । इयं तृतीया निश्चयस्तुतिरिति । भाव्यभावक भावाभावरूपेण कथं जाता स्तुतिरिति चेत्-भाव्योरागादिपरिणत आत्मा भावको रंजक उदयगतो मोहस्तयोर्भाव्यभावकयोर्भावःस्वरूपं तस्याभावः क्षयो विनाशः सा चैव तृतीता निश्चयस्तुतिरित्यभिप्रायः । एवं रागद्वेष इत्यादि दंडको ज्ञातव्यः । इति प्रथमगाथायां पूर्वपक्षस्तदनंतरं गाथाचतुष्टये निश्चये निश्चयव्यवहार समर्थनरूपेण परिहारस्ततश्च गाथात्रये निश्चयस्तुतिकथनरूपेण च परिहार इति पूर्वपक्षपरिहारगाथाष्टक समुदायेन षष्ठस्थलं गतं । अथ रागादिविकल्पोपाधिरहितं स्वसंवेदनज्ञानलक्षणप्रत्याख्यानविवरणरूपेण गाथाचतुष्टयं कथ्यते । तत्र स्वसंवेदनज्ञानमेव प्रत्याख्यानमिति कथनरूपेण प्रथमगाथा प्रत्यख्यानविषये दृष्टांतरूपेण द्वितीया चेति गाथाद्वयं । तदनंतरं मोहपरित्यागरूपेण प्रथमगाथा ज्ञेयपदार्थपरित्यागरूपेण द्वितीया चेति गाथाद्वयं एवं सप्तमस्थले समुदायपातनिका । तथाहि-तीर्थकराचार्यस्तुतिनिरर्थिका भव तीति पूर्वपक्षबलेन जीवदेहयोरेकत्वं कर्तुं नायातीति ज्ञात्वा शिष्य इदानी प्रतिबुद्धः सन् हे-भगवन् रागादीनां किं प्रत्याख्यानमिति पृच्छति । इति पृच्छति कोर्थः इति पृष्टे प्रत्युत्तरं ददाति । एवं प्रश्नोत्तररूपपातनिकाप्रस्तावे सर्वत्रेतिशब्दस्यार्थो ज्ञातव्यः । ___ आत्मख्यातिः-इह खलु पूर्वप्रक्रांतेन विधानेनात्मनो मोहं न्यक्कृत्य यथोदितज्ञानस्वभावानंतिरितात्मसंचेतनेन जितमोहस्य सतो यदा स्वभावभावभावनासौष्ठवावष्टंभात्तत्संतानात्यंतविनाशेन पुनरप्रादुर्भावाय भावकः क्षीणो मोहः स्यात्तदा स एव भाव्यभावकभावाभावेनैकत्वे टंकोत्कीर्णपरमात्मानमवाप्तः क्षीणमोहो जिन इति तृतीया निश्चयस्तुतिः । एवमेव च मोहपदपरिवर्त्तनेन रागद्वेषक्रोधमानमायालोभकर्मनो कर्ममनोवचनकायश्रोत्रचक्षुणरसनस्पर्शनसूत्राणि षोडश व्याख्येयानि । अनया दिशान्यान्यय्यूह्यानि । एकत्वं व्यवहारतो न तु पुनः कायात्मनोनिश्चयान्नुः स्तोत्रं व्यवहारतोस्ति वपुषः स्तुत्या न तत्तत्त्वतः । स्तोत्रं निश्चयतश्चितो भवति चित्स्तुत्यैव सैवं भवेनातस्तीर्थकरस्तवोत्तरबलादेकत्वमात्मांगयोः ॥ २७ ॥ इति परिचततत्त्वैरात्मकायैकतायां नयविभजनयुक्त्यात्यंतमुच्छादितायां । अवतरति न बोधो बोधमेवाद्य कस्य स्वरसरभसकृष्टः प्रस्फुष्टन्नेक एव ॥ २८ ॥ १ तदनुकूलस्य । २ भेदवलेन । Page #25 -------------------------------------------------------------------------- ________________ समयप्राभृतं । इयप्रसिबुद्धोक्ति निरासः । एवमयमनादिमोहसंताननिरूपितात्मशरीरैकत्वं संस्कारतयात्यंतमप्रतिबुद्धापि प्रसभोज्जृंभिततत्त्वज्ञानज्योतिर्नेत्रविकारीव प्रकटोद्घाटितपटलष्टसितिप्रतिबुद्धः । साक्षात् दृष्टारं स्वं स्वयमेव हि विमख श्रद्धाय च तं चैवानुचरितकामः स्वात्मारामस्यास्यान्यद्रव्याणां प्रत्याख्यानं किं स्यादिति पृच्छन्नित्थं वाच्यः । णाणं सव्वे भावे पच्चक्खादि य परेति णादूण | २३ ता पञ्चक्खाणं गाणं णियमा मुणेदव्वं ॥ ३९॥ ज्ञानं सर्वान् भावान् यस्मात्प्रत्याख्याति च परानिति ज्ञात्वा । तस्मात्प्रत्याख्यानं ज्ञानं नियमात् ज्ञातव्यं ||३९|| तात्पर्यवृत्तिः - णाणं सव्वे भावे पचक्खाई परेत्ति णादूण जानातीति व्युत्पत्त्या स्वसंवेदन ज्ञानमात्मेति भण्यते तं ज्ञानं कर्तृ मिथ्यात्वरागादिभावं परस्वरूपमिति ज्ञात्वा प्रत्याख्याति त्यजति निराकरोति तम्हा पच्चक्खाणं गाणं णियमा मुणेदव्वं तस्मात्काणात् निर्विकल्पस्वसंवेदनज्ञानमेव प्रत्याख्यानं नियमान्निश्वयात् मंतव्यं ज्ञातव्यमनुभवनीयमिति । इदमत्र तात्पर्य्यं - परमसमाधिकाले स्वसंवेदनज्ञानबलेन शुद्धमात्मात्मानमनुभवति तदेवानुभवनं निश्चयप्रत्याख्यानमिति । अथ प्रत्याख्यानविषये दृष्टांतमाह । आत्मख्यातिः - यतो हि द्रव्यांतरस्वभावभाविनोऽन्यानखिलानपि भावान् भगवत्ज्ञातृद्रव्यं स्वस्वभावभावाव्याप्यतया परत्वेन ज्ञात्वा प्रत्याचष्टे ततो य एव पूर्वं जानाति स एव पश्चात्प्रत्याचष्टे न पुनरन्य इत्यात्मनि निश्चित्य प्रत्याख्यानसमये प्रत्याख्येयोपाधिमात्रप्रवर्त्तितकर्तृत्वव्यपदेशत्वेपि परमार्थेनाव्यपदेश्य ज्ञानस्वभावादप्रच्यवनात्प्रत्याख्यानं ज्ञानमेवेत्यनुभवनीयं । अथ ज्ञातुः प्रत्याख्याने को दृष्ठांत इत्यत आह । जह णाम कोवि पुरिसो परदव्वमिति जाणिदं चयदि । तह सव्वे परभावेणाऊण विमुंचदे णाणी ||४०|| यथानाम कोपि पुरुषः परद्रव्यमिति ज्ञात्वा त्यजति । तथा सर्वान् परभावान् ज्ञात्वा विमुंचति ज्ञानी ||४०॥ तात्पर्यवृत्तिः - जहणाम कोवि पुरिसो परदव्वमिणंति जाणिदुं चयदि यथा नाम अहो स्फुटं वा कश्चित्पुरुषो वस्त्राभरणदिकं परद्रव्यमिदमिति ज्ञात्वा व्यजति तह सव्वे परभावे णाऊण विमुंचदे णाणी तथा तेन प्रकारेण सर्वान् मिथ्यात्वरागादि परभावान् पर्यायान् स्वसंवेदनज्ञानबलेन विशेषेण त्रिशुच्या विमुंचति त्यजति स्वसंवेदनज्ञानीति । अयमत्र भावार्थ: यथा कश्चिद्देवदत्तः परकीयचीवरं भ्रांत्या मदीयमिति मत्वा रजकगृहादानीय परिधाय च शयानः सन् पश्चादन्येन वस्त्रस्वामिना वस्त्रांचलमादायाच्छोद्य नग्नीक्रियमाणः सन् वस्त्रलांच्छनं निरीक्ष्य परकीयमिति मत्वा तद्वस्त्रं मुंचति तथायं ज्ञानी जीवेोपि निर्विण्णेन गुरुणा मिथ्यात्वरागादिविभावा एते भवदीयस्वरूपं न भवंति एकएव त्वमिति प्रतिबोध्यमानः सन् परकीयानिति ज्ञात्वा मुंचति शुद्धात्मानुभूतिमनुभवतीति । एवं गाथाद्वयं गतं । अथ कथं शुद्धात्मानुभूतिमनुभवतीति पृष्टेति मोहादिपरित्याग प्रकारमाह । - आत्मख्यातिः - यथाहि कैश्चित्पुरुषः संभ्रांत्या रजकात्परकीयं चीवरमादायात्मीयप्रतिपत्या परिधाय शैयानः स्वयमज्ञानी सन्नन्येन तदंचलमालंव्य वलान्नग्नीक्रियमाणो मक्षु प्रतिवुध्यस्त्रार्पय परिवर्त्तित मेतद्वस्त्रं मामकमित्यसकृद्वाक्यं शृण्वन्नखिलैश्चिन्हैः सुष्ठु परीक्ष्य निश्चितमेतत्परकीयमिति ज्ञात्वा ज्ञानी सन्मुंचति तच्चीयरमचिरात् तथा ज्ञातापि संभ्रांत्या परकीयान्भावानादायात्मीयप्रतिपत्त्यात्मन्यध्यास्य शयानः स्वयमज्ञानी सन् गुरुणा परभावविवेकं कृत्वैकीक्रियमाणो मंक्षु प्रतिबुध्यस्वैकः खल्वयमात्मेत्यसकृच्छ्रौतं वाक्यं शृण्वन्नखिलैश्चिह्नेः सुष्ठु परीक्ष्य निश्चितमेते परभावा इति ज्ञात्वा ज्ञानी सन् मुंचति सर्वान्भावान चिरात् । १ कोऽपि इत्यपि ग. पुस्तके पाठः । २ सुप्यमानः । ३. झटिति । Page #26 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायांअवतरति न यावद्वृत्तिमत्यंतवेगादनवमपरभावत्यागदृष्टांतदृष्टिः । झटिति सकलभावैरन्यदीयैर्विमुक्ता स्वयमियमनुभूतिस्तावदाविर्बभूव ॥ २९ ॥ अथ कथमनुभूतेः परभावविवेको भूत इत्याशंक्य भावकभावविवेकप्रकारमाह । णत्थि मम को वि मोहो बुज्झदि उवओग एव अहमिको। तं मोह णिम्ममत्तं समयस्स वियाणया विति ॥४१॥ नास्ति मम कोपि मोहो बुध्यते उपयोग एवाहमेकः । तं मोहनिर्ममत्वं समयस्य विज्ञायकाः विदंति ॥४१॥ तात्पर्यवृत्तिः-पत्थि मम को वि मोहो नास्ति न विद्यते मम शुद्धनिश्चयेन टंकोत्कीर्णज्ञायकैकस्वभावस्य सतो रागादिपरभावेन कर्तृभूतेन भावयितुं रंजयितुमशक्यत्वात्कश्चिद्र्व्यभावरूपो मोहः । बुज्झदि उवओग एव अहमिको बुध्यते जानाति स कः कर्ता ज्ञानदर्शनोपयोगलक्षणत्वादुपयोग आत्मैव । किं बुध्यते यतःकारणादहमेकः ततो मोहंप्रति निर्ममत्वोस्मि निर्मोहो भवामि । अथवा बुध्यते जानाति किं जानाति विशुद्धज्ञानदर्शनोपयोग एवाहमकः । तं मोहणिम्ममत्तं समयस्स वियाणया विति तं निर्मोहशुद्धात्मभावनास्वरूपं निर्ममत्वं ब्रुति वदंति जानंति वा केते समयस्य शुद्धात्मस्वरूपस्स विज्ञापकाः पुरुषा इति किंच विशेषः यत्पूर्व स्वसंवेदनज्ञानमेव प्रत्याख्यानं व्याख्यातं तस्यैवेदं निर्मोहत्वं विशेषव्याख्यानमिति । एवमेव मोहपदपरिवर्त्तनेन रागद्वेषक्रोधमानमायालोमकर्मनोकर्ममनोवचनकायश्रोत्रचक्षुर्घाणरसनस्पर्शनसूत्राणि षोडश व्याख्येयानि । अनेन प्रकारेणान्यान्यप्यसंख्येयलोकमात्रप्रमितानि विभावपरिणामरूपाणि ज्ञातव्यानि। अथ धर्मास्तिकायादिज्ञेयपदार्था अपि मम स्वरूपंन भवंतीतिप्रति पादयति । आत्मख्यातिः-इह खलु फलदानसमर्थतया प्रादुर्भूय भावकेन सता पुद्गलद्रव्येणाभिनिवर्त्यमानष्टंकोत्कीर्णैकञ्चायकस्वभावभावस्य परमार्थतः परभावेन भावयितुमशक्यत्वात्कतमोपि न नाम मम मोहोस्ति किंचैतत्स्वयमेव च विश्वप्रकाशचंचुरविकस्वरानवरतप्रतापसंपदा चिच्छक्तिमात्रेण स्वभावभावेन भगवानात्मैवावबुध्यते । यत्किलाहं खल्वेकः ततः समस्तद्रव्याणां परस्परसाधारणावगाहस्य निवारयितुमशक्यत्वान्मज्जितावस्थायामपि दधिखंडावस्थायामिव परिस्फुटस्वदमानस्वादभेदतया माहं प्रति निर्ममत्वोस्मि । सर्वदैवात्मैकत्वगतत्वेन समयस्यैवमेव स्थितत्वात् इतीत्थं भावकभावविवेको भूतः । सर्वतः स्वरसनिर्भरभावं चेतये स्वयमहं स्वमिहैकं । नास्ति नास्ति मम कश्चन मोहः शुद्धचिद्धनमहोनिधिरस्मि ॥३०॥ एवमेव मोहपदपरिवर्त्तनेन रागद्वेषक्रोधमानमायालोभकर्मनोकर्ममनोवचनकायश्रोत्रचक्षुर्घाणरसनस्पर्श नसूत्राणि षोडश व्याख्येयानि अनया दिशान्यान्यप्यूह्यानि । अथ शेयभावविवेकप्रकारमाह । णत्थि मम धम्म आदी बुज्झदि उवओग एव अहमिको । तं धम्मणिम्ममत्तं समयस्स वियाणया विति ॥४२॥ ___नास्ति मम धर्मादिर्बुध्यते उपयोग एवाहमेकः । तं धर्मनिर्ममत्वं समयस्य विज्ञापका विदंति ॥४२॥ तात्पर्यवृत्तिः-णत्थि मम धम्म आदी न संति न विद्यते धर्मास्तिकायादिज्ञेयपदार्था ममेति बुज्झदि बुध्यते ज्ञानी तर्हि किमहं उवओगएव अहमिक्को विशुद्धज्ञानदर्शनोपययोग एवाहं अथवा ज्ञान दर्शनोपयोगलक्षणत्वादित्यभेदेनोपयोग एवात्मा स जानाति । केन रूपेण, यतोहं टंकोत्कीर्णज्ञायकैकस्वभाव एकः ततो दधिखंडशिखिरिणीवत् व्यवहारेणैकत्वेपि शुद्धनिश्चयनयेन मम स्वरूपं न भवंतीति परद्रव्यं १ असख्येयेष्वपि प्रदेशेषु स्वरसेन ज्ञानेन निर्भरः संपूर्णो भावः स्वरूपं यस्य । Page #27 -------------------------------------------------------------------------- ________________ समयप्राभृतं । प्रति निर्ममत्वोस्मि त धम्मणिम्ममतं समयस्स वियाणया विति तं शुद्धात्मभावनास्वरूप परेका निर्ममत्वं समयस्य शुद्धात्मनो विज्ञायकाः पुरषा अवंति कथयंतीति । किंच इदमपि परद्रव्यनिर्ममत्वं यत्पूर्व भणितं स्वसंवेदनशानमेव प्रत्याख्यानं तस्यैव विशेषव्याख्यानं सातव्यं इति गाथाद्वयं गतं । एवं गाथाचसुष्टयसमुदायेन सप्तमस्थल समाप्त । अथ शुद्धात्मैवोपादेय इति श्रद्धानं सम्यक्त्वं तस्मिन्नेव शुद्धात्मनि स्वसंवेदनं सम्यग्ज्ञानं तत्रैव निजात्मनि वीतरागस्वसंवेदननिश्चलरूपं चारित्रमिति निश्चयरत्नत्रयपरिणतजीवस्य कीदृशं स्वरूपं भवतीत्यावेदयन्सन् जीवाधिकारमुपसंहरति । आस्मख्याति:-अनि हि धर्माधर्माकाशकालपुद्गलजीवांतराणि स्वरसविनँभितानिवारितप्रसरविश्वघस्मरप्रचंडचिम्मात्रशक्तिकवलिततयात्यंतमंतर्मनानीवात्ममि प्रकाशमानानि टंकोत्कीर्णैकज्ञायकस्वभा चत्वेन तस्वतोंतस्तत्त्वस्य तदतिरिक्तस्वभावतया तत्वतो वहिस्तत्त्वरूपता परित्यक्तुमशक्यवान नाम मम संति । किंचतत्स्वयमेव च नित्यमेवोपयुक्ततत्त्वत एवैकमनाकुलमात्मानं कलयन् भगवानात्मैवाववुभ्यते यत्किलाह खत्वेकः ततः संवेद्यसंवेदकमावमात्रोपजातेतरेतरसंवलनेपि परिस्फुटस्वदमामस्वभावभेदतया धर्माधर्माकाशकालपुद्गलजीवांतराणि प्रति निर्ममत्वोस्मि । सर्वदेवात्मैकत्वगतत्वेन समयस्यैवमेव स्थितत्वात् इतीत्थं शेयमावविवेकोमूतः। इति सति सह सर्वैरन्यभार्षिके स्खसमयमुपयोगी विभ्रदात्मानमेकं । - प्रकटितपरमार्थैर्दर्शनज्ञानवृत्तैः कृतपरिणतिरात्माराम एव प्रवृत्तः ॥ ३१ ॥ अथैवं दर्शनशानचारित्रपरिणतस्यात्मनः कीदृक् स्वरूपसंचेतनं भवतीत्यावेदयन्नुपसंहरति । अहमिको खलु सुद्धो दंशणणाणमइओ सदारूवी। णवि अस्थि मज्झ किंचिव अण्णं परमाणमित्तपि ॥४३॥ अहमेकः खलु शुदो दर्शमज्ञानमयः सदारूपी। नाप्पस्ति मम किंचिदप्पन्यत्परमाणुमात्रमपि ॥४॥ तात्पर्यवृत्तिः--अहं अनादिदेहास्मैक्यभ्रोत्याज्ञानेन पूर्वमप्रतिवुद्धोपि करतलविन्यस्तसुप्तविस्मृत पश्चामिद्राविनाशस्मृतचामीकरावलोकनन्यायेन परमगुरुप्रसादेन प्रतिबुद्धो भूत्वा शुद्धात्मनि रतो यः सोहं वीतरागचिन्मानं ज्योतिः । पुनरपि कथं भूतः इको यद्यपि व्यवहारेण नरनारकादिरूपेणानेकस्तथापि शुद्धनिश्चयेन टंकोत्कीर्णज्ञायकैकस्वभावत्वादेकः । खलु स्फुट । पुनरपि किरूपः सुद्धो व्यावहारिकनव पदार्थभ्यः शुद्धनिश्चयनयेन मिनः । अथवा रागादिमावेभ्योमिनोहमिति शुद्धः । पुनरपि किंविशिष्टः दंसगणाणमइओ केवलदर्शनजानमयः । पुनरपि किरूपः सदारूची निश्चयनयेन रूपरसगंधस्पर्शाभावात्सदाप्यमूर्तः। णविअस्थि मज्म किंचिव अण्णं परमाणुमित्तं पि इत्थंभूतस्य सतः नैवास्ति ममान्यत्परमाणुमात्रमपि परद्रव्यं किमपि । यदेकत्वेन रंजकत्वेन वा पुनरपि मम मोहमुत्पादयति । कस्मात् परमविशुद्धज्ञानपरिणतत्वान् । इति समयसारख्यास्यायां शुद्धास्मानुभूतिलक्षणार्या तात्पर्यवृत्तौ स्थलसप्तकेन जो पस्सदि अप्पाण मित्यादि सप्तविंशतिगाथा तदनंतरमुपसंहारसूत्रमेकमिति समुदायेनाष्टाविंशतिगाथाभिर्जीवाधिकारः समाप्तः। इति प्रथमरंगः। आत्मख्यातिः-यो हि नामानादिमोहोन्मत्ततयात्यंतमप्रतिबुद्धः सन् निर्विण्णेन गुरुणानवरतं प्रतिबोध्यमानः कथंचनापि प्रतिबुध्य निजकरतलविन्यस्तविस्मृतचामीकरावलोकनन्यायेन परमेश्वरमात्मानं ज्ञात्वा श्रद्धायानुचर्य च सम्यगेकात्मारामी भूतः से खल्वहमात्मात्मप्रत्यक्ष चिन्मात्र ज्योतिः । समस्तक्रमाक्रमप्रवर्त्तमानव्यावहारिकभावैश्चिन्मात्राकारेणामिद्यमानत्वादेकी नारकादिऔषविशेषाजीवपुण्यपापास्रवसंवरनिर्जराबंधमोक्षलक्षणव्यावहारिकनवतत्त्वम्यष्टकोत्कीर्णकशायकस्वभावमावेनास्यतविविक्तत्वाच्छुद्धः । Page #28 -------------------------------------------------------------------------- ________________ २६ सनातनजैनग्रंथमालायांचिन्मात्रतया सामान्यविशेषोपयोगात्मकतानतिक्रमणादर्शनज्ञानमयः स्पर्शरसगंधवर्णनिमित्तसंवेदनपरिणतवेपि स्पर्शादिरूपेण स्वयमपरिणमनात्परमार्थतः सदैवारूपीति प्रत्यगयं स्वरूपं संचेतयमानः प्रतयामि । एवं प्रत्ययतश्च मम बहिर्विचित्रस्वरूपसंपदा विश्वे परिस्फुरत्यपि न किंचनाप्यन्यत्परमाणुमात्रमप्यात्मीयत्वेन प्रतिभाति । यद्भावकत्वेन ज्ञेयत्वेन चैकीभूय भूयो मोहमुद्भावयति स्वरसतएवापुनःप्रादुर्भावाय समूलंमोहमुन्मूल्य महतो ज्ञानोद्योतस्य प्रस्फुरितत्वात् । मजंतु निर्भरममी सममेव लोका आलोकमुच्छूलति शांतरसे समस्ताः। आप्लाव्य विभ्रमतिरस्करिणीभरेण प्रोन्मग्न एष भगवानवबोधसिंधुः ॥ ३२ ॥ इति श्रीसमयसारव्याख्यायामात्मख्यातौ पूर्वरंगः समाप्तः । तात्पर्यवृत्तिः-अथानंतरं श्रृंगारसहितपात्रवज्जीवाजीवावेकीभूतौ प्रविशतः । तत्र स्थलत्रयेण त्रिंशतगाथापर्यंतमजीवाधिकारः कथ्यते । तेषु प्रथमस्थले शुद्धनयेन देहरागादिपरद्रव्यं जीवस्वरूपं न भवतीति निषेधमुख्यत्वेन अप्पाणमयाणंता इत्यादिगाथामादिं कृत्वा पाठक्रमेण गाथादशकपर्यंतंव्याख्यानं करोति । तत्र गाथादशकमध्ये परद्रव्यात्मवादे पूर्वपक्षमुख्यत्वेन गाथापंचकं तदनंतरं परिहारमुख्यत्वेन सूत्रमेकं । अथाष्टविधं कर्मपुद्गलद्रव्यं भवतीति कथनमुख्यत्वेन सूत्रमेकं । ततश्च व्यवहारनयसमर्थनद्वारेण गाथात्रयं कथ्यत इति समुदायपातनिका । तद्यथा । अथ देहरागादिपरद्रव्यं निश्चयेन जीवो भवतीति पूर्वपक्षं करोति । आत्मख्याति:जीवाजीवविवेकपुष्कलदृशा प्रत्याययत्पार्षदानासंसारनिबद्धबंधनविधिध्वंसाद्विशुद्ध स्फुटत् । आत्माराममनंतधामसहसाध्यक्षण नित्योदितं धीरोदात्तमनाकुलं विलसति ज्ञानं मनो ल्हादयत् ॥३३॥ अप्पाणमयाणंता मूढा दु परप्पवादिणो केई । जीवं अन्झवसाणं कम्मं च तहा परूविति ॥४४॥ अवरे अज्झवसाणे सुतिव्वमंदाणुभावगं जीवं । मण्णंति तहा अवरे णोकम्मं चावि जीवोत्ति ॥४५॥ कम्मस्सुदयं जीवं अवरे कम्माणुभागमिच्छति । तिव्वत्तणमंदत्तण गुणेहिं जो सो हवदि जीवो वा ॥४६॥ जीवो कम्मं उहयं दोण्णिवि खलु केवि जीवमिच्छंति । अवरे संजोगेण दु कम्माणं जीवमिच्छंति ॥४७॥ एवंविहा बहुविहा परमप्पाणं वदंति दुम्मेहा । ते ण दु परप्पवादी णिच्छयवादीहिं णिहिछा ॥४॥ आत्मानमजानंतो मूढास्तु परात्मवादिनः केचित् । जीपमध्यवसानं कर्म च तथा प्ररूपयंति ॥४४॥ अपरेध्यषसानेषु तीब्रमंदानुभागगं जीवं । मन्यते तथाऽपरे नोकर्म चापि जीव इति ॥४५॥ कर्मण उदयं जीवमपरे कर्मानुभागमिच्छति । तीव्रत्वमंदत्वगुणाभ्यां यः स भवति जीवः ॥४६॥ Page #29 -------------------------------------------------------------------------- ________________ समयप्राभृतं । जीवकर्मोभयं द्वे अपि खलु केचिजीवमिच्छति । अपरे संयोगेन तु कर्मणां जीवमिच्छति ॥४७॥ एवंविधा बहुविधाः परमात्मानं बदंति दुर्मेधसः । ते न परात्मवादिनःनिश्चयवादिभिर्निर्दिष्टाः ॥४८॥ तात्पर्यवृत्तिः-अप्पाणमयाणंता मुढा दु परप्पवादिणो केई आत्मानमजानंतः मूढास्तु परद्रव्यमात्मानं वदंतीत्येवंशीलाः केचन परात्मवादिनः जीवं अज्झवसाणं कम्मंच तहा परूविति यथांगारात् कायं भिन्नं नास्ति तथा रागादिभ्यो मिनो जीवो नास्तीति रागाद्यध्यवसानं कर्म च जीवं वदंतीति । अथ अवरे अज्झवसाणे सुतिव्वमंदाणुभावगं जीवं मण्णंति अपरे केचनेकांतवादिनः रागाद्यध्यवसानेषु तीव्रमंदतारतम्यानुभावस्वरूपं शक्तिमाहात्म्यं गच्छतीति तीव्रमंदानुभावगस्तं जीवं मन्यते। तहा अबरे णोकम्मं चावि जीवोत्ति तथैवावरे चार्वाकादयः कर्मणोकर्मरहितपरमात्मभेदविज्ञानशून्याः शरीरादिनोकर्म चापि जीवं मन्यते । अथ-कम्मस्सुदयं जीवं अवरे अपरे कर्मणउदयं जीवमिच्छंति कम्माणुभागमिच्छति अपरे च कर्माणुभागं लतादार्वस्थिपाषाणरूपं जीवमिच्छति । कथंभूतः सचानुभागः तिव्वत्तणमंदत्तणगुणेहिं जो सोहबदि जीवो तीव्रत्वमंदत्वगुणाभ्यां वर्त्तते यः स जीवो भवतीति । अथ-जीवोकम्मं उहयं दोण्णिवि खलु केवि जीवमिच्छति जीवकोभयं द्वे अपि जीवकर्माणि शिखरिणीवत् खलु स्फुटं जीवमिच्छति । अपरे संयोगेण दुकम्माणं जीवमिच्छति । अपरे केचन अष्टकाष्ठखट्वावदष्ठकर्मणां संयोगेणापि जीवमिच्छंति । कस्मात् अष्टकर्मसंयोमादन्यस्य शुद्धजीवस्यानुपपत्तेः । अथ एवंविहावहुविहा परमप्पाणं वदंति दुम्मेहा एवंविधा वहुविधा वहुप्रकारा देहरागादिपरद्रव्यमात्मानं वदंति दुर्मेधसो दुर्बुद्धयः तेणदु परप्पवादी णिच्छयवादीहिं णिदिवा तेन कारणेन तु पुनः देहरागादिकं परद्रव्यमात्मानं बदंतीत्येवं शीलाः परात्मवादिनो निश्चयवादिभिः सर्व निर्दिष्टा इति पंचगाथाभिः पूर्वपक्षः कृतः । अथ परिहारं वदति। आत्मख्याति:-इह खलु तदसाधारणलक्षणाकलनाक्लीवत्वेनात्यंतविमूढाः संतस्ताविकमात्मानमजानंतो बहवो बहुधा परमप्यात्मानमिति प्रलपंति. । नैसर्गिकरागद्वेषकल्माषितमध्यवसानमेव जीव स्तथाविधाध्यवसानात् अंगारस्येव काग्रॅदतिरिक्तत्वेनान्यस्यानुपलभ्यमानत्वादिति केचित् । अनाद्यनंतपूर्वापरीभूताक्यवैकसंसरणक्रियारूपेण क्रीडत्कर्मैव जीवः कर्मणोतिरिक्तत्वेनान्यस्यानुपलभ्यमानत्वादिति कोचत् । तीव्रमंदानुभवभिद्यमानदुरंतरागरसनिर्भराध्यवसानसंतान एव जीवस्ततोतिरिक्तस्यान्यस्यानुपलभ्यमानत्वादिति केचित् । नवपुराणावस्थादिभावेन प्रवर्त्तमानं नोकर्मैव जीवः शरीरादतिरिक्तत्वेनान्यस्यानुपलभ्यमानत्वादिति केचित् । विश्वमपि पुण्यपापरूपेणाक्रामन् कर्मविपाक एव जीवः शुभाशुभभावादतिरिक्तत्वेनान्यस्यानुपलभ्यमानत्वादिति केचित् । सातासातरूपेणाभिव्याप्तसमस्ततीव्रमंदत्वगुणाभ्यां भिद्यमान:: कर्मानुभव एव जीवः सुखदुःखातिरिक्तत्वेनान्यस्यानुपलभ्यमानत्वादिति केचित् । मजितावदुभयात्मकत्वादात्मकर्मोभयमेव जीवः काय॑तः कर्मणोतिरिक्तत्वेनान्यस्यानुपलभ्यमानत्वादिति कोचत् । अर्थक्रियासमर्थः कर्मसंयोग एव जीवः कर्मसंयोगात्खटाया इवाष्टकाष्ठसंयोगादतिरिक्तत्वेनान्यस्यानुपलभ्यमानत्वादिति केचित् । एवमेवंप्रकारा इतेरेपि बहुप्रकारा परमात्मेति व्यपदिशति दुर्मेधसः किंतु न ते परमार्थबादिभिः परमार्थवादिनः इति निर्दिश्यते । कुतः एदे सव्वे भावा पुग्गलदव्वपरिणामणिप्पणा। केवलिजिणेहिं भणिदा कह ते जीवो ति उच्चति ॥४९॥ एते सर्वेभावाः पुद्गलद्रव्यपरिणामनिष्पन्नाः । Page #30 -------------------------------------------------------------------------- ________________ २८ सनातनजैनग्रंथमालायांकेरलिजिनैणिताः कथं ते जीव इत्युच्यते ॥४९॥ तात्पर्यवृत्तिः-एदे सर्वे भावा पुगालदव्यपरिणामाणिप्पणा एते सर्वे देहरागादयः कर्मजनितपर्यायाः पुद्गलदव्यकर्मोदयपरिणामेन निष्पन्नाः । केवलिजिणेहिं भणिया कह ते जीवोति उच्चंति केवलिजिनैः सर्वज्ञैः कर्मजनिता इति भणिताः कथं ते निश्चयनयेन जीवा इत्युच्यते न कथमपि । किंच विशेषः अंगारात् कायॆवद्रागादिभ्यो मिनो जीवो नास्तीति यद्भणितं तदयुक्तं कथमिति चेत् रागादिभ्यो भिन्नः शुद्धजीवोस्तीति पक्षः परमसमाधिस्थपुरुषैः शरीररागादिभ्यो भिन्नस्य चिदानंदैकस्वभावशुद्धजीवस्योपलब्धेरिति हेतुः किटकालिकास्वरूपात् सुवर्णवदिति दृष्टांतः । किं च अंगारदृष्टांतोपि न घटते कथमिति चेत् यथा सुवर्णस्य पीतत्वं अग्नेरुष्णत्वं स्वभावस्तथांगारस्य कृष्णत्वस्वभावस्य तु पृथक्त्वं कर्तुं नायाति । रागादयस्तु विभावाः स्फटिकोपाधिवत् ततस्तेषां निर्विकारशुद्धात्मानुभूतिबलेन पृथक्कर्तु शक्यते इति । यदप्युक्तमष्टकाष्ठसंयोगखट्वावदष्टकर्मसंयोग एव जीवस्तदप्यनुचितं अष्टकर्मसंयोगात् भिन्नः शुद्धजीवोस्तीति पक्षवचनं अष्टकाष्ठसंयोगखट्वाशायिनः पुरुषस्येव परमसमाधिस्थपुरुषैरष्टकर्मसंयोगात् पृथग्भूतस्य शुद्धबुद्धकस्वभावजीवस्योपलव्धेरिति दृष्टांतसहितहेतुः । किं च देहात्मनोरत्यंतं भेदः इति पक्षः भिन्नलक्षणलक्षितत्वादिति हेतुः जलानलवदिति दृष्टांत । इतिः परिहारगाथा गता । अथ चिद्रूपप्रतिभासेपि रागाद्यध्यवसानादयः कथं पुद्गलस्वभावा भवंतीति चेत् आत्मख्यातिः- यतः एतेऽध्यवसानादयः समस्ता एव भावा भगवद्भिर्विश्वसाक्षिभिरहद्भिः पुद्गलद्रव्यपरिणाममयत्वेन प्रज्ञप्ताः संतश्चैतन्यशून्यात्पुद्गलद्रव्यादतिरिक्तत्वेन प्रज्ञाप्यमानं चैतन्यखभावं जीवद्रव्यं भवितुं नोत्सहते ततो न खल्वागमयुक्तिस्वानुभवैर्वाधितपक्षत्वात् तदात्मवादिनः परमार्थवादिनः एतदेव सर्वज्ञवचनं तावदागमः । इयं तु स्वानुभवगर्भिता युक्तिः न खलु नैसर्गिकरागद्वेषकस्माषितमध्यवसानं जीवस्तथाविधाध्यवसानात्कार्तस्वरस्येव श्यामिकायातिरिक्तत्वेनान्यस्य चित्स्वभावस्य विवेचकैः स्वयमुपलभ्यमानत्वात् । न खल्वनाद्यनंतपूर्वापरीभूतावयवैकसंसरणलक्षणक्रियारूपेण क्रीडत्कर्मैव जीवः कर्मणोतिरिक्त त्वेनान्यस्य चित्स्वभावस्य विवेचकैः स्वयमुपलभ्यमानत्वात् । न खलु तीवमंदानुभवभिद्यमानदुरंतरागरसनिर्भराध्यवसानसंतानो जीवस्ततोतीक्तित्वेनान्यस्य चित्स्वभावस्य विवेचकैः स्वयमुपलभ्यमानत्वात् । न खलु नवपुराणवस्थादिभेदेन प्रवर्तमानं नोकर्म जीवः शरीरादतिरिक्तत्वेनान्यस्य चित्स्वभावस्य विवेचकैः स्वयमुपलभ्यमानत्वात् । न खलु विश्वमपि पुण्यपापरूपेणाक्रामत्कर्मविपाको जीवः शुभाशुभभावादतिरिक्तत्वेनान्यस्य चिस्वभावस्य विवेचकैः स्वयमुपलभ्यमानत्वात् । न खलु सातासातरूपेणाभिव्याप्तसमस्ततीव्रमंदत्वगुणाभ्यां भिद्यमानः कर्मानुभावो जीवः सुखदुःखातिरिक्तत्वेनान्यस्य चित्स्वभावस्य विवेचकैः स्वयमुपलभ्यमानत्वात् । न खलु मजितावदुभयात्मकत्वादात्मकर्मोभयं जीवः काय॑तः कर्मणोतिरिक्तत्वेनान्यस्य चित्स्वावस्य विवेचकैः स्वयमुपलभ्यमानत्वात् । न खल्वर्थक्रियासमर्थः कर्मसंयोगो जीवः कर्मसंयोगात्खदाशायिनः पुरुषस्येवाष्टकष्ठसंयोगादतिरिक्तत्वेनान्यस्य चित्स्वभावस्य विवेचकैः स्वयमुपलभ्यमानत्वादिति । इह खलु पुद्गलभिन्नात्मोपलब्धि प्रतिविप्रतिपन्नः साम्नैवैवमनुशास्यः । विरम किमपरेणाकार्यकोलाहलेन स्वयमपि निभतः सन् पश्य षण्मासमेकं । हृदयसरसि पुंसः पुद्गलाद्भिन्नधाम्नो ननु किमनुपलब्धिर्भाति किंचोपलब्धिः ॥३४॥ कथंचिदन्वयप्रतिभासेप्यध्यवसानादयः पुद्गलस्यभावा इति चेत् । अट्टविहं पि य कम्मं सव्वं पुग्गलमयं जिणा विति । जस्स फलं तं वुचदि दुक्खं ति विपञ्चमाणस्स ॥५०॥ अष्टविधमपि च कर्म सर्व पुद्गलमयं जिना विदंति । यस्य फलं तदुच्यते दुःखमिति विपच्यमानस्य ॥५०॥ Page #31 -------------------------------------------------------------------------- ________________ समयमाभूतं । २९ तात्पर्यवृत्तिः - अहविद्धं पिय कम्मं सव्वं पुग्गलमयं जिणं विंति सर्वमष्टविधमपि कर्म पुद्गलमयं भवतीति जिना बीतरागसर्वज्ञा लुवंति कथयंति । कथंभूतं यत्कर्म जस्सफलं तं वुच्चदि दुक्खंति विपश्च्चमाणस्य यस्य कर्मणः फलं तत्प्रसिद्धमुच्यते किं व्याकुलत्वस्वभावत्वाद्दुःखमिति । कथंभूतस्य कर्मणः विशेषण पच्यमानस्योदयागतस्य । इदमत्र तात्पर्य अष्टविधकर्मपुतुलस्य कार्यमनाकुलत्वलक्षणपरमार्थसुखविलक्षणमाकुलत्वोत्पादकं दुःखं रागादयोप्याकुलत्वोत्पादकदुः खलक्षणास्ततः कारणात्पुद्गलकार्यत्वात् शुद्धनिश्चयनयेन पौद्गलिका इति । अष्टविधं कर्म पुद्गलद्रव्यमेवेति कथनरूपेण गाथा गता । अथ यद्यध्यव - सानादयः पुद्गलस्वभावास्तर्हि रागी द्वेषी मोही जीव इति कथं जीवत्वेन ग्रंथांतरे प्रतिपादिता इति प्रश्वे प्रत्युत्तरं ददाति । आत्मख्यातिः — अध्यवसानादिभावनिर्वर्त्तकमष्टविधमपि च कर्म समस्तमेव पुद्गलमयमिति किल सकलज्ञज्ञप्तिः । तस्य तु यद्विपाककाष्ठामधिरूढस्य फलत्वेनाभिलप्यते । तदनाकुलत्वलक्षणसौख्याख्यात्मस्वभावविलक्षणत्वात्किल दुःखं तदंतःपातिन एव किलाकुलत्वलक्षणा अध्यवसानादिभाषाः । ततो न ते चिदन्वयविभ्रमेप्यात्मस्वभावाः किंतु पुद्गलस्वभाषाः । यद्यध्यवसानदयः पुद्गलस्वभावास्तदा कथं जीवत्वेन सूचिता इति चेत् । ववहारस्स दरीसणमुवएसो वणिदो जिणवरेहिं । जीवा एदे सव्वे अज्झवसाणादओ भावाः ॥ ५१ ॥ व्यवहारस्य दर्शनमुपदेशो वर्णितो जिनवरैः । जीवा एते सर्वेऽध्यवसानादयो भावाः ।। ५१ । तात्पर्यदृत्तिः - ववहारस्स दरीसणं व्यवहारनयस्य स्वरूपं दर्शितं यत्किं कृतं उवएसो वणिओ जिणवरेहिं उपदेशो बर्णितः कथितो जिनवरैः । कथंभूतः जीवा एदे सव्वे अब्झवसाजादओ भावा जीवा एते सर्वे अध्यवसानादयो भावाः परिणामा भण्यंत इति । किं च विशेषः यद्यप्ययं व्यवहारनयो वहिर्द्रव्यावलंवत्वेनाभूतार्थस्तथापि रागादिवहिर्द्रव्याघलंबनरहितविशुद्धज्ञानदर्शनस्वभावस्थाबलंबनसहितस्य परमार्थस्य प्रतिपादकत्वाद्दर्शयितुमुचितो भवति । यदा पुनर्व्यवहारनयो न भवति तदा शुद्धनिश्वयनयेन सस्थावरजीवा न भवतीति मत्वा निःशंकोपमर्दनं कुर्वेति जनाः । ततश्च पुण्यरूप धर्माभाव इत्येकं दूषणं तथैव शुद्धनयेन रागद्वेषमोहरहितः पूर्वमेव मुक्तोजीवस्तिष्ठतीति मत्वा मोक्षार्थमनुष्ठानं कोपि न करोति ततश्च मोक्षाभाव इति द्वितीयं च दूषणं । तस्माद्व्यवहारनयव्याख्यानमुचितं भवतीत्यभिप्रायः । अथ केन दृष्टांतेन प्रवृत्तो व्यवहार इत्याख्याति । आत्मख्यातिः - सर्वे एवैते ऽध्यवसानादयोभावाः जीवा इति यद्भगवद्भिः सकलज्ञैः प्रज्ञप्तं तदभूतार्थस्यापि व्यवहारस्यापि दर्शनं । व्यवहारो हि व्यवहारिणां म्लेच्छभाषेव म्लेच्छानां परमार्थप्रतिपादकत्वादपरमार्थोपि तीर्थप्रवृत्तिनिमित्तं दर्शयितुं न्याय्य एव । तमंतरेण तु शरीराज्जीवस्य परमार्थतो भेददर्शनात्र सस्थावराणां भस्मनं इव निःशंकमुपमर्दनेन हिंसाभावाद्भवत्येव बंधस्याभाव: । तथारक्तद्विष्टविमूढो जीवो - बध्यमानो मोचनीय इति रागद्वेषमोहेभ्यो जीवस्य परमार्थतो भेददर्शनेन मोक्षोपायपरिग्रहणाभावात् भवत्येव मोक्षस्याभावः । अथ केन दृष्टांतेन प्रवृत्तोव्यवहार इति चेत् । राया हु णिग्गदो तिय एसो वलसमुदयस्स आदेसो । ववहारेण दु उच्चदि तत्थेको णिग्गदो राया ॥ ५२ ॥ एमेव य ववहारो अज्झवसाणादि अण्णभावाणं । जीवो त्ति को सुत्ते तत्थेको णिच्छिदो जीवो ॥ ५३ ॥ Page #32 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायांराजा खलु निर्गत इत्येष बलसमुदयस्यादेशः। व्यवहारेण तूच्यते तत्रैको निर्गतो राजा ॥ ५२ ॥ एवमेव च व्यवहारोध्यवसानाद्यन्यभावानां । जीव इति कृतः सूत्रे तत्रैको निश्चितो जीवः ॥५३॥ तात्पर्यवृत्तिः-राया हुणिग्गदो त्तिय एसो बलसमुदयस्स आदेसो राजा हु स्फुटं निर्गत एव बलसमुदयस्यादेशः कथनं ववहारेण दु उच्चदि तत्थेको णिग्गदो राया बलसमूहं दृष्टांतः । पंच योजनानि व्याप्य राजा निर्गतः इति व्यवहारेणोच्यते । निश्चयनयेन तु तत्रैको राजा निर्गत इति. दृष्टांतो गतः । इदानीं दार्टीतमाह-एमेवयववहारोअज्यवसाणादि अण्णभावाणं एवमेव राजदृष्टांत प्रकारेणैव व्यवहारः । केषां अध्यवसानादीनां जीवाद्भिन्नभावादीनां रागादिपर्यायाणां जीवोत्ति कदो सुत्ते कथंभूतो व्यवहारः रागादयो भावाः व्यवहारेण जीव इति कृतं भणितं सूत्रे परमागमे तत्थेको णिच्छिदो जीवो तत्र तेषु रागादिपरिणामेषु मध्ये निश्चितो ज्ञातव्यः कोसौ जीकः कथंभूतः शुद्धनिश्चयनयेनैको भावकर्मद्रव्यकर्मनोकर्मरहितशुद्धबुद्धकस्वभावो जीवपदार्थः । इति व्यवहारनयसमर्थनरूपेण गाथात्रयं गतं । एवमजीवाधिकारमध्ये शुद्धनिश्चयनयेन देहरागादिपरद्रव्यं जीवस्वरूपं न भवतीति कथनमुख्यतया गाथादशकेन प्रथमोत्तराधिकारो व्याख्यातः । अथानतरं वर्णरसादिपुद्गलस्वरूपरहितोऽनंतज्ञानादिगुणस्वरूपश्च शुद्धजीव एव उपादेय इति भावनामुख्यतया द्वादशगाथापर्यंतं व्याख्यानं करोति । तत्र द्वादशगाथासु मध्ये परमसामायिकभावनापरिणताभेदरत्नत्रयलक्षणेनिर्विकल्पसमाधिसमुत्पन्नपरमानंदसुखसमरसीभावपरिणतशुद्धजीव एवोपादेय इति मुख्यत्वेन अरसमरूव इत्यादिसूत्रगाथैका । अथाभ्यंतरे रागादयो बहिरंगे वर्णादयश्च शुद्धजीवस्वरूपं न भवतीति तस्यैव गाथासूत्रस्य विशेषविवणार्थ जीवस्सणस्थिवण्णो इत्यादिसूत्रषटुं । ततः परत एव रागादयो वर्णादयश्च व्यवहारेण संति शुद्धनिश्चयनयेन न संतीति परस्परसापेक्षनयद्वयविवरणार्थ ववहारेणदु इत्यादि सूत्रमेकं । तदनंतरमेतेषां रागादीनां व्यवझरनयेनैव जीवेन सह क्षीरनीरवत्संबंधो न च निश्चयनयेनेति समर्थनरूपेण एदं हि य संबंधो इत्यादि सूत्रमेकं । ततश्च तस्यैव व्यवहारनयस्य पुनरपि व्यक्तार्थ दृष्टांतदाष्र्टातसमर्थनरूपेण पंथे मुस्संतं इत्यादि गाथात्रयं । इति द्वितीयस्थले समुदायपातनिका । तद्यथाअथ यदि निश्चयेन रागादिरूपो जीवो न भवति तर्हि कथंभूतः शुद्धजीव उपादेयस्वरूप इत्यत्राह । आत्मख्यातिः -- यथैष राजा पंच योजनान्यभिव्याप्य निष्क्रामतीत्येकस्य पंचयोजनान्यभिव्या-- प्तुमशक्यत्वाद्यवहारिणां बलसमुदाये राजेति व्यवहारः । परमार्थतस्त्वेक एक राजा । तथैष जीवः समग्रं रागग्राममभिव्याप्य प्रवर्तित इत्येकस्य समग्रं रागग्राममभिव्याप्तुमशक्यत्वाद्यवहारिणामध्यवसानादिष्वन्यभावेषु जीव इति व्यवहारः । परमार्थतस्त्वेक एव जीवः । यद्येवं तर्हि किं लक्षणोसावेकष्टंकोत्कीर्णः परमार्थ जीव इति पृष्टः प्राह अरसमरूवमगंधं अव्वत्तं चेदणागुणमसदं । जाण अलिंगग्गहणं जीवमणिदिसंठाणं ॥५४॥ अरसमरूपमगंधमव्यक्तं चेतनागुणमशब्दं । जानीहि अलिंगग्रहणं जीवमनिर्दिष्टसंस्थानं ॥५४॥ तात्पर्यवृत्तिः-अरसपरूवमगंधं अव्वत्तं चेदणागुणमसदं निश्चयनयेन रसरूपगंधस्पर्शशब्दरहितं मनोगतकामक्रोधादिविकल्पविषयरहितत्वेनाव्यक्तं सूक्ष्मं । पुनरपि किं विशिष्टं शुद्धचेतनागुणं पुनश्च किं रूपं जाणमलिंगग्गहणं जीवमणिदिसंठाणं निश्चयनयेन स्वसंवेदनज्ञानविषयत्वादलिंग Page #33 -------------------------------------------------------------------------- ________________ समयप्राभृतं । ग्रहणं समचतुरस्रादिषसंस्थानरहितं च यं पदार्थ तमेवं गुणविशिष्टं शुद्धजीवमुपादेयमिति हे शिष्य जानीहि । इदमत्र तात्पर्य । शुद्धनिश्चयनयेन सर्वपुद्गलद्रव्यसंबंधिवर्णादिगुणशब्दादिपर्यायरहितः सर्वद्रव्येद्रियभावेंद्रियमनोगतरागादिविकल्पाविषयो धर्माधर्माकाशकालद्रव्यशेषजीवांतरभिन्नोनंतशानदर्शनसुखवीर्यश्च यः स एव शुद्धात्मा समस्तपदार्थसर्वदेशसर्वकालब्राह्मणक्षत्रियादिनानावर्णभेदभिन्नजनसमस्तमनोवचनकायव्यापारेषु दुर्लभः स एवापूर्वः सचैवोपादेय इति मत्वा निर्विकल्पनिर्मोहनिरंजननिजशुद्धात्मसमाधिसंजातसुखामृतरसानुभूतिलक्षणे गिरिगुहागहरे स्थित्वा सर्बतात्पर्येण ध्यातव्य इति। एवं सूत्रगाथा गता । अथ वहिरंगे वर्णाद्यभ्यंतरे रागादिभावाः पौद्गलिकाः शुद्धनिश्चयेन जीवस्वरूपं न भवतीति प्रतिपादयति । __ आत्मख्याति:-यः खल्लु पुद्गलद्रव्यादन्यत्वेनाविद्यमानरसगुणत्वात् पुद्गलद्रव्यगुणेभ्यो भिन्नत्वेन स्वयमरसगुणत्वात् परमार्थतः पुद्गलद्रव्यस्वामित्वाभावात् द्रव्योंद्रियावष्टंभेनारसनात् स्वभावतः क्षायोपशमिकभावाभावाद्भावेंद्रियावलंवेनारसनात् , सकलसाधारणैकसंवेदनपरिणामस्वभावत्वात्केवलरसवेदनापरिणामापन्नत्वेनारसनात् , सकलज्ञेयज्ञायकतादात्म्यस्य निषेधाद्रसपरिच्छेदपरिणतत्वेपि स्वयंरसरूपेणापरिणमनाच्चारसः । तथा पुद्गलद्रव्यादन्यत्वेनाविद्यमानरूपगुणत्वात् पुद्गलद्रव्यगुणेभ्यो भिन्नत्वेन स्वयमरूपगुणत्वात् परमार्थतः पुद्गलद्रव्यस्वामित्वाभावात् द्रव्येद्रियावष्टंभेनारूपणात् , स्वभावतः क्षायोपशमिकभावाभावादावेंद्रियावलंवेनारूपणात्सकलसाधारणैकसंवेदनपरिणामस्वभावत्वात्केवलरूपवेदनापरिणामापन्नत्वेनारूणात् , सकल यज्ञायकतादात्म्यस्य निषेधाद्रूपपरिच्छेदपरिणतत्वेपि स्वयं रूपरूपेणापरिणमनाच्चारूपः । तथा पुद्गलद्रव्यादन्यत्वेनाविद्यमानगंधगुणत्वात् पुद्गलद्रगुणेभ्यो भिन्नत्वेनस्वयमगंधगुणत्वात् परमार्थतः पुद्गलद्रव्यस्वामित्वाभावाद्व्येंद्रियावष्टंभेनागंधनात् , स्वभावतः क्षायोपशमिकभावाभावाद्भावेंद्रियावलंवेनागंधनात् सकलसाधारणैकसंवेदनपरिणामस्वभावत्वात्केवलगंधवेदनापरिणामापन्नत्वेनागंधनात् सकलज्ञेयजायकतादात्म्यस्य निषेधाद्धपरिच्छेदपरिणतत्वेपि स्वयं गंधरूपेणापरिणमनाचागंधः । तथा पुद्गलद्रव्यादन्यत्वेनाविद्यमानस्पर्शगुणत्वात् पुद्गलद्रव्यगुणेभ्यो भिन्नत्वेन स्वयमस्पर्शगुणत्वात् परमार्थतः पुद्गलद्रव्यस्वामित्वाभावाद्रव्येद्रियावष्टंभेनास्पर्शनात् स्वभावतः क्षायोपशमिकभावाभावात् भावेंद्रियावलंवनास्पर्शनात्सकलसाधारणैकसंवेदनपरिणामस्वभावत्वात् केवलस्पर्शवेदनापरिणामापन्नत्वेनास्पर्शनात् सकलज्ञेयज्ञायकतादात्म्यस्य निषेधात् स्पर्शपरिच्छेदपरिणतत्वेपि स्वयं स्पर्शस्वरूपेणापरिणमनाचास्पर्शः । तथा पुद्गलद्रव्यादन्यत्वेनाविद्यमानशब्दपर्यायत्वात् पुद्गलद्रव्यपर्यायेभ्यो भिन्नत्वेन स्वयमशब्दपर्यायत्वात् परमार्थतः पुद्गलद्रव्यस्वामित्वाभावात् द्रव्येंद्रियावष्टंभेन शब्दाश्रवणात् स्वभावतः क्षायोपशमिकभावाभावाद्भावेंद्रियावलंवेन शव्दाश्रवणात् सकलसाधारणकसंवेदनपरिणामस्वभावत्वात् केवलशब्दवेदनापरिणामापन्नत्वेन शब्दाश्रवणात् सकलज्ञेयज्ञायकतादात्म्यस्य निषेधाच्छन्दपरिच्छेदपरिणतत्वेपि स्वयं शब्दरूपेणापरिणमनाच्चाशब्दः । द्रव्यांतरारब्धशरीरसंस्थानेनैव संस्थान इति निर्देष्टुमशक्यत्वात् नियतस्वभावेनानियतसंस्थानानंतशरीरवर्तित्वात्संस्थाननामकर्मविपाकस्य पुद्गलेषु निर्दिश्यमानत्वात् प्रतिविशिष्टसंस्थानपरिणतसमस्तवस्तुतत्त्वसंवलितसहजसंवेदनशक्तित्वेपि स्वयमखिललोकसंवलनशून्योपजायमाननिर्मलानुभूतितयात्यंतमसंस्थानत्वाचानिर्दिष्टसंस्थानः । षद्रव्यात्मकलोका याव्यक्तादन्यत्वात्कषायचक्राद्भावकाव्यक्तादन्यत्वाच्चित्सामान्यनिमग्नसमस्तव्यक्तित्वात् क्षणिकव्यक्तिमात्राभावात् व्यक्ताव्यक्तविमिश्रप्रतिभासेपि व्यक्तास्पर्शत्वात् स्वयमेव हि वहिरंतः स्फुटमनुभूयमानत्वेपि व्यक्तोपेक्षणेन प्रद्योतमानत्वाचाव्यक्तः। रसरूपगंधस्पर्शशब्दसंस्थानव्यक्तत्वाभावेपि स्वसंवेदनबलेन नित्यमात्मप्रत्यक्षत्वे सत्यनुमेयमात्रत्वाभावादलिंगग्रहणः। समस्तविप्रतिपत्तिप्रमाथिनी विवेचकजनसमर्पितसर्वस्वेन सकलमपि लोकालोकं कवलीकृत्यात्यंतसौहित्यमंथरेणेव सकलकालमेव मनांगप्यविचलितानन्यसाधारणतया स्वभावभूतेन स्वयमनुभूयमानेन चेतनागुणेन नित्यमेवांतःप्रकाशमानत्वात् चेतनागुणश्च स खलु भगवानमलालोक इहैकष्टंकोत्कीर्णः प्रत्यग्ज्योतिर्जीवः । सकलमपि विहायाह्राय चिच्छक्तिरिक्तं स्फुटतरमवगाह्य स्वं च चिच्छक्तिमात्रं । इममुपरि चरंतं चारुविश्वस्य साक्षात् कलयतु परमात्मात्मानमात्मन्यनंतं ॥३५॥ Page #34 -------------------------------------------------------------------------- ________________ समातनजैनथमालायांचिच्छक्तिव्याप्तसर्वस्वस्वसारो जीव इयानयं । अतोतिरिक्ताः सर्वेपि भावाः पौगालिकाअमी ॥३६॥ जीवस्स पत्थिवण्णो णवि गंधो णवि रसोणवि य फासो। गवि रूवं ण सरीरं ण वि संठाणं ण संहणणं ॥५५॥ जीवस्स णस्थि रागो णवि दोसो णेव विजदे मोहो । णो पच्चयाण कम्मं णोकम्मं चावि से णत्थि ॥५६॥ जीवस्स णत्थि वग्गो ण वग्गणा व फड्ढया केई । णो अज्झप्यठाणा णेव य अणुमायठाणाणि ॥५७॥ जीवस्स णथि केई जोयट्ठाणा ण बंधठाणा वा। णो व य उदयष्ठाणा ण मग्गणठाणया केई ॥५०॥ णो ठिदिबंधठाणा जीवस्स ण संकिलेसठाणा वा । व विसोहिठाणा णो संजमलबिठाणा वा ॥५९॥ णेव य जीवठाणा ण गुणठाणा य अस्थि जीवस्स । जेण दु एदे सव्वे पुग्गलदव्वस्स परिणामा ॥६॥ जीवस्य नास्ति वर्णो नापि गंधो नापि रसो नापि च स्पर्शः। मापि रूपं न शरीरं नापि संस्थानं न संहननं ॥१९॥ जीवस्य नास्ति रागो नापि द्वेषो नैव विद्यते मोहः । नो प्रत्यया न कर्म नोकर्म चापि तस्य नास्ति ॥१६॥ जीवस्य नास्ति वगों न वर्गणा नैव स्पर्टकानि कानिचित् । नो अध्यात्मस्थानानि नैव चानुभागस्थानानि ॥१७॥ जीवस्य न संति कानिचिद्योगस्थानानि न बंधस्थानानि वा। नैव चोदयस्थानानि न मार्गणास्थानानि कानिचित् ॥१८॥ मो स्थितिबंधस्थानानि जीवस्य न संक्लेशस्थानानि वा। नैव विशुरस्थानानि नो संयमलब्धिस्थानानि वा ॥५९ नैव च जीवस्थानामि म गुणस्थानानि वा संति जीवस्य । येन त्वेते सर्वे पुद्गलद्रव्यस्य परिणामाः ॥६॥ तात्पर्यवृत्तिः-वर्णगंधरसस्पर्शास्तु रूपशब्दवाच्याः स्पर्शरसगंधवर्णवती मूर्तिश्च औदारिकादि पंच शरीराणि समचतुरस्रादिषट्संस्थानानि वज्रर्षभनाराचादिषट्संहननानि चेति । एते वर्णादयो धर्मिणः शुद्धनिश्चयनयेन जीवस्य न संतीति साध्यो धर्मश्चेति धर्मधर्मिसमुदयलक्षणः पक्षः आस्थासंधाप्रतिजेति यावत् पुद्गलद्रव्यपरिणाममयत्वे सति शुद्धात्मानुभूतेभिन्नत्वादिति हेतुः । एवमत्र व्याख्यान पक्षहेतुरूपेणागद्वयमनुमानं ज्ञातव्यं । अथ रागद्वेषमोहमिथ्यात्वाविरतिप्रमादकषाययोगरूपपंचप्रत्ययमूलोत्तरप्रकृतिभेदभिन्नचानावरणाद्यष्ठविधकौदारिकवैक्रियकाहारकशरीरत्रयाहारादिषट्पर्याप्तिरूपनोकर्माणि इत्यस्य जीवस्य शुद्धनिश्चयनयेन सर्वाण्येतानि न संति कस्मात्पुद्गलपरिणाममयत्व सति शुद्धात्मानुभूतेभिन्नत्वात् । अथ परमाणोरविभागपरिच्छेदरूपशक्तिसमूहो वर्ग इत्युच्यते । वर्गाणां समूहो वर्गणा मण्यते । वर्गणासमूह Page #35 -------------------------------------------------------------------------- ________________ समयप्राभृतं । लक्षणानि स्पर्द्धकानि च कानिचिन्न संति । अथवा कर्मशक्तेः क्रमेण विशेषवृद्धिः स्पर्द्धकलक्षणं । तथा चोक्तं वर्गवर्गणास्पर्द्धकानां त्रयाणां लक्षणं वर्गः शक्तिसमूहोऽणोर्बहूनां वर्गणोदिता । वर्गणानां समूहस्तु स्पर्द्धकं स्पर्द्धकापहैः । शुभाशुभरागादिविकल्परूपाध्यवसानानि भण्यंते । तानि च संति लतादावस्थिपाषाणशक्तिरूपाणि पातिकर्मचतुष्टयानुभागस्थानानि भण्यंते । गुडखंडशर्करामृतसमानानि शुभाघातिकर्मानुभागस्थानानि भण्यंते । निवकांजीरविषहालाहलसदृशान्यशुभाघातिकर्मानुभागस्थानानि च तान्येतानि सर्वाण्यपि शुद्धनिश्चयनयेन जीवस्व न संति । कस्मात् पुद्गलद्रव्यपरिणाममयत्वे सति शुद्धात्मानुभूतेर्भिन्नत्वात् । अथ वीर्यातरायक्षयोपशमजनितमनोवचनकायवर्गणावलंबनकर्मादानहेतुभूतात्मप्रदेशपरिस्पंदलक्षणानि योगस्थानानि प्रकृतिस्थित्यनुभागप्रदेशरूपचतुर्बिधबंधस्थानानि सुखदुःखानुभवरूपाण्युदयस्थानानि गत्यादिमार्गणास्थानानि च सर्वाण्यपि शुद्धनिश्चयनयेन जीवस्य न संति कस्मात् पुद्गलद्रव्यपरिणाममयत्वे सति शुद्धात्मानुभूतेभिन्नत्वात् । अथ-जीवेन सह कालांतरावस्थानरूपाणि स्थितिबंधस्थानानि कषायोद्रेकरूपाणि संक्लेशस्थानानि कषायमंदोदयरूपाणि विशुद्धस्थानानि कषायक्रमहानिरूपाणि संयमलब्धिस्थानानि च सर्वाण्यपि शुद्धनिश्चयनयेन जीवस्य न संति कस्मात् पुद्गलद्रव्यपरिणाममयत्वे सति शुद्धात्मानुभूतभिन्नत्वात् । अथ-जीवस्य शुद्धनिश्चयनयेन “वादरसुंहमेइंदी वितिचउरिंदी असंणि सण्णीणं । पज्जत्तापज्जत्ता एवं ते चउदसा होति" इति गाथाकथितक्रमेण वादरैकेंद्रियादिचतुर्दशजीवस्थानानि मिथ्यादृष्ट्यादिचतुर्दशगुणस्थानानि सर्वाण्यपि न संति पुद्गलद्रव्यपरिणाममयत्वे सति शुद्धात्मानुभूतेभिन्नत्वात् । कुतः इति चेत् यतः कारणादेत वर्णादिगुणस्थानांताः परिणामाः शुद्धनिश्चयनयेन पुद्गलद्रव्यस्य पर्याया इति । अयमत्रभावार्थ:-सिद्धांतादिशास्त्रे अशुद्धपर्यायार्थिकनयेनाभ्यंतरे रागादयो बहिरंगे शरीरवीपेक्षया वर्णादयोपि जीवाः इत्युक्ताः अत्र पुनरध्यात्मशास्त्रे शुद्धनिश्चयनयेन निषिद्धा इत्युभयत्रापि नयविभागविवक्षया नास्ति विरोध इति वर्णाद्यभावस्य विशेषव्याख्यानरूपेण सूत्रषटुं गतं । अथ यदुक्तं पूर्व सिद्धांतादौ जीवस्य वर्णादयो व्यवहारेण कथिताः अत्र तु प्राभूतग्रंथे निश्चयनयेन निषिद्धाः तमेवार्थ दृढयति । आत्मख्यातिः- यः कृष्णो हरितः पातो रक्तः श्वेतो वर्णः स सर्वोपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यः सुरभिर्दुरभिर्वा गंधः स सर्वोपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यः कटुकः कषायः तिक्तोऽम्लो मधुरो वा रसः स सर्वोपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यः स्निग्धो रूक्षः शीतः उष्णो गुरुर्लघुर्मुदुः कठिनो वा स्पर्शः स सर्वोपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यत्स्पर्शादिसामान्यपरिणाममात्रं रूपं तन्नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् । यदौदारिकं वैक्रियकमाहारकं तैजसं कार्मणं वा शरीरं तत्सर्वमपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यत्समचतुरस्रं न्यग्रोधपरिमंडलं स्वाति कुब्जं वामनं हुंडं वा संस्थानं तत्सर्वमपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् । यद्वज्रर्षभनाराचं वज्रनाराचं नाराचमर्द्धनाराच कीलिका असंप्राप्तासृपाटिका वा संहननं तत्सर्वमपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यः प्रीतिरूपो रागः स सर्वोपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । योऽप्रीतिरूपो द्वेषः स सर्वोपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यस्तत्त्वाप्रतिपत्तिरूपो मोहः स सर्वोपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् । ये मिथ्यात्वाविरतिकषाययोगलक्षणाः प्रत्ययास्ते सर्वेपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् । यद् चानावरणीयदर्शनावरणीयवेदनीयमोहनीयायुर्नामगोत्रांतरायरूपं कर्म तत्सर्वमपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यत्षट्पर्याप्तित्रिशरीरयोग्यवस्तुरूपं नोकर्म तत्सर्वमपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतोर्भन्नत्वात् । यः शक्तिसमूहलक्षणो वर्गः स सर्वोपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । या बर्गसमूहलक्षणा बर्गणा सा सर्वापि नास्ति जीवस्य पुद्गलद्रव्य Page #36 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायांपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यानि मंदतीव्ररसकर्मदलविशिष्टन्यासलक्षणानि स्पर्द्धकानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यानि स्वपरैकत्वाध्यासे सति विशुद्धचित्परिणामातिरिक्तत्वलक्षपान्यध्यात्मस्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यानि प्रतिविशिष्टप्रकृतिरसपरिणामलक्षणान्यनुभागस्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् । यानि कायवाङ्मनोवर्गणापरिस्पंदलक्षणानि योगस्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् । यानि प्रतिविशिष्टप्रकृतिपरिणामलक्षणानि बंधस्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतभिन्नत्वात् । यानि स्वफलसंपादनसमर्थकर्मावस्थालक्षणान्युदयस्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् । यानि गतींद्रियकाययोगवेदकषायज्ञानसंयमदर्शनलेश्याभव्यसम्यक्त्वसंशाहारलक्षणानि मार्गणास्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यानि प्रतिविशिष्ट प्रकृतिकालांतरसहत्वलक्षणानि स्थितिबंधस्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यानि कषायविषाकोद्रेकलक्षणानि संक्लेशस्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात्। यानि कषायविपाकानुद्रेकलक्षणानि विशुद्धस्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतोभन्नत्वात् । यानि चारित्रमोहविपाकक्रमनिवृत्तिलक्षणानि संयमलब्धिस्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यानि पर्याप्तापर्याप्तवादरसूक्ष्मैकेंद्रियद्वींद्रियत्रींद्रियचतुरिंद्रयसंझ्यसंज्ञिपंचेद्रियलक्षणानि जीवस्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यानि मिथ्यादृष्टिसासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्टि-असंयतसम्यग्दृष्टिसंयतासंयतप्रमत्तसंयताप्रमत्तसंयतापूर्वकरणोपशमकक्षपकानिवृत्तिवादरसांपरायोपशमकक्षपकसूक्ष्मसांपरायोपशमकक्षपकोपशांतकषायक्षीणकषायसयोगकेवल्ययोगकेवलिलक्षणानि गुणस्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतर्भिन्नत्वात् ।। वर्णाद्या वा रागमोहादयो वा भिन्ना भावाः सर्व एवास्य पुंसः । तेनैवांतस्तत्त्वतः पश्यतोऽमी नो दृष्टाः स्युर्दृष्टमेकं परं स्यात् ॥ ३७॥ ननु वर्णादयो यद्यमी न संति जीवस्य तदा तत्रांतरे कथं संतीति प्रज्ञाप्यते इति चेत् ववहारेण दु एदे जीवस्स हवंति वण्णमादीया । गुणठाणंताभावा ण दु केई णिच्छयणयस्स ॥६१॥ व्यवहारेण त्वते जीवस्य भवंति वर्णाद्याः । गुणस्थानांता भावा न तु केचिनिश्चयनयस्य ॥६॥ तात्पर्यवृत्तिः- व्यवहारनयेन त्वेते जीवस्य भवंति वर्णाद्या गुणस्थानांता भावाः पर्याया न तु कोपि निश्चयनयेनेति । एवं निश्चयव्यवहारसमर्थनरूपेण गाथा गता । अथ कस्माज्जीवस्य निश्चयेन वर्णादयो न संतीति पृष्टे प्रत्युत्तरं ददाति । आत्मख्यातिः- इह हि व्यवहारनयः किल पर्यायाश्रितत्वाज्जीवस्य पुद्गलसंयोगवशादनादिप्रसिद्धबंधपर्यायस्य कुसुंभरक्तस्य कार्पासिकवासस इवौपाधिकं भावमवलंब्योत्प्लवमानः परभावं परस्य विदधाति । निश्चयनयस्तु द्रव्याश्रितत्वात्केवलस्य जीवस्य स्वाभाविकं भावमवलंब्योप्लवमानः परभावं परस्य सर्वमेव प्रतिषेधयति। ततो व्यवहारेण वर्णादयो गुणस्थानांता भावा जीवस्य संति निश्चयेन तु न संतीति युक्ता प्रज्ञप्तिः । कुतो जीवस्य वर्णादयो निश्चयेन न संतीति चेत् । एदेहि य संबंधो जहेव खीरोदयं मुणेदव्यो । Page #37 -------------------------------------------------------------------------- ________________ समयप्राभृतं । जय हुंति तस्स ताणिदु उवओग गुणाधिगो जम्हा ॥२॥ एतैश्च संबंधो यथैव क्षीरोदकं ज्ञातव्यः । न च भवंति तस्य तानि तूपयोगगुणाधिको यस्मात् ॥ ६२ ॥ तात्पर्यवृत्तिः-एदेहि य संबंधो जहेव खीरोदयं मुणेदवो एतैः वर्णादिगुणस्थानांतैः पूर्वोक्तायायैः सह संबंधो यथैव क्षीरनीरसंश्लेषस्तथा मंतव्यः । न चान्युष्णत्वयोरिव तादात्म्यसंबंधः । कुत इति चेत् ण य हुंति तस्स ताणि दु नच भवंति तस्य' जीवस्य ते तु वर्णादिगुणस्थानांता भावाः पर्यायाः कस्मात् उवओगगुणाधिगो जम्हा यस्मादुष्णगुणेनाग्निरिव केवलज्ञानदर्शनगुणेनाधिकः परिपूर्ण इति । ननु वर्णादयो बहिरंगास्तत्र व्यवहारेण क्षीरनीरवत्संश्लेषसंबंधो भवतु नचाभ्यंतराणां रागादीनां तत्राशुद्धनिश्चयेन भवितव्यमिति । नैवं द्रव्यकर्मबंधापेक्षया योसौ असद्भूतव्यवहारस्तदपेक्षया तारतम्यज्ञापनार्थ. रागादीनामशुद्धनिश्चयो भण्यते । वस्तुतस्तु शुद्धनिश्चयापेक्षया पुनरशुद्धनिश्चयोपि व्यवहार एवेति भावार्थः । अथ तर्हि कृष्णवर्णोयं धवलवर्णोयं पुरुष इति व्यवहारो विरोध प्राप्नोतीत्येवं पूर्वपक्षे कृते सति व्यवहाराविरोध. . दर्शयतीत्येका पातनिका । द्वितीया तु तस्यैव पूर्वोक्तव्यवहारस्य विरोधं लोकप्रसिद्धदृष्टांतद्वारेण परिहरति । __ आत्मख्याति:-यथा खलु सलिलमिश्रितस्यः क्षीरस्य सलिलेन सह परस्परावगाहलक्षणे संबंधे सत्यपि स्वलक्षणभूतक्षीरत्वगुणव्याप्यतया सलिलादधिकत्वेन प्रतीयमानत्वादग्नेरुष्णगुणेनेव सह तादात्म्यलक्षणसंबंधाभावान्न निश्चयेन सलिलमस्ति । तथा वर्णादिपुद्गलद्रव्यपरिणाममिश्रितस्यास्यात्मनः पुद्गलद्रव्येण सह परस्परावगाहलक्षणेः संबंधे सत्यपि स्वलक्षणभूतोपयोगगुणव्याप्यतया सर्वद्रव्येभ्योधिकत्वेन प्रतीयमानत्वात् अग्नेरुष्णगुणेनेव सह तादात्म्यलक्षणसंबंधाभावान्न निश्चयेन वर्णादिपुद्गलपरिणामाः संति। कथं तर्हि व्यवहासे विरोधक इति चेत् । पंथे मुस्संतं पस्सिदूण लोगा भणति ववहारी । मुस्सदि एसो पंथो णय पंथो मुस्सदे कोई ॥६३॥ तह जीके कम्माणं णोकम्माणं च पस्सिदुं वण्णं । जीवस्स एस वण्णो जिणेहि ववहारदो उत्तो ॥६४॥ एवं रसगंधफासा संठाणादीय जे समुदिहा। सब्वे ववहारस्स य णिच्छयदण्हू ववदिसंति ॥६५॥ पथि मुष्यमाणं दृष्ट्वा लोका भणंति व्यवहारिणः। मुष्यते एष पंथा न च पंथा.मुष्यते कश्चित् ।। ६३॥ तथा जीके कर्मणा नोकर्मणां च दृष्य वर्ण । जीवस्यैष वर्णो जिनैर्व्यवहारत उक्तः ॥१४॥ एवं गंधरसस्पर्शरूपाणि देहः संस्थानादयो ये च । । सर्वे व्यवहारस्य च निश्चयदृष्टारो व्युपदिशति ॥६५॥ तात्पर्यवृत्तिः-पंथे मुस्संतं पस्सिद्ग लोगा भणंति ववहारी पथि मार्गे मुष्यमाणं सार्थ दृष्ट्वा व्यवहारिलोका भणंति किं भणंति मुस्सदि एसों पंथो मुष्यत एषः प्रत्यक्षीभूतः पंथाश्चौरैः कर्तृभूतैः णय पंथो मुस्सदें कोई नच विशिष्टशुद्धाकाशलक्षणः पंथा मुष्यते कश्चिदपि किंतु पंथानमाधारीकृत्य १ आत्मख्यातौ न ‘एवं गंधरसफासरूवादहोसठाणमाइया जे य' इतिः पाठः ।। Page #38 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायांतदाधेयभूता जना मुष्यंत इति दृष्टांतगाथा गता। तह जीवे कम्माणं णोकम्माणं च पस्सिदुं वणं तथा तेन पथि सार्थदृष्टांतेन जीवेधिकरणभूते कर्मनोकर्मणां शुक्लादिवर्ण दृष्ट्रा जीवस्स एस वण्णो जिणेहि ववहारदो उत्तो जीवस्य एष वर्णो जिनैर्व्यवहारतो भणित इति दार्टीतगाथा गता । एवं रसगंधफासा संठाणादीय जे समुदिता एवमनेनैव दृष्टांतदा_तन्यायेन रसगंधस्पर्शसंस्थान संहननरागद्वेषमोहादयो ये पूर्वगाथाषट्रेन समुद्दिष्टाः सव्वे ववहारस्स य णिच्छयदण्हू ववदिसंति ते सर्वे व्यवहारनयस्याभिप्रायेण निश्चयज्ञा व्युपदिशति कथयंतीति नास्ति व्यवहारविरोधः । इति दृष्टांतदाष्टांताभ्यां व्यवहारनयसमर्थनरूपेण गाथात्रयं गतं । एवं शुद्धजीव एवोपादेय इति प्रतिपादनमुख्यत्वेन द्वादशगाथाभि द्वितीयांतराधिकारो व्याख्यातः । __अतः परं जीवस्य निश्चयेन वर्णादितादात्म्यसंबंधो नास्तीति पुनरपि दृढीकरणा) गाथाष्टकपर्यंत व्याख्यानं करोति । तत्रादौ संसारिजीवस्य व्यवहारेण वर्णादितादात्म्यं भवति मुक्तावस्थायां नास्तीति ज्ञापनार्थ तत्थभचे इत्यादिसूत्रमेकं । ततःपरं जीवस्य वर्णादितादात्म्यमस्तीति दुरभिनिवेशे सति जीवाभावो दूषणं प्राप्नोतीति कथनमुख्यत्वेन जीवो चवदि इत्यादिगाथात्रयं । तदनंतरमेकेंद्रियादिचतुर्दशजीकसमासानां जीवेन सह शुद्धनिश्चयनयेन तादात्म्यं नास्तीति कथनार्थ तथैव वर्णादितादात्म्यनिषेधार्थ च एकं च दोणि इत्यादिगाथात्रयं । ततश्च मिथ्यादृष्ट्यादिचतुर्दशगुणस्थानानामपि जीवेन सह शुद्धनिश्चयनयेन तादात्म्यनिराकरणार्थं तथैवाभ्यंतरे रागादितादात्म्यनिषेधार्थं च मोहणकम्म इत्यादिसूत्रमेकं । एक्मष्टगाथाभिस्तृतीयस्थले समुदायपातनिका । तद्यथा-अथ कथं जीवस्य वर्णादिभिः सह तादात्म्यलक्षणसंबंधो नास्तीति पृष्टे प्रत्युत्तरं ददाति ।। ___ आत्मख्यातिः-यथा पथि प्रस्थितं कंचित्साथै मुष्यमाणमवलोक्य तात्स्थ्यात्तदुपचारेण मुष्यत एष पंथा इति व्यवहारिणां व्यपदेशेपि न निश्चयतो विशिष्टाकाशदेशलक्षणः कश्चिदपि पंथा मुष्येत । तथा जीवे बंधपर्यायेणावस्थितकर्मणो नोकर्मणो वर्णमुत्प्रेक्ष्य तात्स्थ्यात्तदुपचारेण जीवस्यैष वर्ण इति व्यवहारत्तोहदेवानां प्रज्ञापनेपि न निश्चयतो नित्यमेवामूर्तस्वभावस्योपयोगगुणाधिकस्य जीवस्य कश्चिदपि वर्णोस्ति । एवं गंधरसस्पर्शरूपशरीरसंस्थानसंहननरागद्वेषमोहप्रत्ययकर्मनोकर्मवर्गवर्गणास्पर्द्धकाध्यात्मस्थानानुभागस्थानयोगस्थानबंधस्थानोदयस्थानमार्गणास्थानस्थितिबंधस्थानसंक्लेशस्थानविशुद्धिस्थानसंयमलब्धिस्थानजीवस्थानगुणस्थानान्यपि व्यवहारतोहद्देवानां प्रज्ञापनेपि निश्चयतो नित्यमेवामूर्तस्वभावस्योपयोगगुणेनाधिकस्य जीवस्य सर्वाण्यपि न संति तादात्म्यलक्षणसंबंधाभावात् । कुतो जीवस्य वर्णादिभिः सह तादात्म्यलक्षणः संबंधो नास्तीति चेत् । तत्थभवे जीवाणं संसारत्थाण होत वण्णादी। संसारपमुक्काणं णत्थि दु वण्णादओ केई ॥६६॥ तत्र भव जीवानां संसारस्थानां भवंति वर्णादयः । संसारममुक्तानां न संति खलु वर्णादयः केचित् ॥६६॥ तात्पर्यवृत्तिः-तत्थभवे जीवाणं संसारत्थाण होंति क्ण्णादी तत्र विवक्षिताविवक्षित भवे संसारस्थानां जीवानामशुद्धनयेन वर्णादयो भवंति संसारपमुक्काणं संसारप्रमुक्तानां पत्थि दु वण्णादओ केई पुद्गलस्य वर्णादितादात्म्यक्त्तादात्म्यसंबंधाभावात् केवलज्ञानादिगुणसिद्धत्वादिपर्यायैः सह यथा तादात्म्यसंबंधोस्ति तथा वा तादात्म्यसंबंधाभावादशुद्धनयेनापि न संति पुनर्वर्णादयः केपि । इति वर्णादितादात्म्यनिषेधरूपण गाथा गता । अथ जीवस्य वर्णादितादात्म्यदुराग्रहे सति दोषं दर्शयति । आत्मरूपातिः-यत्किल सर्वास्वप्यवस्थासु यदात्मकत्वेन व्याप्तं भवति तदात्मकत्वव्याप्तिशून्यं Page #39 -------------------------------------------------------------------------- ________________ समयप्राभृतं । न भवति तस्य तैः सह तादात्म्यलक्षणः संबंध: स्यात् । ततः सर्वास्वप्यवस्थासु वर्णाद्यात्मकत्वव्याप्तस्य भवतो वर्णाद्यात्मकत्वव्याप्तिशून्यस्याभवतश्च पुद्गलस्य वर्णादिभिः सह तादात्म्यलक्षणः संबंधः स्यात् । संसारावस्थायां कथंचिद्वर्णाद्यात्मकत्वव्याप्तस्य भवतो वर्णाद्यात्मकत्वव्याप्तिशून्यस्याभवतश्वापि मोक्षावस्थायां सर्वथा वर्णाद्यात्मकत्वव्याप्तिशून्यस्य भवतो वर्णाद्यात्मकत्वव्याप्तस्याभवतश्च जीवस्य वर्णादिभिः सह तादात्म्यलक्षणः संबंधो न कथंचनापि स्यात् । जीवस्य वर्णादितादात्म्यदुरभिनिवेशे दोषश्चायं । जीवो चैव हि दे सव्वे भावत्ति मण्णसे जदि हि । जीवस्साजीवस्स य णत्थि विसेस हि दे कोई ॥६७॥ चैव सर्वे भावा इति मन्यसे यदि हि । ३७ जीवस्य जीवस्य च नास्ति विशेषस्तु ते कश्चित् ॥ ६७ ॥ तात्पर्यवृत्तिः - जीवो चैव हि पदे सब्बे भावात माणसे जदि हि यथानंतज्ञानाव्यावाधसुखादिगुणा एव जीवो भवति वर्णादिगुणा एव पुद्गलस्तथा जीव एव हि स्फुटमेते वर्णादयः सर्वे भावा मनसि मन्यसे यदि चेत् जीवस्साजीवस्स य णत्थि विसेसो हि दे कोई तदा किं दूषणं विशुद्धज्ञानदर्शनस्वभावजीवस्य जडत्वादिलक्षणाजीवस्य च तस्यैवमते कोपि विशेषो भेदो नास्ति । ततश्व जीवाभावदूषणं प्राप्नोतीति सूत्रार्थः । अथ संसारावस्थायामेव जीवस्य वर्णादितादात्म्यसंबंधोस्तीति दुरभिनिवेशेपि जीवाभाव एव दोष इत्युपदिशति । आत्मख्यातिःः यथा वर्णादयो भावाः क्रमेण भाविताविर्भावतिरोभावाभिस्ताभिः स्ताभिर्व्यक्तिभिः पुद्गलद्रव्यमनुगच्छंतः पुद्गलस्य वर्णादितादात्म्यं प्रथयंति । तथा वर्णादयो भावाः क्रमेण भाविताविर्भावतिरोभावाभिस्ताभिस्ताभिर्व्यक्तिभिर्जीवमनुगच्छंतो जीवस्य वर्णादितादात्म्यं प्रथयंतीति यस्याभिनिवेशः तस्य शेषद्रव्यासाधारणस्य वर्णाद्यात्मकत्वस्य पुद्गललक्षणस्य जीवेन स्वीकरणाज्जीवपुद्गलयोरविशेषप्रसक्तौ सत्यां पुद्गलेभ्यो भिन्नस्य जीवद्रव्यस्याभावाद्भवत्येव जीवाभावः । संसारावस्थायामेव जीवस्य वर्णादितादात्म्यमित्यभिनिवेशेप्ययमेव दोषः । जदि संसारत्थाणं जीवाणं तुज्झ होंति वण्णादी | तम्हा संसारत्था जीवा रूवित्तमावण्णा ॥ ६८ ॥ एवं पुग्गलदव्वं जीवो तह लक्खणेण मूढमदी । णिव्वाणमुवगदो वि य जीवत्तं पुग्गलो पत्तो ॥ ६९ ॥ अथ संसारस्थानां जीवानां तव भवंति वर्णादयः । तस्मात्संसारस्था जीवा रूपित्वमापन्नाः || ६८ ॥ एवं पुद्गलद्रव्यं जीवस्तथालक्षणेन मूढमते । निर्वाणमुपगतोपि च जीवत्वं पुद्गलः प्राप्तः ॥ ६९ ॥ तात्पर्यवृत्तिः - जदि संसारस्थाणं जीवाणं तुज्झ होंति वण्णादी यदि चेत्संसारस्थजीवानां पुद्गलस्येव वर्णादयो गुणास्तव मते न तवाभिप्रायेणैकांतेन भवतीति तम्हा संसारत्था जीवा रूवित्तमावण्णा ततः किं दूषणं संसारस्थजीवा अमूर्त्तमनंतज्ञानादिचतुष्टयस्वभावलक्षणं त्यक्त्वा शुक्लकृष्णादिलक्षणं रूपित्वमापन्ना भवंति । अथ - एवं पुग्गलदव्वं जीवो तह लक्खणेण मूढमई एवं पूर्वोक्तप्रकारेण जीवस्य रूपित्वे सति पुद्गलद्रव्यमेव जीवः नान्यः कोपि विशुद्धचैतन्यचमत्कारमात्रस्तवलक्षणेन तभिप्रायण हे मूढमते न केवलं संसारावस्थायां पुद्गल एव जीवत्वं प्राप्ताः णिव्वाणमुवगदो विय Page #40 -------------------------------------------------------------------------- ________________ २८ सनातनजैनग्रंथमालायांजीपत्तं पुग्गलो पत्तो निर्वाणमुपगतोपि पुद्गल एव जीवत्वं प्राप्तः नान्यः कोपि चिद्रूपः । कस्मादिति चेत् वर्णादितादात्म्यस्य पुद्गलद्रव्यस्येव निषेधयितुमशक्यत्वादिति भवत्येव जीवाभावः । किं च संसारावस्थायामेकांतेन वर्णादितादात्म्ये सति मोक्ष एव न घटते, कस्मादिति चेत् ? केवलज्ञानादिचतुष्टयव्यक्तिरूपस्य कार्यसमयसारस्यैव मोक्षसंज्ञा सा च जीवस्य पुद्गलत्वे सति न संभवंतीति भावार्थः । एवं जीवस्य वर्णादितादात्म्ये सति जीवाभावदूषणद्वारेण गाथात्रयं गतं । अथैवं स्थितं वादरसूक्ष्मैकेंद्रियादिसंशिपचेंद्रियपर्यंतचतुर्दशजीवस्थानानि शुद्धनिश्चयेन जीवस्वरूपं न भवंति तथा देहगता. वर्णादयोपीत्यावेदयति । __आत्मख्यातिः यस्य तु. संसारावस्थायां जीवस्य वर्णादितादात्म्यमस्तीत्यभिनिवेशस्तस्य तदानी सजीवोरूपित्वमवश्यमवाप्नोति। रूपित्वं च शेषद्रव्यासाधारणं कस्यचिद्र्व्यस्य लक्षणमस्ति । ततो रूपित्वेन लक्ष्यमाणं यत्किंचिद्भवति स जीवो भवति । रूपित्वेन लक्ष्यमाणं पुद्गलद्रव्यमेव भवति । एवं पुद्गलद्रव्यमेव स्वयं जीवो भवति न पुनरितरः कतरोपि । तथा च सति मोक्षावस्थायामपि नित्यस्वलक्षणलक्षितस्य द्रव्यस्य सर्वास्वप्यवस्थास्वनपायित्वादनादिनिधनत्वेन पुद्गलद्रव्यमेव स्वयं जीवो भवति न पुनरितरः कतरोपि । तथा च सति तस्यापि पुद्गलेभ्यो भिन्नस्य जीवद्रव्यस्याभावात् भवत्येव जीवाभावः । एवमेतस्थितं. यद्वर्णादयो भावा न जीव इति । एकं च दोण्णि तिण्णि य चत्तारि य पंच इंदिया जीवा। वादरपजत्तिदरा पयडीओ णामकम्मस्स ॥७॥ एदेहिय णिवत्ता जीवट्ठाणा दु करणभूदाहिं । पयडीहिं पुग्गलमईहिं ताहि कह भण्णदे जीवो॥७॥ एकं वा द्वे त्रीणि च चत्वारि च पंचेद्रियाणि जीवोः । वादरपर्याप्तेतराः प्रकृतयो नामकर्मणः ॥ ७० ॥ एताभिश्च निवृत्तानि जीवस्थानानि करणभूताभिः ! प्रकृतिभिः पुद्गलमयीभिस्ताभिः कथं भण्यते जीवः । ७॥ तात्पर्यवृत्तिः–एकद्वित्रिचतुःपंचेंद्रियसंश्यसंज्ञिवादरपर्याप्तेतराभिधानाः प्रकृतयो भवंति । कस्य संबंधिन्यो नामकर्मण इति । अथ–एताभिरमूर्तीतींद्रियनिरंजनपरमात्मतत्त्वविलक्षणाभिर्नामकर्मप्रकृतिभिः पुद्गलमयीभिः पूर्वोक्ताभिनिवर्त्तितानि चतुदर्शजीवस्थानानि निश्चयनयेन कथं जीवा भवंति ? न कथमपि । तथाहि-यथा रुक्मेण करणभूतेन निवृत्तमसिकोशं रुक्मैव भवति तथा पुद्गलमयप्रकृतिभिर्निष्पन्नानि जीवस्थानानि पुद्गलद्रव्यस्वरूपाण्येक भवंति न च जीवस्वरूपाणि । तथा तेनैव जीवस्थानदृष्टांतेन तदाश्रिता वर्णादयोपि पुद्गलस्वरूपा भवंति न च जीवस्वरूपा इत्यभिप्रायः । अथ-ग्रंथांतरे पर्याप्तापर्याप्तवादरसूक्ष्मजीवाः कथ्यंते तत्कथं घटत इति पूर्वपक्षे परिहारं ददाति । आत्मख्यातिः-निश्चयतः कर्मकरणयोरभिन्नत्वात् यद्येन क्रियते तत्तदेवेति कृत्वा यथा कनकपत्रं कनकेन क्रियमाणं कनकमेव नत्वन्यत् । तथा जीवस्थानानि वादरसूक्ष्मैकेंद्रियद्वित्रिचतुःपंचेंद्रियपर्यातापर्याप्ताभिधानाभिः पुद्गलमयीभिः नामकर्मप्रकृतिभिः क्रियमाणानि पुद्गल एव नतु जीवः । नामकर्मप्रकृतीनां पुद्गलमयत्वं चागमप्रसिद्धं दृश्यमानशरीराकारादिमूर्त्तकार्यानुमेयं च । एवं गंधरसस्पर्शरूपशरीरसंस्थानसंहननान्यपि पुद्गलमयनामकर्मप्रकृतिनिर्वृत्तत्वे सति तदव्यतिरेकाज्जीवस्थानैरेवोक्तानि । ततो न वर्णादयो जीव इति निश्चयसिद्धांतः । निवर्त्यते येन यदत्र किंचित्तदेव तत्स्यान्न कथं च नान्यत् । रुक्मेण निवृत्तमिहासिकोशं पश्यंति रुक्मं न कथं च नासि ॥ ३८ ॥ Page #41 -------------------------------------------------------------------------- ________________ - समयप्राभृतं । वर्णादिसामग्यमिदं विदंतु निर्माणमेकस्य हि पुद्गलस्य ।। ततोस्त्विदं पुद्गल एव नात्मा यतः स विज्ञानघनस्ततोन्यः ॥ ३९॥ शेषमन्यद्व्यवहारमात्र । पजत्तापजत्ता जे सुहुमा वादरा य जे चेव । देहस्स जीवसण्णा सुत्ते ववहारदो उत्ता ॥७२॥ पर्याप्तापर्याप्ता ये सूक्ष्मा वादराश्च ये चैव । देहस्य जीवसंज्ञाः सूत्रे व्यवहारतः उक्ताः ॥७२॥ तात्पर्यबृत्तिः-पजत्तापज्जत्ता जे सुहुमा वादरा य जे चेव पर्याप्तापर्याप्ता ये जीवाः कथिताः सूक्ष्मवादराश्चैव ये कथिताः देहस्स जीवसण्णा सुत्ते ववहारदो उत्ता पर्याप्तापर्याप्तदेहं दृष्ट्वा पर्याप्तापर्याप्तवादरसूक्ष्मविलक्षणपरमचिज्ज्योतिर्लक्षणशुद्धात्मस्वरूपात्पृथग्भूतस्य देहस्य सा जीवसंज्ञा कथिता । क सूत्रे परमागमे । कस्मात् व्यवहारादिति नास्ति दोषः । एवं जीवस्थानानि जीवस्थानाश्रिता वर्णादयश्च निश्चयेन जीवस्वरूपं न भवंतीति कथनरूपेण गाथात्रयं गतं । अथ न केवलं बहिरंगवर्णादयो शुद्धनिश्चयेन जीवस्वरूपं न भवंति अभ्यंतरमिथ्यात्वादिगुणस्थानरूपरागादयोपि न भवंतीति स्थितं । आत्मख्यातिः–यत्किल वादरसूक्ष्मैकेंद्रियद्वित्रिचतुःपंचेंद्रियपर्याप्तापर्याप्ता इति शरीरस्य संज्ञाः सूत्रे जीवसंज्ञत्वेनोक्ताः अप्रयोजनार्थः परप्रसिद्ध्या घृतघटवद्व्यवहारः । यथा हि कस्यचिदाजन्मप्रसिद्धैकघृतकुंभस्य तदितरकुंभानभिज्ञस्य प्रबोधनाय योयं घृतकुंभः स मृन्मयो न घृतमय इति तत्प्रसिद्ध्या कुंभे घृतकुंभव्यवहारः तथास्याज्ञानिनो लोकस्य संसारप्रसिद्ध्याशुद्धजीवस्य शुद्धजीवानभिज्ञस्य प्रबोधनाय योयं वर्णादिमान् जीवः स ज्ञानमयो न वर्णादिमयः इति तत्प्रसिद्ध्या जीवे वर्णादिमट्यवहारः । घृतकुंभाभिधानेपि कुंभो घृतमयो न चेत् । जीवो वर्णादिमज्जीवजल्पनेपि न तन्मयः ॥४०॥ एतदपि स्थितमेव यद्रागादयो भावा न जीवा इति । मोहणकम्मस्सुदया दु वण्णिादा जे इमे गुणठाणा । ते कह हवंति जीवा ते णिच्चमचेदणा उत्ता ॥७३॥ मोहनकर्मण उदयात्तु वर्णितानि यानीमानि गुणस्थानानि । तानि कथं भवंति जीवा गानि नित्यमचेतनान्युक्तानि ॥७३ ॥ तात्पर्यवृत्तिः- मोहणकम्मस्सुदया दु वण्णिदा जे इमे गुणठाणा निर्मोहपरमचैतन्यप्रकाशलक्षणपरमात्मतत्त्वप्रतिपक्षभूतानाद्यविद्याकंदलीकंदायमानसंतानागतमोहकर्मोदयात्सकाशात् यानीमानि वर्णितानि कथितानि गुणस्थानानि तथा चोक्तं “गुणसण्णा सा च मोहजोगभवा" ते कह हवंति जीवा तानि कथं भवंति जीवा न कथमपि । कथंभूतानि ते णिचमचेदणा उत्ता यद्यप्यशुद्धनिश्चयेन चेतनानि तथापि शुद्धनिश्चयेन नित्यं सर्वकालमचेतनानि । अशुद्धनिश्चयस्तु वस्तुतो यद्यपि द्रव्यकर्मापेक्षयाभ्यंतररागादयश्चेतना इति मत्वा निश्चयसंज्ञां लभते तथापि शुद्धनिश्चयापेक्षया व्यवहार एव । इति व्याख्यानं निश्चयव्यवहारनयविचारकाले सर्वत्र ज्ञातव्यं । एवमभ्यंतरे यथा मिथ्यादृष्ट्यादिगुणस्थानानि जीवस्वरूपं न भवंति तथा रागादयोपि शुद्धजीवस्वरूपं न भवंतीति कथनरूपेणाष्टमगाथा गता । एवमष्टगाथाभिस्तृतीयांतराधिकारो व्याख्यातः । ननु रागादयो जीवस्वरूपं न भवंतीति जीवाधिकारे व्याख्यातं अस्मिन्नजीवाधिकारेपि तदेवेति पुनरुक्तमिदं । तन्न विस्तररुचिशिष्यं प्रति नवाधिकारैः समयसार एव व्याख्यायते न पुनरन्यदिति प्रतिज्ञावचनं । तत्रापि समयसारव्याख्यानमत्रापि समयसारव्याख्यानमेव । यदि पुनः समयसारं त्यक्त्वान्यद्व्याख्यायते तदा प्रतिज्ञाभंग इति नास्ति पुनरुक्तं । अथवा भावनाग्रंथे समाधिशतकपरमात्म Page #42 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायाप्रकाशादिग्रंथवद्रागिणां श्रृंगारकथावत् पुनरुक्तदोषो नास्ति । अथवा तत्र जीवस्य मुख्यता अत्राजीवस्य मुख्यता । विवक्षितो मुख्य इति वचनात् । अथवा तत्र सामान्यव्याख्यानमत्र तु विस्तरेण । अथवा तत्र रागादिभ्यो भिन्नो जीवो भवतीति विधिमुख्यतया व्याख्यानं अत्र तु रागादयो जीवस्वरूपं न भवंतीति निषेधमुख्यतया व्याख्यानं किंवत् एकत्वान्यत्वानुप्रेक्षाप्रस्तावे विधिनिषेधव्याख्यानवदिति परिहारपंचकं ज्ञातव्यं । ___ इति समयसारव्याख्यायां शुद्धात्मानुभूतलक्षणायां तात्पर्यवृत्तौ स्थलत्रयसमुदायेन त्रिंशद्गाथाभिरजीवाधिकारः समाप्तः । एवं जीवाजीवाधिकाररंगभूमौ श्रृंगारसहितपात्रवद्र्यवहारेणैकीभूतौ प्रविष्टौ निश्चयेन तु श्रृंगाररहितपात्रवत्पृथग्भूत्वा निष्क्रांताविति । __आत्मख्यातिः - मिथ्यादृष्ट्यादीनि गुणस्थानानि हि पौद्गलिकमोहकर्मप्रकृतिविपाकपूर्वकत्वे सति नित्यमचेतनत्वात् कारणानुविधायीनि कार्याणीति कृत्वा यवपूर्वका यवा यवा एवेति न्यायेन पुद्गल एव न तु जीवः । गुणस्थानानां नित्यमचेतनत्वं चागमाच्चैतन्यस्वभावव्याप्तस्यात्मनोतिरिक्तत्वेन विवेचकैः स्वयमुपलभ्यमानत्वाच्च प्रसाध्यं । एवं रागद्वेषमोहप्रत्ययकर्मनोकर्मवर्गवर्गणास्पर्द्धकाध्यात्मस्थानानुभागस्थानयोगस्थानबंधस्थानोदयस्थानमार्गणास्थानस्थितिबंधस्थानसंक्लेशस्थानविशुद्धस्थानसंयमलब्धिस्थानान्यपि पुद्गलपूर्वकत्वे सति नित्यमचेतनत्वात्पुद्गल एव न तु जीव इति स्वयमायातं । ततो रागादयो भाषा न जीब इति सिद्धं । तर्हि को जीव इति चेत् । अनाद्यनंतमचलं स्वसंवेद्यमिदं स्फुटं । जीवः स्वयं तु चैतन्यमुच्चैश्चकचकायते ॥४१॥ वर्णाद्यैः सहितस्तथा विरहितो द्वेधास्त्यजीवो यतो नामूर्त्तत्वमुपास्य पश्यति जगज्जीवस्य तत्त्वं ततः । इत्यालोच्य विवेचकैः समुचितं नाव्याप्यतिव्यापि वा व्यक्तं व्यंजितजीवतत्त्वमचलं चैतन्यमालंब्यतां ॥४२॥ जीवादजीवमिति लक्षणतो विभिन्नं ज्ञानी जनोनुभवति स्वयमुलसंतं । अज्ञानिनो निरवधिप्रविजृभितोयं मोहस्तु तत्कथमहो बत नानटीति ॥ ४३ ॥ नानटयतां तथापि अस्मिन्ननादिनि महत्यविवेकनाटये वर्णादिमान्नटति पुद्गल एव नान्यः । रागादिपुद्गलविकारविरुद्धशुद्धचैतन्यधातुमयमूर्तिरयं च जीवः ॥ ४४ ॥ इत्थं ज्ञानक्रकचकलनापाटनं नाटयित्वा जीवाजीवौ स्फुटविघटनं नैव यावत्प्रयातः । विश्वं व्याप्य प्रसभविकशव्यक्तचिन्मात्रशक्त्या ज्ञातूद्रव्यं स्वयमतिरसात्तावदुच्चैश्चकाशे ॥४५॥ इति जीवाजीवौ पृथग्भूत्वा निष्क्रांतीइति समयसारव्याख्यायामात्मख्याती प्रथमोंकः । अथ कर्तृकर्माधिकारः। तात्पर्यवृत्तिः-अथ पूर्वोक्तजीवाधिकाररंगभूमौ जीवाजीवावेव यद्यपि शुद्धनिश्चयेन कर्तृकर्मभावरहितौ तथापि व्यवहारनयेन कर्तृकर्मवेषेण शृंगारसहितपात्रवत्प्रविशत इति दंडकान्विहायाष्टाधिकसप्ततिगाथापर्यंत नवभिः स्थलैर्व्याख्यानं करोतीति पुण्यपापादिसप्तपदार्थपीठिकारूपेण तृतीयाधिकारे समुदायपातनिका । अथवा जो खलु संसारत्थो जीवो इत्यादिगाथात्रयेण पुण्यपापादिसप्तपदार्था जीवपुद्गलसंयोगपरिणामनिवृत्ता न च शुद्भनिश्चयेन शुद्धजीवस्वरूपमिति पंचास्तिकायप्राभृते यत्पूर्व संक्षेपेण व्याख्यातं तस्यैवेदानी व्यक्तयर्थ पुण्यपापादिसप्तपदार्थानां पीठिकासमुदायकथनं तात्पर्य कथ्यत इति द्वितीयपातनिका। प्रथमतस्तावत् जीवणवेदिविसेसं तरं इत्यादिगाथामादिं कृत्वा पाठक्रमेण गाथाषटूपर्यंत व्याख्यानं करोति । तत्र गाथाद्वयमज्ञानीजीवमुख्यत्वेन गाथाचतुष्टयं सज्ञानीजीवमुख्यत्वेन कथ्यत इति प्रथमस्थले समुदायपातनिका । तद्यथा-अथ क्रोधाद्यास्रवशुद्धात्मनोर्यावत्कालं भेदविज्ञानं न जानाति तावदज्ञानी भवतीत्यावेदयति । Page #43 -------------------------------------------------------------------------- ________________ समयप्राभृतं । भास्मख्यातिः-अथ जीवाजीवावेव कर्तृकर्मवेषेण प्रविशतः । एकः कर्ती चिदहमिह मे कर्म कोपादयोऽमी इत्यवानां शमयदभितः कर्तृकर्मप्रवृत्तिं । ज्ञानज्योतिः स्फुरति परमोदात्तमत्यंतधीरं साक्षात्कुर्वन्निरुपधिपृथग्द्रव्यनिर्भासि विश्वं ॥४६॥ जाव ण वेदि विसेसंतरं तु आदासवाण दोहपि । अण्णाणी ताव दु सो कोधादिसु वहदे जीवो ॥७॥ कोधादिसु वहतस्स तस्स कम्मस्स संचओ होदी। जीवस्सेवं बंधो भाणदो खलु सव्वदरसीहिं ॥७॥ यावन्न वेत्ति विशेषांतरं त्वात्मास्रषयोयोरपि । अज्ञानी तावत्स क्रोधादिषु वर्त्तते जीवः ॥७॥ क्रोधादिषु बर्तमानस्य तस्य कर्मणः संचयो भवति । जीवस्यैवं बंधो भणितः खलु सर्वदर्शिभिः ॥७॥ तात्पर्यवृत्तिः-जावण वेदि विसेसं तरं तु आदा सवाण दोण्हपि यावत्कालं न वेत्ति न जानाति विशेषांतरं भेदज्ञानं शुद्धात्मक्रोधाद्यास्रवस्वरूपयोर्द्वयोः अण्णाणी ताव दु सो तावत्कालपर्यतमज्ञानी बहिरात्मा भवति । स जीवः अज्ञानी सन्किं करोति कोधादिसु वहदे जीवो यथा ज्ञानमहं इत्यभेदेन वर्त्तते तथा क्रोधाद्यास्रवरहितनिर्मलात्मानुभूतिलक्षणनिजशुद्धात्मस्वभावात्पृथग्भूतेषु क्रोधादिष्वपि क्रोधोहमित्यभेदेन वर्त्तते परिणमतीति । अथ - कोधादिसु वतस्स तस्स उत्तमक्षमादिस्वरूपपरमात्मविलक्षणेषु क्रोधादिषु वर्तमानस्य तस्य जीवस्य किं फलं भवति कम्मस्स संचओ होदी परमात्मप्रच्छादककर्मणः संचयः आस्रव आगमनं भवति । जीवस्सेवं बंधो भणिदो खलु सव्वदरसीहिं तैलम्रक्षिते धूलिसमागमवदास्रवे सति ततो मलादितैलसंबंधेन मलबंधवत्प्रकृतिस्थित्यनुभागप्रदेशलक्षणः स्वशुद्धात्मावाप्तिस्वरूपमोक्षविलक्षणो बंधो भवति । जीवस्यैवं खलु स्फुटं भणितं सर्वदर्शिभिः सर्वजैः । किं च यावत्क्रो धाद्यास्रवेभ्यो भिन्नं शुद्धात्मस्वरूपं स्वसंवेदनज्ञानवलेन न जानाति तावत्कालमज्ञानी भवति । अज्ञानी सन् अज्ञानजां कर्तृकर्मप्रवृत्तिं न मुंचति तस्माद्वंधो भवति । बंधात्संसारं परिभ्रमतीत्यभिप्रायः । एवमज्ञानीजीवस्वरूपकथनरूपेण गाथाद्वयं गतं । अथ कदा कालेऽस्याः कर्तृकर्मप्रवृत्तेर्निवृत्तिरित्येवं पृष्ठे प्रत्युत्तरं ददाति । ___ आत्मख्याति: यथायमात्मा तादात्म्यसिद्धसंबंधयोरात्मज्ञानयोरविशेषाद्भेदमपश्यन्न विशंकमात्मतया ज्ञाने वर्त्तते तत्र वर्तमानश्च ज्ञानक्रियायाः स्वभावभूतत्वेनाप्रतिषिद्धत्वाजानाति तथा संयोगसिद्धसंबंधयोरप्यात्मक्रोधाद्यास्रवयोः स्वयमज्ञानेन विशेषमजानन् यावद्भेदं न पश्यति तावदशंकमात्मतया क्रोधादौ वर्त्तते । तत्र वर्तमानश्च क्रोधादिक्रियाणां परभावभूतत्त्वात्प्रतिषिद्धत्वेपि स्वभावभूतत्वाध्यासात्क्रुध्यति रज्यते मुह्यति चेति । तंदत्र योयमात्मा स्वयमज्ञानभवनें ज्ञानभवनमात्रसहजोदासीनावस्थात्यागेन व्याप्रियमाणः प्रतिभाति स कर्ता । यत्तु ज्ञानभवनव्याप्रियमाणत्वेभ्यो भिन्नं क्रियमाणत्वेनांतरुत्प्लवमानं प्रतिभाति क्रोधादि तत्कर्म । एवमियमनादिरज्ञानजा कर्तृकर्मप्रवृत्तिः । एवमस्यात्मनः स्वयमज्ञानात्कर्तृकर्म भावेन क्रोधादिषु वर्तमानस्य तमेव क्रोधादिनिवृत्तिरूपं परिणाम निमित्तमात्रीकृत्य स्वयमेवपरिणममानं पौगलिक कर्म संचयमुपयाति । एवं जीवपुद्गलयोः परस्परावगाहलक्षणसंबंधात्मा बंधः सिद्ध्येत् । सचानेकात्मकैकसंतानत्वेन निरस्तेतरेतराश्रयदोषः कर्तृकर्मप्रवृत्तिनिमित्तस्याज्ञानस्य मिमित्तं । कदास्याः कर्तृकर्मप्रवृत्तेनिवृत्तिरिति चेत् । Page #44 -------------------------------------------------------------------------- ________________ ४२ सनातन जैनग्रंथमालायां जया इमेण जीवेण अप्पणो आसवाण य तहेव । णादं होदि विसेसंतरं तु तइया ण बंधो से ॥ ७६ ॥ यदानेन जीवेनात्मनः आस्रवाणां च तथैव । ज्ञातं भवति विशेषांतरं तु तदा न बंधस्तस्य ॥ ७६ ॥ तात्पर्यवृतिः - इया यदा श्रीधर्मलब्धिकाले इमेण जीवेण अनेन प्रत्यक्षीभूतेन जीवेन अपणो आसवाण य तहेव णादं होदि विसेसंतरं तु यथा शुद्धात्मनस्तथैव कामक्रोधाद्यास्रवाणां च ज्ञातं भवति विशेषांतरं भेदज्ञानं तइया तदा काले सम्यग्ज्ञानी भवति । सम्यग्ज्ञानी सन् किं करोति अहं कर्त्ता भावक्रोधादिरूपमंतरंगं मम कर्मेत्यज्ञानजां कर्तृकर्मप्रवृत्तिं मुंचति । ततः कर्तृकर्मप्रवृत्तेर्निवृत्तौ सत्यां निर्विकल्पसमाधौ सति ण बंधो न बंधो भवति से तस्य जीवस्येति । अथ कथं ज्ञानमात्रादेव बंधनिरोध इति पूर्वपक्षे कृते परिहारं ददाति । आत्मख्यातिः - इह किल स्वभावमात्रं वस्तु, स्वस्य भवनं तु स्वभावः । तेन ज्ञानस्य भवनं खल्वात्मा । क्रोधादेर्भवनं क्रोधादिः । अथ ज्ञानस्य यद्भवनं तत्र क्रोधादिरपि भवनं यतो यथा ज्ञानभवने ज्ञानं भवद्विभाव्यते न तथा क्रोधादिरपि । यत्तु क्रोधादेर्भवनं तत्र ज्ञानस्यापि भवनं यतो क्रोधादिभवने क्रोधादयो भवतो विभाव्यंते न तथा ज्ञानमपि इत्यात्मनः क्रोधादीनां च न खल्वेकवस्तुत्वं इत्येवमात्मात्मास्रवयो विशेषदर्शनेन यदा भेदं जानाति तदास्यानादिरप्यज्ञानजा कर्तृकर्मप्रवृत्तिर्निवर्त्तते तन्निवृत्तावज्ञाननिमित्तं पुद्गलद्रव्यकर्मबंधोपि निवर्त्तते । तथा सति ज्ञानमात्रादेव बंधनिरोधः सिद्ध्येत् । कथं ज्ञानमात्रादेव बंधनिरोध इति चेत् । णादूण आसवाणं असुचित्तं च विवरीयभावं च । दुक्खस्स कारणं ति य तदो णियत्तिं कुणदि जीवो ॥७७॥ ज्ञात्वा आस्रवाणामशुचित्वं च विपरीतभावं च । दुःखस्य कारणानीति च ततो निवृत्तिं करोति जीवः ॥७७॥ तात्पर्यवृत्तिः— क्रोधाद्यास्रवाणां संबंधि कालुष्यरूपमशुचित्वं जडत्वरूपं विपरीतभावं व्याकुलत्वलक्षणं दुःखकारणत्वं च ज्ञात्वा तथैव निजात्मन: संबंधि निर्मलात्मानुभूतिरूपं शुचित्वं सहजशुद्धाखंड - केवलज्ञानरूपं ज्ञातृत्वमनाकुलत्वलक्षणानंतसुखत्वं च ज्ञात्वा ततश्च स्वसंवेदनज्ञानानंतर सम्यग्दर्शनज्ञान चारित्रैकाग्र्यपरिणतिरूपे परमसामयिके स्थित्वा क्रोधाद्यास्रवाणां निवृत्तिं करोति जीवः । इति ज्ञानमात्रादेव बंध निरोधो भवति नास्ति सांख्यादिमतप्रवेशः । किं च यच्चात्मास्रवयोः संबंधि भेदज्ञानं तद्रागाद्यास्रवेभ्यो निवृत्तं न वेति वृत्तं चेत्तर्हि तस्य भेदज्ञानस्य मध्ये पानकवदभेदनयेन वीतरागचारित्रं वीतरागसम्यक्त्वं च लभ्यत इति सम्यग्ज्ञानादेव बंध निरोधसिद्धिः । यदि रागादिभ्यो निवृत्तं न भवति तदा तत्सम्यग्भेदज्ञानमेव न भवतीति भावार्थः । अथ केन भावनाप्रकारेणायमात्माक्रोधाद्यास्त्रवेभ्यो निवर्त्तते इति चेत् ? आत्मख्यतिः — जले जंबालवत्कलुषत्वेनोपलभ्यमानत्वादशुचयः खल्वास्रवाः भगवानात्मा तु नित्यमेवातिनिर्मलचिन्मात्रत्वेनोपलंभकत्वादत्यंतं शुचिरेव । जडस्वभावत्वे सति परचेतकत्वादन्यस्वभावाः खल्वास्रवाः भगवानात्मा तु नित्यमेव विज्ञानघनस्वभावत्वे सति स्वयं चेतकत्वादनन्यस्वभाव एव । आकुलत्वोत्पादकत्वाद् दुःखस्य कारणानि खल्वास्रवाः भगवानात्मा तु नित्यमेवानाकुलत्वस्वभावेनाकार्यकारणत्वाद् दुःखस्याकारणमेव । इत्येवं विशेषदर्शनेन यदैवायमात्मास्रवयोर्भेदं जानाति तदैव क्रोधादिभ्य आस्रवेभ्यो निवर्त्तते । तेभ्योऽनिवर्त्तमानस्य पारमार्थिकतद्भेदज्ञानासिद्धेः । ततः क्रोधाद्यास्रवनिवृत्यविनाभाविनो ज्ञानमात्रादेवाञ्चानजस्य पौद्गलिकस्य कर्मणो बंधनिरोधः सिद्ध्येत् । किं च यदिदमात्मास्रवयोर्भेदज्ञानं तत्किमज्ञानं किं Page #45 -------------------------------------------------------------------------- ________________ समयप्राभृत । ४३ वा ज्ञानं ! यद्यज्ञानं तदा तदभेदज्ञानान्न तस्य विशेषः । ज्ञानं चेत् किमास्रवेषु प्रवृत्तं किंवास्रवेभ्यो निवृत्तं । आस्रवेषु प्रवृत्तं चेत्तदपि तदभेदज्ञानान्न तस्य विशेषः । आस्रवेषु निवृत्तं चेत्तर्हि कथं न ज्ञानादेव बंधनिरोधः इति निरस्तो ज्ञानांशः क्रियानयः । यत्त्वात्मास्रवयोर्भेदज्ञानमपि नास्रवेभ्यो निवृत्तं भवति तज्ज्ञानमेव न. भवतीति ज्ञानांशो छाननयोपि निरस्तः । परपरणतिमुज्झत् खंडयझेदवादानिदमुदितमखंडं ज्ञानमुचंडमुच्चैः । ननु कथमवकाशः कर्तृकर्मप्रवृत्तेरिह भवति कथं वा पौद्गलः कर्मबंधः ॥४७॥ केन विधिनायमास्रवेभ्यो निवर्त्तत इति चेत् । अहमिको खलु सुद्धो य णिम्ममो णाणदंसणसमग्गो । तमि ठिदो तच्चित्तो सव्वे एदे खयं णेमि ॥७८॥ अहमेकः खलु शुद्धश्च निर्ममतः ज्ञानदर्शनसमग्रः । तस्मिन् स्थितस्तच्चित्तः सर्वानेतान् क्षयं नयामि ॥७८॥ तात्पर्यवृत्तिः-अहं निश्चयनयेन स्वसंवेदनज्ञानप्रत्यक्षं शुद्धचिन्मात्रज्योतिरहं इको अनाद्यनंतः टंकोत्कीर्णज्ञायकैकस्वभावत्वादेकः खलु स्फुटं शुदोय-कर्तृकर्मकरणसंप्रदानापादानाधिकरणषटारकविकल्पचक्ररहित्वाच्छुद्धश्च णिम्ममो निर्मोहशुद्धात्मतत्त्वविलक्षणमोहोदयजनितक्रोधादिकषायचक्रस्वामित्वाभावात् ममत्वरहितः । णाणदंसणसमग्गो प्रत्यक्षप्रतिभासमयविशुद्धज्ञानदर्शनाभ्यां समग्रः परिपूर्णः एवं गुणविशिष्टपदार्थविशेषोस्मि भवामि । तमि ठिदो तस्मिन्नुक्तलक्षणे शुद्धात्मस्वरूपे स्थितः । तञ्चित्तो सच्चित्तः सहजानंदैकलक्षणसुखसमरसीभावेन तन्मयो भूत्वा सव्वे एदे खयं णेमि सर्वानेतान्निरास्रवपरमात्मपदार्थपृथग्भूतांतान् कामक्रोधाद्यास्रवान् क्षयं विनाशं नयामि प्रापयामीत्यर्थः । अथ यस्मिन्नेव काले स्वसंवेदनज्ञानं तस्मिन्नेव काले रागाद्यास्रवनिवृत्तिरिति समानकालत्वं दर्शयति । ___आत्मख्यातिः-अहमयमात्मा प्रत्यक्षमक्षुण्णमनंतं चिन्मानं ज्योतिरनाद्यनंतनित्योदितविज्ञानघन स्वभावभावत्वादेकः । सकलकारकचक्रप्रक्रियोत्तीर्णनिर्मलानुभूतिमात्रत्वाच्छुद्धः । पुद्गलस्वामिकस्य क्रोधादिभाववैश्वरूपस्य स्वस्य स्वामित्वेन नित्यमेवापरिणमनान्निर्ममतः। चिन्मात्रस्य महसो वस्तुस्वभावत एव सामान्यविशेषाभ्यां सकलत्वाद् ज्ञानदर्शनसमग्रः । गगनादिवत्पारमार्थिको वस्तुविशेषोस्मि तदहमधुनास्मिन्नेवात्मनि, निखिलपरद्रव्यप्रवृत्तिनिवृत्त्या निश्चलमवतिष्ठमानः सकलपरद्रव्यनिमित्तकविशेषचेतनचंचलकल्लोलनिरोधेनेममेव चेतयमानः स्वाज्ञानेनात्मन्युत्प्लवमानानेतान् भावानखिलानेव क्षपयामीत्यात्मनि निश्चित्य चिरसंग्रहीतमुक्तपोतपात्रः समुद्रावर्त्त इव झगित्येवोद्वांतसमस्तविकल्पाऽकल्पितमचलितममलमात्मानमालबमानो विज्ञानघनभूतः खल्वयमात्मास्रवेभ्यो निवर्त्तते । कथं ज्ञानास्रवनिवृत्त्योः समकालत्वमिति चेत् ? जीवणिबद्धा एदे अधुव आणिचा तहा असरणा य । दुक्खा दुक्खफलाणि य णादूण णिवत्तदे तेसु ॥७९॥ जीवनिवदा एते अध्रुवा अनित्यास्तथा अशरणाश्च । - दुःखानि दुःखफलानि च ज्ञात्वा निवर्त्तते तेभ्यः ॥७९॥ तात्पर्यवृतिः- एदे जीवणिवद्धा एते क्रोधाद्यास्रवा जीवेन सह निबद्धा संबद्धा औपाधिकाः । न पुनः निरुपाधिस्फटिकवच्छुद्धजीवस्वभावाः । अधुवा विद्युच्चमत्कारवदनुवा अतीवक्षणिकाः । ध्रुवः शुद्धजीव एव । अणिचा शीतोष्णज्वरावेशवदध्रुवापेक्षया क्रमेण स्थिरत्वं न गच्छंतीत्यनित्या विनश्वराः नित्यश्चिञ्चमत्कारमात्रशुद्धजीव एव । तहा असरणा य तथा तेनैव प्रकारेण तीवकामोद्रेकवत् त्रातुं धर्तुं रक्षितुं न शक्यंत इत्यशरणाः शरणो निर्विकारबोधस्वरूपः शुद्धजीव एव । दुक्खा आकुलत्वोत्पादकत्वदा Page #46 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमाळायां ४४ दुःखानि भवंति कामक्रोधाद्यास्रवाः अनाकुलत्वलक्षणत्वात्पारमार्थिकसुखरूपशुद्धजीव एव । दुक्खफoाणि य आगामिनारकादिदुः खफलकारणत्वाद् दुःखफलाः खल्वास्रवाः वास्तवसुखफलस्वरूप शुद्धजीव एव । णादूण णिवत्तदे तेसु इति भेदविज्ञानांतरमेव इत्थंभूतान्मिथ्यात्वरागाद्यास्त्रवान् ज्ञात्वास्रवेभ्यो यस्मिन्नेव क्षणे मेघपटलरहितादित्यवन्निवर्त्तते तस्मिन्नेव क्षणे ज्ञानी भवतीति भेदज्ञानेन सहास्रवनिवृत्तेः समानकालत्वं सिद्धमिति । ननु पुण्यपापादिसप्तपदार्थानां पीठिकाव्याख्यानं क्रियत इति पूर्व प्रतिज्ञा कृता भवद्भिः व्याख्यानं पुनः अज्ञानीसज्ञानीजीवस्वरूपमुख्यत्वेन कृतं पुण्यपापादिसप्तपदार्थानां पीठिकाव्याख्यानं कथं घटत इति । तन्न । जीवाजीवौ यदि नित्यमेकांतेनापरिणामिनौ भवतस्तदा द्वावेव पदार्थों जीवाजीवाविति । यदि च एकांतेन परिणामिनौ तन्मयौ भवतस्तदैक एव पदार्थः । किंतु कथंचित्परिणामिनौ भवतः । कथंचित्कोर्थः ? यद्यपि जीवः शुद्धनिश्चयेन स्वरूपं न त्यजति तथापि व्यवहारेण कर्मोदयवशाद्रागाद्युपाधिपरिणामं गृह्णाति । यद्यपि रागाद्युपाधिपरिणामं गृह्णाति तथापि स्वरूपं न त्यजति स्फटिकवत् । तत्रैवं कथंचित्परिणामित्वे सति अज्ञानी बहिरात्मा मिथ्यादृष्टिर्जीवो विषयकषायरूपाशुभोपयोगपरिणामं करोति । कदाचित्पुनश्चिदानंदैकस्वभावं शुद्धात्मानं त्यक्त्वा भोगाकांक्षानिदानस्वरूपं शुभोपयोगपरिणामं च करोति । तदा काले द्रव्यभावरूपाणां पुण्यपापास्रवबंधपदार्थानां कर्तृत्वं घटते । तत्र ये भावरूपाः पुण्यपापादयस्ते जीवपरिणामा द्रव्यरूपास्ते चाजीवपरिणामा इति । यः पुनः सम्यग्दृष्टिरंतरात्मा सज्ञानीजीवः स मुख्यवृत्या निश्चयरत्नत्रयलक्षणशुद्धोपयोगबलेन निश्चयचारित्राविनाभाविवीतरागसम्यग्दृष्टिर्भूत्वा निर्विकल्पसमाधिरूपपरिणामपरिणतिं करोति तदा तेन परिणामेन संवरनिर्जरामोक्षपदार्थानां द्रव्यभावरूपाणां कर्त्ता भवति । कदाचित्पुनः निर्विकल्पसमाधिपरिणामाभावे सति विषयकषायवंचनार्थं शुद्धात्मभावनासाधनार्थे बहिर्बुद्ध ख्यातिपूजालाभभोगाकांक्षानिदानबंधरहितः सन् शुद्धात्मलक्षणार्हत्सिद्धशुद्धात्माराधकप्रतिपादकसाधकाचार्योपाध्यायसाधूनां गुणस्मरणादिरूपं शुभोपयोगपरिणामं च करोति । अस्मिन्नर्थे दृष्टांतमाहुः । यथा कश्चिद्देवदत्तः स्वकीयदेशांतरस्थितस्त्रीनिमित्तं तत्समीपागतपुरुषाणां सन्मानं करोति, वार्त्ता पृच्छति, तत्स्त्रीनिमित्तं तेषां स्वीकारं स्नेहदानादिकं च करोति । तथा सम्यग्दृष्टिरपि शुद्धात्मस्वरूपोपलब्धिनिमित्तं शुद्धात्माराधकप्रतिपादकाचार्योपाध्यायसाधूनां गुणस्मरणं दानादिकं च स्वयं शुद्धात्माराधनारहितः सन् करोति । एवमज्ञानीसज्ञानीजीवस्वरूपव्याख्याने कृते सति पुण्यपापादिसप्तपदार्था जीवपुद्गलसंयोगपरिणामनिवृत्ता इति पीठिकाव्याख्यानं घटते । नास्ति विरोधः । एवं सज्ञानीजीवव्याख्यानमुख्यत्वेन गाथाचतुष्टयं गतं । इति पुण्यपापादिसप्तपदार्थपीठिकाधिकारे गाथाषेन प्रथमांतराधिकारो व्याख्यातः । अतः परं यथाक्रमेणैकादशगाथापर्यंतं पुनरपि सज्ञानीजीवस्य विशेषव्याख्यानं करोति । तत्रैकादशगाथासु मध्ये जीवः कर्त्ता मृत्तिकाकलशमिवोपादानरूपेण निश्चयेन कर्म नोकर्म च न करोतीति जानन् सन् शुद्धात्मानं स्वसंवेदनज्ञानेन जानाति यः स ज्ञानी भवतीति कथनरूपेण 'कम्मस्स य परिणामं इत्यादिप्रथमगाथा । ततः परं पुण्यपापादिपरिणामान् व्यवहारेण करोति निश्चयेन न करोतीति मुख्यत्वेन सूत्रमेकं । अथ कर्मत्वं स्वपरिणामत्वं सुखदुःखादिकर्मफलं चात्मा जानन्नप्युदयागतपरद्रव्यं न करोतीति प्रतिपादनरूपेण 'णाबपरिणमदि' इत्यादिगाथात्रयं । तदनंतरं पुतलोपि वर्णादिस्वपरिणामस्यैव कर्त्ता न च ज्ञानादिजीवपरिणामस्येति कथनरूपेण 'णविपरिणमदि' इत्यादिसूत्रमेकं । अतः परं जीवपुद्गलयोरन्योन्यनिमित्तकर्तृत्वेपि सति परस्परोपादानकर्तृत्वं नास्तीति कथनमुख्यतया 'जीव परिणाम' इत्यादि गाथाश्रयं । तदनंतरं निश्चयेन जीवस्य स्वपरिणामैरेव सह कर्तृकर्मभावो भोक्तृभोग्यभावश्चेति प्रतिपादनरूपेण 'णिच्छयणयस्स' इत्यादिसूत्रमेकं । ततश्च व्यवहारेण जीवः पुद्गलकर्मणां कर्त्ता भोक्ता चेति कथनरूपेण 'ववहारस्स दु' इत्यादिसूत्रमेकं । एवं ज्ञानी जीवस्य विशेषव्याख्यानमुख्यत्वेनैकादशगाथाभिर्द्वितीयस्थले समुदायपातनिका । तद्यथा - अथ कथमात्मा ज्ञानीभूतो लक्षत इति प्रश्ने प्रत्युत्तरं ददाति । Page #47 -------------------------------------------------------------------------- ________________ ४६. समयप्राभृतं । आत्मख्यातिः -- जतुपादपवद्वध्यघातकस्वभावत्वाज्जीवनिबद्धाः खल्वास्रवाः, न पुनरविरुद्धस्वभावत्वाभावाजीव एव । अपस्माररयवद्वर्द्धमानहीयमानत्वादध्रुवाः खल्वास्रवाः ध्रुवश्चिन्मात्रो जीव एव । शीतदाहज्वरावेशवत् क्रमेणोज्āभमाणत्वादनित्याः खल्वास्रवाः, नित्यो विज्ञानघनस्वभावो जीव एव । बीजनिर्मोक्षक्षणक्षीयमाणदारुणस्मरसंस्कारवत् त्रातुमशक्यत्वादशरणाः खल्वास्रवाः, सशरणः स्वयं गुप्तः सहजचिच्छक्तिर्जीव एव । नित्यमेवाकुलस्वभावत्वाद् दुःखानि खल्वास्रवाः, अदुःखं नित्यमेवानाकुलस्वभावो जीव एव । आयत्यामाकुलत्वोत्पादकस्य पुद्गलपरिणामस्य हेतुत्वाद् दुःखफलाः खल्वास्रवाः, अदुःखफलः सकलस्यापि पुद्गलपरिणामस्याहेतुत्वाज्जीव एव । इति विकल्पानंतरमेव शिथिलितकर्मविपाको विघटितघनौघघटनोदिगाभोग इव निरर्गलप्रसरः सहजविजृभमाणचिच्छक्तितया यथा यथा विज्ञानघनस्वभावो भवति तथा तथास्रवेभ्यो निवर्त्तते । यथा यथास्रवेभ्यश्च निवर्त्तते तथा तथा विज्ञानघनस्वभावो भवतीति । तावद्विज्ञानघनस्वभावो भवति यावत्सम्यगास्रवेभ्यो निवर्त्तते । तावदास्रवेभ्यश्च निवर्त्तते यावत्सम्यग्विज्ञानघनस्वभावो भवतीति ज्ञानास्रवनिवृत्योः समकालत्वं । इत्येवं विरचय्य संप्रति परद्रव्यानिवृत्तिं परां स्वं विज्ञानघनस्वभावमभयादास्तिघ्नुवानः परं ।। अज्ञानोत्थितकर्तृकर्मकलनात् क्लेशान्निवृत्तः स्वयं ज्ञानीभूत इतश्चकास्ति जगतः साक्षी पुराणः पुमान् ॥ कथमात्मा ज्ञानीभूतो लक्ष्यत इति चेत् । कम्मस्स य परिणामं णोकम्मस्स य तहेव परिणामं । ण करेदि एदमादा जो जाणदि सो हवदि णाणी ॥८॥ कर्मणश्च परिणामं नोकर्मणश्च तथैव परिणाम । न करोत्येनमात्मा यो जानाति स भवति ज्ञानी ॥८॥ ____ तात्पर्यत्तिः-कम्मस्स य परिणामं णोकम्मस्स य तहेव परिणाम ण करेदि एदमादा . जो जाणदि यथा मृत्तिकाकलशमुपादानरूपेण करोति तथा कर्मणः नोकर्मणश्च परिणामं पुद्गलेनोपादानकारणभूतेन क्रियमाणं न करोल्यात्मेति यो जानाति सो हवदि णाणी स निश्चयशुद्धात्मानं परमसमाधिबलेन भावयन्सन् ज्ञानी भवति । इति ज्ञानीभूतजीवलक्षणकथनरूपेण गाथा गता । अथ पुण्यपापादिपरिणामान् व्यवहारेण करोतीति प्ररूपयति । आत्मख्यातिः–यः खल्ल मोहरागद्वेषसुखदुःखादिरूपेणांतरुत्प्लवमानं कर्मणः परिणामं स्पर्शरसगंधवर्णशब्दबंधसंस्थानस्थौल्यसौक्ष्म्यादिरूपेण बहिरुत्प्लवमानं नोकर्मणः परिणामं च समस्तमपि परमार्थतः पुद्गलपरिणामपुद्गलयोरेव घटमृत्तिकयोरिव व्याप्यव्यापकभावसद्भावात्पुद्गलद्रव्येण का स्वतंत्रव्यापकेन स्वयं व्याप्यमानत्वात्कर्मत्वेन क्रियमाणं पुद्गलपरिणामात्मनोर्घटकुंभकारयोरिव व्याप्यव्यापकभावाभावात् कर्तृकर्मत्वासिद्धौ न नाम करोल्यात्मा । किं तु परमार्थतः पुद्गलपरिणामज्ञानपुद्गलयोर्घटकुंभकारवठ्याप्यव्यापकभावाभावात् कर्तृकर्मत्वासिद्धावात्मपरिणामात्मनोर्घटमृत्तिकयोरिव व्याप्यव्यापकभावसद्भावादात्मद्रव्येण क; स्वतंत्रव्यापकेन स्वयं व्याप्यमानत्वात्पुद्गलपरिणामज्ञानं कर्मत्वेन कुर्वतमात्मानं जानाति सोत्यंतविविक्तज्ञानीभूतो ज्ञानी स्यात् । न चैवं ज्ञातुः पुद्गलपरिणामो व्याप्यः पुद्गलात्मनोज्ञेयज्ञायकसंबंधब्यवहारमात्रे सत्यपि पुद्गलपरिणामनिमित्तकस्य ज्ञानस्यैव ज्ञातुाप्यत्वात् । व्याप्यव्यापकता तदात्मनि भवेन्नैवातदात्मन्यपि व्याप्यव्यापकभावसंभवमृते का कर्तृकर्मस्थितिः । इत्युद्दामविवेकघस्मरमहो भारेण भिंदंस्तमो ज्ञानीभूय तदा स एष लसितः कर्तृत्वशून्यः पुमान् ॥१९॥ पुद्गलकर्मजानतो जीवस्य सह पुद्गलेन कर्तृकर्मभावः किं भवति किं न भवतीति चेत् । कत्ता आदा भणिदो ण य कत्ता केण सो उवाएण । धम्मादी परिणामे जो जाणदि सो हवदि णाणी ॥१॥ Page #48 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायांकर्ता आत्मा भणितः न च कर्ता केन स उपायेन । धर्मादीन् परिणामान् यः जानाति स भवति ज्ञानी ॥८॥ तात्पर्यवृत्तिः-कत्ता आदा भणिदो कर्त्तात्मा भणितःण य कत्ता सो न च कर्ता भवति स आत्मा केण उवायेण केनाप्युपायेन नयविभागेन । केन नयविभागेनेति चेत् निश्चयेन अकर्ता व्यवहारेण कर्तेति । कान् धम्मादी परिणामे पुण्यपापादिकर्मजनितोपाधिपरिणामान् जो जाणदि सो हवादि णाणी ख्यातिपूजालाभादिसमस्तरागादिविकल्पोपाधिरहितसमाधौ स्थित्वा यो जानाति स ज्ञानी भवति । इति निश्चयनयव्यवहाराभ्यामकर्तृत्वकर्तृत्वकथनरूपेण गाथा गता । अथ पुद्गलकर्म जानतो जीवस्य पुद्गलेन सह तादात्म्यसंबंधो नास्तीति निरूपयति । णवि परिणमदि ण गिहृदि उपजदि ण परदव्वपजाये । णाणी जाणतो वि हु पुग्गलकम्मं अणेयविहं ॥८॥ नापि परिणमति न गृहात्युत्पद्यते न परद्रव्यपर्याये । ज्ञानी जाननपि खलु पुद्गलकर्मानेकविधं ॥८२।। तात्पर्यवृत्तिः-पुग्गलकम्मं अणेयविहं कर्मवर्गणायोग्यपुद्गलद्रव्येणोपादानकारणभूतेन क्रियमाणं पुद्गलकर्मानेकविधं मूलोत्तरप्रकृतिभेदभिन्नं जाणंतो वि हु विशिष्टभेदज्ञानेन जानन्नपि हु स्फुटं सः कः कर्ता णाणी सहजानंदैकस्वभावनिजशुद्धात्मरागाद्यास्रवयोर्भेदज्ञानी णवि परिणमदिण गिण्हदि उप्पजदिण परदन्वपज्जाये तत्पूर्वोक्तं परद्रव्यपर्यायरूपं कर्म निश्चयेन मृत्तिकाकलशरूपेणेव न परिणमति न तादात्म्यरूपतया गृह्णाति न च तदाकारेणोत्पद्यते । कस्मादिति चेत् मृत्तिकाकलशयोरिव तेन पुद्गलकर्मणा सह तादात्म्यसंबंधाभावात् । तत एतदायाति पुद्गलकर्म जानतो जीवस्य पुद्गलेन सह निश्चयेन कर्तृकर्मभावो नास्तीति । अथ स्वपरिणामं संकल्पविकल्परूपं जानतो जीवस्य तत्परिणामनिमित्तनोदयागतकर्मणा सह तादात्म्यसंबंधो नास्तीति दर्शयति । आत्मख्यातिः-यतो यं प्राप्यं विकार्य निर्वर्यं च व्याप्यलक्षणं पुद्गलपरिणामं कर्म पुद्गलद्रव्येण स्वयमंतापकत्वेन भूत्वादिमध्यांतेषु व्याप्य तं गृह्णता तथा परिणमता तथोत्पद्यमानेन च क्रियमाणं जाननपि हि ज्ञानी स्वयमंतापको भूत्वा बहिःस्थस्य परद्रव्यस्य परिणामं मृत्तिकाकलशमिवादिमध्यांतेषु व्याप्य न तं गृह्णाति न तथा परिणमति न तथोत्पद्यते च । ततः प्राप्यं विकार्य निर्वयं च व्याप्यलक्षणं परद्रव्यपरिणामं कर्माकुर्वाणस्य पुद्गलकर्म जानतोपि ज्ञानिनः पुद्गलेन सह न कर्तृकर्मभावः । स्वपरिणामं जानतो जीवस्य सह पुद्गलेन कर्तृकर्मभावः किं भवति किं न भवति इति चेत् । णवि परिणमदि ण गिलदि उप्पजदि ण परदव्वपजाये । णाणी जाणतो वि हु सगपरिणामं अणेयविहं ॥३॥ नापि परिणमति न गृह्णात्युत्पद्यते न परद्रव्यपर्याये । ज्ञानी जानन्नपि खलु खकपरिणाममनेकविधं ॥८३॥ तात्पर्यवृत्तिः-सगपरिणामं अणेयविहं क्षायोपशमिकं संकल्पविकल्परूपं स्वेनात्मनोपादानकारणभूतेन क्रियमाणं स्वपरिणाममनेकविधं पाणी जाणतो वि हु निर्विकारस्वसंवेदनज्ञानीजीवः स्वपरमात्मनो विशिष्टभेदज्ञानेन जानन्नपि हु स्फुटं णवि परिणमदि ण गिण्हदि उप्पज्जदि ण परदव्वपज्जाये तस्य पूर्वोक्तस्वकीयपरिणामस्य निमित्तभूतसमुदायागतं पुद्गलकर्मपर्यायरूपं मृत्तिकाकलशरूपेणेव शुद्धनिश्चयनयेन न परिणमति न तन्मयत्वेन गृह्णाति न तत्पर्यायेणोत्पद्यते च । कस्मात् मृत्तिकाकलशयाोवि Page #49 -------------------------------------------------------------------------- ________________ समयप्राभृतं । ४७ तेन पुद्गलकर्मणा सह परस्परोपादानकारणाभावादिति । एतावता किमुक्तं भवति स्वकीयक्षायोपशमिकपरिणामनिमित्तमुदयागतं कर्म जानतोपि जीवस्य तेन सह निश्चयेन कर्तृकर्मभावो नास्तीति । अथ पुद्गलकर्मफलं जानतो जीवस्य पुद्गलकर्मफलनिमित्तेन द्रव्यकर्मणा सह निश्चयेन कर्तृकर्मभावो नास्तीति कथयति । आत्मख्यातिः–यतो यं प्राप्यं विकार्य निर्वयं च व्याप्यलक्षणमात्मपरिणाम कर्म आत्मना स्वयमंतापकेन भूत्वादिमध्यांतेषु व्याप्य तं गृह्णता तथा परिणमता तथोत्पद्यमानेन च क्रियमाणं जानन्नपि हि ज्ञानी स्वयमंतापको भूत्वा बहिःस्थस्य परद्रव्यस्य परिणामं मृत्तिकाकलशमिवादिमध्यांतेषु व्याप्य न तं गृह्णाति न तथा परिणमति न तथोत्पद्यते च । ततः प्राप्यं विकार्य निर्वत्यै च व्याप्यलक्षणं परद्रव्यपरिणामं कर्माकुर्वाणस्य स्वपरिणामं जानतोपि ज्ञानिनः पुद्गलेन सह न कर्तृकर्मभावः । पुद्गलकर्मफलं जानतो जीवस्य सह पुद्गलेन कर्तृकर्मभावः किं भवति किं न भवतीति चेत् । णवि परिणमदि ण गिढदि उप्पजदि ण परदव्वपजाए । णाणी जाणतो वि हु पुग्गलकम्मफलमणंतं ॥४॥ नापि परिणपति न गृह्णात्युत्पद्यते न परद्रव्यपर्याये । - ज्ञानी जाननपि खलु पुद्गलकर्मफलमनंतं ।।८४॥ तात्पर्यवृत्तिः-पूग्गलकम्मफलमणंतं उदयागतद्रव्यकर्मणोपादानकारणभूतेन क्रियमाणं सुखदुःखरूपशक्त्यपेक्षयानंतकर्मफलं गाणी जाणंतो वि हु वीतरागशुद्धात्मसंवित्तिसमुत्पन्नसुखामृतरसतृप्तो भेदज्ञानी निर्मलविवेकभेदज्ञानेन जानन्नपि हि स्फुटं ण परिणमदि ण गिङ्गदि उप्पज्जदि ण परदव्वपज्जाये वर्तमानसुखदुःखरूपं शक्तयपेक्षानिमित्तमुदयागतं परपर्यायरूपं पुद्गलकर्म मृत्तिकाकलशरूपेणेव शुद्धनयेन न परिणमति न तन्मयत्वेन गृह्णाति न तत्पर्यायेणोत्पद्यते च । कस्मादिति चेत् मृत्तिकाकलशयोरिव तेन द्रव्यकर्मणा सह तादात्म्यलक्षणसंबंधाभावादिति । किं च विशेषः यदि पुद्गलकर्मरूपेण न परिणमति न गृह्णाति न तदाकारेणोत्पद्यते । तर्हि किं करोति ज्ञानी जीवः मिथ्यात्वविषयकषायख्यातिपूजालाभभोगाकांक्षारूपनिदानबंधशल्यादिविभावपरिणामकर्तृत्वभोक्तृत्वविकल्पशून्यं पूर्णकलशवच्चिदानंदैकस्वभावेन भरितावस्थं शुद्धात्मानं निर्विकल्पसमाधौ ध्यायतीति भावार्थः । एवमात्मा निश्चयेन द्रव्यकर्मादिकं परद्रव्यं न परिणमतीत्यादिव्याख्यानमुख्यत्वेन गाथा त्रयं गतं । अथ जीवपरिणामं स्वपरिणाम स्वपरिणामफलं च जडस्वभावत्वादजानतः पुद्गलस्य निश्चयेन जीवेन सह कर्तृकर्मभावो नास्तीति प्रतिपादयति । ___ आत्मख्यातिः—यतो यं प्राप्यं विकार्य निर्वर्यं च व्याप्यलक्षणं सुखदुःखादिरूपं पुद्गलकर्मफलं कर्म पदलद्रव्येण स्वयमंतापकेन भूत्वादिमध्यांतेषु व्याप्य तद्गृह्णता तथा परिणमता तथोत्पद्यमानेन च क्रियमाणं जानन्नपि हि ज्ञानी स्वयमंतापको भूत्वा बहिःस्थस्य परद्रव्यस्य परिणामं मृत्तिकाकलशमिवादिमध्यां तेषु व्याप्य न तं गृह्णाति न तथा परिणमति न तथोत्पद्यते च । ततः प्राप्यं विकार्य निर्वत्यं च व्याप्यलक्षणं परद्रव्यपरिणामं कर्माकुर्वाणस्य सुखदुःखादिरूपं पुद्गलकर्मफलं जानतोपि ज्ञानिनः पुद्गलेन सह न कर्तृकर्मभावः । जीवपरिणाम स्वपरिणामं स्वपारणामफलं चाजानतः पुद्गलद्रव्यस्य सह जीवन कतृकर्मभावः किं भवति किं न भवतीति चेत् । णवि परिणमदि ण गिढदि उप्पजदि ण परदव्वपज्जाए । पुग्गलदव्वं पि तहा परिणमइ सएहिं भावेहिं ॥८५॥ नापि परिणमति न गृह्णात्युत्पद्यते न परद्रव्यपर्याये । पुद्गलद्रव्यमपि तथा परिणमति खकैर्भावैः ॥८॥ Page #50 -------------------------------------------------------------------------- ________________ ४८ सनातनजैनग्रंथमालायांतात्पर्यवृत्तिः-णवि परिणमदि ण गिलदि उप्पजदि ण परदव्वपज्जाए यथा जीवो निश्चयेनानंतसुखादिस्वरूपं त्यक्त्वा पुद्गलद्रव्यरूपेण न परिणमति न च तन्मयत्वेन गृह्णाति न तत्पर्यायेणोत्पद्यते । पुग्गलदव्वं पि तहा तथा पुद्गलद्रव्यमपि स्वयमंतापकं भूत्वा मृत्तिकाद्रव्यकलशरूपेणेव चिंदानंदैकलक्षणजीवस्वरूपेण न परिणमति न च जीवस्वरूपं तन्मयत्वेन गृह्णाति न च जीवपर्यायेणोत्पद्यते । तर्हि किं करोति परिणमाइ सरहिं भावहिं परिणमति स्वकीयैर्वर्णादिस्वभावैः परिणामैर्गुणैर्धम्मैंरिति । कस्मादिति चेत् मृत्तिकाकलशयोरिव जीवेन सह तादात्म्यलक्षणसंबंधाभावादिति । एवं पुद्गलद्रव्यमपि जीवेन सह न परिणमतीत्यादिव्याख्यानमुख्यत्वेन गाथा गता । अथ यद्यपि जीवपुद्गलपरिणामयोरन्योन्यनिमित्तमात्रत्वमस्ति तथापि निश्चयनयेन तयोर्न कर्तृकर्मभावं इत्यावेदयति । ___ आत्मख्यातिः–यतो जीवपरिणामं स्वपरिणामं स्वपरिणामफलं चाप्यजानन् पुद्गलद्रव्यं स्वयमंतर्व्यापकं भूत्वा परद्रव्यस्य परिणाम मृत्तिकाकलशमिवादिमध्यांतेषु व्याप्य न तं गृह्णाति न तथा परिणमति न तथोत्पद्यते । किं तु प्राप्यं विकार्य निर्वयं च व्याप्यलक्षणं स्वभावं कर्म स्वयमंतापकं भूत्वादिमध्यांतेषु व्याप्य तमेव गृह्णाति तथैव परिणमति तथैवोत्पद्यते च । ततः प्राप्यं विकार्य निर्वर्यं च व्याप्यलक्षणं परद्रव्यपरिणामं कर्माकुर्वाणस्य जीवपरिणाम स्वपरिणामं स्वपरिणामफलं चाजानतः पुद्गलद्रव्यस्य जीवेन सह न कर्तृकर्मभावः। ज्ञानी जानन्नपीमां स्वपरपरिणतिं पुद्गलश्चाप्यजानन् व्याप्तृव्याप्यत्वमंतः कलयितुमसहौ नित्यमत्यंतभेदात् । अज्ञानात्कर्तृकर्मभ्रममतिरनयोर्भाति तावन्न यावत् विज्ञानार्चिश्चकास्ति क्रकचवददयं भेदमुत्पाद्य सद्यः ॥१०॥ जीवपुद्गलपरिणामयोरन्योन्यनिमित्तमात्रत्वमस्ति तथापि न तयोः कर्तृकर्मभाव इत्याह जीवपरिणामहेहूँ कम्मत्तं पुग्गला परिणमंति । पुग्गलकम्मणिमित्तं तहेव जीवो वि परिणमदि ॥८६॥ णवि कुव्वदि कम्मगुणे जीवो कम्मं तहेव जीवगुणे । अण्णोण्णणिमित्तेण दु परिणाम जाण दोहंपि ॥८॥ एदेण कारणेण दु कत्ता आदा सएण भावेण । पुग्गलकम्मकदाणं ण दु कत्ता सव्वभावाणं ॥८८॥ जीवपरिणामहेतुं कर्मत्वं पुद्गलाः परिणमंति । पुद्गलकमनिमित्तं तथैव जीवोपि परिणमति ॥८६॥ नापि करोति कर्मगुणान् जीवः कर्म तथैव जीवगुणान् । अन्योन्यनिमित्तेन तु परिणामं जानीहि द्वयोरपि ॥८॥ एतेन कारणेन तु कर्त्ता आत्मा स्वकेन भावेन । पुद्गलकर्मकृतानां न तु कत्तो सर्वभावानां ॥८८॥ तात्पर्यवृत्तिः-जीवपरिणामहेहूँ कम्मतं पुग्गला परिणमंति यथा कुंभकारानिमित्तेन मृत्तिकाघटरूपेण परिणमति तथा जीवसंबंधिमिथ्यात्वरागादिपरिणामहेतुं लब्ध्वा कर्मवर्गणायोग्यं पुद्गलद्रव्यं कर्मत्वेन परिणमति पुग्गलकम्मणिमित्तं तहेव जीवो वि परिणमदि यथैव च घटनिमित्तेन एवं घटं करोमीति कुंभकारः परिणमति तथैवोदयागतपुद्गलकर्महेतुं कृत्या जीवोपि निर्विकारचिच्चमत्कारपरिणतिमलभमानः सन् मिथ्यात्वरागादिविभावेन परिणमतीति । अथ–णवि कुव्वदि कम्मगुणे जीवो यद्यपि परस्परनिमित्तेन परिणमति तथापि निश्चयनयेन जीवो वर्णादिपुद्गलकर्मगुणान्न करोति । कम्मं तहेव Page #51 -------------------------------------------------------------------------- ________________ समयप्राभूतं । ४९ जीवगुणे कर्म च तथैवानंतज्ञानादिजीवगुणान्न करोति अण्णोष्णनिमित्तेण दु परिणामं जाण दोहपि यप्युपादानरूपेण न करोति तथाप्यन्योन्यनिमित्तेन घटकुंभकारयोरिव परिणामं जानीहि द्वयोरपि जीवपुद्गलयोरिति । अथ - एदेण कारणेण दु कत्ता आदा सएण भाषेण एतेन कारणेन पूर्व सूत्रद्वयव्याख्यानरूपेण तु निर्मलात्मानुभूतिलक्षणपरिणामेन शुद्धोपादानकारणभूतेनाव्यावाधानंतसुखादिशुद्धभावानां कर्ता । तद्विलक्षणेनाशुद्धोपादानकारणभूतेन रागाद्यशुद्धभावानां कर्ता भवत्यात्मा । कथं । यथा मृत्तिकाकलशस्वेति पुग्गलकम्पकदाणं ण दु कत्ता सव्वभावाणं पुद्गलकर्मकृतानां न तु कर्ता सर्वभावानां ज्ञानावरणादिपुद्गलकर्मपर्यायाणामिति । एवं जीवपुद्गलपरस्परनिमित्तकारणव्याख्यानमुख्यत्वेन गाथात्रयं गतं । अथ तत एतदायाति - जीव स्वपरिणामैरेव सह निश्चयनयेन कर्तृकर्मभावो भोक्तृभोग्य भाषश्च भवति । आत्मख्यातिः - यतो जीबपरिणामं निमित्तीकृत्य पुद्गलाः कर्मत्वेन परिणमंति पुद्गलकर्मनिमित्तीकृत्य जीवोपि परिणमतीति जीवपुद्गलपरिणामयोरितरेतरहेतुत्वोपन्यासेपि जीवपुद्गलयोः परस्परं व्याप्य व्यापकभावाभावाज्जीवस्य पुद्गलपरिणामानां पुद्गलकर्मणोपि जीवपरिणामानां कर्तृकर्मत्वासिद्धौ निमित्तनैमित्तकभावमात्रस्याप्रतिषिद्धत्वादितरेतरनिमित्तमात्रीभवनेनैव द्वयोरपि परिणामः । ततः कारणान्मृत्तिकया' कलशस्येव स्वन भावेन स्वस्य भावस्थ करणाज्जीवः स्वभावस्य कर्त्ता कदाचित्स्यात् । मृत्तिकया वसनस्येव स्वेन भावेन परभावस्य कर्तुमशक्यात्वात्पुद्गलभावानां तु कर्ता न कदाचिदपि स्यादिति निश्चयः । ततः स्थितमेतज्जीवस्य स्वपरिणामैरेव सह कर्तृकर्मभावो भोक्तृभोग्यभावश्च । णिच्छयणयस्य एवं आदा अप्पाणमेव हि करेदि । वेदयदि पुणो तं चैव जाण अत्ता टू अत्ताणं ॥ ८९ ॥ निश्चयन यस्यैवमात्मात्मानमेव हि करोति । वेदयते पुमस्तं चैव जानीहि आत्मा त्वात्मानं ॥ ८९ ॥ तात्पर्यवृत्तिः - णिच्छयणयस्य एवं आदा अप्पाणमेव हि करेदि यथा यद्यपि समीरो निमित्तं भवति तथापि निश्चयनयेन पारावार एव कल्लोलान् करोति परिणमति । एवं यद्यपि द्रव्य - कर्मोदयसद्भावासद्भावात् शुद्धाशुद्धभावयोर्निमित्तं भवति तथापि निश्चयेन निर्विकारपरमस्वसंवेदनज्ञानपरिणतः केवलज्ञानादिशुद्धभावात् तथैवाशुद्धपरिणतस्तु सांसारिकसुखदुःखाद्यशुद्धभावांश्चोपादानरूपेणास्मैव करोति । अत्र परिणामानां परिणमनमेव कर्तृत्वं ज्ञातव्यमिति न केवलं करोति वेदयदि पुणो तं चैव जाण अत्ता दुत्ताणं वेदयत्यनुभवति भुंक्ते परिणमति पुनश्च स्वशुद्धात्मभावनोत्थसुखरूपेण शुद्धोपादानेन तदेव शुद्धात्मानमशुद्धोपादानेनाशुद्धात्मानं च । स कः कर्ता ? आत्मेति जानीहि । एवं निश्चयकर्तृत्वभोक्तृत्वव्याख्यानरूपेण गाथा गता । अथ लोकव्यवहारं दर्शयति । आत्मख्यातिः — यथोत्तरंगनिस्तरंगावस्थयोः समीरसंचरणासंचरण निमित्तयोरपि समीरपारावारयो र्व्याप्यव्यापकभावाभावात्कर्तृकर्मत्वासिद्धौ पारावार एव स्वयमंतर्व्यापको भूत्यादिमध्यांतेषूत्तरंगनिस्तरंगावस्थे व्याप्योत्तरंगं निस्तरंगं त्वात्मानं कुर्वन्नात्मानमेकमेव कुर्बन् प्रतिभाति न पुनरन्यत् । यथा स एष व भाव्यभावकभावाभावात्परभावस्य परेणानुभवितुमशक्यत्वादुत्तरंगं निस्तरंगं त्वात्मानमनुभवन्नात्मानमेकमेवानुभवन् प्रतिभाति न पुनरन्यत् । तथा संसारनिः संसारावस्थयोः पुद्गलकर्मविपाकसंभवासंभवनिमित्तयोरपि पुद्गलकर्मजीवयोव्र्व्याप्यव्यापकभावाभावात्कर्तृकर्मत्वासिद्धौ जीव एव स्वयमंतर्व्यापको भूत्वादिमध्यांतेषु ससंसारनिःसंसारावस्थे व्याप्य ससंसारं निःसंसारं वात्मानं कुर्वन्नात्मानमेकमेव कुर्वन् प्रतिभातु मा पुनरन्यत् । तथायमेव च भाव्यभावकभावाभावात् परभावस्य परेणानुभवितुमशक्यत्वात्ससंसारं निःसंसारं वात्मानमनुभवन्नात्मानमेकमेवानुभवन्प्रतिभातु मा पुनरन्यत् । अथ व्यवहारं दर्शयति । Page #52 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायांववहारस्स दु आदा पुग्गलकम्मं करेदि अणेयविहं । तं चेव य वेदयदे पुग्गलकम्मं अणेयविहं ॥९॥ व्यवहारस्य त्वात्मा पुद्गलकर्म करोति नैकविधं । बच्चेव पुनर्वेदयते पुद्गलकर्मानेकविधं ॥१०॥ तात्पर्यवृत्तिः-ववहारस्स दु आदा पुग्गलकम्मं करोदि अणेयविहं यथा लोके यद्यपि मृत्पिंड उपादानकारणं तथापि कुंभकारो घटं करोति तत्फलं च जलधारणमूल्यादिकं भुंक्त इति लोकानामनादिरूढोस्ति व्यवहारः । तथा यद्यपि कर्मवर्गणायोग्यपुद्गलद्रव्यमुपादनकारणभूतं तथापि व्यवहारनयस्याभिप्रायेणात्मा पुद्गलकर्मानेकविधं मूलोत्तरप्रकृतिभेदभिन्नं करोति तं चेव य वेदयदे पुग्गलकम्म अणेयविहं तथैव च तमेवोदयागतं पुद्गलकर्मानेकविधं इष्टानिष्टपंचेद्रियविषयरूपेण वेदयति अनुभवति इत्यज्ञानिमा निर्विषयशुद्धात्मोपलंभसंजातसुखामृतरसास्वादरहितानामनादिरूढोस्ति व्यवहारः । एवं व्यवहारेण सुखदुःखकर्तृत्वभोक्तृत्वकथनमुख्यतया गाथा गता । इति ज्ञानिजीवस्य विशेषव्याख्यानरूपेणैकादशगाथाभिद्वितीयांतराधिकारो व्याख्यातः । . ___ अतः परं पंचविंशतिगाथापर्यंतं द्विक्रियावादिनिराकरणरूपेण व्याख्यानं करोति । तत्र चेतनाचेतनयोरेकोपादनकर्तृत्वं द्विक्रियाचादित्वमुच्यते तस्य संक्षेपव्याख्यानरूपेण जदिपुग्गलकम्ममिणं इत्यादि गाथाद्वयं भवति । तद्विवरणद्वादशगाथासु मध्ये पुग्गलकम्माणिमित्तं इत्यादिगाथाक्रमेण प्रथमगाथाषदं स्वतंत्रं । तदनंतरमज्ञानिज्ञानिजीवकर्तृत्वाकर्तृत्वमुख्यतया परमप्पाणं कुम्वी इत्यादिद्वितीयषदं । अतः परं तस्यैव द्विक्रियावादिनः पुनरपि विशेषव्याख्यानार्थमुपसंहाररूपेणैकादशगाथा भवंति । तत्रैकादशगाथासु मध्ये व्यवहारनयमुख्यत्वेन ववहारस्स दु इत्यादि गाथात्रयं । तदनंतरं निश्चयनयमुख्यतया जो पुग्गलदव्वाणं इत्यादिसूत्रचतुष्टयं । ततश्च द्रव्यकर्मणामुपचारकर्तृत्वमुख्यत्वेन जीवं हि हेदुभूदे इत्यादिसूत्रचतुष्टयमिति समुदायेन पंचविंशतिगाथाभिस्तृतीयस्थले समुदायपातनिका । तद्यथा-अथेदं पूर्वोक्तं कर्मकर्तृत्वभोक्तृत्वनयविभागव्याख्यानं कर्मतापन्नमनेकांतेन सम्मतमप्येकांतनयेन मन्यते । किं मन्यते भावकमवन्निश्चयेन द्रव्यकापि करोतीति चेतनाचेतनकार्ययोरेकोपादानकर्तृत्वलक्षणं द्विक्रियावादित्वं स्यात् । तान् द्विक्रियावादिनो दूषयति । आत्मख्यातिः-यथांताप्यव्यापकभावेन मृत्तिकया कलशे क्रियमाणे भाव्यभावकभावेन मृत्तिकयैवानुभूयमाने च बहियाप्यव्यापकभावेन कलशसंभवानुकूलं व्यापारं कुर्वाणः कलशकृततोयोपयोगजां तृप्तिं भाव्यभावकभावनानुभवंश्च कुलाल: कलशं करोत्यनुभवति चेति लोकानामनादिरूढोस्ति तावव्यवहारः, तथांताप्यव्यापकभावेन पुद्गलद्रव्येण कर्माण क्रियमाणे भाव्यभावकभावेन पुद्गलद्रव्येणैवानुभूयमाने च बहिप्प्यव्यापकभावेनाज्ञानात्पुद्गलकर्मसंभवानुकूलं परिणामं कुर्वाणः पुद्गलकर्मविपाकसंपादितविषयसन्निधिप्रधावितां सुखदुःखपरिणतिं भाव्यभावकभावेनानुभवंश्च जीवः पुद्गलकर्मकरोत्यनुभवति चेत्यज्ञानिनामासंसारप्रसिद्धोस्ति तावद्व्यवहारः । अथैनं दूषयति । जदि पुग्गलकम्ममिणं कुव्वदि तं चेव वेदयदि आदा । दो किरियावादित्तं पसजदि सम्मं जिणावमदं ॥९१॥ यदि पुद्गलकर्मेदं करोति तच्चैव वेदयते आत्मा। द्विक्रियाव्यतिरिक्तः प्रसजति स जिनावमतं ॥९॥ तात्पर्यवृत्तिः-जदि पुग्गलकम्मामिणं कुव्वदिलं चेव वेदयदि आदा यदि चेपुद्गलकर्मोदयमुपादवरूपेण करोति तदेव च पुनरुपादानरूपेण वेदयत्यनुभवत्यात्मा दोकिरियावादित्तं पसजदि Page #53 -------------------------------------------------------------------------- ________________ समयप्राभृतं । तदा चेतनाचेतनक्रियाद्वयस्योपादानकर्तृत्वरूपेण द्विक्रियावादित्वं प्रसजति प्राप्नोति । अथवा दो किरियाविदिरित्तो सजदि सो तत्र पाठांतरे द्वाभ्यां चेतनाचेतनक्रियाभ्यामव्यतिरिक्तोऽभिन्नः प्रसजति प्राप्नोति स पुरुषः । सम्मं जिणावमदं तच्च व्याख्यानं जिनानां सम्यगसंमतं । यश्चेदं व्याख्यानं मन्यते स निजशुद्धात्मापादयरुचिरूपं निर्विकारचिच्चमत्कारमात्रलक्षणं शुद्धोपादानकारणोत्पन्नं निश्चयसम्यक्त्वमलभ-- मानो मिथ्यादृष्टिर्भवतीति । अथ कुतो द्विक्रियावादी मिथ्यादृष्टिर्भवतीति प्रश्ने प्रत्युत्तरं प्रयच्छंतस्तमेवार्थ प्रकारांतरेण दृढयति । आत्मख्यातिः-इह खलु क्रिया हि तावदखिलापि परिणामलक्षणतया न नाम परिणामतोस्ति भिन्ना, परिणामोपि परिणामपरिणामिनोरभिन्नवस्तुत्वात्परिणामिनो न भिन्नस्ततो या काचन क्रिया किल सकलापि सा क्रियावतो न भिन्नेति क्रियाक!रव्यतिरिक्ततायां वस्तुस्थित्या प्रतपत्यां यथा व्याप्यव्यापकभावेन स्वपरिणामं करोति, भाव्यभावकभावेन तमेवानुभवति च जीवस्तथा व्याप्यव्यापकभावेन पुद्गलकर्मापि यदि कुर्यात् भाव्यभावकभावेन तदेवानुभवेच्च ततो यं स्वपरसमवेतक्रियाद्वयाव्यतिरिक्ततायां प्रसजंत्यां स्वपरयोः परस्परविभागप्रत्यस्तमनादनेकात्मकमेकमात्मानमनुभवन्मिध्यादृष्टितया सर्वज्ञावमतः स्यात् । कुतो द्विक्रियानुभावी मिथ्यादृष्टिरिति चेत् । जमा दु अत्तभावं पुग्गलभावं च दोवि कुवंति । तेण दु मिच्छादिठ्ठी दोकिरियावादिणो हुँति ॥१२॥ यस्मात्त्वात्मभावं पुद्गलभावं च द्वावपि कुर्वति । सेन तु मिथ्यादृष्टयो द्विक्रियावादिनो भवति ॥१२॥ तात्पर्यवृत्तिः-जह्मा दु अत्तभावं पुग्गलभावं च दोवि कुव्यंति यस्मादात्मभावं चिद्रूपं पुद्गलभावं चाचेतनं जडस्वरूपं द्वयमप्युपादानरूपेण कुर्वति तेण दु मिच्छादिछी दोकिरियादिणो हति ततस्तेन कारणेन चेतनाचेतनक्रियाद्वयवादिनः पुरुषा मिथ्यादृष्टयो भवंतीति । तथाहि—यथा कुंभकारः स्वकीयपरिणाममुपादानरूपेण करोति तथा घटमपि यद्युपादानरूपेण करोति तदा कुंभकारस्याचेतनत्वं घटरूपत्वं प्राप्नोति । घटस्य वा चेतनकुंभकाररूपत्वं प्राप्नोतीति । तथा जीवोपि. यापादानरूपेश पुद्गलद्रव्यकर्म करोति तदा जीवस्याचेतनपुद्गलद्रव्यत्वं प्राप्नोति । पुद्गलकर्मणो वा चिद्रूपं जीवत्वं प्राप्नोति । किं च शुभाशुभं कर्म कुर्वेहमिति महाहंकाररूपं तमो मिथ्याज्ञानिनां न नश्यति तर्हि केषां मश्यतीति चेत् विषयसुखानुभवानंदवर्जिते वीतरागस्वसंवेदनवेद्ये भूतार्थनयेनैकत्वव्यवस्थापिते चिदानंदैकस्वभावे शुद्धपरमात्मद्रव्ये स्थितानामेव समस्तशुभाशुभपरभावशून्येन निर्विकल्पसमाधिलक्षणेन शुद्धोपयोगभावनाबलेन सज्ञानिनामेव विलयं विनाशं गच्छति । तस्मिन्महाहंकारविकल्पजाले नष्ट सति पुनरपि बंधो न भवतीति, ज्ञात्वा बहिर्द्रव्यविषये इदं करोमि इदं न करोमीति दुराग्रहं त्यक्त्वा रागादिविकल्पजालशून्ये पूर्णकलशवच्चिदानंदैकस्वभावेन भरितावस्थे स्वकीयपरमात्मनि निरंतरं भावना कर्त्तव्येति भावार्थः । इति द्विक्रियावादिसंक्षेपव्याख्यानमुख्यत्वेन गाथाद्वयं गतं । अथ तस्यैव विशेषव्याख्यानं करोति । आत्मख्याति:-यतः किलात्मपरिणामं पुद्गलपरिणामं च कुर्वतमात्मानं मन्यते द्विक्रियावादिनस्ततस्ते मिथ्यादृष्टय एवेति सिद्धांतः । भावैकद्रव्येण द्रव्यद्वयपरिणामः क्रियमाणः प्रतिभातु । यथा किल कुलाल: कलशसंभवानुकूलमात्मव्यापारपरिणाममात्मनो व्यतिरिक्तमात्मनोऽव्यतिरिक्ततया परिणतिमात्रया क्रियया क्रियमाणं कुर्वाणः प्रतिभाति न पुनः कलशकारणाहंकारनिर्भरोपि स्वव्यापारानुरूपं मृत्तिकायाः कलशपरिणामं मृत्तिकायाः अव्यतिरिक्तमृत्तिकायाः अव्यतिरिक्ततया परिणतिमात्रया क्रियया क्रियमाणं कुर्वाणः प्रतिभाति । तथात्मापि पुद्गलकर्मपरिणामानुकूलमज्ञानादात्मपरिणाममात्मनोऽव्यतिरिक्तमात्मनो Page #54 -------------------------------------------------------------------------- ________________ ५२ सनातन जनप्रथमालायां व्यतिरिक्ततया परिणतिमाश्रया क्रियया क्रियमाणं कुर्वाणः प्रतिभातु मा पुनः पुलपरिणामकरणाहंकारनिर्भरोपि स्वपरिणामानुरूपं पुद्गलस्य परिणामं पुद्गलादव्यतिरिक्तं पुद्गलादव्यतिरिक्तया परिणतिमात्रया क्रियया क्रियमाणं कुर्वाणः प्रतिभातु । यः परिणमति स कर्ता यः परिणामो भवेत्तु तत्कर्म । या परिणतिः क्रिया सा त्रयमपि भिन्नं न वस्तुतया ॥ ५१ ॥ एकः परिणमति सदा परिणामो जायते सदैकस्य । एकस्य परिणतिः स्यादनेकमप्येकमेव यतः ॥५२॥ नोभौ परिणमतः खलु परिणामो नोभयोः प्रजायेत । उभयोर्न परिणतिः स्याद्यदनेकमनेकमेव सदा ॥५३॥ नैकस्य हि कर्तारौ द्वौ स्तो द्वे कर्मणी न चैकस्य । नैकस्य च क्रिये द्वे एकमनेकं यतो न स्यात् ॥ ५४ ॥ आसंसारत एव धावति परं कुर्वेहमित्युच्चकैः दुर्वारं ननु मोहिनामिह महाहंकाररूपं तमः । तद्भूतार्थपरिग्रहेण विलयं यद्येकवारं व्रजेत् तत्किं ज्ञानघनस्य बंधनमहो भूयो भवेदात्मनः ||१५|| आत्मभावान्करोत्यात्मा परभावान्सदा परः । आत्मैव ह्यात्मनो भावाः परस्य पर एव ते ॥५६॥ पुग्गलकम्मणिमित्तं जह आदा कुणदि अप्पणो भावं । पुग्गलकम्मणिमित्तं तह वेददि अप्पणी भावं ॥ ९३॥ पुद्गलकर्मनिमितं यथात्मा करोति आत्मनः भावं । पुद्गलकर्मनिमित्तं तथा वेदयति आत्मनो भावं ||९३|| तात्पर्यवृत्तिः– पुगलकम्मणिमित्तं जह आदा कुणदि अप्पणी भावं उदयागतं द्रव्यकर्मनिमित्तं कृत्वा यथात्मा निर्विकारस्वसंवित्तिपरिणामशून्यः सन्करोत्यात्मनः संबंधिनं सुखदुःखादिभावं परिणामं पुग्गलकम्मणिमित्तं तह वेददि अप्पणी भावं तथैवोदयागतद्रव्यकर्मनिमित्तं लब्ध्वा स्वशुद्धात्मभावनोत्थवास्तवसुखास्वादमवेदयन्सन् तमेव कर्मोदयजनितस्वकीयरागादिभावं वेदयत्यनुभवति । न च द्रव्यकर्मरूपपर भावमित्यभिप्रायः । अथ चिद्रूपानात्मभावानात्मा करोति तथैषाचिद्रूपान् द्रव्यकर्मादिपरभावान् परः पुद्गलः करोतीत्याख्याति । मिच्छत्तं पुण दुविहं जीवमजीवं तहेव अण्णाणं । अविरदि जोगो मोहो कोधादीया इमे भावा ॥ ९४ ॥ मिथ्यात्वं पुनर्द्विविधं जीवोऽजीवस्तथैवाज्ञानं । अविरतियोगो मोहः क्रोधाद्या इमे भावाः ॥९४॥ तात्पर्यवृत्तिः– मिच्छत्तं पुण दुत्रिहं जीवमजीवं मिथ्यात्वं पुनर्द्विविधं जीवस्वभावमर्जीवस्यभावं व तहेव अण्णाणं अविरदि जोगो मोहो कोधादीया इमे भावा तथैव चाज्ञानमविरतिर्योगो मोहः क्रोधादयोऽमीभावाः पर्यायाः जीवरूपा अजीवरूपाश्च भवंति मयूरमुकुरंदवत् । तद्यथा यथा मयूरेप भाव्यमाना अनुभूयमाननीलपीताद्याहारविशेषा मयूरशरीराकारपरिणता मयूर एव चेतना एव । तथा निर्मलात्मानुभूतिच्युत जीवेन भाव्यमाना अनुभूयमानाः सुखदुःखादिविकल्पा जीव एवाशुद्धनिश्वयेन चेतना एव । यथा च मुकुरंदेन स्वच्छतारूपेण भाव्यमानाः प्रकाशमानमुखप्रतिबिंवादिविकारा मुकुरंद एक अचेतना एव तथा कर्मवर्गणायोग्यपुद्गलद्रव्येणोपादानभूतेन क्रियमाणा ज्ञानावरणादिद्रव्यकर्मपर्यायाः पुद्गल एव अचेतना एवेति । अथ कतिविधौ जीवाजीवाविति पृष्ठे प्रत्युत्तरमाह । आत्मख्यातिः - मिथ्यादर्शनमज्ञानमविरतिरित्यादयो हि भावाः ते तु प्रत्येकं मयूरमुकुरंदवज्जीबाजीवाभ्यां भाव्यमानत्वाज्जीवाजीवौ । तथाहि —यथा नीलकृष्णहरितपीतादयो भावाः स्वद्रव्यस्वभावत्वेन मयूरेण भाव्यमानाः मयूर एव । यथा च नीलहरितपीतादयो भावाः स्वच्छताविकारमात्रेण मुकुरंदेन भाव्यमाना Page #55 -------------------------------------------------------------------------- ________________ समयप्राभृतं । ૧૩ मुकुरंद एव । तथा मिथ्यादर्शनमज्ञानमविरतिरित्यादयो भावाः स्वद्रव्यस्वभावत्वेनाजीवेन भाव्यमाना अजीव एव । तथैव च मिथ्यादर्शनमज्ञानमविरतिरित्यादयो भावाश्चैतन्यविकारमात्रेण जीवेन भाव्यमाना जीव एव । काविह जीवाजीवाविति चेत् । पुग्गलकम्मं मिच्छं जोगो अविरदि अणाणमज्जीवं । उवओगो अण्णाणं अविरदि मिच्छत्त जीवो दु ॥ ९५ ॥ पुद्गलकर्म मिध्यात्वं योगोऽविरतिरज्ञानमजीवः । उपयोगोऽज्ञानमविर तिमिध्यात्वं च जीवस्तु ॥ ९५ ॥ तात्पर्यवृत्तिः — पुग्गलकम्मं मिच्छं जोगो अधिरदि अणाणमज्जीवं पुद्गलकर्मरूपं मिथ्यात्कं योगोऽविरतिरज्ञानामित्यजीवः । उवओगो अण्णाणं अविरदि मिच्छत्त जीनो दु उपयोगरूपो भावरूपः शुद्धात्मादितत्त्वभावविषये विपरीतपरिच्छित्तिविकारपरिणामो जीवस्याज्ञानं । निर्विकारस्वसंवित्तिविपरीतव्रतपरिणामविकारोऽविरतिः । विपरीताभिनिवेशोपयोगविकाररूपं शुद्धजीवादिपदार्थविषये विपरीतश्रद्धानं मिथ्यात्वमिति जीवः । जीव इति कोर्थः । जीवरूपा भावप्रत्यया इति । अथ शुद्धचैतन्यस्वभावजीवस्य कथं मिथ्यादर्शनादिविकारो जात इति चेत् । आत्मख्यातिः१ - यः खलु मिथ्यादर्शनमज्ञानमविरतिरित्यादिरजीवस्तदमूर्त्ताच्चैतन्यपरिणामादन्यत् मूर्त्तं पुद्गलकर्म, यस्तु मिथ्यादर्शनम्मज्ञानमविरतिरित्यादि जीवः स मूर्तात्पुद्गलकर्मणोऽन्यश्चैतन्यपरिणामस्य विकारः । मिथ्यादर्शनादिचैतन्यपरिणामस्य विकारः कुत इति चेत् । raओगस्स अणाई परिणामा तिष्णिमोहजुत्तस्स । मिच्छत्तं अण्णाणं अविरदिभावो य णादव्वो ॥९६॥ उपयोगस्यानादयः परिणामास्त्रयो मोहयुक्तस्य । मिथ्यात्वमज्ञानमविरतिभावश्च ज्ञातव्यः ।। ९६ ।। - तात्पर्यवृत्तिः – उव भोगस्स अणाई परिणामा तिष्णि उपयोगलक्षणत्वादुपयोग आत्मा.. तस्य संबंधित्वेनानादिसंतानापेक्षया त्रयः परिणामा ज्ञातव्याः । कथंभूतस्य तस्य मोहजुत्तस्स मोहयुक्तस्य । के ते परिणामाः । मिच्छत्तं अण्णाणं अविरदिभावो य णादव्वो मिथ्यात्वमज्ञानमविरतिभावश्चेति ज्ञातव्य इति । तथाहि — यद्यपि शुद्धनिश्वयनयेन शुद्धबुद्धैकस्वभावो जीवस्तथाप्यनादिमोहनीयादिकर्मबंधवशान्मिथ्यात्वाञ्चानाविरतिरूपास्त्रयः परिणामविकाराः संभवति । तत्र शुद्धजीवस्वरूपमुपादेयं मिथ्यात्वादिविकारपरिणामा हेया इति भावार्थ: । अथात्मनो मिथ्यात्वादित्रिविधपरिणामविकारस्य कर्तृत्वमुपदिशति । आत्मख्यातिः — उपयोगस्य हि स्वरसत एव समस्तवस्तुस्वभावभूतस्वरूपपरिणामसमर्थत्वे सत्यनादिवस्त्वंतरभूतमोहयुक्तत्वान्मिथ्यादर्शनमज्ञानमविरतिरिति त्रिविधः परिणामविकारः स तु तस्य स्फटिकस्वच्छताया इव परतोपि प्रभवन् दृष्टः । यथाहि स्फटिकस्वच्छतायाः स्वरूपपरिणामसमर्थत्वे सति कदाचिन्नीलहरितपीततमालकदलीकांचनपात्रोपाश्रययुक्तत्वान्नीलो हरितः पीत इति त्रिविधः परिणामविकारो दृष्टस्तथोपयोगस्यानादिमिथ्यादर्शनाद्यानाविरतिस्वभाववस्त्वंतर भूतमोहयुक्तत्वान्मिथ्यादर्शनमज्ञानमविरतिरिति त्रिविध: परिणामविकारो दृष्टव्यः । अथात्मनस्त्रिविधपरिणामविकारस्य कर्तृत्वं दर्शयति । एदेसु य उवओगो तिविहो सुद्धो णिरंजणो भावो । जं सो करेदि भाव उवओगो तस्स सो कत्ता ॥९७॥ Page #56 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायांएतेषु चोपयोगस्त्रिविधः शुदो निरंजनो भावः । यं स करोति भावमुपयोगस्तस्य स कर्ता ॥९७॥ तात्पर्यवृत्तिः-एदेसु य एतेषु च मिथ्यादर्शनज्ञानचारित्रेषूदयागतेषु निमित्तभूतेषु सत्सु उवओगो शानदर्शनोपयोगलक्षणत्वादुपयोग आत्मा तिविहो कृष्णनीलपीतत्रिविधोपाधिपरिणतस्फटिकवत्त्रिविधो भवति । परमार्थेन तु सुद्धो शुद्धो रागादिभावकर्मरहितः णिरंजणो निरंजनो ज्ञानावरणादि द्रव्यकर्माजनरहितः । पुनश्च कथंभूतः भावो भावपदार्थः । अखंडैकप्रतिभासमयज्ञानस्वभावनैकविधोपि पूर्वोक्तमिथ्यादर्शनज्ञानचारित्रपरिणामविकारेण त्रिविधो भूत्वा जं सो करेदि भावं परिणामं करोति स आत्मा उवओगो चैतन्यानुविधायिपरिणाम उपयोगो भण्यते तल्लक्षणत्वादुपयोगरूपः । तस्स सो कत्ता निर्विकारस्वसंवेदनज्ञानपरिणामच्युतः सन् तस्यैव मिथ्यात्त्वादित्रिविधविकारपरिणामस्य कर्ता भवति । न च द्रव्यकर्मण इति भावः । अथात्मनो मिथ्यात्रिविधपरिणामविकारकर्तृवे सति कर्मवर्गणायोग्यपुद्गलद्रव्य स्वत एवोपादानरूपेण कर्मत्वेन परिणमतीति कथयति । आत्मख्यातिः-अथैवमयमनादिवस्त्वंतरभूतमोहयुक्तत्वादात्मन्युत्प्लवमानेषु मिथ्यादर्शनाज्ञानाविरतिभावेषु परिणामविकारेषु त्रिष्वेतेषु निमित्तभूतेषु परमार्थतः शुद्धनिरंजनानादिनिधनवस्तुसर्वस्वभूतचिन्मात्र भाषत्वेनेकविधोप्यशुद्धसांजनानेकभावत्वमापद्यमानस्त्रिविधो भूत्वा स्वयमज्ञानीभूतः कर्तृत्वमुपढौकमानो विकारेण परिणम्य यं यं भावमात्मनः करोति तस्य तस्य किलोपयोगः कर्ता स्यात् । अथात्मनस्त्रिविधपरिणामविकारकर्तृत्वे सति पुद्गलद्रव्यं स्वत एव कर्मत्वेन परिणमतीत्याह । जं कुणदि भावमादा कत्ता सो होदि तस्स भावस्स । कम्मत्तं परिणमदे तमि सयं पुग्गलं दव्वं ॥९॥ यं करोति भावमात्मा कर्ता स भवति तस्य भावस्य । कर्मत्वं परिणमते तस्मिन् स्वयं पुद्गलद्रव्यं ॥९८॥ तात्पर्यवृत्तिः-जं कुणदि भावमादा कत्ता सो होदि तस्त भावस्स यं भावं मिथ्यात्वादिविकारपरिणामं शुद्धस्वभावच्युतः सन् मात्मा करोति तस्य भावस्य स कर्ता भवति कम्मत्तं परिणमदे तम्हि सयं पुग्गलं दव्वं तस्मिन्नेव त्रिविधविकारपरिणामकर्तृत्वे सति कर्मवर्गणायोग्यपुद्गलद्रव्यं स्वयमेवोपादानरूपेण द्रव्यकर्मत्वेन परिणमति । गारुडादिमंत्रपरिणतपुरुषपरिणाम सति देशांतरे स्वयमेव तत्पुरुषव्यापारमंतरेणापि विषापहारबंधाविध्वंसस्त्रीविडंवनादिपरिणामवत् । तथैव च मिथ्यात्वरागादिविभावविनाशकाले निश्चयरत्नत्रयस्वरूपशुद्धोपयोगपरिणामे सति गारुडमंत्रसामर्थ्येन निर्बीजविषवत् । स्वयमेव नीरसीभूय पूर्वबद्धं द्रव्यकर्म जीवात्पृथग्भूत्वा निर्जरां गच्छतीति भावार्थः । एवं स्वतंत्रव्याख्यानमुख्यत्वेन गाथाषटुं गतं । अथ निश्चयेन वीतरागस्वसंवेदनचानस्याभाव एवाज्ञानं भण्यते । तस्मादज्ञानादेव कर्म प्रभवतीति तात्पर्यमाह। आत्मख्यातिः-आत्मा ह्यात्मना तथापरिणमनेन यं भावं किल करोति तस्यायं कर्ता स्यात्साधकवत् तस्मिन्निमित्ते सति पुद्गलद्रव्यं कर्मत्वेन स्वयमेव परिणमते । तथाहि-यथा साधकः किल तथाविधध्यानभावनात्मना परिणममानो ध्यानस्य कर्ता स्यात् । तस्मिंस्तु ध्यानभावे सकलसाध्यभावानुकूलतया निमित्तमात्रीभूते सति साधकं करिमंतरेणापि स्वयमेव वाध्यते विषयव्याप्तयो, विडंब्यंते योषितो, ध्वंस्यंते बंधास्तथायमज्ञानादात्मा मिथ्यादर्शनादिभावनात्मनो परिणममाने मिथ्यादर्शनादिभावस्य कर्ता स्यात् । तस्मिंस्तु मिथ्यादर्शनादौ भावे स्वानुकूलतया निमित्तमात्रीभूते सत्यात्मानं कर्तारमंतरेणापि पुगलद्रव्यं मोहनीयादिकर्मत्वेन स्वयमेव परिणमते । अशानादेव कर्म प्रभवतीति तात्पर्यमाह । Page #57 -------------------------------------------------------------------------- ________________ समयप्राभृतं । परमप्पाणं कुव्वदि अप्पाणं पि य परं करतो सो । अण्णाणमओ जीवो कम्माणं कारगो होदि ॥ ९९॥ परमात्मानं कुर्वन्नात्मानमपि च परं कुर्वन् सः । अज्ञानमयो जीवः कर्मणां कारको भवति ॥ ९९॥ ५५ तात्पर्यद्वृत्तिः— परं परद्रव्यं भावकर्मद्रव्यकर्मरूपं अप्पाणं कुव्वदि परद्रव्यात्मनोर्भेदज्ञानाभावादात्मानं करोति अप्पाणं पिय परं करंतो शुद्धात्मानं च परं करोति यः सो अण्णाणमओ जीवो कम्माणं कारगो होदि स चाज्ञानमयो जीवः कर्मणां कर्ता भवति । तद्यथा-यथा कोपि पुरुषः शीतोष्णरूपायाः पुद्गलपरिणामावस्थायास्तथाविधशीतोष्णानुभवस्य चैकत्वाभ्यासाद्भेदमनानन् शीतोहमुष्णोहमिति प्रकारेण शीतोष्णपरिणतेः कर्ता भवति । तथा जीवोपि निजशुद्धात्मानुभूतेर्भिन्नाया उदयागतपुद्गलपरिणामावस्थायास्तन्निमित्तसुखदुःखानुभवस्य चैकत्वाध्यवसायारोपात् परद्रव्यात्मनोः समस्तरागादिविकल्परहितस्वसंवेदनज्ञानाभावाद्भेदमजानन्नहं सुखीदुःखीति प्रकारेण परिणमत्कर्मणां कर्ता भवतीति भावार्थ: । अथ वीतरागस्वसंवेदनज्ञानात्सकाशात्कर्म न प्रभवतीत्याह । आत्मख्यातिः - अयं किलाज्ञानेनात्मा परात्मनोः परस्परविशेषानिर्ज्ञाने सति परमात्मानं कुर्वन्नात्मानं च परं कुर्वन्स्वयमज्ञानमयीभूतः कर्मणां कर्ता प्रतिभाति । तथाहि - तथाविधानुभवसंपादनसमर्थायाः रागद्वेषसुखदुःखादिरूपायाः पुद्गलपरिणामावस्थायाः शीतोष्णानुभवसंपादनसमर्थायाः शीतोष्णायाः पुद्गलपरिणामावस्थाया इव पुद्गलादभिन्नत्वेनात्मनो नित्यमेवात्यंतभिन्नायास्तन्निमित्तं तथाविधानुभवस्य चात्मनो भिन्नत्वेन पुद्गलान्नित्यमेवात्यंतभिन्नस्याज्ञानात्परस्परविशेषानिर्ज्ञाने सत्येकत्वाध्यासात् शीतोष्णरूपेणैवात्मना परिणमितुमशक्येन रागद्वेषसुखदुःखादिरूपेणाज्ञानात्मना परिणममानो ज्ञानस्याज्ञानत्वं प्रकटीकुर्वन्स्वयमज्ञानमयीभूत एषोहं रज्ये इत्यादिविधिना रागादेः कर्मणः कर्ता प्रतिभाति । ज्ञानात्तु न कर्म प्रभवतीत्याह । परमप्पाणमकुव्वी अप्पाणं पि य परं अकुव्वतो । सो णाणमओ जीवो कम्माणमकारगो होदि ॥ १००॥ परमात्मानमकुर्वन्नात्मानमपि च परमकुर्वन् । स ज्ञानमयो जीवः कर्मणामकारको भवति ॥ १०० ॥ तात्पर्यवृत्तिः - परं परं परद्रव्यं बहिर्विषये देहादिकमभ्यंतरे रागादिकं भावकर्मद्रव्यकर्मरूपं वा अप्पाणमकुब्बी भेदविज्ञानबलेनात्मानमकुर्वन्नात्मसंबंधमकुर्वन् अप्पाणं पिय परं अकुसो शुद्धद्रव्यगुणपर्यायस्वभावं निजात्मानं च परमकुर्वन् सो णाणमओ जीवो क्रम्माणमकारगो होदि स निर्मलात्मानुभूतिलक्षणभेदज्ञानी जीवः कर्मणामकर्ता भवतीति । तथाहि--यथा कश्चित् पुरुषः शीतोष्णरूपायाः पुद्गलपरिणामावस्थायास्तथाविधशीतोष्णानुभवस्य चात्मनः सकाशाद्भेदज्ञानात् शीतोहमुष्णोहमिति परिणतेः कर्ता न भवति । तथा जीवोपि निजशुद्धात्मानुभूतेर्भिन्नायाः पुद्गलपरिणामावस्थायास्तन्निमित्तसुखदुःखानुभवस्य च स्वशुद्धात्मभावनोत्थसुखानुभवभिन्नस्य भेदज्ञानाभ्यास त्पिरात्मनोर्भेदज्ञाने सति रागद्वेषमोहपरिणाममकुर्वाणः कर्मणां कर्ता न भवति । ततः स्थितं ज्ञानात्कर्म न प्रभवतीत्यभिप्रायः । अथ कथमज्ञानात्कर्म प्रभवतीति पृष्ठे गाथाद्वयेन प्रत्युत्तरमाह । आत्मख्यातिः–अयं किल ज्ञानादात्मा परात्मनोः परस्परविशेषनिर्ज्ञाने सति परमात्मानमकुर्वश्नात्मानं च परमकुर्वन्स्वयं ज्ञानमयीभूतः कर्मणामकर्ता प्रतिभाति । तथाहि - तथाविधानुभवसंपादनसमर्थायाः रागद्वेषसुखदुःखादिरूपायाः पुद्गलपरिणामाचस्थायाः शीतोष्णानुभवसंपादनसमर्थायाः शीतोष्णायाः Page #58 -------------------------------------------------------------------------- ________________ ५६ सनातनजैनग्रंथमालायांपुद्गलपरिणामावस्थाया इव पुद्गलादिभिन्नत्वेनात्मनो नित्यमेवात्यंतभिन्नायास्तनिमित्तं तथाविधानुभवस्य चात्मनो भिन्नत्वेन पुद्गलान्नित्यमेवात्यंतभिन्नस्य ज्ञानात्परस्परविशेषनिर्ज्ञाने सति नानात्वविवेकाच्छीतोष्णरूपेणैवात्मना परिणमितुमशक्येन रागद्वेषसुखदुःखादिरूपेणाज्ञानात्ममा मनागप्यपरिणममानो ज्ञानस्य ज्ञानत्वं प्रकटीकुर्वन् स्वयं ज्ञानमयीभूतः एषोहं जानाम्येव, रज्यते तु पुद्गल इत्यादिविधिना समप्रस्यापि रागादेः कर्मणो ज्ञानविरुद्धस्याकर्ता प्रतिभाति । कथमज्ञानात्कर्म प्रभवतीति चेत् । तिविहो एसुवओगो अस्सवियप्पं करेदि कोधोहं । कत्ता तस्सुवओगस्स होदि सो अतभावस्स ॥१०१॥ त्रिविध एष उपयोग आत्मविकल्पं करोति क्रोधोहं । कर्ता तस्योपयोगस्य भवति स आत्मभावस्य ।।१०।। तात्पर्यवृत्तिः- तिविहो एसुव ओगो त्रिविधस्त्रिप्रकार एष प्रत्यक्षीभूत उपयोगलक्षणत्वादुपयोग आत्मा अस्सवियप्यं करेदि स्वस्थभावस्याभावादसद्विकल्पं मिथ्याविकल्पं करोति । केन रूपेण कोधोहं क्रोधोहमित्यादि कत्ता तस्सुवओगस्स होदि सो स जीवः तस्य क्रोधाद्युपयोगस्य विकल्पस्य कर्ता भवति। कथंभूतस्य अत्तभावस्स आत्मभावस्याशुद्धनिश्चयेन जीवपरिणामस्येति । तथाहि सामान्येनाज्ञानरूपेगैकविधोपि विशेषेण मिथ्यादर्शनज्ञानचारित्ररूपेण त्रिविधो भूत्वा एष उपयोग आत्मा क्रोधाद्यात्मनो - व्यभावकभावापन्नयोः । भाव्यभावकभावापन्नयोः कोर्थः ? भाव्यः क्रोधादिपरिणत आत्मा, भावको रंजकश्वांतरात्मभावनाविलक्षणो भावक्रोधः । इत्थंभूतयोयो र्दज्ञानाभावाद्भदेमजानान्नीर्वकल्पस्वरूपाद् भ्रष्टः सन् क्रोधोहमित्यात्मनो विकल्पमुत्पादयति, तस्यैव क्रोधाद्युपयोगपरिणामस्याशुद्धनिश्चयेन कर्ता भवतीति भावार्थः । एवमेव च क्रोधपदपरिवर्त्तनेन मानमायालोभमोहरागद्वेषकर्मनोकर्ममनोवचनकायश्रोत्रचक्षुर्घाणरसनस्पर्शनसूत्राणि षोडश व्याख्येयानि अनेन प्रकारेणाविक्षिप्तचित्तस्वभावशुद्धात्मसत्त्वविलक्षणा असंख्येयलोकमात्रप्रमिता विभावपरिणामा ज्ञातव्या इति । अथ-- आत्मख्यातिः-एष खलु सामान्येनाज्ञानरूपो मिथ्यादर्शनाज्ञानाविरतिरूपस्त्रिविधः सविकारश्चैतन्यपरिणामः परात्मनोरविशेषदर्शनेनाविशेषज्ञानेनाविशेषविरत्या च समस्तं भेदमपहत्य भाव्यभावकभावापन्नयोश्चेतनाचेतनयोः सामान्याधिकरण्येनानुभवनात्क्रोधोहमित्यात्मनो विकल्पमुत्पादयति । ततोयमात्मा क्रोधोहमितिभ्रांत्या सविकारेण चैतन्यपरिणामेन परिणमन् तस्य सविकारचैतन्यपरिणामरूपस्यात्मभावस्य कर्ता स्यात् । एवमेव च क्रोधपदपरिवर्तनेन मानमायालोभमोहरागद्वेषकर्मनोकर्ममनोवचनकायश्रोत्रचक्षु_णरसनस्पर्शनसूत्राणि षोडश व्याख्येयान्यनया दिशान्यान्यप्यूह्यानि ।। तिविहो एसुवओगो अस्सवियप्पं करेदि धम्मादि । कत्ता तस्सुवओगस्स होदि सो अत्तभावस्स ॥१०२॥ त्रिविध एष उपयोग आत्मविकल्पं करोति धमोदिकं । कतों तस्योपयोगस्य भवति स आत्मभावस्य ॥१०२॥ तात्पर्यवृत्तिः-तिविहो एसुवओगो सामान्येनाज्ञानरूपेणैकविधोपि विशेषेण मिथ्यादर्शनज्ञानचारित्ररूपेण त्रिविधः सन्नेष उपयोग आत्मा अस्सवियप्पं करेदिधम्मदि परद्रव्यात्मनोईयज्ञायकभावापन्नयोरविशेषदर्शनेनाविशेषज्ञानेनाविशेषपरिणत्या च भेदज्ञानाभावाद्भेदमजानन् धर्मास्तिकायोहामत्याद्यात्ममोऽसद्विकल्पमुत्पादयति । कत्ता तस्सुवओगस्स होदि सो अत्तभावस्स निर्मलात्मानुभूतिराहितस्वस्यैव मिथ्याविकल्परूपजीवपरिणामस्याशुद्धनिश्चयेन कर्ता भवति । ननु धर्मास्तिकायोहमित्यादि कोपि न घेते Page #59 -------------------------------------------------------------------------- ________________ समयप्राभृतं । ५७ तत्कथं घटत इति अत्र परिहारः । धर्मास्तिकायोयमिति योसौ परिछित्तिरूपविकल्पो मनसि वर्तते सोप्युपचारेण धर्मास्तिकायो भण्यते । यथा घटाकारविकल्पपरिणतिज्ञानं घट इति । तथा तद्धर्मास्तिकायोयमित्यादिविकल्पः यदा ज्ञेयतत्त्वविचारकाले करोति जीवः तदा शुद्धात्मस्वरूपं विस्मरति तस्मिन्विकल्पे कृते सति धर्मोहमिति विकल्प उपचारेण घटत इति भावार्थः । ततः स्थितं शुद्धात्मसंवित्तेरभावरूपमज्ञानं कर्मकर्तृत्वस्य कारणं भवति । * आवख्यातिः-एष खलु सामान्येनाज्ञानरूपो मिथ्यादर्शनाज्ञानाविरतिरूपस्त्रिविधः सविकारश्चैतन्यपरिणामः परस्परमविशेषदर्शनेनाविशेषज्ञानेनाविशेषविरत्या च समस्तं भेदमपह्नत्य ज्ञेयज्ञायकभावापनयोः परात्मनोः सामान्याधिकरण्येनानुभवनाद्धर्मोहमधर्मोहमाकाशमहं कालोहं पुद्गलोहं जीवांतरमहमित्यास्मनो विकल्पमुत्पादयति । ततोयमात्मा धर्मोहमधर्मोहमाकाशमहं कालोहं पुद्गलोहं जीवांतरमहमिति भ्रांत्या सोपाधिना चैतन्यपरिणामेन परिणमन् तस्य सोपाधिचैतन्यपरिणामत्वरूपस्यात्मभावस्य कर्ता स्यात् । ततः स्थितं कर्तृत्वमूलमज्ञानं । एवं पराणिदव्वाणि अप्पयं कुणदि मंदबुद्धीओ। अपागं अवि य परं करेदि अण्णाणभावेण ॥१०३॥ व/पराणि द्रव्याणि आत्मानं करोति मंदबुद्धिस्तु । आत्मानमपि च परं करोति अज्ञानभावेन ॥१०३॥ वाभक्ति एवं एवं पूर्वोक्तगाथाद्वयकथितप्रकारेण पराणि दव्वाणि अप्पयं कुणदि क्रोधोहसीत्यादिवस्तिकायोहमित्यादिवच्च क्रोधादिस्वकीयपरिणामरूपाणि तथैव धर्मास्तिकायादिज्ञेयरूपाणि परद्रव्याणि आत्मानं करोति । सः कः कर्ता मंदबुद्धीओ मंदबुद्धिनिर्विकल्पसमाधिलक्षणभेदविज्ञानरहितः अप्पाणं अवि यं परं करेदि शुद्धबुद्धकस्वभावमात्मानमपि च परं स्वस्वरूपाद्भिन्नं करोति रागादिषु योजयतीत्यर्थः । केन अण्णाणभावेण अज्ञानभावेनेति । ततः स्थितं क्रोधादिविषये भूताविष्टदृष्टांतेन धर्मादिज्ञेयविषये ध्यानाविष्ठदृष्टांतेनैव शुद्धात्मसंवित्यभावरूपमज्ञानं कर्मकर्तृत्वस्य कारणं भवति । तद्यथा-यथा कोपि पुरुषो भूतादिग्रहाविष्टो भूतात्मनोभ॑दमजानन् सन्मानुषोचितशिलास्तंभचालनादिकमद्भुतव्यापारं कुर्वन्सन् तस्य व्यापारस्य कर्ता भवति । तथा जीवोपि वीतरागपरमसामायिकपरिणतशुद्धोपयोगलक्षणभेदज्ञानाभावात्कामक्रोधादिशुद्धात्मनोईयोर्भेदमजानन् क्रोधोहं कामोहमित्यादिविकल्पं कुर्वन्सन् कर्मणः कर्ता भवति । एवं क्रोधादिविषये भूताविष्टदृष्टांतो गतः । तथैव च यथा कश्चिद् महामहिषादिध्यानाविष्टो महिषाद्यात्मनोयो दमजानन्महामहिषोहं गरुडोहं कामदेवोहमग्निरहं दुग्धधारासमानामृतराशिरहमित्याद्यात्मविकल्पं कुर्वाणः सन् तस्य विकल्पस्य कर्ता भवति । तथा च जीवोपि सुखदुःखादिसमताभावनापरिणतशुद्धोपयोगलक्षणभेदज्ञानाभावाद्धर्मादिज्ञेयपदार्थानां शुद्धात्मानश्च भेदमजानन् धर्मास्तिकायोहमित्याद्यात्मविकल्पं करोति, तस्यैव विकल्पस्य कर्ता भवति । तस्मिन् विकल्पकर्तृत्वे सति द्रव्यकर्मबंधो भवतीति । एवं धर्मास्तिकायादिज्ञेयपदार्थविषये ध्यानदृष्टांतो गतः । हे भगवन् धर्मास्तिकायोयं जीवोयमित्यादिशेयतत्त्वविचारविकल्पे क्रियमाणे यदि कर्मबंधो भवतीति तर्हि ज्ञेयतत्त्वविचारो वृथेति न कर्तव्यः । नैवं वक्तव्यं । त्रिगुप्तिपरिणतनिर्विकल्पसमाधिकाले यद्यपि न कर्तव्यस्तथापि तस्य त्रिगुप्तिध्यानस्याभावे शुद्धात्मानमुपादेयं कृत्वा आगमभाषया तु मोक्षमुपादेयं कृत्वा सरागसम्यक्त्वकाले विषयकषायवंचनार्थ कर्तव्यः । तेन तत्त्वविचारेण मुख्यवृत्त्या पुण्यबंधो भवति परंपरया निर्वाणं च भवतीति नास्ति दोषः । किंतु तत्र तत्त्वविचारकाले वीतरागस्वसंवेदनज्ञानपरिणतः शुद्धात्मा साक्षादुपादेयः कर्तव्यः इति ज्ञातव्यं । ननु वीतरागस्वसंवेदनविचारकाले वीतरागविशेषणं किमिति क्रियते प्रचुरेण भवद्भिः। किं Page #60 -------------------------------------------------------------------------- ________________ ५८ सनातनजनग्रंथमालायांसरागमपि स्वसंवेदनज्ञानमस्तीति ? अनोत्तरं । विषयसुखानुभवानंदरूपं स्वसंवेदनज्ञानं सर्वजनप्रसिद्ध सरागमप्यस्ति । शुद्धात्मसुखादिभूतिरूपं स्वसंवेदनज्ञानं वीतरागमिति । इदं व्याख्यानं स्वसंवेदनज्ञानव्याख्यानकाले सर्वत्र ज्ञातव्यमिति भावार्थः । ततः स्थितमेतत् शुद्धात्मानुभूतिलक्षणसम्यग्ज्ञानान्नश्यति कर्मकर्तृत्वं । आत्मख्यातिः-यत्किल क्रोधोहमित्यादिवद्धर्मोहमित्यादिवच्च परद्रव्याण्यात्मीकरोत्यात्मानमणि परद्रव्यीकरोत्येवमात्मा, तदयमशेषवस्तुसंबंधविधुरनिरवधिविशुद्धचैतन्यधातुमयोप्यज्ञानादेव मनिपाधी कृतचैतन्यपरिणामतया तथाविधस्यात्मभावस्य कर्ता प्रतिभातीत्यात्मनो भूताविष्टध्यानाविष्टस्यव.. प्रेरित कर्तृत्वमूलमज्ञानं । तथाहिन्यथा खलु भूताविष्टोऽज्ञानाद्भूतात्मानावेकीकुर्वन्नमानुषोचितविशिष्टचेष्टावष्टंभनिर्भरभयंकरारंभगंभीरामानुषव्यवहारतया तथाविधस्य भावस्य कर्ता प्रतिभाति । तथायमात्माप्यज्ञानादेव भाव्यभावको परात्मानावेकीकुर्वन्नविकारानुभूतिमात्रभावकानुचितविचित्रभाव्यक्रोधादिविकारकरवितचैतन्यपरिणामविकारतया तथाविधस्य भावस्य कर्ता प्रतिभाति । यथा वा परीक्षकाचार्यादेशेन मुग्धः कश्चिन्महिषध्यानाविष्टो ज्ञानान्महिषात्मानावेकीकुर्वन्नात्मन्यभ्रंकषविषाणमहामहिषत्वाध्यासात्प्रच्युतमानुषोचितापवरकद्वारविनिस्सरणतया तथाविधस्य भावस्य कर्ता प्रतिभाति । तथायमात्माप्यज्ञानाद् ज्ञेयज्ञायको परात्मानावेकीकुर्वन्नात्मनि परद्रव्याध्यासान्नोइंद्रिविषयीकृतधर्माधर्माकाशकालपुद्गलजीवांतरनिरुद्धचैतन्यधातुतयतथेंद्रियविषयीकृतरूपिपदार्थतिरोहितकेवलबोधतया मृतककलेवरमूछितपरमामृतविज्ञानघनतया च तथाविधस्य भावस्थ कर्ता प्रतिभाति । ततः स्थितमेतद् ज्ञानानश्यति कर्तृत्वं । एदेण दु सो कत्ता आदा णिच्छयविहिं परिकहिदो। एवं खलु जो जाणदि सो मुंचदि सव्वकत्तित्तं ॥१०४॥ एतेन तु स कर्तात्मा निश्चयविद्भिः परिकथितः । एवं खलु यो जानाति स मुंचति सर्वकर्तृत्वं ॥१०॥ तात्पर्यवृत्तिः-एदेण दु सो कत्ता आदा णिच्छयविहिं परिकहिदो एतेन पूर्वोक्तगाथात्रयव्याख्यानरूपेणाचानभावेन स आत्मा कर्ता भणितः । कैर्निश्चयविद्भिर्निश्चयज्ञैः सर्वज्ञैः । तथाहिवीतरागपरमसामायिकसंयमपरिणताभेदरत्नत्रयस्य प्रतिपक्षभूतेन पूर्वगाथात्रयव्याख्यानप्रकारेणाज्ञानभावेन यदात्मा परिणमति, तदा तस्यैव मिथ्यात्वरागादिरूपस्याज्ञानभावस्य कर्ता भवति । ततश्च द्रव्यकर्मबंधो भवति । यदा तु चिदानंदैकस्वभावशुद्धात्मानुभूतिपरिणामेन परिणमति, तदा सम्यग्ज्ञानी भूत्वा मिथ्यात्वरागादिभावकर्मरूपस्याज्ञानभावस्य कर्ता न भवति । तत्कर्तृत्वाभावपि द्रव्यकर्मबंधोपि न भवति । एवं खलु जो जाणदि सो मुंचदि सबकत्तित्तं एवं गाथापूर्वार्द्धव्याख्यानप्रकारेण मनसि योसौ वस्तुस्वरूपं जानाति स सरागसम्यग्दृष्टिः सन्नशुभकर्मकर्तृत्वं मुंचति । निश्चयचारित्राविनाभाविवीतरागसम्यग्दृष्टिभूत्वा शुभाशुभसर्बकर्मकर्तृत्वं च मुंचति । एवमज्ञानात्कर्म प्रभवति संज्ञानानश्यतीति स्थितं । इत्यज्ञानिसज्ञानिजीवप्रतिपादनमुख्यत्वेन द्वितीयस्थले गाथाषदं गतं । एवं द्विक्रियावादिनिराकरणविशेषव्याख्यानरूपेण द्वादशगाथा गताः । अथ पुनरप्युपसंहाररूपेणैकादशगाथापर्यंतं द्विक्रियावादिनिराकरणविषये विशेषव्याख्यानं करोति । तद्यथा-परभावानात्मा करोतीति यद्व्यवहारिणो वदंति स व्यामोह इत्युपदिशति । . आत्मख्यातिः -- येनायमज्ञानात्परात्मनोरेकत्वविकल्पमात्मनः करोति तेनात्मा निश्चयतः कर्ता प्रतिभाति । यस्त्वेवं जानाति स समस्तं कर्तृत्वमुत्सृजति, ततः स खल्वकर्ता प्रतिभाति । तथाहि-इहायमात्मा किलाज्ञानीसन्नज्ञानादासंसारप्रसिद्धेन मिलितस्वादस्वादनेन मुद्रितभेदसंवेदनशक्तिरनादित एव स्यात् ततः परात्मानावेकत्वेन जानाति ततः क्रोधोहमित्यादिविकल्पमात्मनः करोति ततो निर्विकल्पादकृतकादेकस्माद्विशानघनात्प्रभ्रष्टो वारंवारमनेकविकल्पैः परिणमन् कर्ता प्रतिभाति । ज्ञानी, तु सन् ज्ञाना Page #61 -------------------------------------------------------------------------- ________________ ५९. समयप्राभृतं । त्तदादिप्रसिद्ध्या प्रत्येकस्वादस्वादनेनोन्मुद्रितभेदसंवेदनशक्तिः स्यात् । ततोऽनादिनिधनानवरतस्वदमाननिखिलरसांतरविविक्तात्यंतमधुरचैतन्यैकरसोयमात्मा भिन्नरसाः कषायास्तैः सह यदेकत्वविकल्पकरणं तदज्ञानादित्येवं नानात्वेन परात्मानौ जानाति । ततोऽकृतकमेकं ज्ञानमेवाहं न पुनः कृतकोऽनेकः क्रोधादि - रपीति क्रोधोहमित्यादिविकल्पमात्मनो मनागपि न करोति ततः समस्तमपि कर्तृत्वमपास्यति । ततो नित्यमेवोदासीनावस्थो जानन् एवास्ते । ततो निर्विकल्पोऽकृतक एको विज्ञानघनो भूतोऽत्यंतमकर्ता प्रतिभाति । अज्ञातस्तु सतृणाभ्यवहारकारी ज्ञानं स्वयं किल भवन्नपि रज्यते यः । पीत्वा दधीक्षुमधुराम्लरसातिगृद्ध्या गां दोग्धि दुग्धमिव नूनमसौ रसालं ॥५७॥ अज्ञानान्मृगतृष्णिकां जलधिया धावंति पातुं मृगा अज्ञानात्तमसि द्रवंति भुजगाध्यासेन रज्जौ जनाः । अज्ञानाच्च विकल्पचक्रकरणाद्वातोत्तरंगांब्धिवत् शुद्धज्ञानमया अपि स्वयममी कर्त्री भवत्याकुलाः ॥५८॥ ज्ञानाद्विवेचकतया तु परात्मनार्यो जानाति हंस इव वाः पयसोर्विशेषं । चैतन्यधातुमचलं स सदाधिरूढो जानाति एव हि करोति न किंचनापि ॥१९॥ ज्ञानादेव ज्वलनपयसोरौष्ण्यशैत्यव्यवस्था ज्ञानादेवोल्लसति लवणस्वाद भेदव्युदासः । ज्ञानादेव स्वरसविकसन्नित्यचैतन्यधातोः क्रोधादेश्व प्रभवति भिदा भिंदती कर्तृभावं ॥ ६० ॥ अज्ञानं ज्ञानमप्येवं कुर्वन्नात्मानमंजसा । स्यात्कर्तात्मात्मभावस्य परभावस्य न क्वचित् ॥ ६१ ॥ आत्मा ज्ञानं स्वयं ज्ञानं ज्ञानादन्यत्करोति किं । परभावस्य कर्तात्मा मोहोयं व्यवहारिणां ॥ ६२॥ तथा हि ववहारेण द एवं करेदि घडपडरथाणि दव्वाणि । करणाणि य कम्माण य णोकम्माणीह विविहाणि ॥ १०५ ॥ व्यवहारेण त्वात्मा करोति धेरथान् द्रव्याणि । करणानि च कर्माणि च नोकमा विविधानि ॥ १०५ ॥ तात्पर्यवृत्तिः - बवहारेण दु एवं करेदिण देव्याणि यतो यथा अन्योन्यव्यवहारेणैवं तु पुनः घटपटरथादिबहिर्द्रव्याणीहापूर्वेण करोत्यात्मा करणाणि य कस्मौणि प-पोक म्माणीह विविहाणि तथाभ्यंतरेपि करणाणींद्रियाणि च कर्माणि इह जगति विविधानि कावादिद्रव्यकर्माणीहापूर्वेणाविशेषेण करोतीति मन्यते, ततोस्ति व्यामोह हारिणा । अथ स व्यामोहः सत्यो न भवतीति कथयति । आत्मख्यातिः -- व्यवहारिणां हि यतो यथायमात्मात्मविकल्पव्यापाराभ्यां घटादिपरद्रव्यात्मकं बहिःकर्म कुर्वन् प्रतिभाति ततस्तथा क्रोधादिपरद्रव्यात्मकं च समस्तमंतः कर्मापि करोत्यविशेषादित्यस्ति व्यामोहः । स न सन्— जदि सो परदव्वाणि य करिज्ज णियमेण तम्मओ होज । जा ण तम्मओ तेण सो ण तेसिं हवदि कत्ता ॥ १०६ ॥ यदि स परद्रव्याणि च कुर्यान्नियमेन तन्मयो भवेत् । यस्मान्न तन्मयस्तेन स न तेषां भवति कर्ता ॥ १०६ ॥ तात्पर्यवृत्तिः - ज़दि सो परदव्वाणि य करिज्ज नियमेण तम्मओ होज्ज यदि स आत्मा परद्रव्याणि नियमेनैकांतरूपेण करोति तदा तन्मयः स्यात् जह्मा ण तम्मओ तेण सो ण ते सिंहवदि कत्ता यस्मात्सहजशुद्धस्वाभाविकानंतसुखादिस्वरूपं त्यक्त्वा परद्रव्येन सह तन्मयो न भवति । ततः स १ अत्र आदा इत्यपि पाठः । Page #62 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायां आत्मा तेषां परद्रव्याणामुपादानरूपेणं कर्ता न भवतीत्यभिप्रायः । अथ न केवलमुपादानरूपेण कर्ता न भवति किंतु निमित्तरूपेणापीत्युपदिशति । आत्मख्यातिः– यदि खल्वयमात्मा परद्रव्यात्मकं कर्म कुर्यात् तदा परिणामपरिणामिभावान्यथानुपपत्तेर्नियमेन तन्मयः स्यात् न च द्रव्यांतरमयत्वे द्रव्योच्छेदापत्तेस्तन्मयोस्ति । ततो व्याप्यव्यापकभावेन 1 न तस्य कर्तास्ति । निमित्तनैमित्तकभावेनापि न कर्तास्ति । जीवो ण करेदि घडं व पडं व सेस दव्वे | जोगुवओगा उप्पादगाय सो तेसिं हवदि कत्ता ॥ १०७॥ जीवो न करोति घटं नैव परं नैव शेषकानि द्रव्याणि । योगोपयोगात्पादकौ च तयोर्भवति कर्त्ता ॥ १०७ ॥ तात्पर्यवृत्तिः - जीवो ण करेदि घडं णेव पडं णेव सेसगे दव्वे न केवलमुपादानरूपेण निमित्तरूपेणापि जीवो न करोति घटं न पटं नैव शेषद्रव्याणि । कुत इति चेत् ? नित्यं सर्वकाल कर्मकर्तृत्वाननुषंगात् । कस्तर्हि करोति जोगुत्र ओगा उप्पादगा य आत्मनो विकल्पव्यापाररूपौ विनश्वरौ योगोपयोगावेव तत्रोत्पादकौ भवतः । सो तेसिं हवदि कत्ता सुखदुःखजीवितमरणादिसमताभावनापरिणता भेदरत्नत्रयलक्षणभेदविज्ञानाभावाद्यदा काले शुद्धबुद्धैकस्वभावात्परमात्मस्वरूपाद्भ्रष्टो भवति तदा स जीवस्तयोर्योगोपयोगयोः कदाचित्कर्ता भवति । न सर्वदा । अत्र योगशब्देन बहिरंगहस्तादिव्यापारः उपयोगशब्देन चांतरंगविकल्पो गृह्यते । इति परंपरया निमित्तरूपेण घटादिविषये जीवस्य कर्तृत्वं स्यात् यदि पुनः मुख्यवृत्त्या निमित्तकर्तृत्वं भवति तर्हि जीवस्य नित्यत्वात् सर्वदैव कर्मकर्तृत्वप्रसंगात् मोक्षाभावः । इति व्यवहारव्याख्यानमुख्यत्वेन गाथात्रयं गतं । अथ वीतरागस्वसंवेदनज्ञानी ज्ञानस्यैव कर्ता न च परभावस्येति कथयति । आत्मख्यातिः -- यत्किल घटादि क्रोधादि वा परद्रव्यात्मकं कर्म तदयमात्मा तन्मयत्वानुषंगाद् व्याप्यव्यापकभावेन तावन्न करोति नित्यकर्तृत्वानुषंगान्निमित्तनैमित्तकभावेनापि न तत्कुर्यात् । अनित्यौ योगोपयोगावेव तत्र निमित्तत्वेन कर्त्तारौ योगोपयोगयोस्त्वात्माविकल्पव्यापारयोः कदाचिदज्ञानेन करणादात्मापि कर्तास्तु तथापि न परद्रव्यात्मक कर्मकर्ता स्यात् । ज्ञानी ज्ञानस्यैव कर्ता स्यात् । जे पुग्गलदव्वाणं परिणामा होंति णाणआवरणा । ण करेदि ताणि आदा जो जाणदि सो हवदि णाणी ॥ १०८ ॥ ये पुद्गलद्रव्याणां परिणामा भवंति ज्ञानावरणानि । न करोति तान्यात्मा यो जानाति स भवति ज्ञानी ॥ १०८ ॥ तात्पर्यवृत्तिः - जे पुग्गलदव्वाणं परिणामा होंति णाणआवरणा ये कर्मवर्गणायोग्यपुद्गलपरिणामाः पर्याया ज्ञानावरणादिद्रव्यकर्मरूपा भवंति ण करेदि ताणि आदा तान् पर्यार्यान् व्याप्यव्यापकभावेन मृत्तिकाकलशमिवात्मा न करोति गोरसाध्यक्षवत् जो जाणदि सां हवदि णाणी इति यो जानाति मिथ्यात्वविषयकषायपरित्यागं कृत्वा निर्विकल्पसमाधौ स्थितः सन् स ज्ञानी भवति । न च परिज्ञानमात्रेण । इदमत्र तात्पर्यं । वीतरागस्वसंवेदनज्ञानी जीवः शुद्धनयेन शुद्धोपादानरूपेण शुद्धज्ञानस्यैव कर्ता । किंवदिति चेत्। पीतत्वादिगुणानां सुवर्णवत् उष्णादिगुणानामग्निवत् अनंतज्ञानादिगुणानां सिद्धपरमेष्ठिवदिति । न च मिथ्यात्वरागादिरूपस्याज्ञानभावस्य कर्तेति शुद्धोपादानरूपेण शुद्धज्ञानादिभावनामशुद्धोपादानरूपेण मिथ्यात्वरागादिभावनां च तद्रूपेण परिणमन्नेव कर्तृत्वं ज्ञातव्यं । भोक्तृत्वं च न च हस्तव्यापारवादीहापूर्वकं Page #63 -------------------------------------------------------------------------- ________________ समयप्राभृतं । घटकुंभकारवदिति । एवमेव च ज्ञानावरणपदपरिवर्तनेन दर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रीतरायसंज्ञैः सप्तभिः कर्मभेदैः सह मोहरागद्वेषक्रोधमानमायालोभनोर्कममनोवचनकायश्रोत्रचक्षुर्घाणरसनस्पर्शनसूत्राणि षोडश व्याख्येयानि । अनेन प्रकारेण शुद्धात्मानुभूतिविलक्षणा असंख्येयलोकमात्रप्रमिता अन्येपि विभावपरिणामा ज्ञातव्याः । अथाज्ञानी चापि रागादिस्वरूपस्याज्ञानभावस्यैव कर्ता न च ज्ञानावरणादिपरद्रव्यस्येति निरूपयति । ___ आत्मख्यातिः-ये खलु पुद्गलद्रव्याणां परिणामा गोरसव्याप्तदधिदुग्धमधुराम्लपरिणामवत्पुद्गलद्रव्यव्याप्तत्वेन भवंतो ज्ञानावरणानि भवंति तानि तटस्थगोरसाध्यक्ष इव न नाम करोति ज्ञानी किंतु यथा स गोरसाध्यक्षस्तदर्शनमात्मव्याप्तत्वेन प्रभवढ्याप्य पश्यत्येव तथा पुद्गलद्रव्यपरिणामनिमित्तं ज्ञानमात्मव्याप्यत्वेन प्रभवद्व्याप्य जानात्येव ज्ञानी ज्ञानस्यैव कर्ता स्यात् । एवमेव च ज्ञानावरणपदपरिवर्तनेन कर्मसूत्रस्य विभागेनोपन्यासाद्दर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रांतरायसूत्रः सप्तभिः सह मोहरागद्वेषक्रोधमानमायालोभनोकर्ममनोवचनकायश्रोत्रचक्षुर्घाणरसनस्पर्शनसूत्राणि षोडश व्याख्ययानि । अनयादिशान्यान्यप्यूह्यानि । अज्ञानी चापि परभावस्य न कर्ता स्यात् । जं भावं सुहमसुहं करेदि आदा स तस्स खलु कत्ता । तं तस्स होदि कम्मं सो तस्स दु वेदगो अप्पा ॥१०९॥ यं भावं शुभमशुभं करोत्यात्मा स तस्य खलु कर्ता । तत्तस्य भवति कर्म स तस्य तु वेदक आत्मा ॥१०९॥ तात्पर्यवृत्तिः-जं भावं सुहममुहं करेदि आदा स तस्स खलु कत्ता सातासातोदयावस्थाभ्यां तीव्रमंदस्वादाभ्यां सुखदुःखरूपाभ्यां वा चिदानंदैकस्वभावेनैकस्याप्यात्मनो द्विधाभेदं कुर्वाणः सन् यं भावं शुभमशुभं वा करोत्यात्मनः स्वतंत्ररूपेण व्यापकत्वात्स तस्य भावस्य खलु स्फुटं कर्ता भवति तं तस्स होदि कम्मं तदेव तस्य शुभाशुभरूपं भावकर्म भवति । तेनात्मना क्रियमाणत्वात् सो तस्स दु वेदगो अप्पा स आत्मा तस्य तु शुभाशुभरूपस्य भावकर्मणो वेदको भोक्ता भवति स्वतंत्ररूपेण भोक्तृत्वात् न च द्रव्यकर्मणः । किं च विशेषः । अज्ञानी जीवो शुद्धनिश्चयनयेनाशुद्धोपादानरूपेण मिथ्यात्वरागादिभावानामेव कर्ता न च द्रव्यकर्मणः स चाशुद्धनिश्चयः । यद्यपि द्रव्यकर्मकर्तृत्वरूपासद्भूतव्यवहारापेक्षया निश्चयसंज्ञां लभते तथापि शुद्धनिश्चयापेक्षया व्यवहार एव । हे भगवन् रागादीनामशुद्धोपादानरूपेण कर्तृत्वं भणितं तदुपादानं शुद्धाशुद्धभेदेन कथं द्विधा भवतीति । तत्कथ्यते।औपाधिकमुपादानमशुद्धं तप्तायःपिंडवत् , निरुपाधिरूपमुपादानं शुद्ध पीतत्वादिगुणानां सुवर्णवत् अनंतज्ञानादिगुणानां सिद्धजीववत् उष्णत्वादिगुणानामग्निवत् । इदं व्याख्यानमुपादानकारणव्याख्यानकाले शुद्धाशुद्धोपादानरूपेण सर्वत्र स्मरणीयमिति भावार्थः । अथ न च परभावः केनाप्युपादानरूपेण कर्तुं शक्यते । ___आत्मख्याति:- इह खल्वनादेरज्ञानात्परात्मनोरेकत्वाध्यानेन पुद्गलकर्मविपाकदशाभ्यां मंदतीव्रस्वादाभ्यामचलितविज्ञानघनैकस्वादस्याप्यात्मनः स्वादं भिंदानः शुभमशुभं वा योयं भावमज्ञानरूपमात्मा करोति स आत्मा तदा तन्मयत्वेन तस्य भावस्य भावकत्वाद्भवत्यनुभविता, स भावोपि च तदा तन्मयत्वेन तस्यात्मनो भाव्यत्वात् भवत्यनुभाव्यः । एवमज्ञानी चापि परभावस्य न कर्ता स्यात् । न च परभावः केनापि कर्तु पार्येत ।। जो जहि गुणो दवे सो अण्ण दु ण संकमदि दब्बे । सो अण्णमसंकेतो कह तं परिणामए दव्वं ॥११०॥ यो यस्मिन् गुणो द्रव्ये सोन्यस्मिंस्तु न संक्रामति द्रव्ये । सोन्यदसंक्रांतः कथं तत्परिणामयति द्रव्यं ॥११०॥ Page #64 -------------------------------------------------------------------------- ________________ सनातन जैनग्रंथमालायां तात्पर्यवृत्तिः - जो जह्नि गुणो दव्वे सो अण्ण दु ण संकमदि दव्वे यो गुणश्चेतनस्तथैवाचेतनो वा यस्मिंश्चेतनाचेतने द्रव्ये अनादिसंबंधेन स्वभावत एव स्वत एव प्रवृत्तः सोऽन्यद्रव्ये तु न संक्रमत्येव सोपि सो अण्णमसंकतो कह तं परिणामए दव्वं स चेतनोऽचेतनो वा गुणः कर्ता अन्यद्भिन्नं द्रव्यांतरमसंक्रांतः सन् कथं द्रव्यांतरं परिणामयेत्तत्कथं कुर्यादुपादानरूपेण न कथमपि । ततः स्थितं आत्मा पुद्गलकर्मणामकर्तेति । ६२ आत्मख्यातिः - इह किल यो यावान् कश्चिद्वस्तुविशेषो यस्मिन् यावति कस्मिंश्चिच्चिदात्मन्यचिदात्मनि वा द्रव्ये गुणे च स्वरसत एवानादित एव वृत्तः स खल्वचलितस्य वस्तुस्थितिसीम्नो भेत्तुमशक्यत्वात्तस्मिन्नेव वर्तर्ते न पुनः द्रव्यांतरं गुणांतरं वा संक्रामेत । द्रव्यांतरं गुणांतरं वाऽसंक्रामंश्च कथं त्वन्यं वस्तुविशेषं परिणाम - येत् । अतः परभावः केनापि न कर्तु पार्येत । अतः स्थितः खल्वात्मा पुद्गलकर्मणामकर्ता । दव्वगुणस्स य आदा ण कुणदि पुग्गलमय कम्मल । तं उभयमकुव्वतो न कहं तस्स सो कत्ता ॥ १११ ॥ द्रव्यगुणस्य चात्मा न करोति पुद्गलमये कर्मणि । तदुभयमकुर्वस्तस्मिन्कथं तस्य स कर्त्ता ॥ १११ ॥ तात्पर्यवृत्तिः - दव्बगुणस्स य आदा ण कुणदि पुगलमय कम्ममि यथा कुंभकारः कर्ता मृन्मयकलशकर्मविषये मृत्तिकाद्रव्यस्य संबंधि जडस्वरूपं वर्णादिमृत्तिककलशमिव तन्मयत्वेन करोति तथात्मापि पुद्गलमयद्रव्यकर्मविषये पुद्गलद्रव्यकर्मसंबंधिजडस्वरूपं वर्णादिपुद्गलद्रव्यगुणसंबंधिस्वरूपं वा तन्मयत्वेन न करोति तं उभयमकुव्वंतो तद्मि कहं तस्स सो कत्ता तदुभयमपि पुद्गल - द्रव्यकर्मस्वरूपं वर्णादितदूगुणं वा तन्मयत्वेनाकुर्वाणः सन् तत्र पुद्गलकर्मविषये स जीवः कथं कर्ता भवति न कथमपि । चेतनाचेतनेन परस्वरूपेण न परिणमतीत्यर्थः । अनेन किमुक्तं भवति यथा स्फटिको निर्मलोपि जपापुष्पादिपरोपाधिना परिणमति तथा कोपि सदाशिवनामा सदामुक्तोप्यमूर्तोपि परोपाधिना परिणम्य जगत् करोति तं निरस्तं । कस्मादिति चेत् । मूर्त्तस्फटिकस्य मूर्त्तेन सहोपा घिसंबंधो घटते तस्य पुनः सदामुक्तस्यामूर्तस्य कथं मूर्तोपाधि: ? न कथमपि सिद्धजीववत् । अनादिबंधजीवस्य पुनः शक्तिरूपेण शुद्धनिश्वयेनामूर्तस्यापि व्यक्तिरूपेण व्यवहारेण मूर्तस्य मूर्तोपाधिदृष्टांतो घटत इति भावार्थ: । एवं निश्चयनयमुख्यत्वेनगाथाचतुष्टयं गतं । अतः कारणादात्मा द्रव्यकर्म करोतीति यदभिधीयते स उपचारः । आत्मख्यातिः: - यथा खलु मृन्मये कलशकर्माणि मृद्रव्यमृद्गुणयोः स्वरसत एव वर्तमाने द्रव्यगुणांतरसंक्रमस्य वस्तुस्थित्यैव निषिद्धत्वादात्मानमात्मगुणं वा नाधत्ते स कलशकारः द्रव्यांतरसंक्रममंतरेणा. न्यस्य वस्तुनः परिणमयितुमशक्यत्वात् तदुभयं तु तस्मिन्ननादधानो न तत्त्वतस्तस्य कर्ता प्रतिभाति । तथा पुद्गलमयज्ञानावरणादौ कर्मणि पुद्गलद्रव्यपुद्गलगुणयोः स्वरसतएव वर्तमाने द्रव्यगुणांतरसंक्रमस्य विधातुमशक्यत्वादात्मद्रव्यमात्मगुणं वात्मा न खल्वाधत्ते । द्रव्यांतरसंक्रममंतरेणान्यस्य वस्तुनः परिणमयितुमशक्यत्वात्तदुभयं तु तस्मिन्ननादधानः कथं तु तत्त्वतस्तस्य कर्ता प्रतिभायात् । ततः स्थितः खल्वात्मा पुद्गलकर्मणामकर्त्ता । अतोन्यस्तूपचारः । जीव हेदुभूदे बंधस्स दु परिसदूण परिणामं । जीवेण कदं कम्मं भणदि उवयारमत्तेण ॥ ११२ ॥ जीवे हेतुभूते बंधस्य तु दृष्ट्वा परिणामं । जीवन कृतं कर्म भण्यते उपचारमात्रेण || ११ || Page #65 -------------------------------------------------------------------------- ________________ समयप्राभूतं । तात्पर्यवृत्तिः - जीवम्हि हेदुभूदे बंधस्स दु पस्सिदूण परिणामं परमोपेक्षसंयमभावनापरिणताभेदरनत्रयलक्षणस्य भेदज्ञानस्याभावे मिध्यात्वरागादिपरिणतिनिमित्तहेतुभूते जीवे सति मेघाडंबरचंद्रार्कपरिवेषादियोग्यकाले निमित्तभूते सति मेघेंद्रचापादिपरिणतपुद्गलानामिव कर्मवर्गणायोग्यपुद्गलानां ज्ञानावरणादिरूपेण द्रव्यकर्मबंधस्य परिणामं पर्यायं दृष्ट्वा जीवेण कदं कम्मं भण्णदि उवयारमत्तेण जीवेन कृतं कर्मेति भण्यते उपचारमात्रेणेति । अथ तदेवोपचारकर्मकर्तृत्वं दृष्टांतदाष्टताभ्यां दृढयति । ६३ आत्मख्यातिः - इह खलु पौद्गलिककर्मणः स्वभावादनिमित्तभूतेप्यात्मन्यनादेरज्ञानात्तन्निमित्तभूतेनाज्ञानभावेन परिणमनान्निमित्तीभूते सति संपद्यमानत्वात् पौद्गलिकं कर्मात्मनाकृतमिति निर्विकल्प - विज्ञानघनभ्रष्टानां विकल्पपराणां परेषामस्ति विकल्पः । स तूपचारएव न तु परमार्थः । कथं इति चेत् । जोधेहि कदे जुद्धे राएण कदंति जं पदे लोगो । तह ववहारेण कदं णाणावरणादि जीवेण ॥ ११३॥ योधैः कृते युद्धे राज्ञाकृतमिति जल्पते लोकः । व्यवहारेण तथा कृतं ज्ञानावरणादि जीवेन ॥ १९३॥ तात्पर्यवृत्तिः - जोधेहि कदे जुड़े राएण कदंति जंपदे लोगो यथा योधैः युद्धे कृते सति राज्ञा युद्धं कृतमिति जल्पति लोकः । तह बवहारेण कदं णाणावरणादि जीवेण तथा व्यवहारनयेन कृतं भण्यते ज्ञानावरणादिकर्म जीवेनेति । ततः स्थितमेतत् । यद्यपि शुद्धनिश्चयनयेन शुद्धबुद्धैकस्वभावत्वान्नोत्पादयति न करोति न वध्नाति न परिणमयति न गृह्णाति च तथापि । आत्मख्यातिःतेः --- यथा युद्धपरिणामेन स्वयं परिणममानैः योधैः कृते युद्धे युद्धपरिणामेन स्वयमपरिणममानस्य राज्ञो राज्ञा किल कृतं युद्धमित्युपचारो न परमार्थः । तथा ज्ञानावरणादिकर्मपरिणामेन स्वयं परिणममानेन पुद्गलद्रव्येण कृते ज्ञानावरणादिकर्माणि ज्ञानावरणादिकर्मपरिणामेन स्वयमपरिणममानस्यात्मनः किलात्मना कृतं ज्ञानावरणादिकर्मेत्युपचारो न परमार्थः । अत एतत्स्थितं । उप्पादेदि करेदि य बंधदि परिणामपदि गिण्हदि य । आदा पुग्गलदव्वं ववहारणयस्स वत्तव्वं ॥ ११४॥ उत्पादयति करोति च बध्नाति परिणमयति गृह्णाति च । आत्मा पुद्गलद्रव्यं व्यवहारनयस्य वक्तव्यं ॥ ११४|| तात्पर्यवृत्तिः—अनादिबंधपर्यायवशेन वीतरागस्वसंवेदनलक्षणभेदज्ञानाभावात् रागादिपरिणामस्निग्धः सन्नात्मा कर्मवर्गणायोग्यपुद्गलद्रव्यं कुंभकारो घटमिव द्रव्यकर्मरूपेणोत्पादयति करोति स्थितिबंधं वनात्यनुभागबंधं परिणमयति प्रदेशबंधं तप्तायः पिंडो जलवत्सर्वात्मप्रदेशैर्गृह्णाति चेत्यभिप्रायः । अथैतदेवव्याख्यानं दृष्टांतदाताभ्यां समर्थयति । आत्मख्यातिः - अयं खल्वात्मा न गृह्णाति न परिणमयति नोत्पादयति न करोति न बध्नाति व्याप्यव्यापकभावाभावात् । प्राप्यं विकार्यं निर्वर्त्यं च पुद्गलद्रव्यात्मकं कर्म यत्तु व्याप्यव्यापकभावाभावेपि प्राप्यं विकार्य निर्वर्यं च पुद्गलद्रव्यात्मकं कर्म गृह्णाति परिणमयत्युत्पादयति करोति बध्नाति वात्मेति बिकल्पः स किलोपचारः । कथमिति चेत् । जह राया ववहारा दोसगुणुप्पादगोति आलविदो । तह जीवो ववहारा दव्वगुणुप्पादगो भणिदो ॥११५॥ Page #66 -------------------------------------------------------------------------- ________________ समातनजनग्रंथमालायायया राजा व्यवहारादोषगुणोत्पादक इत्यालपितः । तथा जीवो व्यवहाराद्रव्यगुणोत्पादको भणितः ॥१५॥ तात्पर्यवृत्तिः-जह राया ववहारा दोसगुणुप्पादगोत्ति आलविदो यथा राजा लोके व्यवहारेण सदोषिनिर्दोषिजनानां दोषगुणोत्पादको भणितः तह जीवो ववहारा दव्वगुणुप्पादगो भणिदो तथा जीवोपि व्यवहारेण पुद्गलद्रव्यस्य पुण्यपापगुणयोरुत्पादको भणितः । इति व्यवहारमुख्यत्वेन सूत्रचतुष्टयं गतं । एवं द्विक्रियावादिनिराकरणोपसंहारव्याख्यानमुख्यत्वेनैकादशगाथा गताः। ननु निश्चयेन द्रव्यकर्म न करोत्यात्मा वहुधा व्याख्यातं तेनैव द्विक्रियावादिनिराकरणं सिद्धं पुनरपि किमर्थं पिष्टपेषणमिति । नैवं हेतुहेतुमद्भावव्याख्यानज्ञापनार्थमिति नास्ति दोषः । तथाहि-यत एव हेतोनिश्चयेन द्रव्यकर्म न करोति ततएव हेतोििक्रयावादिनिराकरणं सिद्ध्यतीति हेतुमद्भावव्याख्यानं ज्ञातव्यं । इति पुण्यपापादिसप्तपदार्थपीठिकारूपे महाधिकारमध्ये पूर्वोक्तप्रकारेण जदि सो पुग्गलदव्वं करेज इत्यादिगाथाद्वयेन संक्षेपव्याख्यानं । ततः परं द्वादशगाथाभिस्तस्यैव विशेषव्याख्यानं ततोप्येकादशगाथाभिस्तस्यैवोपसंहाररूपेण पुनरपि विशेषविवरणमिति समुदायेन पंचविंशतिगाथाभिः द्विक्रियावादिनिषेधकनामा तृतीयोत्तराधिकारः समाप्तः। . अथानंतरं सामण्णपच्चया इत्यादिगाथामादिं कृत्वा पाठक्रमेण सप्तगाथापर्यंतं मूलप्रत्ययचतुष्टयस्य कर्मकर्तृत्वमुख्यत्वेन व्याख्यानं करोति । तत्र सप्तकमध्ये जैनमते शुद्धनिश्चयेन शुद्धोपादानरूपेण जीवः कर्म न करोति प्रत्यया एव कुर्वतीति कथनरूपेण गाथाचतुष्टयं । अथवा शुद्धनिश्चयविवक्षां ये नेच्छंत्येकांतेन जीवो न करोतीति वदंति सांख्यमतानुसारिणः तान्प्रति दूषणं ददाति । कथमिति चेत् । यदि ते प्रत्यया एव कर्म कुर्वति तर्हि जीवो न हि वेदकस्तेषां कर्मणामित्येकं दूषणं । अथवा तेषां मते जीव एकांतेन कर्म न करोतीति द्वितीयं दूषणं । तदनंतरं शुद्धनिश्चयेन शुद्धोपादानरूपेण न च जीवप्रत्यययोरेकत्वं जैनमताभिप्रायेणेति गाथात्रयं । अथवा पूर्वोक्तप्रकारेण ये नयविभाग नेच्छंति तान्प्रति पुनरपि दूषणं । कथमिति चेत् । जीवप्रत्यययोरेकांतेनैकत्वे सति जीवाभाव इत्येकं दूषणं । एकांतेन भिन्नत्वे सति संसाराभाव इति द्वितीयं दूषणमिति चतुर्थांतराधिकारे समुदायपातनिका । तद्यथा-निश्चयेन मिथ्यात्वादि पौद्गलिकप्रत्यया एव कर्म कुर्वतीति प्रतिपादयति । आत्मख्याति:-यथा लोकस्य व्याप्यव्यापकभावेन स्वभावत एवोत्पद्यमानेषु गुणदोषेषु व्याप्यव्यापकभावाभावेपि तदुत्पादको राजेत्युपचारः । तथा पुद्गलद्रव्यस्य व्याप्यव्यापकभावेन स्वभावत एवोत्पद्यमानेषु गुणदोषेषु व्याप्यव्यापकभावाभावेपि तदुत्पादको जीव इत्युपचारः । जीवः करोति यदि पुद्गलकर्म नैव कस्तर्हि तत्कुरुत इत्यभिशंकयैव । एतर्हि तीव्ररयमोहनिवर्हणाय संकीर्त्यते शृणुत पुद्गलकर्मकर्तृ ॥६३॥ सामण्णपञ्चया खलु चउरो भण्णंति बंधकत्तारो। मिच्छत्तं अविरमणं कसायजोगा य बोद्धव्वा ॥११६॥ तेसिं पुणोवि य इमो भणिदो भेदो दुतेरसवियप्पो । मिच्छादिठ्ठीआदी जाव सजोगिस्स चरमंतं ॥११७॥ एदे अचेदणा खलु पुग्गलकम्मुदयसंभवा जमा । ते जदि करंति कम्मं णवि तेसिं वेदगो आदा ॥११८॥ Page #67 -------------------------------------------------------------------------- ________________ समयप्राभृतं । गुणसणिदा दु एदे कम्मं कुव्वंति पश्चया जह्मा । तझा जीव कत्ता गुणा य कुव्वंति कम्माणि ॥ ११९ ॥ सामान्यप्रत्ययाः खलु चत्वारो भण्यंते बंधकर्त्तारः । मिथ्यात्वमत्रिरमणं कषाययोगौ च बोद्धव्याः ॥ ११६ ॥ तेषां पुनरपि चायं भणितो भेदस्तु त्रयोदशविकल्पः । मिथ्यादृष्ट्यादिर्यावत्स योगिनःश्वरमांतः ॥११७॥ एते अचेतनाः खलु पुद्गलकर्मोदय संभवा यस्मात् । यदि कुर्वेति कर्म नापि तेषां वेदक आत्मा ॥ ११८ ॥ गुणसंज्ञितास्तु ते कर्म कुर्वेति प्रत्यया यस्मात् । तस्माज्जीवो कर्त्ता गुणाश्च कुर्वति कर्माणि ॥ ११९ ॥ 1 तात्पर्यवृत्तिः -- सामण्णपच्चया खलु चउरो भांति बंधकत्तारो निश्चयनयेनाभेदविवक्षार्या पुद्गल एक एव कर्ता भेदविवक्षायां तु सामान्यप्रत्यया मूलप्रत्यया खलु स्फुटं चत्वारो बंधस्य कर्तारो भण्यंते सर्वज्ञैः : उत्तरप्रत्ययाश्च पुनर्बहवो भवंति । सामान्यं कोर्थः । विवक्षाया अभाव: सामान्यमिति सामान्यशब्दस्यार्थः सर्वत्र सामान्यव्याख्यानकाले ज्ञातव्य इति । मिच्छत्तं अविरमणं कसायजोगा य बोद्धव्वा ते च मिथ्यात्वाविरतिकषाययोगा वोद्धव्याः । अथ - तेसिं पुणो वि य इमो भणिदो भेदो दु तेरस - वियग्प्पो तेषां प्रत्ययानां गुणस्थानभेदेन पुनरिमो भणितो भेदस्त्रियोदशविकल्पः केन प्रकारेण मिच्छादिठ्ठी आदी जावसजोगिस्स चरमंतं मिथ्यादृष्टिगुणस्थानादिसयोगिभट्टारकस्य चरमसमयं यावदिति । अथ एदे अदणा खलु पुग्गलकम्मुदयसंभवा जह्मा एते मिथ्यात्वादिभावप्रत्ययाः शुद्धनिश्चयेनाचेतनाः खलु स्फुटं। कस्मात् पुद्गलकर्मोदयसंभवा यस्मादिति । यथा स्त्रीपुरुषाभ्यां समुत्पन्नः पुत्रो विवक्षावशेन देव - दत्तायाः पुत्रोयं केचन वदंति । देवदत्तस्य पुत्रोयमिति केचन वदंति दोषो नास्ति । तथा जीवपुद्गलसंयोगेनोत्पन्नाः मिथ्यात्वरागादिभावप्रत्यया अशुद्धनिश्चयेनाशुद्धोपादानरूपेण चेतना जीवसंबद्धाः शुद्धनिश्चयेन शुद्धोपादानरूपेणाचेतनाः पौद्गलिकाः परमार्थतः । पुनरेकांतेन न जीवरूपाः न च पुद्गलरूपाः शुद्धाहरिद्रयोः संयोगपरिणामवत् । वस्तुतस्तु सूक्ष्मशुद्धनिश्चयनयेन न संत्येवाज्ञानोद्भवाः कल्पिता इति । एतावता किमुक्तं भवति । ये केचन वदंत्येकांतेन रागादयो जीवसंबंधिनः पुद्गलसंबंधिनो वा तदुभयमपि वचनं मिथ्या । कस्मादिति चेत् पूर्वोक्तस्त्रीपुरुषदृष्टांतेन संयोगोद्भवत्वात् । अथ मतं सूक्ष्मशुद्धनिश्चयनयेन कस्येति प्रयच्छामो वयं सूक्ष्मशुद्धनिश्चयेन तेषामस्तित्वमेव नास्ति पूर्वमेवभणितं तिष्ठति कथमुत्तरं प्रयच्छामः इति । 1 दि कति कम्मं ते प्रत्यया यदि चेत् कुर्वति कर्म तदा कुर्युरेव जीवस्य किमायातं शुद्धनिश्चयेन सम्मतमेव ‘सव्वे सुद्धा हु सुद्धणया' इति वचनात् । अथमतं । जीवो मिथ्यात्वोदयेन मिथ्यादृष्टिर्भूत्वा मिथ्यात्वरागादिभावकर्म भुंक्ते यतस्ततः कर्तापि भवतीति । नैवं । णवि तेसिं वेदगो आदा यतः शुद्धनिश्चयेन वेदकोपि न हि तेषां कर्मणां । यदा वेदको न भवति तदा कर्त्तापि कथं भविष्यति न कथमपि इति शुद्धनिश्चयेन सम्मतमेव । अथवा ये पुनरेकांतेनाकर्त्तेति वदंति तान्प्रति दूषणं कथमिति चेत् ? यदैकांतेनाकर्ता भवति तदा यथा शुद्धनिश्चयेनाकर्ता तथा व्यवहारेणप्यकर्ता प्राप्नोति । ततश्च सर्वथैवाकर्तृत्वे सति संसाराभाव इत्येकं दूषणं । तेषां मते वेदकोपि न भवतीति द्वितीयं च दूषणं । अथ च वेदकमात्मानं मन्यंते सांख्यास्तेषां स्वमतव्याघातदूषणं प्राप्नोतीति । अथ - गुणसगिदा दु एदे कम्मं कुव्वंति पञ्चवा जह्मा ततः स्थितं गुणस्थानसंज्ञिताः प्रत्ययाः एते कर्म कुर्वतीति यस्मादेवं पूर्वसूत्रेण भणितं । मा जीबो का गुणा य कुव्वति कम्माणि तस्मात् शुद्धनिश्चयेन तेषां कर्मणां जीवः कर्ता न Page #68 -------------------------------------------------------------------------- ________________ ६६. समातनजैनग्रंथमालायां भवति । गुणस्थानसंशिताः प्रत्यया एव कर्म कुर्वतीति सम्मतमेव । एवं शुद्धनिश्चयेन प्रत्यया एव कर्म कुर्वेतीति व्याख्यानरूपेण गाथाचतुष्टयं गतं । अथ न च जीवप्रत्यययारेकत्वमेकांतेनेति कथयति । आत्मख्यातिः - पुद्गलकर्मणः किल पुद्गलद्रव्यमेवैकं कर्तृ तद्विशेषाः मिथ्यात्वाविरतिकषाययोगा बंधस्य सामान्यहेतुतया चत्वारः कर्त्तारः तएव विकल्प्यमाना मिथ्यादृष्ट्या दिसयोगकेवल्यंतास्त्रयोदश कर्त्तारः। अथैते पुद्गलकर्मविपाकविकल्पत्वादत्यंतमचेतनाः संतस्त्रयोदशकर्तारः केवला एव यदि व्याप्यव्यापकभावेन किंचनापि पुद्गलकर्म कुर्युस्तदा कुर्युरेव किं जीवस्यात्रापतितं । अथायं तर्कः । पुद्गलमय मिथ्यात्वादीन् वेदयमानो जीवः स्वयमेव मिध्यादृष्टिर्भूत्वा पुद्गलकर्म करोति स किलाविवेको यतो न खल्वात्मा भाव्यभावकभावाभावात् । पुद्गलद्रव्यमयमिथ्यात्वादिवेदकोपि कथं पुनः पुद्गलकर्मणः कर्ता नाम । अथैतदायातं यतः पुद्गलद्रव्यमयानां चतुर्णी सामन्यप्रत्ययानां विकल्पास्त्रयोदश विशेषप्रत्यया गुणशब्दवाच्याः केवला एव कुर्वेति कर्माणि । ततः पुद्गलकर्मणामकर्ता जीवो गुणा एव तत्कर्तारस्ते तु पुद्गलद्रव्यमेव । ततः स्थितं पुद्गलकर्मणः पुद्गलद्रव्यमेवैकं कर्तृ । न च जीवप्रत्यययोरेकत्वं । जह जीवस्त अणण्णुवओगो कोधो वि तह जदि अणण्णो । जीवस्साजीवरस य एवमणण्णत्तमावण्णं ॥ १२० ॥ एवमिह जो दु जीवो सो चेव दु णियमदो तहाजीवो । अयमेयत्ते दोसो पञ्चयणोकम्मकम्माणं ॥ १२१ ॥ अह पुण अण्णो कोहो अण्णुवओगप्पगो हवदि चेदा । जह कोहो तह पच्चय कम्मं णोकम्ममवि अण्णं ॥ १२२ ॥ यथा जीवस्यानन्य उपयोगः क्रोधोपि तथा यद्यनन्यः । जीवस्य जीवस्य चैवमनन्यत्वमापन्नं ॥ १२० ॥ एवमिह यस्तु जीवः स चैव तु नियमतस्तथाजीवः । अयमेकत्वे दोषः प्रत्ययनोकर्मकर्मणां ॥ १२१ ॥ अथ पुनः अन्यः क्रोधोऽन्यः उपयोगात्मको भवति चेतयिता । यथा क्रोधस्तथा प्रत्ययाः कर्म नोकमप्यन्यत् ॥ १२२॥ तात्पर्यवृत्तिः - जह जीवस्स अणण्णुवओगो यथा जीवस्यानन्यस्तन्मयो ज्ञानदर्शनोपयोगः । कस्मात् अनन्यवेद्यत्वात् अशक्यविवेचनत्वाच्चाग्नेरुष्णत्ववत् कोहो वि तह जदि अणण्णो तथा क्रोधोपि यद्यनन्यो भवत्येकांतेन तदा किं दूषणं जीवस्साजीवस्स य एवमणण्णत्तमावण्णं एवमभेदे सति सहजशुद्धाखंडैकज्ञानदर्शनोपयोगमयजीवस्याजीवस्य चैकत्वमापन्नमिति । अथ-1 - एवमिह जो दु जीवो सो चेव दुमिदो तहाजीव एवं पूर्वोक्तसूत्रव्याख्यानक्रमेण य एव जीवः स एव तथैवाजीवः भवति नियमान्निश्चयात्। तथा सति जीवाभावाद् दूषणं प्राप्नोति । अयमेयत्ते दोसो पच्चयणो कम्मकम्माणं अयमेव च दोषो जीवाभावरूपः। कस्मिन् सति । एकांतेन निरंजन निजानंदै कलक्षणजीवेन सहैकत्वे सति । केषां । मिथ्यात्वादिप्रत्ययनोकर्मकर्मणामिति । अथ-प्राकृतलक्षणबलेन प्रत्ययशब्दस्य हस्वत्वमिति । अह पुण अण्णो are garauni हवदि चेदा अथ पुनरभिप्रायो भवतां पूर्वोक्तजीवाभावदूषण भयात् अन्योभिन्नः क्रोधो जीवादन्यश्च विशुद्धज्ञानदर्शनमय आत्मा क्रोधात्सकाशात् । जह कोहो तह पच्चय कम्मं णोकम्म म अणं यथा जडः क्रोधो निर्मल चैतन्यस्वभावजीवाद्भिन्नस्तथा प्रत्ययकर्म नोकर्माण्यपि भिन्नानि शुद्ध Page #69 -------------------------------------------------------------------------- ________________ समप्रभृतं । निश्चयेन सम्मतएव । किंच शुद्धनिश्वयेन जीवस्याकर्तृत्वमभोक्तृत्वं च क्रोर्घादिभ्यश्च भिन्नत्वं च भवतीति व्याख्याने कृते सति द्वितीयपक्षे व्यवहारेण कर्तृत्वं भोक्तृत्वं च क्रोधादिभ्यश्चाभिन्नत्वं च लभ्यते एव । कस्मात् । निश्चयव्यवहारयोः परस्परसापेक्षत्वात् । कथमिति चेत् । यथा दक्षिणेन चक्षुषा पश्यत्ययं देवदत्तः इत्युक्ते वामेन न पश्यतीत्यनुक्तसिद्धमिति । ये पुनरेवं परस्परसापेक्षनयविभागं न मन्यते सांख्यसदाशिव मतानुसारिणस्तेषां मते यथा शुद्धनिश्चयनयेन कर्ता न भवति क्रोधादिभ्यश्च भिन्नो भवति तथा व्यवहारेणापि । ततश्च क्रोधादिपरिणमनाभावे सति सिद्धानामित्र कर्मबंधाभावः । कर्मबंधाभावे संसाराभावः संसाराभावे सर्वदा मुक्तत्वं प्राप्नोति स च प्रत्यक्षविरोधः संसारस्य प्रत्यक्षेण दृश्यमानत्वादिति । एवं प्रत्ययजीवयोरेकांतेनैकत्वनिराकरणरूपेण गाथात्रयं गतं । अत्राह शिष्यः । शुद्धनिश्चयेनाकर्ता व्यवहारेण कर्तेति बहु व्याख्यातं तत्रैवं सति यथा द्रव्यकर्मणां व्यवहारेण कर्तृत्वं तथा रागादिभावकर्मणां च द्वयोर्द्रव्यभावकर्मणोरेकत्वं प्राप्नोतीति । नैवं । रागादिभावकर्मणां योसौ व्यवहारस्तस्याशुद्धनिश्चयसंज्ञा भवति द्रव्यकर्मणां भावकर्मभिः सह तारतम्यज्ञापनार्थं । कथं तारतम्यमिति चेत् । द्रव्यकर्माण्यचेतनानि भावकर्माणि च चेतनानि तथापि शुद्ध निश्चयापेक्षया अचेतनान्येव । यतः कारणादशुद्ध निश्चयोपि शुद्ध निश्चयापेक्षया व्यव हारएव । अयमत्र भावार्थः । द्रव्यकर्मणां कर्तृत्वं भोक्तृत्वं चानुपचरितासद्भूतव्यवहारेण रागादिभावकर्मणां चाशुद्धनिश्चयेन । सचाशुद्ध निश्चयापेक्षया व्यवहारएवेति । एवं पुण्यपापादिसप्तपदार्थानां (?) पीठिका रूपे महाधिकारे सप्तगाथाभि: चतुर्थौतराधिकारः समाप्तः । अतः परं जीवेण सयं बद्धं इत्यादि गाथामादिं कृत्वा गाथाष्टकपर्यंतं सांख्यमतानुसारि शिष्य संबोधनार्थं जीवपुद्गलयोरेकांतेन परिणामित्वं निषेधयन् सन् कथंचित् परिणामित्वं स्थापयति । तत्र गाथाष्टकमध्ये पुद्गलपरिणामित्वव्याख्यानमुख्यत्वेन गाथात्रयं । तदनंतरं जीव परिणामित्वमुख्यत्वेन गाथापंचकमिति पंचमस्थले समुदायपातनिका । अथ सांख्यमतानुयायिशिष्यं प्रति पुद्गलस्य कथंचित्परिणामस्वभावत्वं साधयति । आत्मख्यातिः– यदि यथा जीवस्य तन्मयत्वाज्जीवादन्य उपयोगस्तथा जडः क्रोधोप्यनन्यएवेति प्रतिपत्तिस्तदा चिद्रूपजडयोरनन्यत्वाज्जीवस्योपयोगमयत्ववज्जड क्रोधमयत्वापत्तिः । तथा सति तु य एव जीवः सवाजीव इति द्रव्यांतरलुप्तिः । एवं प्रत्ययनोकर्मकर्मणामपि जीवादनन्यत्वप्रतिपत्तावयमेव दोषः । अथैतद्दोषभयादन्यएवोपयोगात्मा जीवोन्य एव जडस्वभावः क्रोधः इत्यभ्युपगमः । तर्हि यथोपयोगात्मनो जीवादन्योजडस्वभावः क्रोधः तथा प्रत्ययनोकर्मकर्माण्यप्यन्यान्येव जडस्वभावत्वाविशेषान्नास्ति जीवप्रत्यययोरेकत्वं । अथ पुद्गलद्रव्यस्य परिणामस्वभावत्वं साधयति सांख्यमतानुयायिशिष्यं प्रति । जीवेण सयं बद्धं ण सयं परिणमदि कम्मभावेण । जदि पुग्गलदव्वमिणं अप्परिणामी तदा होदि ॥ १२३॥ कम्मयवग्गणादि य अपरिणमतीहि कम्मभावेण । संसारस्स अभावो पसज्ज दे संखसमओ वा ॥ १२४॥ जीवो परिणामयदे पुग्गलदव्वाणि कम्मभावेण । तं सयमपरिणमंतं कह तु परिणामयदि णाणी ॥ १२५ ॥ अयमेव हि परिणमदि कम्मभावेण पुग्गलं दव्वं । जीवे परिणामयदे कम्मं कम्मत्त मिदि मिच्छा ॥ १२६॥ णियमा कम्मपरिणदं कम्मं चि य होदि पुग्गलं दव्वं । १ चेदा इत्यपि पाठः | २ आत्मख्यातौ तु १२४ - १२५ तमं गाथाद्वयमधिकं वर्तते । Page #70 -------------------------------------------------------------------------- ________________ सनातमजैनग्रंथमालायांतह तं णाणावरणाइ परिणदं मुणसु त चेव ॥१२७॥ जीवे न स्वयं बद्धं न स्वयं परिणमते कर्मभावेन । यदि पुद्गलद्रव्यमिदमपरिणामि तदा भवति ॥१२३॥ कार्मणवर्गणासु चापरिणममाणासु कर्मभावेन । संसारस्याभावः प्रसजति सांख्यसमयो वा ॥१२४॥ जीपः परिणामयति पुद्गलद्रव्याणि कर्मभावेन । तानि स्वयमपरिणममानानि कथं नु परिणामयति चेतयिता ॥१२५॥ अथ स्वयमेव हि परिणमते कर्मभावेन पुद्गलद्रव्यं ।। जीवः परिणामयति कर्म कर्मत्वमिति मिथ्या ॥१२॥ नियमात्कर्मपरिणतं कर्म चैत्र भवति पुद्गलद्रव्यं । तथा तद्ज्ञानावरणादिपरिणतं जानीत तच्चैवं ॥१२७॥ तात्पर्यवृत्तिः-जीवेण सयं बद्धं जीवे अधिकरणभूते न स्वयं स्वभावेन पुद्गलद्रव्यकर्मबद्धं नास्ति । कस्मात् सर्वदा जीवस्य शुद्धत्वात् ण सयं परिणमदि कम्मभावेण न च स्वयं स्वयमेव कर्मभावेन द्रव्यकर्मपर्यायेण परिणमति । कस्मात् सर्वथा नित्यत्वात् । जदि पुग्गलदव्वमिणं एवमित्थंभूतमिदं पुद्गलद्रव्यं यदि चेद्भवतां सांख्यमतानुसारिणां अप्परिणामी तदा होदि ततः कारणात्तत्पुद्गलद्रव्यमपरिणाम्येव भवति। ततश्चापरिणामित्वे सति किं दूषणं भवति । अथ–कार्मणवर्गणाभिरपरिणमतीभिः कर्मभावेन द्रव्यकर्मपर्यायेण तदा संसारस्याभावः प्रसजति प्रामोति हे शिष्य सांख्यसमयवदिति । अथ मतं । जीवोपरिणामयदे पुग्गलदव्वाणि कम्मभावेण जीवः कर्ता कर्मवर्गणायोग्यपुद्गलद्रव्याणि ज्ञानावरणादिकर्मभावेन द्रव्यकर्मपर्यायेण हठात्परिणामयति ततः कारणात्संसाराभावदूषणं न भवतीति चेत् ते सय. मपरिणमंतं कहं तु परिणामयदि णाणी ज्ञानीजीवःस्वयमपरिणममानः सन्तत्पुद्गलद्रव्यं किं स्वयमपरिणममानं परिणममानं वा परिणमयेत् । न तावदपरिणममानं परिणमयति न च स्वतोसती शक्तिः कर्तुमन्येन पार्येत । तथा जपापुष्पादिकं कर्तृस्फटिके जनयत्युपाधि तथा काष्ठस्तंभादौ किं न जनयतीति । अथैकांतेन परिणममानं परिणमयति । तदपि न घटते । नहि वस्तुशक्तयः परमपेक्षते तर्हि जीवनिमित्तकर्तारमंतरेणापि स्वयमेव कर्मरूपेण परिणमतु। तथा च सति किं दूषणं । घटपटस्तंभादिपुद्गलानां ज्ञानावरणादिकर्मपरिणतिः स्यात् । स च प्रत्यक्षविरोधः । ततः स्थिता पुद्गलानां स्वभावभूता कथंचित्परिणामित्वशक्तिः तस्यां परिणामशक्तौ स्थितायां स पुद्गलः कर्ता । यं स्वस्य संबंधितं ज्ञानावरणादिद्रव्यकर्मपरिणामं पर्यायं करोति तस्य सएवोपादानकारणं कलशस्य मृत्पिडमिव । न च जीवः स तु निमित्तकारणमेव हेयतत्त्वमिदं । तस्मात्पुद्गलाव्यतिरिक्तशुद्धपरमात्मभावनापरिणताऽभेदरत्नत्रयलक्षणेन भेदज्ञानेन गम्यश्चिदानंदैकस्वभावो निजशुद्धात्मैव शुद्धनिश्चयेनोपादेयं भेदरत्नत्रयस्वरूपं तु उपादेयो भेदरत्नत्रयसाधकत्वाद्व्यवहारेणोपादेयमिति । एवं गाथात्रयशब्दार्थव्याख्यानेन शब्दार्थो ज्ञातव्यः । व्यवहारनिश्चयरूपेण नयार्थो ज्ञातव्यः । सांख्यंप्रति मतार्थो ज्ञातव्यः । आगमार्थस्तु प्रसिद्धः । हेयोपादानव्याख्यानरूपेण भावार्थोपि ज्ञातव्यः । इति शब्दनयमतागमभावार्थाः व्याख्यानकाले यथासंभवं सर्वत्र ज्ञातव्याः । एवं पुद्गलपरिणामस्थापनामुख्यत्वेन गाथात्रयं गतं । सांख्यमतानुसारिशिष्यं प्रति जीवस्य कथंचित्परिणामस्वभावत्वं साधयति___आत्मख्यातिः-यदि पुद्गलद्रव्यं जीवे स्वयमबद्धं सत्कर्मभावेन स्वयमेव न परिणमेत तदा तदपरिणाम्येव स्यात् । तथा सति संसाराभावः । अथ जीवः पुद्गलद्रव्यं कर्मभावेन परिणमयति ततो न संसाराभावः इति तर्कः ? किं स्वयमपरिणममानं परिणममानं वा जीवः पुद्गलद्रव्यं कर्मभावेन परिणामयेत् । न Page #71 -------------------------------------------------------------------------- ________________ ९ काहत्त। . . समयाभूतं । तावतस्वयमपरिणम्ममानं परेण परिणमयितुं पार्येत । नहि स्वतोऽसती शक्तिः कर्तुमन्येन पार्येत । स्वयं परिणममानं तु न परं परिणमयितारमपेक्षेत । न हि वस्तुशक्तयः परमपेक्षते । ततः पुद्गलद्रव्यं परिणामस्वभावं स्वयमेवास्तु । तथा सति कलशपरिणता मृत्तिका स्वयं कलश इव जडस्वभावज्ञानावरणादिकर्मपरिणतं तदेव स्वयं ज्ञानावरणादिकर्म स्यात् । इति सिद्धं पुद्गलद्रव्यस्य परिणामस्वभावत्वं । स्थितेत्यविघ्ना खलु पुद्गलस्य स्वभावभूता परिणामशक्तिः । तस्यां स्थितायां स करोति भावं यमात्मनस्तस्य स एव कर्ता ॥६४॥ नीवस्य परिणामित्वं साधयति । ण सयं वद्धो कम्मे ण सयं परिणमदि कोहमादीहिं । जदि एस तुज्झ जीवो अप्परिणामी तदा होदि ॥१२८॥ अपरिणमंते हि सयं जीवे कोहादिएहि भावेहिं । संसारस्स अभावो पसजदे संखसमयओ वा ॥१२९॥ पुग्गलकम्मं कोहो जीवं परिणामएदि कोहत्तं । तं सयमपरिणमंतं कह परिणामएदि कोहत्तं ॥१३०॥ अह सयमप्पा परिणमदि कोहभावेण एस दे बुद्धी । कोहो परिणामयदे जीवस्स कोहमिदि मिच्छा ॥१३१॥ कोहुवजुत्तो कोहो माणुवजुत्तो य माणमेवादा। माउवजुत्तो माया लोहुवजुत्तो हवदि लोहो ॥१३२॥ न स्वयं वद्धः कणि न स्वयं परिणमते क्रोधादिभिः । यद्येषः तव जीवोऽपरिणामी तदा भवति ॥ १२८ ।। अपरिणममाने स्वयं जीवे क्रोधादिभिः भावैः । संसारस्याभावः प्रसजति सांख्य समयो वा ।। १२९ ॥ पुद्गलकर्मक्रोधो जीवं परिणामयति क्रोधत्वं । तं स्वयमपरिणममानं कथं तु परिणामयति क्रोधः ॥ १३० ।। अथ स्वयमात्मा परिणमते क्रोधभावेन एषा ते बुद्धिः । क्रोधः परिणामयति जीवं क्रोधत्वामिवि मिथ्या ॥ १३१ ।। क्रोधोपयुक्तः क्रोधो मानोपयुक्तश्च मान एवात्मा। मायोपयुक्तो माया लोभोपयुक्तो भवति लोभः ॥ १३२ ।। तात्पर्यवृत्तिः-ण सयं वदो कम्मो स्वयं स्वभावेन कर्मण्यधिकरणभूते एकांतेन बद्धो नास्ति सदा मुक्तत्वात् । ण सयं परिणामदिकोहमादीहिं न च स्वयं स्वयमेव द्रव्यकर्मोदयनिरपेक्षो भावक्रोधादिभिः परिणमति । कस्मादेकांतेनापरिणामित्वात्। जदि एस तुज्झ जीवो अप्परिणामी तदा होदि यदि चेदेष जीवः प्रत्यक्षीभूतः तव मताभिप्रायेणेत्थंभूतः स्यात्ततः कारणादपरिणाम्येव भवति । अपरिणामित्वे सति किं दूषणं ! अथ-अपरिणममाने सति तस्मिन् जीवे स्वयं स्वयमेव भावक्रोधादिपरिणामैः तदा संसारस्याभावः प्राप्नोति हे शिष्य सांख्यसमयवत् । अथ मतं पुग्गलकम्म कोहो जीवं परिणाम Page #72 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायांएदि कोहत्तं पुद्गलकर्मरूपो द्रव्यक्रोधउदयागतः कर्ता जीवं कर्मतापन्नं हठात्परिणामयति भावक्रोधत्वेनेति चेत् तं सयमपरिणमंतं कह परिणामएदि कोहत्तं अथ किं स्वयमपरिणममानं परिणममानं वा परिणामयेत् ? न तावत्स्वयमपरिणममानं परिणामयेत् । कस्मात् । नहि स्वतोऽसती शक्तिः कर्तुमन्येन पार्यते । नहि जपापुष्पादयः कर्तारो यथा स्फटिकादिषु जनयंत्युपाधि तथा काष्ठस्तंभादिष्वपि । अथैकांतेन परिणममानं वा तर्हि उदयागतद्रव्यक्रोधनिमित्तमंतरेणापि भावक्रोधादिभिः परिणमंतु । कस्मादिति चेत् । नहि वस्तुशक्तयः परमपेक्षते । तथा च सति मुक्तात्मनामपि कर्मोदयनिमित्ताभावेपि भावक्रोधादयः प्राप्नुवंति । न च तदिष्टमागमविरोधात् । अथ मतं । अह सयमप्या परिणमदि कोहभावेण एस दे बुद्धी अथ पूर्वदूषणभयात्स्वयमेवात्मा द्रव्यकर्मोदयनिरपेक्षो भावक्रोधरूपेण परिणत्येषा तव वुद्धिः हे शिष्य ! कोहो परिणामयदे जीवं कोहत्तमिदि मिच्छा तर्हि द्रव्यक्रोधः कर्ता जीवस्य भावक्रोधत्वं परिणामयति करोति यदुक्तं पूर्वगाथायां तद्वचनं मिथ्या प्राप्नोति । ततः स्थितं-घटाकारपरिणता मृत्पिडपुद्गलाः घट इव अग्निपरिणतायःपिंडोऽग्निवत् तथात्मापि क्रोधोपयोगपरिणतः क्रोधो भवति मानोपयोगपरिणतो मानो भवति मायोपयोगपरिणतो माया भवंति लोभोपयोगपरिणतो लोभो भवतीति स्थिता सिद्धा जीवस्य स्वभावभूवापरिणामशक्तिः । तस्यां परिणामशक्तौ स्थितायां स जीवः कर्ता यं परिणाममात्मनः करोति तस्य स एवोपादानकर्ता द्रव्यकर्मोदयस्तु निमित्तमात्रमेव । तथैव च स एव जीवो निर्विकारचिच्चमत्कारशुद्धभावेन परिणत: सन् सिद्धात्मापि भवति । किं च विशेषः-'जाव ण वेदिविसेसंतरं इत्याद्यज्ञानिज्ञानिजीवयोः संक्षेपव्याख्यानरूपेण गाथाष्टुं यदुक्तं पूर्व पुण्यपापादिसप्तपदार्थजीवपुद्गलसंयोगपरिणामनिवृत्तास्ते च जीवपुद्गलयोः कथंचित्परिणामित्वे सति घटते । तस्यैव कथंचित्परिणामित्वस्य विशेषव्याख्यानमिदं । अथवा 'सामाण्णपचयाखलु चउरो' इत्यादि गाथासप्तके यदुक्तं पूर्व सामान्यप्रत्यया एवंम्शुद्धनिश्चयेन कर्म कुर्वतीति न जीय इति जैनमतं । एकांतेनाकर्तृत्वे सति सांख्यानां संसाराभावदूषणं तस्यैव संसाराभावदूषणस्य विशेषदूषणमिदं । कथमिति चेत् । तत्रैकांतेन कर्तृत्वाभावे सति संसाराभावदूषणं अत्र पुनरेकांतेन परिणामित्वाभावे सति संसाराभावदूषणं । यतः कारणाद्भावकर्मपरिणामित्वमेव कर्तृत्वं भोक्तृत्वं च भण्यते । इति जीवपरिणामित्वे व्याख्यानमुख्यत्वेन गाथापंचकं गतं । एवं पुण्यपापादि सप्तपदार्थानां पीठिकारूपे महाधि कारे जीवपुद्गलपरिणामित्वव्याख्यानमुख्यत्वेनाष्टगाथाभिः पंचमांतराधिकारः समाप्तः । आत्मख्यातिः–यदि कर्मणि स्वयमवद्धः सन् जीवः क्रोधादिभावेन स्वयमेव न परिणमते तदा स किलापरिणाम्येव स्यात् । तथा सति संसाराभावः । अथ पुद्गलकर्मक्रोधादि जीवं क्रोधादिभावेन परिणामयति ततो न संसाराभाव इति तर्कः । किं स्वयमपरिणममानं परिणममानं वा पुद्गलकर्म क्रोधादि जीवं क्रोधादिभावेन परिणामयेत् । न तावत्स्वयमपरिणममानः परेण परिणमयितुं पार्येत नहि स्वतोऽसती शक्तिः कर्तुमन्येन पार्यते । स्वयं परिणममानस्तु न परं परिणमयितारमपेक्षेत । नहि वस्तुशक्तयः परमपेक्षते। ततो जीवः परिणामस्वभावः स्वयमेवास्तु तथा सति गरुडध्यानपरिणतः साधकः स्वयं गरुड इवाज्ञानस्वभावक्रोधादिपरिणतोपयोगः स एव स्वयं क्रोधादिः स्यादिति सिद्धं जीवस्य परिणामस्वभावत्वं । स्थितेति जीवस्य निरंतराया स्वभावभूता परिणामशक्तिः। तस्यां स्थितायां स करोति भावं यं स्वस्य तस्यैव भवेत्स कर्ता ॥६५॥ तथा हि अथ -- जाव ण वेदि विसेसं तरं तु आदा सवाण दोण्हंपि । अण्णाणी तावदु इत्यादि गाथाद्वये तावदज्ञानी जीवस्वरूपं पूर्व भणितं स चाज्ञानी जीवो यदा विसयकसाययुगाढ इत्याद्यशुभोपयोगेन परिणमति तदा पापास्रवबंधपदार्थानां त्रयाणां कर्ता भवति । यदा तु मिथ्यात्वकषायाणां मंदोदये सति भोगाकांक्षारूपनिदानबंधादिरूपेण दानपूजादिनिदानं परिणमति तदा पुण्यपदा Page #73 -------------------------------------------------------------------------- ________________ समयप्राभृतं । यस्यापि कर्ता भवतीति पूर्व संक्षेपेण सूचितं जइया इमेण जीवेण आदा स वाण दोण्हंपि । णादं होदि विसेसंतरं तु इत्यादिगाथाचतुष्टये ज्ञानीजीवस्वरूपं च संक्षेपेण सूचितं स च ज्ञानी जीवः शुद्धोपयोगभावपरिणतोऽभेदरत्नत्रयलक्षणेनाभेदज्ञानेन यदा परिणमति तदा निश्चयचारित्राविनाभाविवीतरागसम्यग्दृष्टिभूत्वा संवरनिर्जरामोक्षपदार्थानां त्रयाणां कर्ता भवतीत्यपि संक्षेपेण निरूपितं पूर्व निश्चयसम्यक्त्वस्याभावे यदा तु सरागसम्यक्त्वेन परिणमति तदा शुद्धात्मानमुपादेयं कृत्वा परंपरया निर्वाणकारणस्य तीर्थकरप्रकृत्यादि पुण्यपदार्थस्यापि कर्ता भवतीत्यपि पूर्व निरूपितं तत्सर्वं जीवपुद्गलयोः कथंचित्परिणामित्वे सति भवतीति तत्कथंचित्परिणामित्वमपि पुण्यपापादिसप्तपदार्थानां संक्षेपसूचनार्थं पूर्वमेव संक्षेपेण निरूपितं । पुनश्च जीवपुद्गलपरिणामित्वव्याख्यानकाले विशेषेण कथितं । तत्रैवं कथंचित्परिणामित्वे सिद्धे सति अज्ञानिज्ञानिजीवयोः गुणिनोः पुण्यपापादिसप्तपदार्थानां संक्षेपसूचनार्थ संक्षेपव्याख्यानं कृतं । इदानीं पुनरज्ञानमयगुणज्ञानमयगुणयोः मुख्यत्वेन व्याख्यानं क्रियते । नच जीवाजीवगुणमुख्यत्वेनेति । किमर्थमिति चेत् ! त तेषामेव पुण्यपापा दसप्तपदार्थानां संक्षेपसूचनार्थमिति । तत्र जो संगं तु मुइता इत्यादिगाथामादि कृत्वा पाठक्रमेण गाथानवकपर्यंत व्याख्यानं करोति । तत्रादौ गाथात्रयं ज्ञानभावमुख्यत्वेन तदनंतरं गाथाषटुं ज्ञानिजीवस्य ज्ञानमयो भावो भवत्यज्ञानिजीवस्याज्ञानमयो भावो भवतीति मुख्यत्वेन कथ्यत इति षष्ठांतराधिकारे समुदायपातनिका । तद्यथा-कथंचित्परिणामित्वे सिद्धे सति ज्ञानी जीवो ज्ञानमयस्य भावस्य कर्ता भवतीत्यभिप्रायं मनसि संप्रधाउँदं सूत्रत्रयं प्रतिपादयति । जो संगं तु मुइत्ता जाणदि उवओगमप्यगं सुद्धं । तं णिसंगं साहुं परमवियाणया विति ॥१३३॥ यः संगं तु मुक्त्वा जानाति उपयोगमयकं शुद्धं । तं निस्संगं साधुं परमार्थविज्ञायका विदंति ॥१३३॥ तात्पर्यवृत्तिः-जो संगं तु मुइत्ता जाणदि उवओग मप्पयं सुद्धं यः परमसाधुर्बाह्याभ्यंतरपरिग्रहं मुक्त्वा वीतरागचारित्राविनाभूतभेदज्ञानेन जानात्यनुभवति । कं कर्मतापन्नं आत्मानं । कथं भूतं विशुद्धज्ञानदर्शनोपयोगस्वभावत्वादुपयोगस्तमुपयोगं ज्ञानदर्शनोपयोगलक्षणं । पुनरपि कथं भूतं । शुद्धं भावकर्म द्रव्यकर्म नोकर्मरहितं । तं णिस्संग साहुं परमहवियाणया बिंति तं साधुं निस्संग संगरहितं . विदंति जानंति ब्रुवंति कथयति वा । के ते परमार्थविज्ञायका गणधरदेवादय इति । जो मोहं तु मुइत्ता णाणसहावाधियं मुणदि आदं । तं जिदमोहं साहुं परमहवियाणया विति ॥१३४॥ यः मोहं तु मुक्त्वा ज्ञानस्वभावाधिकं मनुते आत्मानं । तं जितमोहं साधुं परमार्थविज्ञायका विदंति ॥१३४॥ तात्पर्यवृत्तिः- जो मोहं तु मुइत्ता णाणसहावाधियं मुणदि आदं यः परमसाधुः कर्ता समस्तचेतनाचेतनशुभाशुभपरद्रव्येषु मोहं मुक्त्वात्मशुभाशुभमनोवचनकायव्यापाररूपयोगत्रयपरिहारपरिणताभदरत्नत्रयलक्षणेन भेदज्ञानेन मनुते जानाति कं कर्मतापन्नं आत्मानं, किं विशिष्ठं ? निर्विकारस्वसंवेदनज्ञा- . नेनाधिकं परिणतं परिपूर्ण । तं जिदमोह साहं परमवियाणया विति तं साधुं कर्मतापन्नं जितमोहं निर्मोहं विदंति जानंति । के ते ? परमार्थविज्ञायकास्तीर्थकरपरमदेवादय इति । एवं मोहपदपरिवर्तनेन रागद्वेषक्रोधमानमायालोभकर्मनोकर्ममनोवचनकायबुद्ध्यदयशुभाशुभपरिणामश्रोत्रचक्षुर्घाणजिह्वास्पर्शनसंज्ञानि विंशति सूत्राणि व्याख्येयानि । तेनैव प्रकारेण निर्मलपरमचिज्ज्योतिः परिणतेविलक्षणासंख्येयलोकमात्रविभावपरिणामा ज्ञातव्याः । अथ Page #74 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायांजो धम्मं तु मुइत्ता जाणदि उवओगमय्यगं सुद्धं । तं धम्मसंगमुकं परमवियाणया विति ॥१३५॥ । . यः धर्म तु मुक्त्वा जानाति उपयोगमयकं शुदं । तं धर्मसंगमुक्तं परमार्थविज्ञायका विदंति ॥१३५॥ तात्पर्यवृत्तिः-जो धम्मं तु मुइत्ता जाणदि उवओगमप्पगं सुद्धं यः परमयोगींद्रः स्वसंवेदनज्ञाने स्थित्वा शुभोपयोगपरिणामरूपं धर्म पुण्यसंगं त्यक्त्वा निजशुद्धात्मपरिणताभेदरत्नत्रयलक्षणेनाभेदज्ञानेन जानत्यनुभवति । कं कर्मतापन्नं आत्मानं । कथंभूतं विशुद्धज्ञानदर्शनोपयोगपरिणतं । पुनरपि कथंभूतं । शुद्धं शुभाशुभसंकल्पविकल्परहितं । तं धम्मसंग मुकंपग्मवियाणया विति । तं परमतपोधनं निर्विकारस्वकीयशुद्धात्मोपलंभरूपनिश्चयधर्मविलक्षणभोगांकांक्षास्वरूपनिदानबंधादिपुण्यपरिग्रहरूपव्यवहार धर्मरहितं विदंति जानंति । के ते? परमार्थविज्ञायकाः प्रत्यक्षज्ञानिन इति । किं च कथंचित्परिणामित्वे सति जीवः शुद्धोपयोगेन परिणमति पश्चान्मोक्षं साधयति परिणामित्वाभावे वद्धो वद्ध एव शुद्धोपयोगरूपं परिणामांतरस्वरूपं न घटते ततश्च मोक्षाभाव इत्यभिप्रायः। एवं शुद्धोपयोगरूपज्ञानमयपरिणामगुणव्याख्यानमुख्यत्वेन गाथात्रयं गतं । तदनंतरं यथा ज्ञानमयोऽज्ञानमयभावद्वयस्य कर्ता भवति तथा कथयति । जं कुणदि भावमादा कत्ता सो होदि तस्स भावस्स । णाणिस्स दु णाणमओ अण्णाणमओ अणाणिस्स ॥१३६॥ यं करोति भावमात्मा कर्ता स भवति तस्य कर्मणः । ज्ञानिनः स ज्ञानमयोऽज्ञानिमयोऽज्ञानिनः ॥१३६॥ तात्पर्यत्तिः-जं कुणदि भावमादा कत्ता सो होदि तस्स भावस्स यं भावं परिणाम करोत्यात्मा स तस्यैव भावस्यैव कर्ता भवति णाणिस्स दुणाणमओ स च भावोऽनंतज्ञानादिचतुष्टयलक्षणकार्यसमयसारस्योत्पादकत्वेन निर्विकल्पसमाधिपरिणामपरिणतकारणसमयसारलक्षणेन भेदज्ञानेन सर्वारंभपरिणतत्वाजानिनो जीवस्य शुद्धात्मख्यातिप्रतीतिसंवित्युपलब्ध्यनुभूतिरूपेन ज्ञानमय एव भवति अण्णाणमओ अणाणिस्स अज्ञानिनस्तु पूर्वोक्तभेदज्ञानाभावात् शुद्धात्मानुभूतिस्वरूपाभावे सत्यज्ञानमय एव भवतीत्यर्थः । अथ ज्ञानमयभावात्फलं भवति किमज्ञानमयाद्भवतीति प्रश्ने प्रत्युत्तरमाह । आत्पख्यातिः-एवमयमात्मा स्वयमेव परिणामस्वभावोपि यमेव भावमात्मनः करोति तस्यैव कर्मतामापद्यमानस्य कर्तृत्वमापद्येत । स तु ज्ञानिनः सम्यक्स्वपरविवेकेनात्यंतोदितविविक्तात्मख्यातित्वात् ज्ञानमय एव स्यात् अज्ञानेन तु सम्यक्वपरविवेकाभावेनात्यंतप्रत्यस्तमितविविक्तात्मख्यातित्वादज्ञानमय एव स्यात् । किं ज्ञानमयभावात्किमज्ञानमयाद्भवतीत्याह । अण्णाणमओ भावो अणाणिणो कुणदि तेण कम्माणि । णाणमओ णाणिस्स दुण कुणदि तमा दु कम्माणि॥१३७॥ अज्ञानमयो भावोऽज्ञानिनः करोति तेन कर्माणि । ज्ञानमयो : ज्ञानिनस्तु न करोति तस्मात्तु कर्माणि ॥१३७॥ तात्पर्यत्तिः-अण्णाणमओ भावो अणाणिणो कुणदि तेण कम्माणि स्वोपलब्धिभावनाविलक्षणत्वेनाज्ञानमयभावो भण्यते । कस्मात् । यस्मात्तेन भावेन परिणामेन कर्माणि करोत्यज्ञानी जीवः । कम्मस्स इसपि पाठः। Page #75 -------------------------------------------------------------------------- ________________ समयप्रावृत्तं । जाणमओ णाणिस दुण कुणदि तमा दु कम्माणि ज्ञानिनस्तु निर्विकारचिच्चमत्कारभावनावशेन ज्ञानमयो भवति तस्माद् ज्ञानमयभावात् ज्ञानी जीवः कर्माणि न करोतीति । किं च यथा स्तोकोप्यग्निः तृपाकाष्ठराशिं महांतमपि क्षणमात्रेण दहति । तथा त्रिगुप्तिसमाधिलक्षणो भेदज्ञानाग्निरंतर्मुहूर्तेनापि वहुभवसंचितं कर्मराशिं दहतीति ज्ञात्वा सर्वतात्पर्येण तत्रैव परमसमाधौ भावना कर्तव्येति भावार्थः। अथ ज्ञानमय एव भावो भवति ज्ञानिनो जीवस्य न पुनरज्ञानमयस्तथैवाज्ञानमयएवं भवत्यज्ञानिजीवस्य न पुननिमयः किमर्थमिति चेत् ।। ___ आत्मख्यातिः-अज्ञानिनो हि सम्यक्स्वपरविवेकाभावेनात्यंतप्रत्यस्तमितविधिक्तात्मख्यातित्वाद्यस्मादज्ञानमय एव स्यात् तस्मिंस्तु सति स्वपरयोरेकत्वाध्यासेन ज्ञानमात्रात्स्वस्मात्प्रभ्रष्टः पराभ्यां रागद्वेषाभ्यां सममेकीभूय प्रवर्तिताहंकारः स्वयं किलैषोहं रज्ये रुष्यामीति रज्यते रुष्यति च तस्मादज्ञानमयभावादज्ञानी परौ रागद्वेषावात्मानं कुर्वन् करोति कर्माणि । ज्ञानिनस्तु सम्यक्स्वपरविवेकेनात्यंतीदिंतविविक्तात्मख्यातित्वायस्माद् ज्ञानमय एव भावः स्यात् तस्मिंस्तु सति स्वपरयो नात्वविज्ञानेन ज्ञानमात्रे स्वस्मिन्सुनिविष्टः पराभ्यां रागद्वेषाभ्यां पृथग्भूततया स्वरसतएव निवृत्ताहंकारः स्वयं किल केवलं जानात्येव न रज्यते न च रुष्यति तस्माद्वानमयाद्भावात् ज्ञानी परौ रागद्वेषावात्मानमकुर्वन्न करोति कर्माणि। ज्ञानमयएव भावः कुतो भवेद्हानिनो न पुनरन्यः । अज्ञानमयः सर्वः कुतोयमज्ञानिनो नान्यः ॥ णाणमया भावाओ णाणमओ चेव जायदे भावो । जम्हा तम्हा णाणिस्स सब्वे भावा दु णाणमया ॥१३०॥ अण्णाणमया भावा अण्णाणो चेव जायए भावो । जम्हा तम्हा भावा अण्णाणमया अणाणिस्स ॥१३९॥ ज्ञानमयाद्भावाद्ज्ञानमयश्चैव जायते भावः । यस्मात्तस्माज्ज्ञानिनः सर्वे भावाः खलु ज्ञानमयाः ॥१३८॥ अज्ञानमयाद्भावादज्ञानश्चैव जायते भावः । यस्मात्तसादावादज्ञानमया अज्ञानिनः ॥१३९॥ । तात्पर्यवृत्तिः-णाणमयाभावाओ णाणमओ चेव जायदे भावो जमा ज्ञानमया भाषा निश्चयरत्नत्रयात्मकजीवपदार्था ज्ञानमय एव जायते भावः स्वयुद्धात्मावाप्तिलक्षणो मोक्षपर्यायो यस्मात्कारणात् तमा गाणिस्स सव्वे भावा दु णाणमया तस्मात्कारणात्स्वसंवेदनलक्षणभेदज्ञानिनो जीवस्य सर्वे भावाः परिणामज्ञानमया ज्ञानेन निर्वृत्ता भवंति तदपि कस्मात् उपादनकारणसदृशं कार्य भवतीति वचनात् नहि यवनालबीजे वपिते राजान्नशालिफलं भवतीति तथैव च-अण्णाणमया भावा अण्णाणो चेव जायए भावो अज्ञानमयाद्भावाजीवपदार्थात् अज्ञानमय एव जायते भावः पर्यायो यस्मात्कारणात् तमा सन्चे भावा अण्णाणमया अणाणिस्स यतः एवं तस्मात्कारणात्सर्वे भावाः परिणामा अज्ञानमया मिथ्यात्वरागादिरूपा भवंति । कस्य अज्ञानिनः शुद्धात्मोपलब्धिरहितस्य मिथ्यादृष्टेर्जीवस्येति । अथ तदेव व्याख्यानं दृष्टांतदार्टीताभ्यां समर्थयति । - आत्मख्यातिः यतोह्यज्ञानमयाद्भावाद्यः कश्चनापि भावो भवति स सर्वोप्यज्ञानमयत्वमनतिवर्तमानोऽज्ञानमयएव स्वात् ततः सर्व एवाज्ञानमया अज्ञानिनो भावाः । यतश्च ज्ञानमयाद्भावाद्यः कश्चनापि भावो भवति स सर्वोपि ज्ञानमयत्वमनतिवर्तमानो ज्ञानमय एव स्यात् ततः सर्वे एव ज्ञानमया ज्ञानिनो भावाः । __ ज्ञानिनो ज्ञाननिर्वृत्ताः सर्वे भावा भवंति हि । सर्वेप्यज्ञाननिर्वृत्ताः भवंलबानिनस्तु ते ॥६६॥ अथैतदेव दृष्टांतेन समर्थयते। Page #76 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायांकणयमयाभावादो जायंते कुंडलादयो भावा । अयमययाभावादो जह जायंते तु कडयादी ॥१४०॥ अण्णाणमया भावा अणाणिणो बहुबिहा वि जायते । णाणिस्स दु णाणमया सव्वे भावा तहा होति ॥१४॥ कनकमयाद्भावाजायंते कुंडलादयो भावाः । अयोमयकाद्भावाद्यथा जायंते तु कटकादयः ।।१४०॥ अज्ञानमयाद्भावादज्ञानिनो बहुविधा अपि जायते । ज्ञानिनस्तु ज्ञानमयाः सर्वे भावास्तथा भवंति ॥१४१॥ तात्पर्यवृत्तिः-कनकमयाद्भावात्पदार्थात् “उपदानकारणसदृशं कार्यं भवतीति" कृत्वा कुंडलादयो भावाः पर्यायाः कनकमया एव भवंति । अयोमयाल्लोहमयाद्भावात्पदार्थात् अयोमया एव भावा पर्यायाः कटकादयो भवंति यथा येन प्रकारणेति दृष्टांतगाथा गता । अथ दृार्टीतमाह । अण्णाणेति तथा पूर्वोक्तलोहदृष्टांतेनाज्ञानमयाद्भावाज्जीवपदार्थादज्ञानिनो भावाः पर्याया बहुविधा मिथ्यात्वरागादिरूपा अज्ञानमया जायते । तथैव च पूर्वोक्तजांबूनददृष्टांतेन ज्ञानिनो जीवस्य ज्ञानमयाः सर्वे भावाः पर्याया भवंति । किं च विस्तरः वीतरागस्वसंवेदनभेदज्ञानी जीवः यं शुद्धात्मभावनारूपं परिणामं करोति स परिणामः सर्वोपि ज्ञानमयो भवति । ततश्च येन ज्ञानमयपरिणामेन संसारस्थितिं हित्वा देवेंद्रलोकांतिकादिमहर्द्धिकदेवो भूत्वा घटिकाद्वयेन मतिश्रुतावधिरूपं ज्ञानमयभावं पर्यायं लभते । ततश्च विमानपरिवारादिविभूतिं जीर्णतृणमिव गणयन्पंचमहाविदेहे गत्वा पश्यति । किं पश्यतीति चेत् तदिदं समवसरणं त एते वीतरागसर्वज्ञास्त एते भेदाभेदरत्नत्रयाराधनापरिणता गणधरदेवादयो ये पूर्व श्रूयंते परमागमे ते दृष्टाः प्रत्यक्षेणेति मत्वा, विशेषेण दृढधर्ममतिर्भूत्वा तु चतुर्थगुणस्थानयोग्याशुद्धभावनामपरित्यजन्निरंतरं धर्मध्यानेन देवलोके कालं गमयित्वा, पश्चान्मनुष्यभवे राजाविराजमहाराजामंडलीकमहामंडलीकबलदेवचक्रवर्तितीर्थकरपरमदेवादिपदे लब्धेपि पूर्वभववासनावासितशुद्धात्मरूपं भेदभावनाबलेन मोहं न गच्छति रामपांडवादिवत् । ततश्च जिनदीक्षा गृहीत्वा सप्तर्द्धिचतुर्ज्ञानमयभावं पर्यायं लभते । तदनंतरं समस्तपुण्यपापपरिणामपरिहारपरिणताभेदरत्नत्रयलक्षणेन द्वितीयशुक्लध्यानरूपेण विशिष्टभेदभावनाबलेन स्वात्मभावनोत्थसुखामृतरसेन तृप्तो भूत्वा सर्वातिशयपरिपूर्णलोकत्रयाधिपाराध्यं परमाचिंत्यविभूतिविशेष केवलज्ञानरूपं भावं पर्यायं लभत इत्यभिप्रायः । अज्ञानिजीवस्तु मिथ्यात्वरागादिमयमज्ञानभावं कृत्वा नरनारकादिरूपं भावं पर्यायं लभत इति भावार्थः । एवं ज्ञानमयाज्ञानमयभावकथनमुख्यत्वेन गाथाषदं गतं । इति पूर्वोक्तप्रकारेण पुण्यपापादिसप्तपदार्थानां पीठिकारूपेण महाधिकारे कथंचित्परिणामित्वे सति ज्ञानिजीवो ज्ञानमयभावस्य कर्ता तथैव चाज्ञानिजीवोऽ ज्ञानमयस्य भावस्य कर्ता भवतीति, अज्ञानमुख्यतया गाथानवकेन षष्ठोंतराधिकारः समाप्तः । अथ पूर्वोक्त एवाज्ञानमयभावो द्रव्यभावगतपंचप्रत्ययरूपेण पंचविधो भवति सचाज्ञानिजीवस्य शुद्धात्मैवोपादेय इत्यरोचमानस्य तमेव शुद्धात्मानं स्वसंवेदनज्ञानेनाजानतस्तमेव परमसमाधिरूपेणाभावयतश्च बंधकारणं भवतीति सप्तमांतराधिकारे समुदायपातनिका । आत्मख्यातिः-यथा खलु पुद्गलस्य स्वयं परिणामस्वभावत्वे सत्यपि कारणानुविधायित्वात्कार्याणां जांबूनदमयाद्भावाज्जांबूनदजातिमनतिवर्तमानाजांबूनदकुंडलादय एव भावा भवेयुर्न पुनः कालायसवलयादयः । कालायसमयाद्भावाच्च कालायसजातिमनतिवर्तमानाः कालायसवलयादय एव भवेयुर्न पुनर्जाबूनदकुंडलादयः । तथा जीवस्य स्वयं परिणामस्वभावत्वे सत्यपि कारणानुविधायित्वादेव कार्याणां अज्ञानिनः स्वयमज्ञानमयादावादज्ञानजातिमनतिवर्तमाना विविधा अप्यज्ञानमया एव भावा भवेयुर्न पुननिमयाः Page #77 -------------------------------------------------------------------------- ________________ समयप्राभृतं । शानिनश्च स्वयं ज्ञानमयाद्भावाद्ज्ञानजातिमनतिवर्तमानाः सर्वे ज्ञानमया एव भावा भवेयु न पुनरञ्चाममयाः । अज्ञानमयभावानामज्ञानी व्याप्यभूमिकां । द्रव्यकर्मनिमित्तानां भावनामेति हेतुतां ॥६७१ । मिच्छुत्तस्सदु उदयं जं जीवाणां दु अतचसदहणं । असंजमस्स दु उदओ जं जीवाणां अविरदत्तं ॥१४२॥ अण्णाणस्स दु उदओ जं जीवाणं अतचउवलद्धी । जो दु कलुसोवओगो जीवाणं सो कसाउदओ ॥१४३॥ तं जाण जोगउदयं जो जीवाणं तु चिट्ठउच्छाहो । सोहणमसोहणं वा कायव्वो विरदिभावो वा ॥१४॥ एदेसु हेदुभूदेसु कम्मइयवग्गणागयं जं तु । परिणमदे अठविहं णाणावरणादिभावेहिं ॥१४५॥ तं खलु जीवाणवद्धं कम्मइयवग्गणागयं जइया । तइया दु होदि हेदू जीवो परिणामभावाणं ॥१४६॥ अज्ञानस्य स उदयो या जीवानामतत्त्वोपलब्धिः । मिथ्यात्वस्य तूदयो जीवस्याश्रद्दधानत्वं ॥१४२॥ उदयोऽसंयमस्य तु यजीवानां भवेदविरमणं तु | यस्तु कलुषोपयोगो जीवानां स कषायोदयः ॥१४॥ तं जानीहि योगोदयं यो जीवानां तु चेष्टोत्साहः । शोभनोऽशोभनो वा कर्तव्यो विरतिभावो वा ॥१४४॥ एतेषु हेतुभूतेषु कार्मणवर्गणागतं यत्तु ।। परिणमतेऽष्टविधं ज्ञानावरणादिभावैः ॥१४५॥ तत्खलु जीवनिबद्धं कार्मणवर्गणागतं यदा। तदा तु भवति हेतु वः परिणामभावानां ॥१४६॥ तात्पर्यवृत्तिः-मिच्छत्तस्सदु उदयं जं जीवाणं अतच्च सद्दहणं मिथ्यात्वस्योदयो भवति जीवानामनंतज्ञानादिचतुष्टयरूपं शुद्धात्मतत्त्वमुपादेयं विहायान्यत्र यच्छृद्धानं रुचिरुपादेयबुद्धिः असंजमसदउदओ जं जीवाणं अविरदत्तं असंयमस्य च स उदयो भवति जीवानामात्मसुखसंवित्यभावे सति विषयकषायेभ्यो यदनिवर्त्तनमिति । अथ-अण्णाणस्स दु उदओ जं जीवाणं अतच उवलद्धी अज्ञानस्योदयो भवति यत्किं भेदज्ञानं विहाय जीवानां विपरीतरूपेण परद्रव्यैकत्वेनोपलब्धिः प्रतीतिः जो द कसाउवओगो सो जीवाणं कसाउदओ स जीवानां कषायोदयो भवति यः शांतात्मोपलब्धिलक्षणं शुद्धोपयोगं विहाय क्रोधादिकषायरूप उपयोगः परिणाम इति । अथ-तं जाण जोगउदयं जंजीवाणं तु चिउच्छाहो तं योगोदयं जानीहि त्वं हे शिष्य जीवानां मनोवचनकायवर्गणाधारण वीर्यातरायक्षयोपशमजानतः कर्मादानहेतुरात्मप्रदेशपरिस्पंदलक्षणः प्रयत्नरूपेण यस्तु चेष्टोत्साहो व्यापारोत्साहः सोहणमसोहणं वा कायन्वो विरदिभावो वा स च शुभाशुभरूपेण द्विधा भवति तत्र Page #78 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायांव्रतादिकर्तव्यरूपः शोभनः पश्चादवतादिरूपो वर्जनीयः सचाशोभनः इति । अथ-एदेस हेदुभूदेस क. म्म इयवग्गणागयं जं तु एतेषु पूर्वोक्तेषु हेतुभूतेषु स मिथ्यात्वादिपंचप्रत्ययेषु कार्मणवर्गणागतं परिणतं यदभिमतं नवतरं पुद्गलद्रव्यं परिणमदे अठविहं णाणावरणादिभावहिं जीवस्य सम्यग्दर्शनज्ञानचारित्रैकपरिणतिरूपपरमसामयिकाभावे सति ज्ञानावरणादिद्रव्यकर्मरूपेणाष्टविधं परिणमतीति । अथतं खलु जीवणिवद्धं कम्मइयवग्गणागयं जझ्या तत्पूर्वोक्तसूत्रोदितं कर्मवर्गणायोग्यमभिनवं पुद्गलद्रव्यं जीवनिवद्धं जीवसंबद्धं योगवशेनागतं यदा भवति खलु स्फुटं तइया दु होदि हे जीवोपरिणामभावाणं तदा काले पूर्वोक्तेषूदयागतेषु द्रव्यप्रत्ययेषु सत्सु स्वकीयगुणस्थानानुसारेण जीवो हेतुः कारणं भवति केषां परिणामरूपाणां भावानां प्रत्ययानामिति । किंच उदयागतद्रव्यप्रत्ययनिमित्तेन मिथ्यात्वरागादि भावप्रत्ययरूपेण परिणम्य जीवो नवतरं कर्मबंधस्य कारणं भवतीति तात्पर्य । अयमत्र भावार्थः उदयागतेषु द्रव्यप्रत्ययेषु यदि जीवः स्वस्वभावं मुक्त्वा रागादिरूपेण भावप्रत्ययेन परिणमतीति तदा बंधो भवतीति नैवोदयमात्रेण घोरोपसर्गेपि पांडवादिवत्, यदि पुनरुदयमात्रेण बंधो भवति तदा सर्वदैव संसारएव । कस्मादिति चेत् संसारिणां सर्वदैव कर्मोदयस्य विद्यमानत्वात् । इति पुण्यपापसप्तपदार्थानां पीठिकारूपे महाधिकारेऽज्ञानिभावः पंचप्रत्ययरूपेण शुद्धात्मस्वरूपच्युतानां जीवानां बंधकारणं भवतीति व्याख्यानमुख्यत्वेन पंचगाथाभिः सप्तमोन्तराधिकारः समाप्तः । ___ अतः परं जीवपुद्गलयोः परस्परोपादानकारणनिषेधमुख्यत्वेन गाथात्रयमित्यष्टमांतराधिकारे समुदायपातनिका । अथ निश्चयेन कर्मपुद्गलात्पृथग्भूतएव जीवस्य परिणाम इति प्रतिपादयति। आत्मख्याति:- अतत्त्वोपलब्धिरूपेण ज्ञाने स्वदमानो अज्ञानोदयः । मिथ्यात्वासंयमकषाययोगोदयाः कर्महेतवस्तन्मयाश्चत्वारो भावाः । तत्त्वाश्रद्धानरूपेण ज्ञाने स्वदमानो मिथ्यात्वोदयः अविरमणरूपेण ज्ञाने स्वदमानोऽसंयमोदयः कलुषोपयोगरूपेण ज्ञाने स्वदमानः कषायोदयः शभाशभप्रवृत्तिनिवृत्तिव्यापाररूपेण ज्ञाने स्वदमानो योगोदयः । अथैतेषु पौद्गलिकेषु मिथ्यात्वाद्युदयेषु हेतुभूतेषु यत्पुद्गलद्रव्यं कर्मवर्गणागतं ज्ञानावरणादिभावैरष्टधा स्ववमेव परिणमते तत्खलु कर्मवर्गणागसं जीवनिवद्धं यदा स्यात्तदा जीवः स्वयमेवाज्ञानात्परात्मनोरेकत्वाध्यासेनाज्ञानमयानां तत्त्वश्रद्धानादीनां स्वस्य परिणामभावानां हेतुर्भवति । पुद्गलद्रव्यात्पृथग्भूतएव जीवस्य परिणामः । जीवस्सदु कम्मेण य सह परिणामा दु होति रागादी। एवं जीवो कम्मं च दोवि रागादिमावण्णा ॥१४७॥ एकस्स दु परिणामा जायदि जीवस्स रागमादीहि । ता कम्मोदयहेदू हि विणा जीवस्स परिणामो ॥१४॥ जीवस्य तु कर्मणा च सह परिणामाः खलु भवंति रागादयः । एवं जीवः कर्म च द्वे अपि रागादित्वमापन्ने ॥१४७॥ एकस्य तु परिणामो जायते जीवस्य रागादिभिः । तत्कर्मोदयहेतुभिर्विना जीवस्य परिणामः ॥१४८॥ तात्पर्यत्तिः-जीवस्स दु कम्मेण य सह परिणामा दु होति रागादी यदि जीवस्योपादानकारणभूतस्य कर्मोदयेनोपादानभूतेन सह रागादिपरिणामा भवंति । एवं जीवो कम्मं च दोवि रागादिमावण्णा एवं द्वयोर्जीवपुद्गलयोः रागादिपरिणामानामुपादानकारणत्वे सति सुधाहरिद्रयोखि द्वयोरागित्वं प्राप्नोति । तथा सति पुद्गलस्य चेतनत्वं प्राप्नोति स च प्रत्यक्षविरोध इति । अथ-एकस्स Page #79 -------------------------------------------------------------------------- ________________ समयप्राभृर्त । ७७ दु परिणामो जामदि जीवस्स रागमादीहिं अथाभिप्रायो भवतां पूर्वदूषण भयादेकस्य जीवस्यैका - तेनोपादानकारणस्य रागादिपरिणामो जायते तां कम्मोदयहेदु हि विणा जीवस्स परिणामो तस्मादिदं दूषणं कर्मोदय हेतुभिर्विनापि शुद्ध जीवस्य रागादिपरिणामो जायते स च प्रत्यक्षविरोध आगमविरोधश्च । अथवा द्वितीयव्याख्यानं एकस्य जीवस्योपादानकारणभूतस्य कमोंदयोपादानहेतुभिर्विना रागादिपरिणामो यदि भवति तदा सम्मतमेव । किं च द्रव्यकर्मणामनुपचरितासद्भूतव्यवहारेण कर्ता जीवः रागादिभावकर्मणामशुद्धनिश्वयेन सचाशुद्धनिश्चयः यद्यपि द्रव्यकर्मकर्तृत्वविषयभूतस्यानुपचरितासद्भूतव्यवहारस्यापेक्षया निश्चयसंज्ञां लभते । तथापि शुद्धात्मद्रव्यविषयभूतस्य शुद्धनिश्चयस्यापेक्षया वस्तुवृत्त्या व्यवहार एवेति भावार्थ: । अथ निश्चयेन जीवात्पृथग्भूत एव पुद्गलकर्मणः परिणाम इति निरूपयति । आत्मख्यातिः– यदि जीवस्य तन्निमित्तभूतविपच्यमानपुद्गलकर्मणा सहैव रागाद्यज्ञान परिणामो भवतीति वितर्कः तदा जीवपुद्गलकर्मणोः सहभूतसुधाहरिद्रयोरिव द्वयोरपि रागाद्यज्ञानपरिणामापत्तिः । अथ चैकस्यैव जीवस्य भवति रागाद्यज्ञानपरिणामः ततः पुद्गलकर्मविपाकाद्धेतोः पृथग्भूतो जीवस्य परिणामः । जीवात्पृथग्भूत एव पुद्गलद्रव्यस्य परिणामः । ज जीवेण सहचिय पुग्गलदव्वस्त कम्मपरिणामो । एवं पुग्गलजीवा हु दोवि कम्मत्तमावण्णा ॥ १४९ ॥ एकस्स दु परिणामो पुग्गलदव्वस्त कम्मभावेण । सा जीवभावदूहिं विणा कम्मस्स परिणामो ॥ १५०॥ यदि जीवेन सह चैव पुद्गलद्रव्यस्य कर्मपरिणामः । एवं पुद्गलजीव खलु द्वावपि कर्मत्वमापन्नौ ॥१४९॥ एकस्य तु परिणामः पुद्गलद्रव्यस्य कर्मभावेन । तज्जीवभावहेतुभिर्विना कर्मणः परिणामः || १५० || तात्पर्यवृत्तिः - एकस्स परिणामो पुग्गलदव्वस्स कम्मभावेण एकस्योपादानभूतस्य कर्मधर्गणायोग्यपुद्गलद्रव्यस्य द्रव्यकर्मरूपेण परिणामः यत एवं ता जीवभावहेदूहिं विणा कम्मस्स परिणामो तस्मात्कारणाज्जीवगत मिथ्यात्वरागादिपरिणामोपादान हेतुभिर्विनापि द्रव्यकर्मणः परिणामः स्यात् । इति पुण्यपापादिसप्तपदार्थानां पीठिकारूपे महाधिकारे जीवकर्मपुद्गलपरस्परोपादानकारणनिषेधमुख्यतया गाथात्रये - णाष्टमोंतराधिकारः समाप्तः अथानंतर व्यवहारेण बद्धो निश्चयेनाबद्धो नीव इत्यादिविकल्परूपेण नयपक्षपातेन स्वीकारेण रहितं शुद्धपारिणामिकपरमभावग्राहकेन शुद्धद्रव्यार्थिकनयेन पुण्यपापादिपदार्थेभ्यो भिन्नं शुद्धसमयसारं गाथाचतुष्टयेन कथयतीति नवतराधिकारे समुदायपातनिका । तद्यथा अथ किमात्मनि वद्धस्पृष्टं किमवद्धस्पृष्ट कर्मेति प्रश्ने सति नयविभागेन परिहारमाह । आत्मख्यातिः – यदि पुद्गलद्रव्यस्य तन्निमित्तभूतरागाद्यज्ञानपरिणामपरिणतजीवेन सहैव कर्मपरिणामो भवतीति वितर्कः तदा पुद्गलद्रव्यजीवयोः सहभूत हरिद्रासुधयोरिव द्वयोरपि कर्मपरिणामापत्तिः अथ चैकस्यैव पुद्गलद्रव्यस्य भवति कर्मत्वपरिणामः ततो रागादिजीवाज्ञानपरिणामाद्धेतोः पृथग्भूत एव पुद्गलकर्मणः परिणामः । किमात्मनिवद्धास्पृष्ठं किमवद्धस्पृष्टं कर्मेति नयविभागेनाह । १४९ तमा गथा न व्याख्याता । किंतु गायात्रेयैणवाष्टमोंतराधिकारः समापित: Page #80 -------------------------------------------------------------------------- ________________ __ सनातनजैनग्रंथमालायांजीवे कम्मं वद्धं पुढे चेदि ववहारणयमणिदं । सुद्धणयस्स दु जीवे अवद्धपुढे हवइ कम्मं ॥१५१॥ जीवे कर्म वद्धं स्पृष्टं चेति व्यहारनयभणितं । शुदनयस्य तु जीवे अवद्धस्पृष्टं भवति कर्म ॥१५॥ तात्पर्यवृत्तिः-जीवे कम्मं वद्धं पुहं चेदि ववहारणयभाणदं जीवेऽधिकरणभूते वर्द्ध संश्लेषरूपेण क्षीरनीरवत्सबद्धं स्पृष्टं योगमात्रेण लग्नं च कर्मेति व्यवहारनयपक्षो व्यवहारनयाभिप्रायः । सुद्धणयस्स दु जीवे अवदपुढं हवइ कम्मं शुद्धनयस्याभिप्रायेण पुनर्जीवेधिकरणभूते अवद्धं स्पृष्टं कर्म इति निश्चयव्यवहारनयद्वयविकल्परूपं शुद्धात्मस्वरूपं न भवतीति भावार्थः । अथ यस्माद्वद्वाबद्धादिविकल्परूपं नयस्वरूपमुक्तं तस्माच्छुद्धपारिणामिकपरमभावग्राहकेण शुद्धद्रव्यार्थिकनयेन बद्धाबद्धादिनयविकल्परूपो जीवो न भवतीति प्रतिपादयति । आत्मख्याति:- जीवपुद्गलकर्मणोरेकबंधपर्यायत्वेन तदतिव्यतिरेकाभावाज्जीवे बद्धास्पृष्टं कर्मेति व्यवहारनयपक्षः । जीवपुद्गलकर्मणोरनेकद्रव्यत्वेनात्यंतव्यतिरेकाज्जीवेऽबद्धस्पृष्टं कर्मेति निश्चयपक्षः । ततःकि कम्मं वद्धमवद्धं जीवे एवं तु जाण णयपक्खं । पक्खातिकतो पुण भण्णदि जो सो समयसारो ॥१५२॥ कर्म बद्धमबद्धं जीवे एवं तु जानीहि नयपक्ष । पक्षातिक्रांतः पुनर्भण्यते यः स समयसारः ॥१५२॥ तात्पर्यवृत्तिः-कम्मं वद्धमवद्धं जीवे एवं तु जाण णयपक्खं जीवेधिकरणभूते कर्म बद्धमबद्धं चेति योऽसौ विकल्पः स उभयोपि नयपक्षपातः स्वीकार इत्यर्थः पक्खातिकतो पुण भण्णदि जो सो समयसारो नयपक्षातिक्रांतो भण्यते यः स समयसारः शुद्धात्मा। तद्यथा व्यवहारेषा बद्धो जीव इति नयविकल्पः शुद्धजीवस्वरूपं न भवति निश्चयेनाबद्धो जीव इति च नयविकल्पः शुद्धजीवस्वरूपं न भवति निश्चयव्यवहाराभ्यां बद्धाबद्धजीव इति वचनविकल्पः शुद्धजीवस्वरूपं न भवति । कस्मादिति. चेत् ? श्रुतविकल्पा नया इति बचनात् । श्रुतज्ञानं च क्षायोपशमिकं क्षायोपशमस्तु ज्ञानावरणीयक्षयोपशमजनितत्वात् । यद्यपि व्यवहारनयेन छद्मस्थापेक्षया जीवस्वरूपं भण्यते तथापि केवलज्ञानापेक्षयाशुद्धजीवस्वरूपं न भवति । तर्हि कथं भूतं जीवस्वरूपमिति चेत् ? योसौ नयपक्षपातरहितस्वसंवेदनज्ञानी तस्याभिप्रायेण बद्धाबद्धमूढामूढादिनयविकल्परहितं चिदानंदैकस्वभावं जीवस्वरूपं भवतीति । तथा चोक्तं य एव मुक्त्वा नयपक्षपातं स्वरूपगुप्ता निवसंति नित्यं । विकल्पजालच्युतशांतचित्तास्तएव साक्षादमृतं पिवंति ॥ ६८॥ एकस्य बद्धो न तथा परस्य चितिद्वयोविति पक्षपातौ ।। यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चिदेव ॥ ६९॥ समयाख्यानकाले या बुद्धिर्नयद्वयात्मिका । वर्तते बुद्धतत्त्वस्य सा स्वस्थस्य निवर्तते ॥ हेयोपादेयतत्त्वे तु विनिश्चित्य नयद्वयात् । त्यक्त्वा हेयमुपादेयेवस्थानं साधुसम्मतं ॥ अथ नयपक्षातिक्रांतस्य शुद्धविस्य किं स्वरूपमिति पृष्टे सति पुनर्विशेषेण कथयति । आत्मख्यातिः--यः किल जीवे बद्धं कर्मेति यश्च जीवेऽबद्धं कर्मेति विकल्पः स द्वितयोपि हि नयपक्षः । य एवैनमतिक्रामति स एव सकलविकल्पातिक्रांतः स्वयं निर्विकल्पैकाविज्ञानघनस्वभावो भूत्वा साक्षात्समयसारः संभवति । तत्र यस्तावज्जीवे बद्धकर्मेति विकल्पयति स जीवेऽबद्धं कर्मेति एक पक्षमति Page #81 -------------------------------------------------------------------------- ________________ ७९ ... समयप्राभृतं । क्रामन्नपि न विकल्पमतिकामति । यस्तु जीवेऽबद्धं कर्मेति विकल्पयति सोपि जीवे बद्धं कर्मेत्येकं पक्षमतिक्रामन्नपि न विकल्पमतिक्रामति । यः पुनर्जीवे बद्धमबद्धं च कर्मेति विकल्पयति स तु तं द्वितयमपि पक्षमनतिक्रामन्न विकल्पमतिकामति । ततो य एव समस्तनयपक्षमतिकामति स एव समस्तं विकल्पमतिकामति । य एव समस्तं विकल्पमतिकामति स एव समयसारं विंदति । यद्येवं तर्हि को हि नाम पक्षसंन्यासभावनां न नाटयति । य एव मुक्त्वा नयपक्षपातं स्वरूपगुप्ता निवसंति नित्यं । विकल्पजालच्युतशांतचित्तास्तएव साक्षादमृतं पिवंति ॥ ७० ॥ एकस्य वद्धो न तथा परस्य चितिद्वयो-विति पक्षपातौ । यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चिदेव ॥ ७१ ॥ एकस्य मूढो न तथा परस्य चितिद्वयोविति पक्षपातौ । यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चिदेव ॥ ७२ ॥ एकस्य रक्तो न तथा परस्य चितिद्वयोविति पक्षपातौ । यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चिदेव ॥ ७३ ॥ एकस्य दुष्टो न तथा परस्य चितिद्वयोविति पक्षपातौ । यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चिदेव ॥ ७४ ॥ एकस्य कर्ता न तथा परस्य चितिद्वयोविति पक्षपातौ । यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चिदेव ॥ ७५ ॥ एकस्य भोक्ता न तथा परस्य चितिद्वयो-विति पक्षपातौ । यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खल्लु चिच्चिदेव ॥ ७६ ॥ एकस्य जीवो न तथा परस्य चितिद्वयोविति पक्षपातौ । यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चिदेव ॥ ७७ ॥ एकस्य सूक्ष्मो न तथा परस्य चितिद्वयोर्कीविति पक्षपातौ । यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिञ्चिदेव ॥ ७८ ॥ एकस्य हेतुर्न तथा परस्य चितिद्वयोविति पक्षपातौ । यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चिदेवं ॥ ७९ ॥ एकस्य कार्य न तथा परस्य चितिद्वयो-विति पक्षपातौ । यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चिदेव ॥ ८ ॥ एकस्य भावो न तथा परस्य चितिद्वयोविति पक्षपातौ । यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चिदेव ॥ ८१ ॥ एकस्य चैको न तथा परस्य चितिद्वयोाविति पक्षपातौ । यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चिदेव ॥ ८२ ॥ एकस्य शांतो न तथा परस्य चितिद्वयोर्कीविति पक्षपातौ । यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चिदेव ॥ ८३ ॥ एकस्य नित्यो न तथा परस्य चितिद्वयो-विति पक्षपातौ । यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चिदेव ॥ ८४ ॥ एकस्य वाच्यो न तथा परस्य चितिद्वयोर्कीविति पक्षपातौ । यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चिदेव ।। ८५॥ एकस्य नाना न तथा परस्य चितिद्वयोविति पक्षपातौ। , यस्तत्त्ववेदीःच्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चिदेव ॥ ८६ ॥ Page #82 -------------------------------------------------------------------------- ________________ 10. सनातनजैनग्रंथमालायांएकस्य चेत्यो तथा न परस्य चितिद्वयोाविति पक्षपातौ । यस्तत्त्ववेदी च्युतपक्षपातस्तस्याति नित्यं खलु चिच्चिदेव ॥ ७ ॥ एकस्य दृश्यो न तथा परस्य चितिद्वयोविति पक्षपातौ । यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चिदेव ॥ ८ ॥ एकस्य वेद्यो न तथा परस्य चितिद्वयोविति पक्षपातौ । यस्तत्त्ववेदी च्युतपक्षपातस्तस्याति नित्यं खलु चिच्चिदेव ॥ ८९ ॥ एकस्य भातो न तथा परस्य चितिद्वयोविति पक्षपातौ । यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चिदेव ॥९० ॥ स्वेच्छासमुच्छलदनल्पविकल्पजालामेवं व्यतीत्य महतीं नयपक्षकक्षा । अंतर्वहिः समरसैकरसस्वभावं स्वं भावमेकमुपयात्यनुभूतिमात्रं ॥ ११ ॥ इंद्रजालमिदमेवमुच्छलत्पुष्कलोच्चलविकल्पवीचिभिः । यस्य विस्फुरणमेव तत्क्षणं कृत्स्नमस्यति तदस्मि चिन्महः ॥ ९२ ॥ पक्षातिक्रांतस्य किं स्वरूपमिति चेत् ? दोण्हवि णयाण भणियं जाणइ णवरंतु समयपडिवतो। ण दु णयपक्खं गिण्हदि किंचिवि णयपक्खपरिहीणो॥१५३॥ द्वयोरपि नययोर्भणितं जानाति केवलं तु समयप्रतिवद्धः । ___न तु नयपक्षं गृह्णाति किंचिदपि नयपक्षपरिहीनः ।।१५३॥ तात्पर्यवृत्तिः-योसौ नयपक्षपातरहितः स्वसंवेदनज्ञानी तस्याभिप्रायेण बद्धाबद्धमूढामूढादिनयविकल्परहितं चिदानंदैकस्वभावं । दोण्हवि णयाण भणियं जाणइ यथा भगवान् केवली निश्चयव्यवहाराभ्यां द्वाभ्यां भणितम) द्रव्यपर्यायरूपं जानाति । णवरं तु समयपरिवद्धो तथापि नवरि केवलं सहजपरमानंदैकस्वभावस्य समयस्य प्रतिवद्ध आधीनः सन् णयपक्खमरिहीणो सततसमुल्लसन् केवलज्ञानरूपतया श्रुताज्ञानावरणीयक्षयोपशमजनितविकल्पजालरूपान्नयद्वयपक्षपातादूरीभूतत्वात् ण दु णयपक्खं गिण्हदि किंचिवि नतु नयपक्षं विकल्पं किमप्यात्मरूपतया गृह्णाति तथायं गणधरदेवादिछद्मस्थजनोपि नयद्वयोक्तं वस्तुस्वरूपं जानाति तथापि नवरि केवलं चिदानंदैकस्वभावस्य समयस्य प्रतिवद्ध आधीनः सन् श्रुतज्ञानावरणीयक्षयोपशमजनितविकल्पजालरूपान्नयद्वयपक्षपातात् शुद्धनिश्चयेन दूरीभूतत्वान्नयपक्षपातरूपं स्वीकारं विकल्पं निर्विकल्पसमाधिकाले शुद्धात्मस्वरूपतया न गृह्णाति । अथ शुद्धपारिणामिकपरमभावग्राहकेण शुद्धद्रव्यार्थिकनयेन नयविकल्पस्वरूपसमस्तपक्षपातेनातिक्रांत एव समयसारे इत्येव तिष्ठति । आत्मख्यातिः-यथा खलु भगवान्केवली श्रुतज्ञानावयवभूतयोर्व्यवहारनिश्चयनयपक्षयोः विश्वसाक्षितया केवलं स्वरूपमेव जानाति न तु सततमुल्लसितसहजविमलसकलकेवलज्ञानतया नित्यस्वयमेव विज्ञानघनभूतत्वाच्छुतज्ञानभूमिकातिक्रांततया समस्तनयपक्षपरिग्रहदूरीभूतत्वात्कंचनापि नयपक्षं परिगृह्णाति तथा किल यः श्रुतज्ञानावयवभूतयोर्व्यवहारनिश्चयनयपक्षयोः क्षयोपशमविचूँभितश्रुतज्ञानात्मकविकल्पप्रत्युद्गमनेपि परपरिग्रहप्रतिनिवृत्तौत्सुक्यतया स्वरूपमेव केवलं जानाति न तु खरतरदृष्टिगृहीतसुनिस्तुषनित्योदितचिन्मयसमयप्रतिबद्धतया तदात्वे स्वयमेव विज्ञानघनभूतत्वात् श्रुतज्ञानात्मकसमस्तांतर्बहिर्जन्यरूपविकल्पभूमिकातिक्रांततया समस्तनयपक्षपरिग्रहभूतत्वात्कंचनापि नयपक्षं परिगृह्णाति स खलु निखिलविकल्पेभ्यः परतरः परमात्मा ज्ञानात्मा प्रत्यग्ज्योतिरात्मख्यातिरूपोनुभूतिमात्रः समयसारः। Page #83 -------------------------------------------------------------------------- ________________ नीचे लिखे सनातनजैनग्रंथ हमारे पास मिलते हैं। به د د د د महापुराण (जिनसेनाचार्यकृत आदिपुराण । हिंदी । गोमट्टसार-( कर्मकांड ) हिंदी टीकासहित ) अनुवाद सहित खडशः प्रकाशित होता है १४) प्रवचनसार-संस्कृत हिंदी टीकासहित प्रमेयकमलमार्तड न्याय-प्रभाचंद्र चार्यकृत ४) न्यायदीपिका-हिंदी टीकासह परीक्षामुख न्याय प्रमेयरत्नमाला टीका १) पुरुषार्थमिद्ध्युप य-हिंदी टोकासह सनातन जैन ग्रंथमाला प्रथमगुच्छक इसमें वृहद्व्य संग्रह-सटीक व हिंदीटीका सहित रत्न करण्डश्रावकाचार, पुरुषार्थसिदध्यपाय, आ ज्ञानार्णव-( योगप्रदीप ) हिंदीटीकासहित । त्मानुशासन, समाधिशतक, नयविवरण,युक्त्य. सप्तमंगीतरंगिणी-हिंद टीकासह नुशासन, तत्त्वार्थसूत्र ( मोक्षशास्त्र तत्त्वार्थ पंचास्तिकाय सध्यसार हिं' टी० सह १॥) सार, अध्यात्मतरंगिणी ( समयसार के कलशे ), समय पार-कुंद कुदं खामीकृत हिं०टी० सह ४) बृहत्स्वयंभूस्तोत्र, आप्तपरीक्षा, आप्तमीमांसा विश्वसोवनकोश-श्रीधरसेनकृत हिं०टी०स०१३) सटीक, परीक्षामुख और आलापपद्धति इस शाकटायन प्रक्रियामग्रइ-अभयचंद्र कृत ३) प्रकार १४ ग्रंथ छपे हैं रेशमी गुटका ) भगवती आराधनामार-प्रा. हिं टी०स० ४) जिनशतक सटीक-भगवत्समंतभद्राचार्यकृत ) षटपाहुड कुंदकुंदाचार्य-कृत सुभाषितरत्नसंदोह-आमेतिगत्याचार्यकृत इसमें धर्मसंग्रहश्रावकाचार३३ विषयोंका अपूर्व वर्णन व उपदेश है ॥ परमात्माप्रकाश-प्राकृत दोहात्मक, जीवंधरचंपूकाठग-भट्ठारहरिचंद्रस्य १) गणरत्नमहोदधि-( शब्दाणवका गणपाठ) नीतिवाक्यामनं सामदेवसरिकृत. क्षत्रचूड़ामाण-हिंदीटीकासह वादीभसिंहसूरिकृत ॥ नमिनिर्वाण काव्य-महाकवि वाग्भट्टकृत यशोधरचरित काव्य-वादिराजसूरकृत ) गद्य चतामणि वादीभसिंहसूरे कृत काव्यानुशासन सटीक रत्नकरंडश्रावकाचार-सान्वयार्थ वाग्भट्टालंकार सटीक द्रव्यसंग्रह-सान्वार्थ अलंकाराचिंतामाणि-अजितसेनाचार्यकृत ) भक्तामरस्तोत्र ( आदिनाथस्तोत्र ) सान्वयार्थ ।) चंद्रप्रभचरित-महाकाव्य वीरनंदीकृत भट्टाकलंकचरित्र-और अकलंकस्तोत्र हिंदी टी.) धर्मशमाभ्युदय महाकाव्य-भट्टारहार चंद्रस्य १) सूक्तमुक्तावली-हिंदी पद्य व सान्वयार्थ ) द्विसंधान महाकाव्य-सटीक धनंजयकृत १॥) बाग्स अणुवेक्खा- कुंदकुंदवामीकृत हिंदी टी.) यशतिलकचंपूकाव्य-सर्ट क महाकवि सोमदेव- जैननित्यपाठसंग्रह-१६ पाठों का गुटका ) सूगिकृत प्रथम खंड ३।।) उत्तरखंड मूल २) प्राणप्रियकाव्य-भक्तामरस्त त्र की समस्यापूर्ति ) पाभ्युिदय सटीक-महाकवि श्रीजिनसेनाचार्य भद्रबाहुचरित्र-हिंदीभाषानुवादसहित ) कृत इसमें मेघदूतके प्रत्येक श्लोकके प्रत्येक पाद की वसुनंदिश्रावकाचार प्राकृत ) समस्या पूर्ति की गई है ) प्रश्नोत्तररत्नमालिका-महाराज अमोघवर्ष कृत) जीवंधरचरित्र-भगवद् गुणभद्राचार्यकृत ) मोक्षशास्त्र तत्त्वार्थसूत्र ) मूल पंचाध्यायी-जैनसिद्धांतों का अपूर्व ग्रंथ (इनके सिवाय हिंदीभाषामें अनेक ग्रंथ मिलते हैं) मोक्षशास्त्र-(जैनदर्शन) हिंदीटीकासह उमास्वामी) मिलनेका पताजिनसहस्रनाम-जिनसेन और आशाधरकृत गोमट्टसार-जीवकांड ) उत्थानिका मूलगाथा । | मैनेजर-श्रीजैनग्रंथरत्नाकर कार्यालय और संस्कृत छाया सहित (गुटका) ) हीराबाग-पोष्ट-गिरगांव ( बंबई) हाराबाग-पाष्ट-गर من انت = تتت Page #84 -------------------------------------------------------------------------- ________________ इस ग्रंथमालामें नीचे लिखे ग्रंथ छपेंगे। ग्रंथनाम ग्रंथकर्ताओं के नाम जैनदर्शनग्रंथ । तत्त्वार्थाधिगममोक्षशास्त्रपर गंधहस्तमहाभाष्य । ८४००० श्लक.) श्रीमत्स्वामी समंतभद्राचार्य राजवाति कालंकार ( छपता है) श्रीमद्भट्टाकलंकदेव श्लोकवार्तिकालंकार स्याद्वादविद्यापति श्रीमद्विद्यानंदस्वामी जैन सिद्धांतग्रंथ । गोमट्टमार टीका श्रीमदभय चंद्रसिद्धांतचक्रवर्ति गोमदृमार टीका श्रीकशववर्णी परमात्माप्रकाश सटीक श्रीयागींद्रदेव नाटकत्रय सटीक श्रीमदमृतचंद्रसूरिप्रभृति जैनन्यायग्रंथ । न्यायविनिश्चयालंकार श्रीमद्भट्टाकलंकदेव न्यायकुमुदचंद्रोदय श्रीमत्प्रभाचंद्राचार्य आप्तमीमांसालंकृति ( अष्टसहस्री) स्याद्वादविद्यापति श्रीमद्विद्यानंदस्वामी जैनव्याकरणग्रंथ । शब्दानुशासन ( शाकटायन व्याकरण) श्रुतकेवलिदेशीयश्रीमत् शाकटायनाचार्य शब्दानुशासन अमोघवृत्ति सहित अमोघाचाय (?) शब्दाणवचंद्रिका (जैनेंद्रलघुवृत्ति) सोमदेवसूरि शब्दार्णव ( जैनेंदमहावृत्ति महित) श्रीमत्पूज्यपादस्वामी देवनंद्याचार्य शब्दार्णव (भाष्य वा न्यास) श्रीमत्प्रभाचंद्राचार्य जैनसाहित्यग्रंथ । अलंकारचिंतामणि सटीक श्रीमदजितसेनाचार्य (वादीभसिंहसूरि) विक्रांतकौरवीय नाटक महाकवि हस्तिमल्ल अंजनापवनंजय नाटक मैथिलीपरिणय नाटक सुभद्रा नाटिका च चतुःसंधान, सप्तसंधान, चतुर्विंशतिसंधान श्रीमत्पडितराज जगन्नाथ महाकवि पौराणिक काव्यग्रंथ । त्रिषष्टिशलाका महापुराण (प्राकृत) श्रीमत्पुष्पदंताचार्य हरिवंशपुराण और पद्मपुराण " पद्मपुराण ( जैनरामायण १८००० श्लोक) श्रीमदूरविषेणाचार्य पांडवपुराण ( जैनमहाभारत ) पार्श्वपुराण महाकविश्रीमद्वादिराजसूरि __गणितज्योतिष ग्रंथ। गणितसारसंग्रह गणिताचार्यशिरोमणि श्रीवीराचार्य त्रिलोकसार सटीक (प्राकृत) श्रीनेमिचंद्राचार्य जैन सिद्धांतचक्रवर्ति भद्रबाहुसंहिता , सार्द्धद्वयदीपप्रज्ञप्ति ज्योतिषाचार्य श्रीमद्भद्रबाहस्वामी जंबूद्वीपप्रज्ञप्ति श्रीपद्मनंद्याचार्य चंद्रसूर्यप्रज्ञप्ति श्रीमद मितगत्याचार्य Page #85 -------------------------------------------------------------------------- ________________ गांधी कस्तूरचंद्रस्यात्मज बालचंद्रस्य स्मरणार्थ । श्रीपरमात्मने नमः। सनातनजैनग्रंथमालायाः चतुर्थं खंडं। ३ श्रीमद्भगवत्कुंदकुंदाचार्यविरचितं समयप्राभृतं । (२) संपादक:श्रीयुत पंडित गजाधरलालजैनशास्त्री। Page #86 -------------------------------------------------------------------------- ________________ समय प्राभूतं। चित्स्वभावभरभावितभावाऽभावभावपरमार्थतयैकं । बंधपद्धतिमपास्य समस्तां चेतये समयसारमपारं ॥ ९३ ॥ पक्षातक्रांत एव समयसार इत्यवतिष्ठते ।। सम्मइंसणणाणं एदं लहदित्ति णवरि ववदेसं । सव्वणयपक्खरहिदो भणिदो जो सो समयसारो ॥१५॥ सम्यग्दर्शनज्ञानमेतल्लभंत इति केवलं व्यपदेशं । सर्वनयपक्षरहिसो भणितो यः स समयमारः ॥१४॥ तात्पर्यवृत्तिः-सवणयपक्खरहिंदो भणिदो जो सो समयसारो इंद्रियानिंद्रियजनितबहिर्विषयसमस्तमतिज्ञानविकल्परहितः सन् बद्धाबद्धादिविकल्परूपनयपक्षपातरहितं समयसारमनुभवनेव निर्विकल्पसमाधिस्थैः पुरुषैर्दश्यते ज्ञायते च यत आत्मा ततः कारणात् सम्मदंसणणाणं एवं कहदित्तिणवरि ववदेसं नवरि केवलं सकलविमलकेवलदर्शनज्ञानरूपव्यपदेशं संज्ञां लभते । न च बद्धाबद्धादिव्यपदशाविति । एवं निश्चयव्यवहारनयद्वयपक्षपातरहितशुद्धसमयसारव्याख्यानमुख्यतया गाथा चतुष्टयेन नवमोतराधिकारः समाप्तः। इत्यनेन प्रकारेण जाव ण वेदि विसेसं इत्यादिगाथामादिं कृत्वा पाठक्रमेणाज्ञानिसज्ञानिजीवयोः संक्षेपसूचनार्थ गाथाषदकं । तदनंतरमज्ञानिसज्ञानिजीवयोर्विशेषव्याख्यानरूपेणैकादश गाथाः। ततश्चेतनाचेतनकार्ययोरेकोपादानकर्तृत्वलक्षणद्विक्रियावादिनिराकरणमुख्यत्वेन गाथापंचविशतिः । तदनंतरं प्रत्यया एव कर्म कुर्वतीति समर्थनद्वारेण सूत्रसप्तकं । ततश्च जीवपुद्गलकथंचित्परिणामित्वस्थापनमुख्यत्वेन सूत्राष्टकं । ततः परं ज्ञानमयाज्ञानमयपरिणामकथनमुख्यतया गाथानवकं । तदनंतरमज्ञानमयभावस्य मिथ्यात्वादिपंचप्रत्ययभेदप्रतिपादनरूपेण गाथापंचकं । ततश्च जीवपुद्गलयोःपरस्परोपादानकर्तृत्वनिषेधमुख्यत्वेन गाथात्रयं । ततः परं नयपक्षपातरहितशुद्धसमयसारकथनरूपेण गाथाचतुष्टयं चेति समुदायेनाष्टाधिकसप्ततिगाथाभ नवभिरंतराधिकारैः समयसारव्याख्यायां शुद्धात्मानुभूतिलक्षणायां तात्पर्यवृत्तौ पुण्यपापादिसप्तपदार्थानांसंबंधी पीठिकारूपस्तृतीयो महाधिकारः समाप्तः। तत्रैवं सति जीवाजीवाधिकाररंगभूमौ नृत्यानंतरं श्रृंगारपात्रयोः परस्परपृथग्भाववत् शुद्धनिश्चयेन जीवाजीवौ कर्तृकर्मवेषविमुक्तौ निष्क्रान्ताविति । आत्मख्याति:-अयमेक एव केवलं सम्यग्दर्शनज्ञानव्यपदेशं किल लभते । यः खल्वखिलनयपक्षाक्षुण्णतया विश्रांतसमस्तविकल्पव्यापारः स समयसारः । यतः प्रथमतः श्रुतज्ञानावष्टंभेन ज्ञानस्वभावमास्मानं निश्चित्य ततः खल्वात्मकाख्यातये परख्यातिहेतूनखिला एवेंद्रियानिद्रियबुद्धीरवधार्य आत्माभिमुखीकृतमतिज्ञानतत्त्वः, तथा नानाविधपक्षालंबनेनानेकविकल्पैराकुलयंतीः श्रुतज्ञानबुद्धीरप्यवधार्य श्रुतज्ञानतत्त्वमप्यास्माभिमुखीकुर्वन्नत्यंतमविकल्पो भूत्वा झगित्येव स्वरसत एव व्यक्तीभवंतमादिमध्यांतविमुक्तमनाकुलमेकं केवलमखिलस्यापि विश्वस्योपरितरतमिवाखंडप्रतिभासमयमनंतं विज्ञानवनं परमात्मानं समयसारं विंदन्नेवात्मा सम्यग्दृश्यते ज्ञायते च ततः सम्यग्दर्शनं ज्ञानं च समयसार एव । आक्रामन्नविकल्पभावमचलं पक्षैर्नयानां विना सारो यः समयस्य भाति निभृतैरास्वाद्यमानः स्वयं । विज्ञानैकरसः स एष भगवान्पुण्यः पुराणः पुमान् ज्ञानं दर्शनमप्ययं किमथवा यत्किंचनैकोप्ययं ।९४॥ दूरं भूरिविकल्पजालगहने भ्राम्यन्निजौघाच्च्युतो दूरादेव विवेकनिम्नगमनान्नीतो निजौघं बलात् । विज्ञानैकरसस्तदेकरसिनामात्मनमात्मा हरन् आत्मन्येव सदा गतानुगततामायाययं तोयवत् ।९५/ १ केवलज्ञानदर्शनातींद्रियसुख स्वरूपात् । Page #87 -------------------------------------------------------------------------- ________________ ८२ समातनजैनग्रंथमालायां विकल्पकः परं कर्ता विकल्पः कर्म केवलं । न जातु कर्तृकर्मत्वं सविकल्पस्य नश्यति । ९६ । यः करोति स करोति केवलं यस्तु वेत्ति स तु वेत्ति केवलं । यः करोति न हि वेत्तिस क्वचित् यस्तु वेत्ति न करोति स कचित् ॥९७॥ ज्ञप्तिः करोतौ न हि भासतेंतः ज्ञप्तौ करोतिश्च न भासतेंतः । ज्ञप्तिः करोतिश्च ततो विभिन्ने ज्ञाता न कर्तेति ततः स्थितं च । ९८ । कर्ता कर्मणि नास्ति नास्ति नियतं कर्मापि तत्कर्तरि द्वंद्वं विप्रतिषिध्यते यदि तदा का कर्तृकर्मस्थितिः । ज्ञाता ज्ञातरि कर्म कर्माणि सदा व्यक्तेति वस्तुस्थितिर्नेपथ्ये वत नानटीति रभसा मोहस्तथाप्येष किं । ९९| अथवा नानाव्यतां तथापि कर्ता कर्ता भवति न यथा कर्म कर्मापि नैव ज्ञानं ज्ञानं भवति च यथा पुद्गलः पुद्गलोपि । ज्ञानज्योतिर्ज्वलितमचलं व्यक्तमंतस्तथेोच्चैश्चिच्छक्तीतां निकरभरतोऽत्यंतगंभीरभेतत् ॥१००॥ इति जीवाजीवौ कर्तृकर्मवेषविमुक्तौ निष्क्रांतौ । इति समयसारव्याख्यायामात्मख्यातौ द्वितीयोऽकः । तात्पर्यवृत्तिः - अथानंतरं निश्चयेनैकमपि पुद्गलकर्म व्यवहारेण द्विपदीभूतपुण्यपापरूपेण प्रविशति कम्ममसुहं कुसीलं इत्यादि गाथामादिं कृत्वा क्रमेणैकोनविंशतिसूत्रपर्यंतं पुण्यपापव्याख्यानं करोति । तत्र यद्यपि पुण्यपापयोर्व्यवहारेण भेदोऽस्ति तथापि निश्चयेन नास्ति इति व्याख्यानमुख्यत्वेन सूत्रषट्कं तदनंतरमध्यात्मभाषायाः शुद्धात्मभावनां विना आगमभाषया तु वीतरागसम्यक्त्वं विना व्रतदानादिकं पुण्यबंधकारणमेव नच मुक्तिकारणं । सम्यक्त्वसहितं पुन: परंपरया मुक्तिकारणं च भवति इति मुख्यतया परमहो खलु, इत्यादिसूत्रचतुष्टयं । ततः परं निश्चयव्यवहारमोक्षमार्गमुख्यत्वेन जीवादी सद्दहणं, इत्यादिगाथानवमं कथयतीति पुण्यपापपदार्थाधिकारसमुदायपातनिका । तद्यथा ब्राम्हण्याः पुत्रद्वयं जातं तत्रैक उपनयनवशाद्ब्राम्हणो जातः द्वितीयः पुनरुपनयनाभावाच्छूद्र इति । तथैकमपि निश्चयनयेन पुद्गलकर्म शुभाशुभ जीवपरिणामनिमित्तेन व्यवहारेण द्विधा भवतीति कथयति । आत्मख्यातिः - अथैकमेव कर्म द्विपात्रीभूय पुण्यपापरूपेण प्रविशति - तदथ कर्म शुभाशुभभेदतो द्वितयतां गतमैक्यमुपानयन् । ग्लपितनिर्भरमोहरजा अयं स्वयमुदेत्यवबोध सुधाप्लवः । १०१ । को दूरात्यजति मदिरां ब्राम्हणत्वाभिमानादन्यः शूद्रः स्वयमहमिति स्नाति नित्यं तयैव । द्वावप्येतौ युगपदुदरान्निर्गतौ शूद्रिकायाः शूद्रा साक्षादथ च चरतो जातिभेदभ्रमेण ॥ १०२ ॥ कम्ममसुहं कुसीलं सुहकम्मं चावि जाण सुहसीलं । किह तं होदि सुसीलं जं संसारं पवेसेदि ॥ १५५॥ कर्माशुभं कुशीलं शुभकर्म चापि जानीत सुशलिं । कथं तद्भवति सुशीलं यत्संसारं प्रवेशयति ।। १५५ ।। तात्पर्यवृत्तिः – कम्मममुहं कुमीलं सुहकम्मं चावि जाण मुहमीलं कर्माशुभं कुत्सितं - कुशीलं हेयमिति । शुभकर्म सुशीलं शोभनमुपादेयमिति केषां चिद्व्यवहारिणां पक्षः सन् निश्चयरूपेण पक्षांतरेण बाध्यते । कि तं होदि सुसीलं जं संसारं पत्रे सेदि निश्चयवादी ब्रूते कथं तत्पुण्यकर्म सुशीलं 1 १ रागादिरूपचिक्कणतायां २ मिथ्यात्वाद्यशुद्धपरिणामपरिणत जीवः ३ ज्ञानाववणादिपुद्रपिंडे Page #88 -------------------------------------------------------------------------- ________________ समयप्राभृतं । ८.३ शोभनं भवति ! यज्जीवं संसारे प्रवेशयति । हेतुस्वभावानुभवबंधरूपाश्रयाणां निश्चयेनाभेदात् कर्मभेदो बास्तीति । तथाहि हेतुस्तावत्कथ्यते शुभाशुभपरिणामो हेतुः । स च शुद्धनिश्वयेनाशुभत्वं प्रति, एक एव द्रव्यं पुण्यपापरूपं पुद्गलद्भव्यस्वभावः । सोऽपि निश्चयेन पुद्गलद्रव्यं प्रति, एक एव तत्फलं सुखदुःखरूपं स च फलरूपानुभवः । सोप्यात्मोत्थनिर्विकारसुखानंदापेक्षया दुःखरूपेणैक एव आश्रयस्तु शुभाशुभबंधरूपः । सोऽपि बंधं प्रत्येक एव इति हेतुस्वभावानुभवाश्रयाणां सदाप्यभेदात् । यद्यपि व्यवहारेण भेदोऽस्ति तथापि निश्वयेन शुभाशुभकर्मभेदो नास्ति इति व्यवहास्त्रादिनां पक्षो बाध्यत एव । अथोभयं कर्म, अविशेषेण बंघकारणं साधयति. आत्मख्यातिः - शुभाशुभजीव परिणाम निमित्तत्वे सतिः कारणभेदात् शुभाशुभपुद्गल परिणाममयत्वे सति स्वभावभेदात् शुभाशुभफलपाकत्वे सत्यनुभवभेदात् शुभाशुभमोक्षबंधमार्गाश्रितत्वे सत्याश्रयभेदात् चैकमपि कर्म . किंचिच्छुभं किंचिदशुभमिति केषां चित्किल पक्षः, स तु प्रतिपक्षः । तथाहि शुभोऽशुभो वा जीवपरिणामः केवलाज्ञानत्वादेकस्तदेकत्वे सति. कारण भेदात् एकं कर्म । शुभोऽशुभा वा पुद्गलपरिणामः केवल पुद्गलमयत्वादेकस्तदेकत्वे सति स्वभावाभेदादेकं कर्म । शुमोऽशुभो वा फलपाकः केवलपुद्गलमयत्वादेकस्तदेकत्वे सत्यनुभवाभेदादेकं कर्म । शुभाशुभौ मोक्षबंधमार्गौ तु प्रत्येकं केवलजीवपुद्गलमयत्वादनेकौ तदनेकत्वे सत्यपि केवलपुद्गलमयबंधमार्गाश्रितत्वेनाश्रय़ाभेदादेकं कर्म ॥ हेतुस्वभावानुभवाश्रयाणां सदाप्यभेदान्नहि कर्मभेदः । तद्वंधमार्गाश्रितमेकमिष्टं स्वयं समस्तं खलु बंधहेतुः । १०३ । अथोभयं कर्माविशेषेण बंधहेतुं साधयति - सौवणिय णिलं वंधदि कालायसं च जह पुरिसं । बंधदि एवं जीवं सुहमसुहं वा कदं कम्मं ।। १५६ ॥ araणकमपि निगळं बध्नाति कालायसमपि च यथा पुरुषं । नात्येवं जीवं शुभमशुभं वा कृतं कर्म । १५६ । तात्पर्यवृत्ति:: - यथा सुवर्णनिगलं कोहनिगलं च. अविशेषेण पुरुषं बध्नाति तथा शुभमशुभं वा कृतं कर्म अविशेषेण जीवं बनातीति । किंच । भोगाकांक्षानिदानरूपेण रूपलावण्य सौभाग्यकामदेवे - न्द्राहमिंद्रख्यातिपूजालाभादिनिमित्तं यो व्रततपश्चरणदानपूजादिकं करोति स पुरुष: तक्रनिमित्तं रत्नविक्रयवत्, भस्मनिमित्तं.रत्नराशि द्रहनवत, सूत्रनिमित्तं हारचूर्णवत्, कोद्रव क्षेत्रवृत्तिनिमित्तमगुरुवनच्छेदनवत्। वृथैव व्रतादिकं नाशयति । यस्तु शुद्धात्मभावनासाधनार्थ बहिरंगवत तपश्चरणदानपूजादिकं करोति स परं परया मोक्षं लभते इति भावार्थ: । अथोभयकर्म विशेषेण मोक्षमार्गविषये निषेधयति आत्मख्यातिः- शुभमशुभं च कर्माविशेषेणैव पुरुषं बध्नाति बंधत्वाविशेषात् कंचनकालायसनिगलवत्अथोभयं कर्म प्रतिषेधयति - तादु कुसीलेहिय रायं माकाहिं माव संसग्गं । साधीणो हि विणासो कुसीलसंसग्गरायेण ॥ १५७ ॥ तस्मात्तु कुशीलैरागं मा कुरु मा वा संसर्ग । स्वाधीनो हि विनाशः कुशीलसंसर्गरागाभ्याम् । १५७ । १ सूवर्णैः । Page #89 -------------------------------------------------------------------------- ________________ ४ सनातमजैनग्रंथमालायांतात्पर्यवृत्तिः-तम्हादु कुसीलेहिय रायं मा काहि माघ संसरगं तस्मात् कारणात् कुशीलैः कुत्सितैः शुभाशुभकर्मभिः सह चित्तगतरागं मा कुरु। बहिरंगवचनकायगतसंसर्ग च मा कुरु कस्मात् ? इति चेत् । साधीणो हि विणासो कुसीलसंसग्गरायण कुशीलसंसर्गरागाभ्यां स्वाधीनो नियमेन विनाशः निर्विकल्पसमाधिविघातरूपः स्वार्थभ्रंशो हि स्फुटं भवति अथवा स्वाधीनस्यात्मसुखस्य विनाश इति । अथोभयकर्म प्रति निषेधं स्वयमेव श्रीकुन्दकुन्दाचार्यदेवा दृष्टांतदाष्टाताभ्यां समर्थयंति आत्मख्य ति:-कुशीलशुभाशुभकर्मभ्यां सह रागसंसौ प्रतिषिद्धौ बंधहेतुत्वात् कुशीलमनोरमाऽमनोरमकरेणुकुट्टिनीरागसंसर्गवत् । अथोभयं कर्म प्रतिषेध्यं स्वयं दृष्टांतेन समर्थयते जहणाम कोवि पुरिसो कुच्छियसीलं जणं वियाणित्ता। वजेदि तेण समयं संसग्गं रायकरणं च ॥ १५८ ॥ एमेव कम्मयपडी सीलसहावं हि कुच्छिदं णादु । वजति परिहरंति य ते संसग्गं सहावरदा ॥ १५९ ॥ यथा नाम कश्चित्पुरुषः कुत्सितशीलं जनं विज्ञाय । वर्जयति तेन समकं संसर्ग रागकरणं च । १५८ । एवमेव कर्मप्रकृतिशीलस्वभावं च कुत्सितं ज्ञात्वा । वर्जयंति परिहरंति च तत्संस स्वभावरताः । १५९ । तात्पर्यवृत्तिः यथा नाम स्फुटमहो वा कश्चित्पुरुषः कुत्सितशीलं जनं ज्ञात्वा वजेदि तेण समय मंसगं रायकरणं च तेन समकं सह बहिरंगवचनं कार्यगतं संसर्ग मनोगतं रागं च वर्जयतीति दृष्टांत: एमेव कम्पपयडी सीलसहावं हि कुच्छिदं णादु एवमेव पूर्वोक्तदृष्टान्तन्यायेन कर्मणः प्रकृतिशीलं स्वभावं कुत्सितं हेयं ज्ञात्वा वज्जति परिहरंति य तं संसगं सहावरदा इह जगति वर्जयन्ति तत्संसर्ग वचनकायाम्यां परिहरन्ति मनसा रागं च तस्य कर्मणः के ते? समस्तद्रव्यभावगतपुण्यपापपरिणामपरिहारपरिणताभेदरत्नत्रयलक्षणनिर्विकल्पसमाधिस्वभावरताः साधव इति दार्टीतः । अथोभयकर्म शुद्धनिश्चयेन केवलं बंधहेतुं न केवलं बंधहेतुं प्रतिषेभ्यं चागमेन साधयति आत्मख्याति:-यथा खलु कुशलः कश्चिद्वनहस्ती स्वस्य बंधाय उपसर्पन्तीं चटुलमुखीं मनोरमा ममनोरमां वा करेणुकुट्टिनी तत्त्वतः कुत्सितशीला विज्ञाय तया सह रागसंसर्गों प्रतिषेधयति । तथा किलात्माऽरागो ज्ञानी स्वस्य बंधाय उपसर्पती मनोरमाममनोरमां वा सर्वामपि कर्मप्रकृति तत्त्वतः कुत्सितशीलां विज्ञाय तया सह रागसंसर्गौ प्रतिषेधयति ॥ अथोभयकर्महेतुं प्रतिषेध्यं चागमेन साधयति-- रत्तो बंधदि कम्मं मुंबदि जीवो विरागसपण्णो । एसो जिणोवदेसो तमा कम्मेसु मारजः ॥ १० ॥ रक्तो बनाति कर्म मुच्यते जीवो विरागसम्पन्नः । एष जिनोपदेशः तस्मात् कर्मसु मारण्यस्व । १६० । तात्पर्यवृत्तिः रत्तो बंधदि कम्मं मुंचदि जीवो विरागसंपण्णो यस्मात् कारणात् रक्तः स कर्माणि: बनाति। मुच्यते जीवः कर्मजनितभावेषु विरागसंपन्नः एसो जिणोवदेसो तह्मा कस्मेसुमारज्ज एष प्रत्यक्षीभूतो जिनोपदेशः कर्ता, किं करोति ! उभयं कर्म बंधहेतुंन केवलं बंधहेतुं प्रतिषेध्यं हेयंच कथयति तस्मात्कारणतां Page #90 -------------------------------------------------------------------------- ________________ समयप्राभृतं । शुभाशुभसंकल्पविकल्परहितत्वेन स्वकीयशुद्धात्मभावनोत्पन्ननिर्विकारसुखामृतरसस्वादेन तृप्तीभूत्वा शुभाशुभ कर्मणि मा रज्यस्व रागं मा कुर्विति । एवं यद्यप्यनुपचरितासद्भूतव्यवहारेण द्रव्यपुण्यपापयोर्भेदोऽस्ति अशुद्ध निश्चयेन पुनस्तद्वयजनितेंद्रियसुखदुःखयोर्मेदोऽस्ति तथापि शुद्धनिश्चयतयेन नास्ति इति व्याख्यानमुख्य त्वेन गाथाषट्कं गतं । अथ विशुद्धज्ञानशब्दवाच्यं परमात्मानं मोक्षकारणं कथयति । ___ आत्मख्याति:-य: खलु रक्तोऽवश्यमेव कर्म वनीयात् विरक्त एव मुच्येतेत्ययमागमः स सामान्येन रक्तवनिमित्तत्वाच्छुभमशुभमुभयकर्माविशेषेण बंधहेतुं साधयति तदुभयमपि कर्म प्रतिषेधयति । कर्म सर्वमपि सर्वविदो यधुंधसाधनमुशन्त्यविशेषात् । तेन सर्वमपि तत्प्रतिषिद्धं ज्ञानमेव विहितं शिवहेतुः । १०४॥ निषिद्धे सर्वस्मिन् सुकृतदुरिते कर्मणि किल प्रवृत्ते नैष्कर्म्य न खलु मुनयः सत्यशरणाः । तदा ज्ञाने ज्ञानं प्रतिचरितमेषां हि शरणं स्वयं विन्दन्त्येते परमममृतं तत्र निरताः ॥ ५ ॥ अथ ज्ञानहेतुं साध्यति परमहो खलु समओ सुद्धो जो केवली मुणी णाणी। तमिहिदा सभावे मुणिणो पावंति णिवाणं ॥ १६१ ॥ परमार्थः खलु समयः शुद्धो यः केवली मुनिर्ज्ञानी । तस्मिन् स्थिताः स्वभावे मुनिनः प्राप्नुवंति निर्वाणं । १६९ । तात्पर्यवृत्तिः-परमहो खलु समओ उत्कृष्टार्थः परमार्थः स कः ? परमात्मा अथवा धर्मार्थकाममोक्षलक्षणेषु परमार्थेषु परम उत्कृष्टो मोक्षलक्षणार्थः परमार्थः सोऽपि स एव । अथवा मतिश्रुतावधिमनःपर्यय केवलज्ञानभेदरहितत्वेन निश्चयेनैकः परमार्थः सोऽपि परमात्मैव खलु स्फुटं समओ सम्यगयति गच्छति शुद्धगु पर्यायान् परिणमतीति समयः । अथवा सम्यगयःसंशयादिरहितो बोधो ज्ञानं यस्य भवतिस समयः। अथवासमि त्यकत्वेन परमसमरसीभावेन स्वकीयशुद्धस्वरूपे अयनं गमनं परिणमनं समयः सोऽपि स एव शुद्धो रागादिभाव कर्मरहितो यः । सोऽपि सएव केवली परद्रव्यरहितत्वेनासहायः केवली सोऽपि स एव मुणी मुनिः । प्रत्यक्षज्ञानी । सोऽपि परमात्मैव । तमिंद्विदा सहावे मुणिणो पावंति णिव्वाणं । तस्मिन् परमात्मस्वभावे स्थिता वीतरागस्वसंवेदनज्ञानरता मुनयस्तपोधना निर्वाणं प्राप्नुवंति लभंत इत्यर्थः ॥ अथ तास्मन्नेव परमात्मनि स्वसंवेदनज्ञानरहितानां व्रततपश्चरणादिकं पुण्यबंधकारणमेवेति प्रतिपादयति आत्मख्यातिः–ज्ञानं मोक्षहेतुः, ज्ञानस्य शुभाशुभकर्मणोरबंधहेतुत्वे सति मोक्षहेतुत्वस्य तथोपपत्तेः तत्तु सकलकर्मादिजात्यंतरविविक्तविजातिमात्रः परमार्थ आत्मेति यावत् स तु युगपदेकीभावप्रवृत्तज्ञानगमन तया समयः। सकलनयपक्षासकीर्णैकज्ञानतया शुद्धः । केवलचिन्मात्रवस्तुतया केवली। मननमात्रभावमात्रतया मुनिः स्वयमेवज्ञानतया ज्ञानी । स्वस्य भवनमात्रतया स्वस्वभावः स्वतश्चितो भवनमात्रतया सद्भावो वेति शन्दभेदेऽपि न च वस्तुभेदः । अथ ज्ञानं विध्यापयति परमम्मिय अठिदो जो कुणदि तवं वदं च धारयदि । तं सव्वं वालतवं वालवदं विति सव्वह्व ॥ १६२ ॥ परमार्थे चास्थितः करोति तपो व्रतं च धारयति । तत्सर्व वालतपो नालव्रत विदंति सर्वज्ञाः ॥१६॥ Page #91 -------------------------------------------------------------------------- ________________ सयति सनातनजैनग्रंथमालाया___तात्पर्यवृत्तिः -परमहम्मिय अविदो जो कुणदि तवं वदं च धारयदि तस्मिन्नेव पूर्वसूत्रोक्तपरमार्थलक्षणे परमात्मस्वरूपे अस्थितो सहितो यस्तपश्चरणं करोति व्रतादिकं च धारयति तं सब्बं चालतवं. वाळवदं विंति सबह-तत्सर्व वालतपश्चरणं वालवतं त्रुघंति कथयंति के ते ! सर्वज्ञाः । कस्मात् ! इति चेत् पुण्यपापोदयजनितसमस्तेंद्रियसुखदुःखाधिकारपरिहारपरिणताभेदरत्नत्रयलक्षणेन विशिष्टानंदज्ञानेन रहितस्वात् इति ॥ अथ स्वसंवेदनज्ञानं तथैवाज्ञानं चेति यथाक्रमेण मोक्षबंधहेतू दर्शयति आत्मख्यातिः-ज्ञानमेव मोक्षस्य कारणं विहितं परमार्थभूतज्ञानशून्यस्याज्ञानकृतयोततपःका मणोः बंधहेतुत्वाद्वालन्यपदेशेन प्रतिषिद्धत्वे सति तस्यैव मोक्षहेतुत्वात् ॥ अथ ज्ञानाज्ञानमोक्षबंधहेतू नियमयति वदणियमाणिधरता सीलाणि तहा तवं च कुवंता। परमट्टवाहिरा जेण तेण ते होंति अण्णाणी ॥ १६३ ॥ व्रतनियमान् धारयंतः शीलानि तथा तपश्च कुर्वाणा:। परमार्थबाह्या पेन तेन ते भवन्त्यज्ञानिनः ॥१३॥ तात्पर्यवृत्तिः-बदणियमाणि धरंता सीलाणि तहा तवं च कुव्वंता त्रिगुप्तसमाधिलक्षणा:भेदज्ञानाद् बाह्या ये ते व्रतनियमान् धारयंतः, शीलानि तपश्चरणं च कुर्वाणा अपि मोक्षं न. लभंते. कस्मादितिचेत् परमवाहिरा जेण तेण ते होति अण्णाणी येन कारणेन पूर्वोक्तभेदज्ञानाभावात् परमार्थबाह्याः स्तेन कारणेन ते भवंत्यज्ञानिनः । अज्ञानिनां तु कथं मोक्षः ? ये तु परमसमाधिलक्षणभेदज्ञानसहितास्ते तु व्रतनियमानधारयन्तोऽपि शीलानि तपश्चरणं बाह्यद्रव्यरूपमकुर्वाणा अपि मोक्षं लभते । तदपि कस्मात् ! येन कारणेन पूर्वोक्तभेदज्ञानसभावात् परमार्थादबाह्यास्तेन कारणेन ते च ज्ञानिनो भवंति । ज्ञानिनां तु, मोक्षो भवत्येवेति । किंच विस्तरः व्रतनियमशीलबहिरंगतपश्चरणादिकं विनापि यदि मोक्षो भवति । तर्हि संकल्पविकल्परहितानां विषयव्यापारेऽपि पापं नास्ति तपश्चरणाभावेऽपि मोक्षो भवति इति सांख्यशैवमतानुसारिणो. वदन्तीति तेषामेव मतं सिद्धमिति । नैवै निर्विकल्पत्रिगुप्तिसमाधिलक्षणभेदज्ञानसहितानां मोक्षो भवतीति विशेषेण बहुधा भणितं तिष्ठति । एवंभूतभेदज्ञानकाले शुभरूपा ये मनोवचनकायव्यापाराः परंपरया मुक्ति, कारणभूतास्तेऽपि न संति । ये पुनरशुभविषयकवायव्यापाररूपास्ते विशेषेण न संति । न हि चित्तस्थे रागभावे विनष्टे सति बहिरंगविषयव्यापारो दृश्यते । तंदुलस्याभ्यंतरे तुषे गते बहिरंगतुष इव । तदपि कस्मात् इतिचेत् निर्विकल्पसमाधिलक्षणभेदज्ञानविषयकषाययोद्वयोः परस्परं विरुद्धत्वात शीतोष्णवदिति ।। ___ अथ वीतरागसम्यक्त्वरूपां शुद्धात्मभावनां विहाय पुण्यामेवैकां, तेन मुक्तिकारणं ये वदंति तेषां, प्रतिबाधनार्थ पुनरपि दूषणं ददाति आत्मख्यातिः-ज्ञानमेव माक्षहेतुस्तदभावे स्वयमज्ञानभूतानामज्ञानिनामन्तव्रतनियमशीलतपः प्रभृतिशुभकर्मसद्भावेऽपि मोक्षाभावात् । अज्ञानमेव बंधहेतुः, तदभावे स्वयं ज्ञानभूतानां ज्ञानिनां बहिर्वतनियम शीलतपः प्रभृतिशुभकर्मासद्भावेऽपि मोक्षसद्भावात् ॥ यदेतद्ज्ञानात्मा ध्रुवमचलमाभाति भवनं शिवस्यायं हेतुः स्वयमपि यतस्तच्छिव इति । अतोन्यबंधस्य स्वयमपि यतो बंध इति तत् ततो ज्ञानात्मत्वं भवनमनुभूतिर्हिविहितं ॥ १०६ ॥ अथ पुनरपि पुण्यकर्मपक्षपातिनः प्रतिबोधनायोपक्षिपति१ आत्मख्यातौ तु णिब्वाणं ते ण विंदति इत्यपिपाठः । Page #92 -------------------------------------------------------------------------- ________________ समयप्राभृतं । परमट्टवाहिरा जे ते अण्णाणेण पुण्णमिच्छति । संसारगमणहेदुं विमोक्षहे, अयाणंता ॥ १६४ ॥ परमार्थवाला ये ते अज्ञानेन पुण्यमिच्छति । संसारगमनहेतुं विमोक्षहेतुमजानंतः ॥१६॥ तात्पर्यवृतिः-इह हि केचन सकलकर्मक्षयमोक्षमिच्छंतोऽपि निजपरमात्मभावनापरिणताभेदरसत्रयलक्षणं परमसामायिक पूर्व दीक्षाकाले प्रतिज्ञायापि चिदानंदैकस्वभावशुद्धात्मसम्यक्श्रद्धानपरिज्ञानानुष्ठान सामर्थ्याभावात्पूर्वोक्तपरमसामायिकमलभमानाः परमार्थबाह्याः संतः संसारगमनहेतुत्वेन बंधकारणमप्यज्ञानभा वेन कृत्वा पुण्यमिच्छति । किं कुर्वन्तः ? अभेदरत्नत्रयात्मकं मोक्षकारणमजानंतः । अथवा द्वितीयव्याख्यानं बंधहेतुमपि पुण्यं मोक्षहेतुमिच्छंति । किं कुर्वन्तः ? पूर्वोक्तमभेदरत्नत्रयात्मकपरमसामायिकं मोक्षकारणमजानंतः संतः इति । किं च निर्विकल्पसमाधिकाले व्रताव्रतस्य स्वयमेव प्रस्तावो नास्ति । अथवा निश्चयव्रतं तदेवेत्यभिप्रायः। इति वीतरागसम्यक्त्वरूपां शुद्धात्मोपादेयभावनां विना व्रततपश्चरणादिकं पुण्यकारणमेव भवति तद्भावनासहितं पुनर्बहिरंगसाधकत्वेन परंपरया मुक्तिकारणं चेति व्याख्यानमुख्यत्वेन गाथाचतुष्टयं गतं । एवं गाथादशकेन पुण्याधिकारः समाप्तः ॥ अथ सविकल्पत्वात्पराश्रितत्वाच्च निश्चयेन पापाख्यानमुख्यत्वेन, अथवा निश्चयव्यवहारमोक्षमार्गमुख्यत्वेन जीवादीसहहणमित्यादिसूत्रद्वयं । तदनंतरं मोक्षहेतुभूतो योऽसौ सम्यक्त्वादिजीवगुणस्तत्प्रच्छादनमुख्यत्वेन । वत्थस्ससेदभावो इत्यादि गाथात्रयं । ततः परं पापं पुण्यंच बंधकारणमेवेतिमुख्यतया । सोसवणाण इत्यादि सूत्रमेकं । ततश्च मोक्षहेतुभूतो योसौ जीवो गुणी तत्प्रच्छादनमुख्यतया सम्मत्त इत्यादि गाथात्रयमिति समुदायेन सूत्रनवकपर्यंतं तृतीयस्थले व्याख्यानं करोति । तद्यथा अथ तेषामज्ञानिनां निश्चयमोक्षहेतुं दर्शयति आत्मख्यानिः-इह खलु केचिन्निखिलकर्मपक्षक्षयसंभावितात्मलाभं मोक्षमभिलषंतोऽपि तद्धेतुभूतं सम्यग्दर्शनज्ञानचारित्रस्वभावपरमार्थभूतज्ञानभवनमात्रमैकाग्यलक्षणं समयसारभूतं सामायिक प्रतिज्ञायापि दुरंतकर्मचक्रोत्तरणक्लीवतया परमार्थभूतज्ञानानुभवनमात्रसामायिकमात्मस्वभावमलभमानाः प्रतिनिवृत्तस्थूल तमसक्केशपरिणामर्मतया प्रवृत्तमानस्थूलतमविशुद्धिपरिणामकर्माणः कर्मानुभवगुरुलाघवप्रतिपत्तिमात्रसंतुष्टचेतसः स्थूललक्ष्यतया सकलं कर्मकांडमनुन्मूलयंतः स्वयमज्ञानादशुभकर्म केवलं बंधहेतुमध्यास्य एवं व्रतनियमशीलतपःप्रभृतिशुभकर्मबंधहेतुमप्यजानंतो मोक्षहेतुमभ्युपगच्छति । अथ परमार्थमोक्षहेतुस्तेषां दर्शयति जीवादी सद्दहणं सम्मत्तं तसिमधिगमो णाणं । रागादी परिहरणं चरणं एसो दु मोक्खपहो ॥ १६५ ॥ जीवादिश्रद्धानं सम्यग्दर्शनं तेषामधिगमो ज्ञानं । रागादिपरिहरणं चाग्निं एष तु मोक्षपथः ॥१५॥ . जीवादीसहहणं सम्मत्तं जीवादिनवपदार्थानां विपरीताभिनिवेशरहितत्वेन श्रद्धानं सम्यग्दर्शनं तेपिमधिगमो णाणं तेषामेव संशयविमोहविभ्रमरहितत्वेनाधिगमो निश्चयः परिज्ञानं सम्यग्ज्ञानं रागादी परिहरणं चरणं तेषामेव संबधित्वेन रागादिपरिहारश्चारित्रं एसोदु मोक्खपहो इत्येव व्यवहारमोक्षमार्गः । अथवा तेषामेव भूतार्थेनाधिगतानां पर्दाथानां शुद्धात्मनः सकाशात् भिन्नत्वेन सम्यगवलोकनं Page #93 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायांनिश्चयसम्यक्त्वं । तेषामेव सम्यकपरिच्छित्तिरूपेण शुद्धात्मनो भिन्नत्वेन निश्चयः सम्यग्ज्ञानं । तेषामेव शुद्धात्मनौ भिन्नत्वेन निश्चयं कृत्वा रागादिविकल्परहितत्वेन स्वशुद्धात्मन्यवस्थानं निश्चयचारित्रमिति निश्चयमोक्षमार्गः । अथ निश्चयमोक्षमागहेतोः शुद्धात्मस्वरूपात् यदन्यच्छुभाशुभमनोवचनकायव्यापाररूपं कर्म तन्मोक्षमार्गो न भवति इति प्रतिपादयति आत्मरूयाति:-मोक्षहेतुः किल सम्यग्दर्शनज्ञानचारित्रं । तत्र सम्यक्दर्शनं तु जीवादिश्रद्धानस्वभावेन ज्ञानस्य भवनं । जीवादिज्ञानस्वभावेन ज्ञानस्य भवनं ज्ञानं । रागादिपरिहरणस्वभावेन ज्ञानस्य भवनमापातं । ततो ज्ञानमेव परमार्थमोक्षहेतुः । अथपरमार्थमोक्षहेतोरन्यत् कर्म प्रतिषेधयति मोत्तूण णिच्छयह ववहारे ण विदुसा पवट्ठति । परमट्टमस्सिदाण दु जदीण कम्मक्खओ होदि ॥१६॥ मुक्त्वा निश्चयार्थ व्यवहारे, न विद्वांसः प्रवर्तते । परमार्थमाश्रितानां तु यतीनां कर्मक्षयो भवति ॥ १६६ ।। तात्पर्यवृत्तिः-मोत्तूण णिच्छयहं ववहारे निश्चयाथै मुक्त्वा व्यवहारविषये ण विदुसा पपट्ठति विद्वांसो ज्ञानिनो न प्रवर्तते । कस्मात् । परमट्ठमासिदाण दु जदीण फम्मक्खओ होदि सम्यग्दर्शज्ञानचारित्रकाग्यपरिणतिलक्षणं निजशुद्धात्मभावनारूपं परमार्थमाश्रितानां तु यतीनां कर्मक्षयो भवतीति यतः कारणादिति । एवं मोक्षमार्गकथनरूपेण गाथाद्वयं गतं । ___अथ मोक्षहेतुभूतानां सम्यग्दर्शनज्ञान चारित्राणां जीवगुणानां वस्त्रस्य मलेनेव मिथ्यात्वादिकर्मणा प्रतिपक्षभूतेन प्रच्छादनं दर्शयति आत्मख्याति:-यः खलु परमार्थमोक्षहेतोरतिरिक्तो व्रततपःप्रभृतिशुभकर्मा केषांचिन्मोक्षहेतुः स र्वोऽपि प्रतिषिद्धस्तस्य द्रव्यान्तरस्वभावत्वात् तत्स्वभावेन ज्ञानभवनस्याभवनात् । परमार्थमोक्षहेतोरेवैकद्रव्यखभावत्वात् तत्स्वभावेन ज्ञानभवनस्य भवनात् । वृत्तं ज्ञानस्वभावेन ज्ञानस्य भवनं सदा एकद्रव्यस्वभावत्वान्मोक्षहेतुस्तदेव तत् ॥ १०७ ॥ वृत्तं कर्मस्वभावेन ज्ञानस्य भवनं न हि द्रव्यांतरस्वभावत्वान्मोक्षहेतुर्न कर्म तत् ॥ १०८ ॥ मोक्षहेतुतिरोधानाद्वंधत्वात्स्वयमेव च मोक्षहेतुतिरोधायि भावत्वात्तन्निषिध्यते ॥ १०९ ॥ अथ कर्मणो मोक्षहेतुतिरोधानकरणं साधयति वत्थस्य सेदभावो जह णासेदि मलविमेलणाच्छण्णो । मिच्छत्तमलोच्छण्णं तह सम्मत्तं खु णादव्वं ॥१६७॥ वस्थस्स सेदभावो जह णासेदि मलविमेलणाच्छण्णो । अण्णाणमलोच्छण्णं तह णाणं होदि णादव्वं ॥१६८॥ वत्थस्स सेदभावो जह णासेदि मलविमेलणाच्छण्णो। तह दु कसायाच्छण्णं चारित्तं होदि णादव्वं ।।१६९॥ वस्त्रस्य श्वेतमावो यथा नश्यति मलविमेलनाच्छन्नः । मिथ्यात्वमलावछन्नं तथा च सम्यक्त्वं खलु ज्ञातव्यं ॥ १६७ ।। Page #94 -------------------------------------------------------------------------- ________________ समयप्राभृतं । पखस्य वेतभावो यथा नश्यति मलविमेलनाच्छन्नः । अज्ञानपकावच्छन्नं तथा ज्ञानं भवति ज्ञातव्यं ॥ १५८ ॥ पत्रस्य श्वेतभावो यथा नश्यति मलविमेलनाच्छन्नः। कषायमळावच्छन्नं तथा चारित्रमपि ज्ञातव्यं ।। १६९ ।। तात्पर्यवृत्तिः-वस्त्रस्य श्वेतभावो यथा नश्यति मलविमेलना, मलस्य विशेषेण मेलना संबंधस्तेन छन्नः । तथैव मिथ्यात्वमलेनोच्छन्नो मोक्षहेतुभूतो जीवस्य सम्यक्त्वगुणो नश्यतीति ज्ञातव्यं । वस्त्रस्य श्वेत भावो यथा नश्यति मलविमेलना, मलस्य विशेषेण मेलना संबंधस्तेनच्छन्नः । तथैवाज्ञानमलेनोच्छन्नो मोक्षहेतुभूतो जीवस्य ज्ञानगुणो नश्यतीति ज्ञातव्यं । वस्त्रस्य श्वेतभावो यथा नश्यति मलविमेलना, मलस्य विशेषेण मेलना संबंधस्तेनच्छन्नः । तथा कषायकर्ममलेनोच्छन्नो मोक्षहेतुभूतो जीवस्य चारित्रगुणो नश्य तीति ज्ञातव्यं । इति मोक्षहेतुभूतानां सम्यक्त्वादिगुणानां मिथ्यात्वाज्ञानकषायप्रतिपक्षैः प्रच्छादनकथनरूपेण गाथात्रयं गतं । भय कर्म स्वयमेव बंधहेतुं कथं मोक्षकारणं भवतीति कथयति आत्मख्यातिः-ज्ञानस्य सम्यक्त्वं मोक्षहेतुः स्वभावः, परभावेन मिथ्यात्वनाम्ना कर्ममलेनावच्छन्नत्वात तिरोधीयते । परभावभूतमलावच्छिन्नश्वेतबस्त्रस्वभावभूतश्वेतस्वभाववत् । ज्ञानस्य ज्ञानं मोक्षहेतुः स्वभावः, परभावेनाज्ञाननाम्ना कर्ममलेनावच्छन्नत्वात्तिरोधीयते । परभावभूतमलावच्छन्नश्वेतवस्त्रस्वभावभूतश्वेतस्वभाववत् । ज्ञानस्य चारित्रं मोक्षहेतुः स्वभावः, परभावेन कषायनाम्ना कर्ममलेनावच्छन्नत्वात्तिरोधीयते । परभावभूतमलावच्छिन्नश्वेतवस्त्रस्वभावभूतश्वतस्वभाववत् । अतो मोक्षहेतुतिरोधानकरणात् कर्म प्रतिषिद्धं । अथ कर्मणः स्वयं बंधत्वं साधयति सो सव्वणाणदरसी कम्मरयेण णियेण उच्छण्णो । संसारसमावण्णो णवि जाणदि सव्वदो सव्वं ॥१७॥ स सर्वज्ञानदर्शी कमरजसा निनावच्छिन्नः । संसारसमापन्नो न विजानाति सर्वतः सर्वे ।। १७० ॥ सो सव्वणाणदरसी कम्मरयेण णियेण पच्छण्णो-स शुद्धात्मा निश्चयेन समस्तपरिपूर्णज्ञानदर्शनस्वभावोऽपि निजकर्मरजसोच्छन्नो झंपितःसन् । संसारसमावण्णो णवि माणदि सव्वदो सव्वं । संसारसमापनः, संसारे पतितः सन् नैव जानाति सर्व वस्तु, सर्वतः सर्वप्रकारेण । ततो ज्ञायते कर्म कर्तृजीवस्य स्वयमेव बंधरूपं कथं मोक्षकारणं भवतीति । एवं पापवत्पुण्यं बंधकारणमेवेति कथनरूपेण गाथा गता । अथ पूर्व मोक्षहेतुभूतानां सम्यक्त्वादिजीवगुणानां मिथ्यात्वादिकर्मणा प्रच्छादनं भवतीति कथितं-इदानीं तद्गुणाधारभूतो गुणी जीवो मिथ्यात्वादिकर्मणा प्रच्छाद्यते-इति प्रकटीकरोति आत्मरूयातिः–यतः यमेव ज्ञानतया विश्वसामान्यविशेषज्ञानशीलमपि ज्ञानमनादिस्थपुरुषापराधप्रवर्तमानकर्ममलावच्छन्नत्वादेव बंधावस्थायां सर्वतः सर्वमप्यात्मानमविजानदज्ञानभावेनैवेदमेवमवतिहते । ततो नियतं स्वयमेव कर्मैव बंधः । अतः स्वयं बंधत्वात्कर्म प्रतिषिद्धं । भथ कर्मणो मोक्षहेतुतिरोधायिभावत्वं दर्शयति सम्मत्तंपडिणिवद्धं मिच्छत्तं जिणवरे हि परिकहिदं । तस्सोदयेण जीवो मिच्छादिहित्ति, णादव्वो ॥१७१॥ माणस्स पडिणिवद्धं अण्णाणं जिणवरे हि परिकहिदं । Page #95 -------------------------------------------------------------------------- ________________ सनातमजैनग्रंथमालायोतस्सोदयेण जीवो अण्णाणी होदि णादव्वो ॥१७॥ चारित्तपडिणिवद्धं कसायं जिणवरे हि पण्णत्तं । तस्सोदयेणजीवो अच्चरिदो होदि णादवो ॥१७॥ सम्यक्त्वप्रतिनिबद्धं मिथ्यात्वं जिनवरैः परिकथितं । तस्योदयेन जीवो मिथ्यादृष्टिरिति ज्ञातव्यः ॥ १७१ ।। ज्ञानस्य प्रतिनिबद्धं अज्ञानं जिनवरैः परिकथितं । तस्योदयेन जीवोऽज्ञानी भवति ज्ञातव्यः ॥ १७२ ।। चारित्रप्रतिनिबद्धं कषायो जिनवरैः पज्ञप्तः । तस्योदयेन जीवोऽचारित्रो भवति ज्ञातम्यः ॥ १७३ ॥ तात्पर्यवत्तिः सम्यक्त्वप्रतिनिबद्धं प्रतिकूलं मिथ्यात्वं भवतीति जिनवरैः परिकथितं तस्योदयेन जीवो मिथ्यादृष्टिर्भवतीति ज्ञातव्यः । ज्ञानस्य प्रतिनिबद्ध प्रतिकूलमज्ञानं भवतीति जिनवरैः परिकथित सस्योदयेन जीवश्चाज्ञानी भवतीति ज्ञातव्यः । चारित्रस्य प्रतिनिबद्धः प्रतिकूल: क्रोधादिकषायो भवतीति जिनवरैः परिकथितः तस्योदयेन जीवोऽचरित्रो भवतीति ज्ञातव्यः । एवं मोक्षहेतुभूतो योऽसौ जीवो गुणी तत्प्रच्छादनकथनमुख्यत्वेन गाथात्रयं गतं । इति सम्यक्त्वादिजीवगुणा मुक्तिकारणं तद्गणपरिणतो वा जीवो मुक्तिकारणं भवति तस्माच्छुद्धजीवाद्भिनं शुभाशुभमनोवचनकायव्यापाररूपं, तद्व्यापारेणोपार्जितं या शुभाशुभकर्म मोक्षकारणं न भवतीति मत्वा हेयं त्याज्यामिति व्याख्यानमुख्यत्वेन गाथानवकं गतं । द्वितीयपातनिकाभिप्रायेण पापाधिकारव्याख्यानमुख्यत्वन गतं । अत्राह शिष्यः । जीवादी सहहणमित्यादि व्यवहाररत्नत्रयव्याख्यानं कृतं तिष्ठति कथं पापाधिकार इति । तत्र परिहारः-~यद्यपि व्यवहारमाक्षमार्गो निश्चयरत्नत्रयस्योपादेयभूतस्य कारणभूतत्वादुपादेयः परंपरया जीवस्य पवित्रताकरणात् पवित्रस्तथापि बहिद्रव्यालंबनत्वेन पराधीनत्वात्पतति नश्यतीत्येकं कारणं । निर्विकल्पसमाधिरतानां व्यवहारविकल्पालंबनेन स्वरूपात्पतितं भवतीति द्वितीयं कारणं । इति निश्चयनयापेक्षया पापं । भथवा सम्यक्त्वादिविपक्षभूतानां मिथ्यात्वादीनां व्याख्यानं कृतमिति वा पापाधिकारः । इतिसमयसारव्याख्यायां शुद्धात्मानुभूतिलक्षणायां तात्पर्यवृत्तौ स्थलत्रयसमुदायेनैकोनविंशतिगाथाभिश्चतुर्थः पुण्यपापाधिकारः समाप्तः । तत्रैव सति व्यवहारनयेन पुण्यपापरूपेण विभेदमपि कर्म निश्चयेन श्रृंगाररहितपात्रवत्पुद्गलरूपेजैकीभूय निष्क्रांतं ॥ आत्मख्याति:-सम्यक्त्वस्य मोक्षहेतोः स्वभावस्य प्रतिबंधकं किल मिथ्यात्वं, तत्तु स्वयं कर्मैव तदुदयादेव ज्ञानस्य मिथ्यादृष्टित्वं । ज्ञानस्य मोक्षहेतोः स्वभावस्य प्रतिबंधकमज्ञानं तत्तु स्वयं कर्मैव तदुदयादेव झानस्याज्ञानत्वं । चारित्रस्य मोक्षहेतोः स्वभावस्य प्रतिबंधकः किल कषायः सतु स्वयं कर्मैव तदुदयादेव झानस्याचारित्रत्वं । अतः स्वयं मोक्षहेतुतिरोधायिभावत्वात्कर्म प्रतिषिद्धं । सन्यस्तव्यमिदं समस्तमपि तत्कर्मैव मोक्षार्थिना सन्यस्ते सति तत्र का किल कथा पुण्यस्य पापस्य वा । सम्यक्त्वादिनिजस्वभावभवनान्मोक्षस्य हेतुर्भवन्भेष्कर्म्यप्रतिबद्धमुद्धतरसं ज्ञानं स्वयं धावति ॥१॥ यावत्पाकमुपैति कर्मविरतिर्ज्ञानस्य सम्यङ् न सा कर्मज्ञानसमुच्चयोऽपि विहितस्तावन्न काचित्क्षतिः । किंवत्रापि समुल्लसत्यवशतो यत्कर्म बंधाय तन्मोक्षाय स्थितमेकमेव परमं ज्ञानं विमुक्तं स्वतः ॥२॥ मनाः कर्मनयावलम्बनपरा ज्ञानं न जानंति ये मना ज्ञाननयैषिणोऽपि यदतिस्वच्छंदमंदाधमाः । निशस्योपरि ते तरंति सततं ज्ञानं भवंतः स्वयं ये कुर्वति म कर्म जात न बनं बांति प्रमाटमा - n Page #96 -------------------------------------------------------------------------- ________________ समयप्राभृतं । • भेदोन्मादभ्रमरसभरान्नाटयत्पीतमोहं मूलोन्मूलं सकलमपि तत्कर्म कृत्वा वलेन । . हेलोन्मीलत्परमकलया सार्धमारद्धकोल ज्ञानज्योतिः कवलिततमः प्रोज्जजम्भे भरेण ॥ ४ ॥ इति पुण्यपापरूपेण द्विपात्रीभूतमेकपात्रीभूय कर्म निष्क्रांतं ॥ इति समयसारव्याख्यायामात्मख्याती तृतीयोंकः ॥ - तात्पर्यत्तिः -अंथ. प्रविशत्याश्रवः । यत्र सम्यग्भेदभावनापरिणतः कारणसमयसार-.. रूपः सवरो नास्ति तत्राश्रवो भवतीति संवरविपक्षद्वारेण चतुर्दशगाथापर्यंतमाश्रवव्याख्यानं करोति । तत्रादौ भेदज्ञानात्-शुद्धात्मोपलाभो भवति इति संक्षेपव्याख्यानभुख्यत्वेन उवओगे-इत्यादि गाथात्रयं । तदनंतरं भेदज्ञानात्कथं शुद्धात्मोपलाभो भवतीति प्रश्ने परिहाररूपेण जहकणयमाग्गि इत्यादि गाथाद्वयं । ततः परं शुद्धभावनया पुनः शुद्धो भवतीति मुख्यत्वेन सुद्धं तु वियाणंतो इत्यादि गाथैकं । ततः परं केन प्रकारेण संवरों भवतीति पूर्वपक्षे कृते सति परिहारमुख्यतया अप्पाणमप्पणा इत्यादि गाथात्रयं । अथात्मा परोक्षस्तस्य ध्यानं कथं क्रियेतेति पृष्टे सति देवतारूपदृष्टांतेन परोक्षेऽपि ज्ञायत इति परिहाररूपेण उवदेसेण इत्यादि गाथाद्वयं । तदनंतरं, अथोदयप्राप्तप्रत्यामतानां रागाद्यध्यवसानानाम भावे सति जीवगतानां रागादिभावाश्रवाणामभावो भवतीत्यादि संवरक्रमाख्यानमुख्यत्वेन तेसिं हेद इत्यादि गाथात्रयं । एवं संवरविपक्षद्वारेणाश्रवव्याख्याने समुदायपातनिका । तद्यथा प्रथमतस्तावच्छुभाशुभकर्मसंवरस्य परमोपायभूतं निर्विकारस्वसंवेदनज्ञानलक्षणं भेदज्ञानं निरूपयति. आत्मख्यातिः-अथ प्रविशति संवरः। आसंसारविरोधिसंवरजयैकांतावलिप्तास्रवः न्यक्कारात्प्रतिलब्धनित्यविजयं संपादयत्संवरं। न्यावृत्तं पररूपतो नियमितं सम्यक् स्वरूपे स्फुरज्ज्योतिश्चिन्मयमुज्वलं निजरसप्रारभारमुज्मृम्भते १ तत्रादावेव सकलकर्मसंवरणस्य परमोपायभेदविज्ञानमभिनंदतिः उवओगे उवओगो कोहादिसु णत्थि कोवि उवयोगो । कोहे कोहो चेव हि उवओगे णस्थि खलु कोहो ॥१७॥ अठवियप्पे कम्मे णोकम्मे चावि णत्थि उवओगो । उवओगलिय कम्मे णोकम्मे चावि णो अत्थि ॥१७५॥ एदं तु अविवरीदं गाणं जइया दु होदि जीवस्स । तइया ण किंचि कुवदि भाव उवओगसुद्धप्पा ॥१७६।। उपयोगे उपयोगः क्रोधादिषु नास्ति कोप्युपयोगः । क्रोधे क्रोधश्चैव हि उपयोगे नास्ति खलु क्रोधः ॥१७॥ अष्टविकल्पे कर्मणि नोकमणि चापि नास्त्युपयोगः । उपयोगेऽपि च कर्म नोकर्म चापि नो अस्ति ॥१७५|| एतत्वविपरीतं ज्ञानं यदा भवति जीवस्य । न किंचित्करोति भावमुपयोगशुद्धात्मा ॥१७६।। + यासां खलु गाथानां समुल्लेखः, आत्मख्यातिकारैः संवरप्रकरणे कृतस्तासामेव तात्पर्यवृत्तिकारैः, आस्रवप्रकरण, तत्र संवरप्रतिपक्ष आस्रवइति संवरत्यागपक्षं मुख्यतया कुक्षीकृत्य तात्पर्यवृत्ती संवरस्थाने अखबः आस्वस्थाने च संबर इति विज्ञेयं । २ गाथामेकामित्यपि क. पुस्तके पाठ Page #97 -------------------------------------------------------------------------- ________________ ९२ सनातनजैनग्रंथमालायां__ तात्पर्यवृत्तिः-उवओगे उपभोगो ज्ञानदर्शनोपयोगलक्षणत्वादभेदननात्मैवोपयोगस्तस्मिन्नुपयोगाभिधाने शुभात्मन्युपयोग आत्मा तिष्ठति कोहादिसु णत्थि कोवि उपभोगो शुद्धनिश्चयेन क्रोधादिपरिणामेषु नास्ति कोप्युपयोग आत्मा कोहे कोही चेव हि क्रोधे क्रोधश्चैव हि स्फुटं तिष्ठति उवओगे पत्थि खलु कोहो उपयोगे शुद्धात्मनि नास्ति खलु स्फुटं क्रोधः॥ ___ भविपणे कम्मे णोकम्म चावि णत्थि उवओगो तथैव चाष्टविधज्ञानावरणादिदव्यकर्मणि, भौदारिकशरारादिनोकर्मणि चैव नास्त्युपयोगः- उपयोगशब्दवाच्यः शुद्धबुद्धकस्वभावः परमात्मा उवओगलिय कम्मे णोकम्मे चापि णो अस्थि उपयोगे शुद्धात्मनि शुद्धनिश्चयेन कर्म नोकर्म चैव नास्ति इति। एदं तु भाववरीदं गाणं मइया दु हादि जीवस्म इदं तु चिदानंदैकस्वभावशुद्धात्मसंवित्तिरूपं विपरीताभिनिवेशरहितं भेदज्ञानं यदा भवति जीवस्य तझ्या ण किंचि कुवदि भावं उवओग सुद्धप्पा तस्माद्भेदविज्ञानात्स्वात्मोपलंभो भवति शुद्धात्मोपलंभे जाते किमपि मिथ्यात्वरागादिभावानः करोति न परिणमति । कथंभूतः सन् ? निर्विकारचिदानंदैकशुद्धोपयोगशुद्धात्मा शुद्धस्वभावः सन्निति । यत्रैवं भूतो संवरो नास्ति तत्राश्रयो भवत्यस्मिन्नधिकार सर्वत्र ज्ञातव्यमिति तात्पर्य । एवं पूर्वप्रकारेण भेदविज्ञानात शुद्धात्मोपलाभो भवति । शुद्धात्मोपलंभे सति मिथ्यात्वरागादिभाव न करोति ततो नवतरकर्मसंवरो भवतीति संक्षेपव्याख्यानमुख्यत्वेन गाथात्रयं गतं । अथ कथं भेदज्ञानादेवं शुद्धात्मोपलंभो भवतीति पृच्छति मात्मख्यातिः-नखल्वेकस्य द्वितीयमस्ति द्वयोनिप्रदेशत्वेनैकसत्तानुपपत्तेस्तदऽसत्वे च तेन सहाधाराधेयसंबंधोऽपि नास्त्येव ततः स्वरूपप्रतिष्ठत्वलक्षण, एवाधाराधेयसंबंधोऽवतिष्ठते तेन ज्ञानं जानतायां स्वरूपे प्रतिष्ठितं । जानताया ज्ञानादपृथग्भूतत्वात् ज्ञाने एव स्यात् । क्रोधादीनि क्रुध्यतादौ स्वरूपे प्रतिष्ठितानि क्रुध्यतादेः क्रोधादेः पृथग्भूतत्वात्क्रोधादिष्वेव स्युः, न पुनः क्रोधादिषु कर्मणि नोकर्मणि वा ज्ञानमस्ति । नच ज्ञाने क्रोधादयः कर्म नोकर्म वा संति परस्परमत्यंतस्वरूपवैपरीत्येन परमार्थाधाराधेय संबंधशून्यत्वात् । नच ज्ञानस्य जानतास्वरूपं तथा क्रुध्यतादिरपि क्रोधादीनां च यथा क्रुध्यतादि स्वरूपं तथा जानतापि कथंचनापि व्यवस्थापयितुं शक्येत जानतायाः क्रुध्यतादेश्च भावभेदेनोद्भासमानत्वात् स्वभावभेदाच वस्तुभेद एवोत नास्ति ज्ञानाज्ञानयोराधाराधेयत्वं । किं च यदा किलैकमेवाकाशं स्त्रबुद्धिमधिरोप्याधाराधेयभावो विभाव्यते तदा शेषद्रव्यांतराधिरोपनिरोधादेव बुद्धेर्न भिन्नाधिकरणापेक्षा प्रभवति । तदप्रभवे चैकमाकाशमेवैकस्मिन्नाकाश एव प्रतिष्ठितं विधायतो न पराधाराधेयत्वं प्रतिभाति ततो ज्ञानमेव ज्ञाने एव क्रोधादय एव क्रोधादिष्वेवेति, साधु सिद्धं भेदविज्ञानं ॥ चैद्रूप्यं जड़रूपतां च दधतोः कृत्वा विभाग द्वयोरतारुणदारणेन परितो ज्ञानस्य रागस्य च । भेदज्ञानमुदेति निर्मलमिदं मोदध्वमध्यासिताः शुद्धज्ञानघनौघमेकमधुना संतो द्वितीयच्युताः ॥ एवमिदं भेदज्ञानं यदा ज्ञानस्य वैपरीत्यकणिकामप्यनासादयदबिचलितमवतिष्ठते तदा शुद्धोपयोगमयात्मत्वेन ज्ञानं ज्ञानमेव केवलं सन्न किंचनापि रागद्वेषमोहरूपं भावमारचयति ततो भेदविज्ञानाच्छुद्धात्मोपलंभः प्रभवति । शुद्धात्मोपलंभात् रागद्वेषमोहाभावलक्षणः संवरः प्रभवति । कथं भेदविज्ञानादेव शुद्धात्मोपलंभ ? इतिचेत् - जह कणय मग्गितवियं कणयसहावं ण तं परिचयंदि । तहकम्मोदयतविदो ण जहदि णाणी दु णाणित्तं ॥१७७॥ एवं जाणदि णाणी अण्णाणी मुणदि रागमेवादं । अण्णाणतमोच्छण्णो आदसहावं अयाणतो ॥१७॥ Page #98 -------------------------------------------------------------------------- ________________ समयप्राभूत। पया कनकमग्नितप्तपपि कनकभावं न तत्परित्यजति । सथा कर्मोदयतप्तो न नहाति ज्ञानी तु ज्ञानित्वं ॥१७७॥ एवं जानाति ज्ञानी अज्ञानी नानाति रागमेवात्मानं । अज्ञानतमोऽवच्छन्नमात्मस्वभावमजानन् ॥१७८॥ तात्पर्यवृत्तिः--जा कणयमग्गितवियं कणय सहावं ण त परिचयदि--यथा कनकं सुवर्णमग्नितप्तमपि तं कनकस्वभावं न परित्यजति । तह कम्मोदय तचिदोण चयदि णाणी दुणणितं सेन प्रकारेण तीव्रपरीषहोपसर्गेण कर्मोदयेन संतप्तोऽपि रागद्वेषमोहपरिणामपरिहारपरिणलो भेदरत्नत्रयलक्षणभदज्ञाना न त्यजति । किं तत् ! -शुद्धात्मसंवित्तिलक्षणं ज्ञानित्वं पांडवादिवदिति । एवं जाणदि णाणी एवमुक्तप्रकारेण शुद्धात्मानं जानाति वीतरागस्वसंवेदनलक्षणभेदज्ञानी अण्णाणी मुणदि रागयेवादं अज्ञानी पुनः पूर्वोक्तभेदज्ञानाभावात् मिथ्यात्वरागादिरूपमेवात्मानं मनुते जानाति।कथंभूतः सन् ! अण्णाणतमोच्छण्णो अज्ञानतमसोच्छन्नः- प्रच्छादितो पितः । पुनरपि कथंभूतः सन् । आदसहावं अयाणतो निर्विकारपरमचैतन्यचमत्कारस्वभावं शुद्धात्मानं निर्विकल्पसमाधेरभावादजानन् अननुभवन् इति । एवं भेदज्ञानात्कथं शुद्धात्मोपलंभो भवतीति पृष्ठे प्रत्युत्तरकथनरूपेण गाथाद्वयं गतं । अथ कथं शुद्धात्मोपलंभात्संबर इति पुनरपि पृच्छति आत्मख्यातिः-यतो यस्यैव यथोदितभेदविज्ञानमस्ति स एव तत्सद्भावात् ज्ञानी सन्नैवं जानाति। यथा प्रचंडपावकप्रतप्तमपि सुवर्णं न सुवर्णत्वमपोहति तथा प्रचंडविपाकोपष्टब्धमपि ज्ञानं न ज्ञानत्वमपोहति, कारणसहस्रेणापि स्वभावस्यापोढुमशक्यत्वात् । तदपोहे तन्मात्रस्य वस्तुन एवोच्छेदात् । नचास्ति वस्तूच्छेदः सतो नाशासंभवात् । एवं जानंश्च कर्माक्रांतोऽपि न रज्यते न द्वेष्टि न मुह्यति किं तु शुद्धमात्मानमुपलभते । यस्य तु यथोदितं भेदविज्ञानं नास्ति स तदभावादज्ञानी सन्नऽज्ञानतमसाच्छन्नतया चैतन्यचमस्कारमात्रमात्मस्वभावमजानन् रागमेवात्मानं मन्यमानो रज्यते द्वेष्टि मुह्यते च न जातु शुद्धमात्मानमुपलभते । ततो भेदविज्ञानादेव शुद्धात्मोपलंभः । कथं शुद्धात्मोपलंभादेव संवर ! इति चेत् ।। सुद्धं तु वियाणंतो सुद्धमेवप्पयं लहदि जीवो। जाणंतो दु असुद्धं असुद्धमेवप्पयं लहदि ॥१७९॥ शुद्धं तु विजानन् शुदमेवात्मामं लभते जीवः । जानंस्त्वशुद्धमशुद्धमेवात्मानं लभते ॥१७९॥ तात्पर्यवृत्तिः-सुद्धं तु वियाणंतो सुद्धमेवप्पयं लहदि जीवो भावकर्मद्रव्यकर्मनोकर्मरहित मन्तज्ञानादिगुणस्वरूपं शुद्धात्मानं निर्विकारसुखानुभूतिलक्षणेन भेदज्ञानेन विजानन्ननुभवन् ज्ञानी जीवः । एवं गुणविशिष्टं यादृशं शुद्धात्मानं ध्यायति भावयति तादृशमेव लभते। कस्मात् ? इतिचेत् उपादानसदृशं कार्यमितिहेतोः जाणतो दु असुद्धं असुद्धमेवप्पयं लहदि अशुद्धमिथ्यात्वादिपरिणतमात्मानं जानन्ननुभवन् सन् अशुद्धं, नरनारकादिरूपमेवात्मानं लभते । स कः ? । अज्ञानी जीव इति । एवं शुद्धात्मोपलंभादेव कथं संवरो भवतीति पृष्टे प्रत्युत्तरकथनरूपेण गाथा मता। अथ केन प्रकारेण संवरो भक्तीति पृष्टे पुनरपि विशेषणोत्तरं ददाति भात्मखताति:-योहि नित्यमेवाच्छिन्नधारावाहिना ज्ञानेन शुद्धमात्मानमुपलभमानोऽवतिष्ठते स ज्ञानमयाद् भावात् ज्ञानमय एव भावो भवतीति कृत्वा प्रत्यगकर्मास्रवणनिमित्तस्य रागद्वेषमोहसंतानस्य Page #99 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायांनिरोधाच्छुद्धमेवात्मानं प्राप्नोति । यो हि नित्यमेवाज्ञानेनाशुद्धमात्मानमुपलभमानोऽवतिष्ठते सोऽझानमयाद्भावादज्ञानमयो भावो भवतीति कृत्वा प्रत्यक्कार्मास्रवणनिमित्तस्य रागद्वेषमोहसंतानस्यानिसेधादशुद्धमेवात्मानं प्राप्नोति । अतः शुद्धात्मोपलंभादेव संवरः । यदि कथमपि धारावाहिना. बोधनेन ध्रुवमुपलभमानः शुद्धमात्मानमास्ते । तदयमुदयमात्माराममात्मानमात्मा परपरिणतिरोधाच्छुद्धमेवाभ्युपैति ॥ १ ॥ केन प्रकारेण संवरो भवतीति चेत् अप्पाणमप्पणोरंभिदूण दो (सु) पुण्णपावजोगेसु । दंसणणाणमिठिदो इच्छाविरदो य अण्णाझ ॥१०॥ जो सव्वसंगमुक्को झायदि अप्पाणमप्पणो अप्पा । णवि कम्मं णोकम्म चेदा चिंतेदि एयत्तं ॥१८१॥ अप्पाणं झायंतो दसणणाणमइओ अणण्णमणो । लहदि अचिरेण अप्पाणमेव सो कम्मणिम्मुक्कं ॥१८॥ आत्मानमात्मना रुन्ध्वा द्विपुण्यपापयोगयोः । दर्शनज्ञाने स्थितः इच्छाविरतश्चान्यस्मिन् ॥१८०॥ पः सर्वसंगमुक्तो ध्यायत्याल्मानमात्मनात्मा। नापि कर्म नोकर्म चेतयिता चिंतयत्येकत्वं ॥१८॥ आत्मानं ध्यायन् दर्शनज्ञानमयोऽनन्यमनाः। लभतेऽचिरेणात्मानमेव स कर्मनिर्मुक्तं ।।१८२॥ तात्पर्यवृत्तिः-- अप्पाणमप्पणारंभिदणदो ( सु ) पुण्ण पावजोगेसु आत्मानं कर्मत्वापन्नं । आत्मना करणभूतेन । द्वयोः पुण्यपापयोगयोरधिकारभूतयोर्वर्तमानं स्वसंवेदनज्ञानवलेन शुभाशुभयोगाभ्यां सकाशाद्रुन्या व्यावर्त्य । दसणणाणमि ठिदो दर्शनज्ञाने स्थितः सन् । इच्छाविरदोय अण्णामि अन्यस्मिन् देहरागादिपरद्रव्ये, सर्वत्रेच्छारहितश्चेति प्रथमगाथा गता । जो सव्वसंगमुक्को झायदिअप्पाणमप्यणोअप्पा आत्मा, पुनरपि कथंभूतः सन्चसंगमुक्को निस्संगात्मतत्त्वविलक्षणबाह्याभ्यन्तरसर्व संगमुक्तः सन् । झायदि ध्यायति कं, अप्पाणं निजशुद्धात्मानं केन, करणभूतेन, अप्पणो स्वशुद्धात्मना। णवि कम्मं णोकम्मं नैव कर्म नोकर्म, ध्यायति, आत्मानं ध्यायन् । किं करोति चेदा चिंतेदि एवं गुणविशिष्टश्चेतयितात्मा चिंतयति । किं ?, एयक्तं एकोहं निर्ममः शुद्धो ज्ञानी योगीन्द्रगोचरः बाह्याः संयोगजा भावा मत्तः सर्वेऽपि सर्वथाः इत्यायेकलं, इति द्वितीयगाथा गता सो इत्यादि सो स पूर्वसूत्रद्वयोक्तः पुरुषः अप्पाणं झायंतो एवं पूर्वोक्तप्रकारेणात्मानं कर्मतापन्नं चिंतयन् , निर्विकल्परूपेण ध्यायन् सन् । दंसणणाणमइओ दशर्नज्ञानमयो भूत्वा । अणण्णमणों अनन्यमनाश्च लहदि लभते । कमेव, अप्पाणमेव आत्मानमेव कथंभूतं, कम्मणिम्मुक्कं भावफर्मद्रव्यकर्म नोकर्मविमुक्तं । केन, अचिरेण स्तोककालेन । एवं केन प्रकारेणं संवरो भवति, इति प्रश्ने सति विशेष, परिहारव्याख्यानमुख्यत्वेन गाथात्रयं गतं। अथ परोक्षस्यात्मनः कथं ध्यानं भवतीति प्रश्ने सत्युत्तरं ददाति । Page #100 -------------------------------------------------------------------------- ________________ समपत्राभूत। . आत्मख्याति:-याहि नाम रागद्वेषमोहसूले शुभाशुभयोगै वर्तमानः, दृढतरभेदविज्ञानावष्टंभेन, आ. स्मानं, आत्मनैवात्यंत रुंवा, शुद्धदर्शनज्ञानात्मद्रव्ये सुष्ठु प्रतिष्ठितं कृत्वा समस्तपरद्रव्येच्छापरिहारण समअसंगविमुक्तो भूत्वा नित्यमेवातिनिष्प्रकंपः सन्, मनागपि कर्मनोकर्मणोरसंस्पर्शेण, आत्मीयमात्मानमेवात्मना ध्यायन् स्वयं सहजचेतयितृत्वादेकत्वमेव चेतयते । स खल्वेकत्वचेतनेनात्यंतविविक्तं चैतन्य चमत्कारमात्मानं ध्यायन् शुद्धदर्शनज्ञानमयमात्मद्रव्यमवाप्तः शुद्धात्मोपलंभे सति समस्तपरद्रव्यमयत्व मतिक्रांतः सन् , अचिरेणैव सकलकर्मविमुक्तमात्मानमवाप्नोति, एष संवरप्रकारः ।। निजमहिमरतानां भेदविज्ञानशक्तया भवति नियतमेषां शुद्धमात्मोपलंभः ।। अचलितमखिलान्यद्रव्यदूरे स्थितानां भवति सति च तस्मिन्नक्षयः कर्ममोक्षः । केन क्रमेण संवरो भवतीति चेत् उवदेसेण परोक्खं रूवं जह पस्सिदूण णादेदि । भण्णदि तहेव धिप्पदि जीवो दिट्ठोय णादोय ॥१८३॥ उपदेशेन परोक्षरूपं यथा दृष्टा जानाति । भण्यते तथैव ध्रियते जीवो दृष्टश्च ज्ञातश्च ॥१८३॥ तात्पर्यवृत्तिः - उवदेसेण परोक्खं रूवं जह पस्सिदण णादेदि यथा लोके परोक्षमपि देवतारूपं परोपदेशाल्लिखितं दृष्ट्वा कश्चिद्देवदत्तो जानाति । भण्णदि तहेच धिप्पदि जीवो दिहोय णादोय। तथैव वचनेन भण्यते तथैव मनसि गृह्यते । कोसौ !, जीवः, केन रूपेण !, मया दृष्टो ज्ञातश्चेति मनसा संप्रधारयति । तथा चोक्तं । गुरूपदेशादभ्यासात्संवित्तः स्वपरांतरं । जानाति यः स जानाति मोक्षसौख्यं निरंतरं । अथ कोविदिदिच्छो साहू संपडिकाले भणिज रूवमिणं । पञ्चक्खमेव दिठं परोक्खणाणे पवटुंतं ॥१८४॥ कोविदितार्थः साधुः संप्रतिकाले भणेत् रूपमिदं । . प्रत्यक्षमेव दृष्टं परोक्षज्ञाने प्रवर्तमानं ॥१८४॥ तात्पर्यवृत्तिः-अथ मतं भणिज्ज रूवमिणं पच्चक्खमेव दिदं परोक्खणाणे पवढतं । योसौ प्रत्यक्षणात्मानं दर्शयति तस्य पार्श्वे पृच्छामो वयं । नैवं (?) । कोविदिदिच्छो साहू संपडिकाले भणिज्ज कोविदितार्थ साधुः, संप्रतिकाले ब्रूयात् ? न कोपि । किं ब्रूयात, न कोऽपि । किंतु रूचमिणं पञ्चक्खमेवदिह इदमात्मस्वरूपं प्रत्यक्षमेव मया दृष्टं । चतुर्थकाले केवलिज्ञानिवत् । अपि तु नैवं कथभूतमिदमात्मस्वरूपं । परोक्खणाणे पवहतं केवलज्ञानापेक्षया परोक्षे श्रुतज्ञाने प्रवर्तमानं, इति। किंच विस्तरः यद्यपि केवलज्ञानापेक्षया रागादिविकल्परहितं स्वसंवेदनरूपं भावश्रुतज्ञानं शुद्धनिश्चयनयेन परोक्षं भण्यते । तथापि इंद्रियमनोजनितसविकल्पज्ञानापेक्षया प्रत्यक्षं । तेन कारणेन, आत्मा स्वसंवेदनज्ञानापेक्षया प्रत्यक्षो भवति । केवलज्ञानापेक्षया परोक्षोऽपि भवति । सर्वथा परोक्ष एवेति वक्तुं नायाति । किंतु चतुर्थकालेऽपि केवलिनः, किमात्मानं हस्ते गृहीत्वा दर्शयति ? तेपि दिव्यध्वनिना भाणित्वा गच्छंति । तथापि श्रवणकाले श्रोतृणां परोक्ष एव पश्चात्परमसमाधिकाले प्रत्यक्षो भवति । तथा, इदानीं कालेऽपीति भावार्थः । एवं परोक्षस्यात्मनः कथं ध्यानं क्रियते, इति प्रश्ने परिहाररूपेण गाथाद्वयं गतं ॥ अथ , उदयप्राप्तद्रव्यप्नत्ययस्वरूपाणां रागाद्यध्यवसानानामभावे सति जीवगतरागादिभावकर्मरूपाणां, अभ्यवसानानां, अभावो भवतीत्यादिरूपेण संवरस्य क्रमाख्यानं कथयति Page #101 -------------------------------------------------------------------------- ________________ By सनातन जैन ग्रंथमालायां १ सिं हे भाणिदा अज्झवसाणाणि सव्वदरसीहिं । मिच्छत्तं अण्णाणं अविर दिभावोय जोगोय ॥ १८५ ॥ हेदु अभावे णियमा जायदि णाणिस्स आसवणिरोहो । आसवभावेण विणा जायदि कम्मस्स दु णिरोहो ॥ १८६॥ कम्माभावेण य णोकम्माणं च जायदि णिरोहो । णो कम्मणिरोहेण य संसारणिरोहणं होदि ॥ १८७॥ तेषां हेतवः भणिताः अध्यवसानानि सर्वदर्शिभिः । मिथ्यात्वमज्ञानमविरति भावश्च योगश्च ।। १८५ || हेत्वभावे नियमाज्जायते ज्ञानिनः आस्रवनिरोधः । आस्रवभावेन विना जायते कर्मणोऽपि निरोधः ॥ १८६॥ कर्मणोऽभावेन च नोकर्मणामपि जायते निरोधः । नोकर्मनिरोधेन तु संसारनिरोधनं भवति ॥ १८७॥ तात्पर्यवृत्तिः - तेसिं हेदू भणिदा अझवसाणाणि सव्वदरसीहिं । तेषां प्रसिद्धानां जीवगतरागादिविभावकर्मरूपाणां भावास्रवाणां हेतवः कारणानि भणितानि । कानि ?, उदयप्राप्तद्रव्यप्रत्ययागतानि रागाद्यध्यवसानानि । कै: ?, सर्वदर्शिभिः । ननु अध्यवसानानि भावकर्मरूपाणि तानि जीवगतान्येव भवंति उदयप्राप्तद्रव्यप्रत्ययागतानि भावप्रत्ययानि कथं भवतीति ? । नैवं, यतः कारणात्, भावकर्मद्विधा भवति । जीवगतं पुद्गलकर्मगतं च । तथाहि भावक्रोधादिव्यक्तिरूपं जीवभावगतं भण्यते। पुद्गलपिंडशक्तिरूपं पुद्गलद्रव्यगतं । तथा चोक्तं गलविंडो दकोहादी भावदव्वं तु - इति जीवभावगतं भण्यते पुग्गलपिंडो दव्वं तस्सची भावकम्पं तुइति पुद्गलद्रव्यगतं ॥ अत्र दृष्टांतो यथा - - मधुरकटुकादिद्रव्यस्य भक्षणकाले जीवस्य मधुरकटुकस्वादव्यक्तिविकल्परूप जीवभावगतं । तद्व्यक्तिकारणभूतं मधुरकटुकद्रव्यगतं शक्तिरूपं पुद्गलद्रव्यगतं एवं भावकर्मस्वरूपं जीवगतं पुद्गलगतं च द्विधेति भावकर्मव्याख्यान काले सर्वत्र ज्ञातव्यं । कानि तानि, अध्यवसानानि ? | मिच्छत्तं अण्णाणं अविरदिभावो य जोगो य मिथ्यात्वमज्ञानमविरतिर्योगश्चेति प्रथमगाथा गता ! | हेदु अभावे नियमा जायदि णाणिस्स आसवणिरोहो पूर्वोक्तानामुदयागतद्रव्यप्रत्ययानां जीवगतभावास्रवहेतुभूतानां वीतरागस्वसंवेदनज्ञानिनो जीवस्य, उदयद्रव्यकर्मरूपाणां, अभावे सति नियमान्निश्चयात् रागादिभावास्रवनिरोधलक्षणः संवरो जायते । आसवभावेण विणा जायदि कम्मस्स दुणिरोहो निरास्रवपरमात्मतत्त्व विलक्षणस्य जीवगतभावाश्रवस्य भावेन स्वरूपेण विना जायते निरोधसंवरः । कस्य ? परमात्मतत्त्वप्रच्छादकनवतरद्रव्यकर्मण इति द्वितीयगाथा गता । कम्मस्साभावेण य णोकम्माणं च जायदि णिरोहो । ततश्च नवतरकर्माभावेन संवरेण शरीरादिनोकर्मणां च जायते, निरोधसंवरः । कम्मणिरोहेण य संसारणिरोहणं होदि । नोकर्मनिरोधनेन संवरेण संसारातीत शुद्धात्मतत्त्व Page #102 -------------------------------------------------------------------------- ________________ समयप्राभूतं । प्रतिपक्षभूतद्रव्यक्षेत्रादिपंचप्रकारसंसारनिरोधनं भवतीति तृतीयगाथा गता, । एवं संवरक्रमाख्यानेन गाथात्रयं गतं । एवं पात्रवत्संवरविपक्षभूत आस्रवो निष्क्रांतः। इति समयसारव्याख्यायां शुद्धात्मानुभूतिलक्षणायां तात्पर्यवृत्तौ चतुर्दशगाथाभिः षट्स्थलैः संवरविपक्षद्वारेण आस्रव नामा पंचमोऽधिकारः समाप्तः। . मात्मख्यातिः-संति लावज्जीवस्य, आत्मकर्मैकत्वाशयमूलानि मिथ्यात्वाज्ञानाविरतियोगलक्षणानि, मध्यवसानानि । तानि रागद्वेषमोहलक्षणस्यास्रवभावस्य हेतवः । आस्रवभावः, कर्महेतुः, कर्म, नोकर्महेतुः, नोकर्म, संसारहेतुः इति । ततो नित्यमेवायमात्मा, आत्मकर्मणोरेकत्वाध्यासेन मिथ्यात्वाज्ञानाविरतियोगमयमात्मानमध्यवस्यति। ततो रागद्वेषमोहरूपमास्रवभावं भावयति । ततःकर्म, आस्रवति। ततोनोकर्म भवति ततः संसारः प्रभवति। यदा तु, आत्मकर्मणोर्भेदविज्ञानेन शुद्धचैतन्यचमत्कारमात्रमात्मानं, उपलभते । तदा मिथ्या त्वाविरतियोगलक्षणानां, अध्यवसानानां, अस्रवभावहेतूनां, भवत्यभावः। तदभावे रागद्वेषमोहरूपास्रवभाबस्य, भवत्यभावः । तदभावेऽपि भवति कर्माभावः । तदभावेऽपि भवति संसाराभावः। इत्येष संवरक्रमः । संपद्यते संवर एव साक्षात्, शुद्धात्मतत्त्वस्य किलोपलंभात् । स भेदविज्ञानत एव तस्मात्तद्भेदविज्ञानमतीव भाव्यं ॥ ११७ ॥ भावयेद्भेदविज्ञानमिदमच्छिन्नधारया तावद्यावत्पराच्च्युत्वा ज्ञानं ज्ञाने प्रतिष्ठितं । भेदविज्ञानतः सिद्धाः सिद्धा ये किल केचन अस्यैवाभावतो बद्धा बद्धा ये किल केचन ॥११॥ भेदबानोच्छलनकलनाच्छुद्धतत्त्वोपलंभात् रागग्रामप्रलयकरणात्कर्मणां संवरेण । विभत्तोषं परमममलालोकमम्लानमेकं ज्ञानं ज्ञाने नियतमुदितं शाश्वतोद्योतमेतत् ॥११९॥ इति संवरो निष्क्रांतः। ॥ इति समयसारव्याख्यायामात्मख्याती पंचमोऽकः ॥ तात्पर्यवृत्तिः-अथ प्रविशति संवरः । संवराधिकारेऽपि यत्र मिथ्यात्वरागादिपरिणतबहिरात्मभावनारूप आस्रवो नास्ति । तत्र संवरो भवतीत्यास्रवविपक्षद्वारेण, सप्तदशगाथापर्यंतं वीतरागसम्यक्त्वरूपसंवरव्याख्यानं करोति । तत्र प्रथमतस्तावत्, वीतरागसम्यग्दृष्टेर्जीवस्य रागद्वेषमोहरूपा आस्रवा न संतीति संक्षेपण व्याख्यानरूपेण 'मिच्छत्तं अविरमणं' इत्यादि गाथात्रयं । तदनंतरं रागद्वेषमोहास्रवाणां पुनरपि विशेषविवरणमुख्यत्वेन 'भावो रागादिजुदो' इत्यादि स्वतंत्रगाथात्रयं । ततः परं केवलज्ञानादिव्यक्तिरूपकार्यसमयसारकारणभूतनिश्चयरत्नत्रयपरिणतस्य ज्ञानिजीवस्य रागादिभावप्रत्ययनिषेधमुख्यत्वेन परविड इत्यादि गाथात्रयं । अतःपरं तस्यैव ज्ञानिनो जीवस्य मिथ्यात्वादिद्रव्यप्रत्ययास्तित्वेऽपि वीतरागचारित्रभावनावलेन रागादिभावप्रत्ययनिषेः मुख्यतया सव्वे पुब्बाणिवद्धा इस्यादि सूत्रचतुष्टयं । तदनंतरं नवतरद्रब्यकर्मानवस्योदयागतद्रव्यप्रत्ययानां जीवगतरागादिभावप्रत्ययाकारणमिति कोरणकारणमुख्यत्वेन रागो. दोसो इत्यादिसूत्रचतुष्टयं कथयति, इति समुदायेन सप्तदशगाथाभिः पंचस्थलैः संपराधिकारसमुदायपातनिका । अथ द्रव्यभावास्रवस्वरूपं कथयति । भात्मख्यातिः-अथ प्रविशत्यास्रवः । अथ महामदनिर्भरमंथरं समररंगपरागतमात्र । अयमुदारगभीरमहोदयो जयति दुर्जयबोधधनुर्धरः ॥१२०॥ १यदनादिकालादारभ्याशुद्धरागादिविभावरूपेण परिणतं तदेव काललब्धि प्राप्य शुदस्वरूपेण परिणतमित्यर्थः । २. पुस्तके कारणण्यास्यानमुख्यत्वेन इवेव पाः । Page #103 -------------------------------------------------------------------------- ________________ ९८ समातन जैनग्रंथमालायां तत्रात्रवस्वरूपमभिदधाति मिच्छत्तं अविरमणं कसायजोगा य सण्णसण्णादु | वहुविहभेदा जीवे तस्सेव अणण्णपरिणामा ॥ १८८ ॥ णाणावरणादीयस्स ते दु कम्मस्स कारणं होंति । सिंप होदि जीवो रागदोसादिभाव करो ॥ १८९ ॥ मिथ्यात्वमविरमणं कषाययोगौ च संज्ञासंज्ञास्तु | बहुविधभेदा जीवे तस्यैवानन्यपरिणामाः ॥ १८८ ॥ ज्ञानावरणाद्यस्य ते तु कर्मणः कारणं भवंति । तेषामपि भवति जीवः रागद्वेषादिभावकरः ।। १८९ ॥ तात्पर्य वृत्तिः - मिच्छत्तं अचिरमणं कसायजोगा य सण्णसण्णा दु सण्णसण्णा इत्यत्र प्राकृसलक्षणवलात--अकारलोपो दृष्टव्यः । मिथ्यात्वाविरातप्रमादकषाययोगाः, कथंभूताः, भावप्रत्ययद्रव्यप्रत्ययरूपेण संज्ञाऽसंज्ञाश्चेतनाचेतनाः । अथवा संज्ञाः, आहारभयमैथुनपरिग्रहरूपाः । असंज्ञा:, ईषत्संज्ञाः, इहलोकाकांक्षा परलोकाकांक्षाकुधर्माकांक्षारूपास्तिस्रः । कथंभूताः, एते नहुविहभेदा जीवे । उत्तरप्रब्ययभेदेन बहुधा विविधाः, क ? जीवे, अधिकरणभूते । पुनरपि कथंभूताः तस्सेव अणण्णपरिणामा अनन्यपरिणामाः, अभिन्नपरिणामाः तस्यैव जीवस्याशुद्धनिश्वयनयेनेति । णाणावरणादीयस्स ते दु कम्पस कारणं होंति ते च पूर्वोक्तद्रव्यप्रत्ययाः, उदयागताः संतः, निश्चयचारित्राविनाभूतवीतरागसम्यक्त्वाभावे सति शुद्धात्मस्वरूपच्युतानां जीवानां ज्ञानावरणद्यष्टविधस्य द्रव्यकर्मास्रवस्य कारणभूता भवंति । तेसिंपि होदि जीवो रागदोसादिभावको तेषां च द्रव्यप्रत्ययानां जीवः कारणं भवति । कथंभूतः ? रागद्वेषादि भावकरः, रागद्वेषादिभावपरिणतः । अयमत्रभावार्थ:- द्रव्यप्रत्ययोदये सति शुद्धात्मस्वरूपभावनां त्यक्त्वा यदा रागादिभावेन परिणमति तदा बंधो भवति । नैवोदयमात्रेण, यदि उदयमात्रेण बंधो भवति ? तदा सर्वदा संसार एव । कस्मात् ? इति चेत् संसारिणां सर्वदैव कर्मोदयस्य विद्यमानत्वात् । तर्हि कर्मोदयो बंधकारणं न भवति, ? इति चेत् तत्र निविकल्पसमाधिभ्रष्टानां मोहसहितकर्मोदयो व्यवहारेण निमित्तं भवति । निश्चयेन पुनः, अशुद्धोपादामकारणं स्वकीयरागाद्यज्ञानभाव एव । 1 अथ वीतराग स्वसंवेदन ज्ञानिनो जीवस्य रागद्वेषमोहरूपभावात्रवाणामभावं दर्शयति आत्मख्यातिः - रागद्वेषमोहा आस्रवाः, इह हि जीवे स्वपरिणामनिमित्ताः, अजड़त्वे सति चिदाभासाः, मिथ्यात्वाविरतिकषाययोगाः पुद्गलपरिणामाः, ज्ञानावरणादिपुद्गलकर्मास्रवणनिमित्तत्वात्किलास्रवाः । तेषां तु तदास्रवणनिमित्तत्वनिमित्तं, अज्ञानमया आत्मपरिणामा रागद्वेषमोहा: ? । तत आस्रवणनिमित्तस्वनिमित्तत्वात् रागद्वेषमोहा एवास्रवाः, ते चाचानिन एव भवंतीति, अर्थादेवापद्यते । अथ ज्ञानिनस्तदभावं दर्शयति त्थिदु आसववंधो सम्मादिठ्ठिस्स आसवणिरोहो । संते पुव्वणिवद्धे जाणदि सो ते अवधंतो ॥ १९०॥ नास्ति त्वास्रवबंधः सम्यग्दृष्टेरास्रव निरोधः । संति पूर्वनिबद्धानि जानाति स ताभ्यवन् ॥ १९० ॥ Page #104 -------------------------------------------------------------------------- ________________ समयप्राभूतं । गत्यि-इत्यादि पदखंडनारूपेण व्याख्यानं क्रियते । णस्थि दु आसववंधो सम्पादिहिस्स पासवणिरोहो न भवतः, न विद्यते । कौ ! तौ आस्रवबंधौ । गाथायां पुनः समाहारद्वन्द्वसमासापेक्षया द्विवचनमप्येकवचनं कृतं । कस्यास्रवबंधौ न स्तः ? सम्यग्दृष्टीवस्य । ताहे किमस्ति ? आस्रवनिरोधलक्षणसंवरोऽस्ति सो स सम्यग्दृष्टिः संते संति विद्यमानानि ते तानि पुव्वणिवद्धे पूर्वनिवद्धानि ज्ञानावरणादि कर्माणि । अथवा प्रत्ययापेक्षया पूर्वनिबद्धान् मिथ्यात्वादिप्रत्ययान् जाणदि जानाति वस्तुस्वरूपेण जानाति किं कुर्वन् सन् ! अवंधतो विशिष्टभेदज्ञानवलान्नवतराण्यभिनवान्यबध्नन्-अनुपार्जयन् , इति । भयमत्र भावार्थः । सरागवीतरागभेदेन द्विधा सम्यग्दृष्टिर्भवति तत्र योऽसौ सरागसम्यग्दृष्टिः । सोलसपणवीसणभं दसचउछक्ककं वंधवो छिण्णा । .. . दुगतीसचदुरपुव्वे पणसोलसजोगिणो इक्को इत्यादि बंधत्रिभंगकथितबंधविच्छेदक्रमण मिथ्यादृष्टयपेक्षया त्रिचत्वारिंशत्प्रकृतीनामबंधकः । सप्ताधिकसप्ततिप्रकृतीनामल्पस्थित्यनुभागरूपाणां बंधकोऽपि सन् संसारास्थितिच्छेदको भवति । तेन कारणेनाबंधक इति । तथैवाविरातिसम्यग्दृष्टेर्गुणस्थानादुपरि यथासंभवं सरागसम्यक्त्वपर्यंतं, अधस्तनगुणस्थानापेक्षया तारतम्येनाबंधकः । उपरिमगुणस्थानापेक्षया पुनबंधकः। ततश्च वीतरागसम्यक्त्वे जाते साक्षादबंधको भवति, इति मत्वा वयं सम्यग्दृष्टयः सर्वथा बंधो नास्तीति वक्तव्यं । इति आस्रवविवक्षद्वारेण संवरस्य संक्षेपसूचनव्याख्यानमुख्यत्वेन गाथात्र्यं गतं । भथ रागद्वेषमोहरूपभावानामास्रवत्वं निश्चिनोति आत्मख्यातिः- यतो हि ज्ञानिनोऽज्ञानमयैर्भावैरज्ञानमया भावाः, अवश्यमेव निरुध्यते । ततो ऽज्ञानमयाना भावानां, रागद्वेषमोहानां, आस्रवभूतानां निरोधात् ज्ञानिनो भवत्येव आस्रवनिरोधः । अतो ज्ञानी नानवनिमित्तानि पुद्गलकर्माणि बध्नाति, नित्यमेवाकर्तृकत्वान्नवानि न बनन् सदवस्थानि पूर्वबद्धानि ज्ञानस्वभावत्वात्केवलमेव जानाति । भय रागद्वेषमोहानामास्रवत्वं नियमयति भावो रागादिजुदो जीवेण कदो दु वंधगो होदि । रागादिविप्पमुक्को अवंधगो जाणगो णवरि ॥१९॥ भावो रागादियुतः जीवेन कृतस्तु बंधको भवति । रागादिविषमुक्तोऽबंधको ज्ञायको नवरि ॥ १९१ ॥ सापर्यवृत्तिः - भावो रागादिजुदो जीवेण कदो दु वंधगो होदि यथा अयस्कांतोपल संपर्कजो भावः परिणतिविशेषः, कालायससूचिं प्रेरयति । तथा जीवेन कृतो रागाद्यज्ञानजो भावः परिणतिविशेषः कर्ता, शुद्धस्वभावेन सानंदमव्ययमनादिमनंतशक्तिमुद्यौतिनं निरुपलेपगुणमपि जीवं शुद्धस्वभावा प्रच्युतं कृत्वा कर्मबंधं कर्तुं प्रेरयति । रागादिविप्पमुको अवंधगो जाणगो णवरि रागादिज्ञानविप्रमुक्तो भावस्त्वबंधकः सन् नवरि किंतु जीवं कर्मबंध कर्तुं न प्रेरयति । तर्हि किं करोति ? पूर्वोक्तशुद्धस्वभावेनैव स्थापयति। ततो ज्ञायते निरुपरागचैतन्यचिच्चमत्कारमात्रपरमात्मपदार्थाद्धिन्ना रागद्वेषमोहा एव बंधकारणमिति। अथ रागादिरहितशुद्धभावस्य संभवं दर्शयति __ आत्मख्यातिः --इह खलु रागद्वेषमोहसंपर्कजोऽज्ञानमय एव भावः, अयस्कांतीपलसंपर्कज इव कालायससूची, कर्म कर्तुमात्मानं चोदयति । तद्विवेकजस्तु ज्ञानमयः, अयस्कांतोपलविवेकज इव कालायससूची, अकर्मकरणौत्सुक्यमात्मानं स्वभावेनैव स्थापयति । ततो रागादिसंकीर्णोऽज्ञानमय एव कर्तृत्वे चोदकत्वादूंधकः । सदसंकीर्णस्तु स्वभावोद्भासकत्वात्केवलं ज्ञायक एव ; न मनागपि बंधकः। अथ रागाद्यसंकीर्णभावसंभवं दर्शयति Page #105 -------------------------------------------------------------------------- ________________ १०० समातनजैनग्रंथमालायां पके फलम्मि पडदे जह ण फलं वज्झदे पुणो विंटे । जीवस्स कम्मभावे पड़िदे ण पुणोदयवेहि ॥ १९२॥ पक्के फले पतिते यथा न फलं बध्यते पुनर्वृत्ते । जीवस्य कर्मभावे पतिते न पुनरुदयमुपैति ॥। १९२ ॥ तात्पर्यवृत्ति: – पक्के फलम्पि पड़िदे जह ण फलं वज्झदे पुणो विंटे यथा पके फले पतिते सति पुनरपि तदेव फलं वृंत्ते न बध्यते । जीवस्स कम्मभावे पडदे ण पुणोदयमुषेहि तथा तत्त्वमानिनो जीवस्य सातासातोदयजनितसुखदुःखरूपकर्मभावे, कर्मपर्याये पतिते गलिते निर्जीर्णे सति रागद्वेषमोहाभावात् पुनरपि तत्कर्म बंधं नायाति । नैवोदयं च । ततो रागाद्यभावात्, शुद्धभावः संभवति । तत एव च सम्यग्दृष्टेर्जीवस्य निर्विकारस्वसंवित्तिवलेन संवरपूर्विका निर्जरा भवतीत्यर्थः । अथ ज्ञानिनो नवतरद्रव्यास्त्रवाभावं दर्शयति आत्मख्यातिः- :- यथा खलु पक्कं फलं वृंतात्सकृद्विश्लिष्टं सत्, न पुनर्वृतसंबंधमुपैति तथा कर्मोदयजो भावो जीवभावात्सकृद्विश्लिष्टः सन्, न पुनर्जीवभावमुपैति । एवं ज्ञानमयो रागाद्यसंकीर्णो भावः संभवति । भांवों रागद्वेषमोहैर्विना यो जीवस्य स्याद् ज्ञाननिर्वृत्त एव । रुंधन् सर्वान् दैव्यकर्मास्रवैौघान् एषोऽभावः सर्वभावा वाणां ॥१२१ ere ज्ञानिनो द्रव्यास्रवाभावं दर्शयति पुढवीपिंडसमाणा पुव्वणिवद्धा दु पच्चया तस्स । कम्मसरीरेण दु ते वृद्धा सव्वेपि णाणिस्स ॥ १९३॥ पृथ्वीपिंड समानाः पूर्वनिवद्धास्तु प्रत्ययास्तस्य । कर्मशरीरेण तु ते बद्धाः सर्वेऽपि ज्ञानिनः ॥ १९३ ॥ 1 तात्पर्यवृत्तिः - पुढ़वीपिंडसमाणाः पुम्वणिवद्ध । दु पच्चया तस्स पृथ्वीपिंडसमानाः, अकिंचित्करा भवंति । के ते ? पूर्वनिंबद्धाः मिथ्यात्वादिद्रव्यप्रत्ययाः । कस्य ? तस्य वीतरागसम्यग्दृष्टेर्जीवस्य । यतो रागाद्यजनकत्वादकिंचित्करास्ततः कारणात्, नवतरद्रव्यकर्मबंधो न भवति । तर्हि पृथ्वीपिंडसमानाः संतः केन रूपेण तिष्ठंति ? कम्मसरीरेण दु ते वद्धा सव्वेपि णाणिस्स कार्मणशरीररूपेणैव ते सर्वे बद्धास्तिष्ठंति, नच रागादिभावपरिणतजीवरूपेण । कस्य : निर्मलात्मानुभूतिलक्षणभेदविज्ञानिनो जीवस्येति । किंच यद्यपि द्रव्यप्रत्ययाः कार्माणशरीररूपेण मुष्टिबद्धविपत्तिष्ठति तथापि उदयाभावे सुखदुःख विकृतिरूपां बाधां न कुर्वेति । तेन कारणेन ज्ञानिनो जीवस्य, नवतरकर्मास्त्रवाभाव इति भावार्थः । एवं रागद्वेषमोहरूपास्त्रवाणां विशेषविवरणरूपेण स्वंतंत्रगाथात्रयं गतं । अथ कथं ज्ञानी निरास्रवः ? इति पृच्छति । आत्मख्यातिः-ये खलु पूर्व, अज्ञानेनैव बद्धा मिध्यात्वाविरतिकषाययोगा द्रव्यासवभूताः प्रत्यते ज्ञानिनो द्रव्यांतरभूताः, चेतनपुद्गलपरिणामत्वात् पृथ्वीपिंडसमानाः । ते तु सर्वेऽपि स्वभावत एव कार्माणशरीरेणैव संबंद्धा न तु जीवेन, अतः स्वभावसिद्ध एव द्रव्यास्त्रवाभावोऽज्ञानिनः । याः, भावास्त्रवाभावमयं प्रपन्नो द्रव्यास्रवेभ्यः स्वत एव भिन्नः । ज्ञानी सदा ज्ञानमयैकभावो निरास्रवो ज्ञायक एक एव ॥ १२२ ॥ कथं ज्ञानी निरास्रवः ? इति चेत् १ सम्मक्त्वपूर्वः शुद्धस्वरूपानुभवः परिणामः । २ द्रव्यकर्मणां ज्ञानावरणादीनामाश्रवः प्रतिसमयं धाराप्रवाहरूपतया आत्मप्रदेश सहान्योन्यामुगमः, तस्यैौघान् । Page #106 -------------------------------------------------------------------------- ________________ . समयप्राभृतं । चहुविह अणेयभेयं वंधते णाणदंसणगुणेहि। समये समये जमा तेण अवधुत्ति णाणी दु ॥१९॥ चतुर्विधा अनेकभेदं वनंति ज्ञानदर्शनगुणाभ्यां । समये समये यस्मात् तेनाबंध इति ज्ञानी तु ॥ १९४ ॥ तात्पर्यवृत्तिः-चहुविह अणेयभेयं वर्धते णाणदंसणगुणेहिं चहुविह इति वहुवचने प्राकृतलक्षणवलेन हस्वत्वं । चतुर्विधा मूलप्रत्ययाः कर्तारः । ज्ञानावरणादिभेदभिन्नमनेकविधं कर्म कुर्वति । काभ्यां कृत्वा ? ज्ञानदर्शनगुणाभ्यां । दर्शनज्ञानगुणौ कथं बंधकारणभूतौ भवतः, ? इति चेत्-अयमत्र भावः, द्रव्यप्रत्यया उदयमागताः संतः जीवस्य ज्ञानदर्शनद्वयं रागाद्यज्ञानभावेन परिणमयंति, तदा रागाद्यज्ञानभावपरिणतं ज्ञानदर्शनगुणद्वयं बंधकारणं भवति । वस्तुतस्तु रागाद्यज्ञानभावपरिणतं ज्ञानदर्शनगुणद्वयं, अज्ञानमेव भण्यते तत् । 'अणाणदंसणगुणेहि' इति पाठातरं केचन पठंति । समए समए जमा तेण अवंप्रत्ति णाणी द समये समये यस्मात् प्रत्ययाः कर्तारः । ज्ञानदर्शनगुणं रागद्यज्ञानपरिणतं कृत्वा नवतरं कर्म कुर्वति । तेन कारणेन भेदज्ञानी बंधको न भवति । किं तु ज्ञानदर्शनरंजकत्वेन प्रत्यया एव बंधकाः, इति शानिनो निरास्रवत्वं सिद्धं ।। अथ कथं ज्ञानगुणपरिणामो बंधहेतुरिति पुनरपि पृच्छति___आत्मख्यातिः-ज्ञानी हि तावदानवभावनाभिप्रायाभावान्निराम्रव एव । यत्तु तस्यापि द्रव्यप्रत्ययाः प्रतिसमयमनेकप्रकार पुद्गलकर्म बघ्नंति । तत्र ज्ञानगुणपरिणामहेतुः । कथं ज्ञानगुणपरिणामो बंधहेतुरिति चेत् जह्मा दु जहण्णादो णाणगुणादो पुणोवि परिणमदि । अण्णत्तं गाणगुणो तेण दु सो बंधगो भणिदो ॥१९५॥ यस्मात्तु जघन्यात् ज्ञानगुणात् पुनरपि परिणमते । अन्यत्वं ज्ञानगुणः तेन तु स बंधको भणितः ॥ १९५ ॥ तात्पर्यवृत्तिः-जमा दु जहण्णादो णाणगुणादो पुणोवि परिणमदि अण्णसं णाणगुणो. यस्मात् यथाख्यातचारित्रात्पूर्व जघन्यो हीनः सकषायो ज्ञानगुणो भवति । तस्मात्-जघन्यत्वादिव ज्ञान. गुणात् सकाशात्, अंतर्मुहूर्तानंतरं निर्विकल्पसमाधौ स्थातुं न शक्नोति जीवः । ततः कारणात्, अन्यत्वं सविकल्पपर्यायांतरं परिणमति स कः ? कर्ता ज्ञानगुणः । तेण दु सो बंधगो भणिदो तेन सविकल्पेन कषायभावेन स ज्ञानगुणो बंधको भणितः । अथवा द्वितीयव्याख्यानं । जघन्यात् कोऽर्थः जघन्यात्, मिथ्यादृष्टिज्ञानगुणात् काललब्धिवशेन सम्यक्त्व प्राप्ते सति ज्ञानगुणः कर्ता मिध्यापर्यायं त्यक्त्वा अन्यत्वं सम्यग्ज्ञानित्वं परिणमति । तेण दु सो बंधगो भणिदो तेन कारणेन ज्ञानगुणो ज्ञानगुणपरिणतजीवो वा अबंधको भाणित इत्यभिप्रायः । अथ यथाख्यातचारित्राधस्तादंतर्मुहूर्तानंतरं निर्विकल्पसमाधौ स्थातुं न शक्यत इति भणितं पूर्वं । एवं सति कथं ज्ञानी निरास्रव इति चेत् आत्मख्याति:- ज्ञानगुणस्य हि यावज्जघन्यो भावः, तावत् तस्यांतर्मुहूर्तविपरिणामित्वात् पुनः पुनरन्यतयास्ति परिणामः । स तु यथाख्यातचारित्रावस्थाया अधस्तादवश्यंभाविरागसद्भावात् , बंधहेतुरेव स्यात् । एवं सति कथं ज्ञानी निरास्रवः १ इति चेत् । दंसणणाणचरित्तं जं परिणमदे जहण्णभावेण । णाणी तेण दु वज्झदि पुग्गलकम्मेण विविहेण ॥१९६॥ Page #107 -------------------------------------------------------------------------- ________________ १०२ सनातन जैन ग्रंथमालाम दर्शनज्ञानचारित्रं यत्परिणमते जघन्यभावेन । ज्ञानी तेन तु बध्यते पुद्गलकर्मणा विविधेन ॥ १९६ ॥ तात्पर्यवृत्तिः - दंसणणाणचरितं जं परिणमदे जहणणंभावेण ज्ञानी तावदिहा पूर्वरागादि विकल्पकारणाभावान्निरास्रव एव । किं तु सोऽपि यावत्कालं परमसमाधेरनुष्ठानाभावे सति शुद्धात्मस्वरूपं दृष्टुं ज्ञातुमनुचरितुं वा समर्थं तावत्कालं तस्यापि संबंधि यद्दर्शनं ज्ञानं चारित्रं तज्जघन्यभावेन सकषायभावेन, अनीहितवृत्त्या परिणमति । णाणी तेण दु वज्झदि पुग्गलकम्मेण विविहेण तेन कारणेन सन् भेद ज्ञानी स्वकीयगुणस्थानानुसारेण परंपरया मुक्तिकारणभूतेन तीर्थंकरनामकर्म प्रकृत्यादिपुद्गलरूपेण विविधपुण्यकर्मणा बध्यते । इति ज्ञात्वा ख्यातिपूजाला भभोगाकांक्षारूप निदानबंधादिभावपरिणामपरिहारेण निर्विकल्पसमाधौ स्थित्वा तावत्पर्यंतं शुद्धात्मरूपं दृष्टव्यं ज्ञातव्यमनुचरितव्यं च यावत्तस्य शुद्धात्मस्वरूपस्य परिपूर्णः केवलज्ञानरूपो भावो दृष्टो ज्ञातोऽनुचरितश्च भवतीति भावार्थ: । एवं ज्ञानिनो भावास्रवस्वरूपनिषेधमुख्यत्वेन गाथात्रयं गतं । अथ द्रव्यप्रत्ययेषु विद्यमानेषु कथं ज्ञानी निरास्रवः । इति चेत् — i आत्मख्यातिः - योहि ज्ञानी स बुद्धिपूर्वकरागद्वेषमोहास्रवभावाभावात् निरास्रव एव किंतु सोऽपि यावदज्ञानं सर्वोत्कृष्टभावेन दृष्टुं ज्ञातुमनुचरितुं वाऽशक्तः सन् जघन्यभावेनैव ज्ञांनं पश्यति जानात्यनुचरति तावत्तस्यापि जघन्यभावान्यथानुपपत्त्याऽनुमीयमानाऽबुद्धिपूर्वककलंकविपाकसद्भावात् पुद्गलकर्मवंधः स्यात् । अतस्तावद्ज्ञानं दृष्टव्यं ज्ञातव्यमनुचरितव्यं च यावद् ज्ञानस्य यावान् पूर्णोभावस्तावान् दृष्टो ज्ञातोऽनुचरितश्च सम्यग्भवति । ततः साक्षात् ज्ञानीभूतः सर्वथा निरास्रव एव स्यात् । सन्यस्यन्निजबुद्धिपूर्वमनिशं रागं समयं स्वयं वारंवारमबुद्धिपूर्वमपि तं जेतुं स्वशक्तिं स्पृशन् । उच्छिदन् परिवृत्तिमेव सकलां ज्ञानस्य पूर्णोभवन्नात्मा नित्यनिरास्वो भवति हि ज्ञानी यदा स्यात्तदा । सर्वस्यामेव जीवंत्यां द्रव्यप्रत्ययसंततौ । कुतो निरास्रवो ज्ञानी नित्यमेवेति चेन्मतिः ॥ १२३ ॥ सव्वे पुब्वणिवद्धा दु पच्चया संति सम्मदिट्ठिस्स । उवओपाओगं बंधते कम्मभावेण ॥ १९७॥ संतीव निरवभोज्जा वाला इच्छी जहेव पुरुसस्स | वंधदि ते उभोजे तरुणी इच्छी जह णरस्स ॥१९८॥ हेदूण णिरवभोज्जा तह बंधदि जह हवंति उवभोज्जा । सत्तविहा भूदा णाणावरणादिभावेहिं ॥ १९९॥ देण कारण दु सम्मादिट्ठी अवधगो होदि । आसवभावाभावेण पच्चया बंधगा भणिदा । चतुष्कं ॥ २००॥ सर्वे पूर्वनिबद्धास्तु प्रत्ययाः संति सम्यग्दृष्टेः । उपयोगप्रयोग्यं बधंति कर्मभावेन ।। १९७ ।। संति तु निरुपभोग्यानि वाला स्त्री यथेह पुरुषस्य | १ बुद्धिपूर्वका परिणामा ये मनोद्वारा बाह्यविषयानालंब्य प्रवर्तते । प्रवर्तमानाश्च स्वानुभवगम्याः अनुमानेन परस्यापि गम्या भवंति । अबुद्धिपूर्वकास्तु परिणामा इंद्रियमनोव्यापारमंतरेण केवलमा दयानिमित्तास्ते तु स्वानुभव गोचरत्वादयुद्धपूर्वका इति विशेषः । Page #108 -------------------------------------------------------------------------- ________________ समयप्राभृतं । १०३ बनाति तानि उपभोग्यानि तरुणी स्त्री यथा पुरुषस्य ॥१९८ ॥ भूत्वा निरुपभोग्यानि तथा बधाति यथा भवेत्युपभोग्यानि । सप्ताष्टविधानि भूतानि ज्ञानावरणादिभावैः ॥ १९९ ।। एतेन कारणेन तु सम्यग्दृष्टिरवधंको भणितः । भास्रवभावाभावे न प्रत्यया बंधका भणिताः ॥ २०॥ तात्पत्तिः-सव्वे पुव्वणिवद्धा दु पच्चया संति सम्मदिहिस्स सर्वे पूर्वनिबद्धा द्रव्यप्रत्ययाः संति तावत्सम्यग्दृष्टेः । उबोगप्पाओगं बंधते कम्मभावेण यद्यपि विद्यते तथाप्युपयोगेन प्रायोग्यं तत्कालोदयप्रायोग्यकर्मतापन्नं कर्म बध्नति । फेन कृत्वा ! भावेन रागादिपरिणामेन नचास्तित्वमात्रेण बंधकारणं भवतीति । संतावि णिरवमोजा वाला इच्छी जहेव पुरुसस्स विद्यमानान्यपि कर्माणि कचित्प्राकृते लिंगव्यभिचारोऽपि, इति वचनाम पुंसकलिंगे पुलिंगनिर्देशः । पुलिंगेऽपि नपुंसक लिंग निर्देशः । कारके कारकांतर निर्देशो भवति, इति । तानि कर्माणि उदयात्पूर्व निरुपभोग्यानि भवति । केन दृष्टांतेन ? वाला स्त्री यथा पुरुषस्य । वंधदि ते उवभोजे तरुणी इच्छी जह णरस्स तानि कर्माणि उदयकाले उपभोग्यानि भवंति । रागादिभावेन नवतराणि च वनंति । कथं ? यथा तरुणी स्त्री बरस्येति । अथ तमेवार्थ दृढ़यति । उदयात्पूर्व निरुपभोग्यानि भूत्वा कर्माणि स्वकीयगुणस्थानानुसारेण, उदयकाले प्राप्य यथाभोग्यानि भवंति, तथा रागादिभावेन परिणामेन अयुष्कबंधकाले अष्टविधभूतानि शेषकाले सप्तविधानि ज्ञानावरणादिद्रव्यकर्मभावेन पर्यायेण नवतराणि बध्नति नचास्तित्वमात्रेणेति । रागादिभावास्रवस्याभावे द्रव्यप्रत्यया अस्तित्वमात्रेण बंधकारणं न भवंति। एतेन कारणेन सम्यग्दृष्टिरबंधको भणित इति । किं च विस्तारः, मिथ्यादृष्टयपेक्षया चतुर्थगुणस्थाने सरागसम्यग्दृष्टिः, त्रिचत्वारित्प्रकृतीनाम बंधकः । सप्ताधिकसप्ततिप्रकृतीनामल्पस्थित्यनुभागरूपाणां बंधकोऽपि संसारस्थितिच्छेदं करोति । तथा चोक्तं " सिद्धांते द्वादशांगावगमस्तत्तीवभक्तिरनिवृत्तिपरिणामः केवलिसमुद्धातश्चेति संसारस्थितिघातक रणानि भवंति" तद्यथा तत्र द्वादशांगश्रुतविषये, अवगमो ज्ञानं व्यवहारेण बहिर्विषयः । निश्चयेन तु वीतरागस्वसंवेदनलक्षणं चेति । भक्तिः पुनः सम्यक्त्वं भण्यते व्यवहारेण सरागसम्यग्दृष्टीनां परमेष्ठयाराधनारूपा । निश्चयेन सम्यग्दृष्टीनां शुद्धात्मतत्त्वभावनारूपा चेति । न निवृत्तिरनिवृत्तिः शुद्धात्मस्वरूपा दचलनं, एकाग्रपरिणतिरिति । तत्रैवं सति द्वादशांगावगमो निश्चयव्यवहारज्ञानं जातं । भक्तिस्तु निश्चयव्यवहारसम्यक्त्वं जातं । अनिवृत्तिपरिणामस्तु सरागचारित्रानंतरं वीतरागचारित्रं जातमिति सम्यग्दनिज्ञानचरित्राणि भेदाभेदरत्नत्रयरूपेण संसारविच्छित्तिकारणानि भवंति । केषां ? छद्मस्थानामिति । केवलिनां तु भगवतां दंडकपाटप्रतरलोकपूरणरूपकेवलिसमुद्धातः संसारविच्छित्तिकारणमिति भावार्थः । एवं द्रव्यप्रत्यया विद्यमाना अपि रागादिभावास्रवाभावे बंधकारणं न भवंतीति व्याख्यानमुख्यत्वेन गाथा चतुष्टयं गतं । अथ यत एव कर्मबंधहेतुभूतरागद्वेषमोहाः, ज्ञानिनो न संति । तत एव तस्य कर्मबंधो नास्तीति कथयति आत्मख्याति:-यतः सदवस्थायां तदात्वपरिणीतवालस्त्रीवत् पूर्वमनुपभोग्यत्वेऽपि विपाकावस्थायां प्राप्तयौवनपूर्वपरिणीतस्त्रीवत् उपभोग्यप्रायोग्यं पुद्गलकर्मद्रव्यप्रत्ययाः संतोऽपि कर्मोदयकार्यजीवभावसद्भावादेव बध्नति । ततो ज्ञानिनो यदि द्रव्यप्रत्ययाः पूर्वबद्धाः संति । संतु। तथापि स तु निरास्रव एव कर्मोदयकार्यस्य रागद्वेषमोहरूपस्यास्त्रवभावस्याभावे द्रव्यप्रत्ययानामबंधहेतुत्वात् । विजहति नहि सत्ता प्रत्ययाः पूर्वबद्धाः समयमनुसरंतो यद्यपि द्रव्यरूपाः । तदपि सकलरागद्वेषमोहव्युदासात्, अवतरति न जातु ज्ञानिनः कर्मबंधः ॥१२४॥ रगद्वेषक्मिोहानां ज्ञानिनो यदसंभवः । तस एव म बंधोख ते हि बंधस्य कारणं ॥१२॥ Page #109 -------------------------------------------------------------------------- ________________ १०४ सनातनजैनग्रंथमालायां रागो दोषो मोहो य आसवा णत्थि सम्मदिस्सि । ता आसवभावेण विणा हेदू ण पच्चया होंति ॥ २०९ ॥ हेदू चदुवियप्पो अडवियप्पस कारणं होदि । hi पिय रागादी सिमभावेण वज्झति ॥ २०२॥ राग द्वेषो मोह आस्रवा न संति सम्यग्दृष्टेः । तस्मादावभावेन विना हेतवो न प्रत्यया भवंति ॥२०१ ॥ हेतुश्चतुर्विकल्पः, अष्ट विकल्पस्य कारणं भवति । तेषामपि च रागादयस्तेषामभावे न बध्यते ॥ २०२ ।। तात्पर्यवृत्तिः -- रागो दोसो मोहो य आस्रवा णत्थि सम्मदिठ्ठिस्स रागद्वेषमोहाः सम्यग्दृष्टेर्न भवंति, सम्यग्दृष्टित्वान्यथानुपपत्तेरिति हेतुः । तथा हि, अनंतानुबंधिक्रोधमानमाया लोभ मिथ्यात्वोदय जनिता रागद्वेषमोहाः सम्यग्दृष्टेर्न संतीति पक्षः । कस्मात् ? इतिचेत् केवलज्ञानाद्यनंतगुणसहितपरमात्मो पदेशत्वे सति वीतरागसर्वज्ञप्रणीतषद्द्रव्यपंचास्तिकायसप्तत्तत्त्वनवपदार्थरुचिरूपस्य मूढत्रयादिपंचविशति - दोषरहितस्य संवेओ णिव्वेओ जिंदा गरुहय उवसमो भत्ती । वच्छलं 'अणुकंपा गुणट्ठसम्मत्तत्तस्म ॥ इति गाथाकथितलक्षणस्य चतुर्थगुणस्थानवर्तिसरागसम्यक्त्वान्यथानुपपत्तेरिति हेतुः । अथवा, अनंतानुबंध्यप्रत्याख्यानावरणसंज्ञाः क्रोधमानमायालोभोदय जनिता रागद्वेषमोहाः सम्यग्दृष्टेर्न संतीति पक्षः । कस्मात् ? इति चेत् निर्विकारपरमानंदैकसुखलक्षणपरमात्मोपादेयत्वे सति षट्द्रव्यपंचास्तिकायसप्ततत्त्वनवपदार्थरुचिरूपस्य मूढत्रयादिपंचविंशतिदोषरहितस्य तदनुसारि प्रशमसंवेगानुकम्पादेवधर्मादिविषयास्तिक्याभिव्यक्तिलक्षणस्य पंचमगुणस्थानयोग्यदेशचारित्राविनाभाविसरागसम्यक्त्वस्यान्यथानुपपत्तेरिति हेतुः । अथवा अनंतानुबंध्यप्रत्याख्यनप्रत्याख्यानावरणक्रोधमानमायालेोभोदयजनितरागद्वेषमोहाः सम्यग्दृष्टेर्नसंतीति पक्षः । कस्मादिति चेत् चिदानंदैकस्वभावशुद्धात्मोपादेयत्वे सति षद्रव्यपंचास्तिकायसप्ततत्त्वत्नवपदार्थरुचिरूपस्य मूढत्रयादिपंचविंशतिदोषरहितस्य तदनुसारिप्रशमसंवेगानुकंपादेवधर्मादिविषयास्तिक्याभिव्यक्तिलक्षणस्य षष्ठगुणस्थानरूपसरागचारित्राविनाभाविसरागसम्यक्त्वस्यान्यथानुपपत्तेरिति हेतुः । अथवा अनंतानुबंध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनक्रोधमानमायालोभतव्रिोदयजनिताः प्रमादोत्पादकाः, रागद्वेषमोहाः सम्यग्दृष्टेर्न संतीति पक्षः । कस्मात् ? इति चेत् — शुद्धबुद्धैकस्वभावपरमात्मोपादेयत्वेसति तद्योग्यस्वकीयशुद्धात्मसमाधिसंज्ञातसहजानंदै कस्वलक्षणसुखानुभूतिमात्र स्वरूंपाऽप्रमत्तादिगुणस्थानवर्तिवीतरागचारित्राविनाभूतवीतरागसम्यक्त्वस्यान्यथानुपपत्तेरिति । तथाचोक्तं— आद्या सम्यक्त्व चारित्रे द्वितीया नन्त्यणुव्रतं तृतीया सयमं तुर्य्या यथाख्यातं क्रुधादयः इति गाथापूर्वार्द्धे व्याख्यानं गतं । तह्मा आसवभावेण विणा हेदू ण पश्च्चया होंति - यस्मात् गाथायाः पूर्वार्धकथितक्रमेण रागद्वेषमोहा न संति तस्मात्कारणात् रागादिरूपभावास्रषेण विना अस्तित्वमात्रेण, उदयमात्रेण वा, भावप्रत्ययाः सम्यग्दृष्टेर्न भवतीति । हेदू चदुवियप्यो अडवियप्यस्स कारणं होदि मिथ्यात्वाविरतिप्रमादकषाययोगरूपचतुर्विधो हेतु:, ज्ञानावरणादिरूपस्याष्टविधस्य नवतरद्रव्यकर्मणः कारणं भवति । तेसिंपिय रागादी तेषामपि मिथ्यात्वादिद्रव्यप्रत्ययानां, उदयागतानां जीवगतरागादि भावप्रत्ययाः कारणं भवति । कस्मात् ! Page #110 -------------------------------------------------------------------------- ________________ समयप्राभत । इतिचेत् तेसिमभावेण वज्झति तेषां जीवगतरागादिभावप्रत्ययानामभावे सति द्रव्यप्रत्ययेष्वुदयागतेष्वपि बीतरागपरमसामायिकभावनापरिणताभेदरत्नत्रयलक्षणभेदज्ञानस्य सद्भावे सति कर्मणा जीषा न बध्यते यतः कारणादिति । ततः स्थितं नवतरदव्यकर्माखवस्योदयागतद्रव्यप्रत्ययाः कारणं, तेषां च जीवगता रागादिभावप्रत्ययाः कारणमिति कारणकारणव्याख्यानं ज्ञातव्यं । ___ अथ यदुक्तं पूर्व रागादिविकल्पोपाधिरहितपरमचैतन्यचमत्कारलक्षणनिजपरमात्मपदार्थभाषनारहितानां बहिर्मुखजीवानां पूर्वबद्धप्रत्ययाः नचतरकर्म बनंति. तमेषार्थ दृष्टांताभ्यां दृदयति आत्मख्यातिः-रागद्वेषमोहा न संति सम्यग्दृष्टः सम्यग्दृष्टित्वान्यथानुपपत्तेः । तदभावे न तस्य द्रव्यप्रत्ययाः पुद्गलकर्महेतुत्वं विभ्रति द्रव्यप्रत्ययानां पुद्गलकर्महेतुत्वस्य रागाद्यहेतुत्वात् । ततो हेत्वभावे हेतुमदभावस्य प्रसिद्धत्वात् ज्ञानिनो नास्ति बंधः । अध्यास्य शुद्धनयमुद्धतबोधचिन्हमैकाग्यमेव कलयति सदैव ये ते । रागादिमुक्तमनसः सततं भवंतः पश्यंति बंधविधुरं समयस्य सारं ॥ १२६ ॥ प्रच्युत्य शुद्धनयतः पुनरेव वे तु रागादियोगमुपयांति विमुक्तबोधाः ।। ते कर्म बंधमिह विभ्रति पूर्वबद्धद्रव्याखवैः कृतविचित्रविकल्पजालं ॥ १२७ ॥ जह पुरिसेणाहारो गहिदो परिणमदि सो अणेयविहं । मंसवसारुहिरादी भावे उदरग्गिसंजुत्तो ॥२०॥ तह णाणिस्स दु पुव्वं जे वद्धा पच्चया वहुवियप्पं । वज्झते कम्मं ते णयपरिहीणा दु ते जीवा ॥२०॥ यथा पुरुषेणाहारो गृहीतः परिणमति सोऽनेकविध मांसवसारुधिरादीन् भावान् , उदराग्निसंयुक्तः ॥ २०३ ।। तथा ज्ञानिनस्तु पूर्व बद्धा ये प्रत्यया बहुविकल्प घनतिः कर्म ते नयपरिहानास्तु ते जीवाः ।। २०४ ।। तात्पर्यवृचिः-जह पुरिसणाहारो गहिदो परिणमदि सो अणेयविहं यथा पुरुषेण गृही साहारः स परिणमति, अनेकविधं बहुप्रकारं, वहुप्रकारं किं ? मंसवसारुहिरादी भावे उदरग्गिसंजुत्तो मांसवसारुधिरादीन् पर्यायान् कर्मतापन्नान् परिणमति । कथंभूतः सन् ? उदराम्निसंयुक्तः इति दृष्टांतो गतः। तह जाणिस्स दु पुन जे बद्धा पच्चया बहुवियप्प बझंते कम्मै ते - तथैव च पूर्वोक्तोद. राग्निसंयुक्ताहारदृष्टांतेन अज्ञानिनश्चैतन्यलक्षणजीवस्य, नच विवेकिनः । पूर्व ये बद्धाः, मिथ्यात्वादि द्रव्यप्रत्ययाः, जीवगतरागादिपरिणाममुदराग्निस्थानीयं लब्ध्वा ते बहुविकल्प कर्म बध्नति ।णयपरिहीणा दु ते जीवा येषां जीवानां संबंधिनः प्रत्ययाः कर्म बध्नति ते जीवाः । कथं भूताः । परमसमाधि क्षणभेदज्ञानरूपात् शुद्धनयाद्भ्रष्टाः, च्युताः । अथवा द्वितीयव्याख्यानं । ते प्रत्यया अशुद्धनयेन जीवात् सकाशात् परिहीणा भिन्ना न च भवंति । इदमत्र तात्पर्य, निजशुद्धात्मध्येयरूपसर्वकर्मनिर्मूलन समर्थशुद्धनयो विवेकिभिर्न त्याज्य इति । एवं कारणव्याख्यानमुख्यत्वेन गाथाचतुष्टयं गतं । इतिसमयसारव्याख्यानमुख्यायां शुद्धात्मानुभूतिलक्षणायां तात्पर्यवृत्तौ सप्तदशगाथाभिः पंचस्थलै रानवविपक्षद्वारेण षष्ठः संबराधिकारः समाप्तः । Page #111 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायां- आस्मख्याति:- यदा तु शुद्धनयात् परिहीणो भवति बानी तदा तस्य रागादिसद्भावात् पूर्वबद्धाः द्रव्यप्रत्ययाः स्वस्य हेतुत्वहेतुसद्भावे हेतुमद्भावस्यानिवार्यत्वात् ज्ञानवरणादिभावैः पुद्गलकर्म बंधं परिणम. यंति । न चैतदप्रसिद्धं पुरुषगृहीताहारस्योदराग्निना रसरुधिरमांसादिभावैः परिणामकारणस्य दर्शनात् । इदमेवात्र तात्पर्य हेयः शुद्धनयो नहि नास्तिबंधस्तदत्यामात् तत्त्यागाद्वंध एव हि ॥१२८॥ धीरोदारमहिम्न्यनादिनिधने बोधे निबंध्नन् धृतिं त्याज्य: शुद्धनयो न जातु कृतिभिः सर्वकषः कर्मणां । तत्रस्थाः स्वमरीचिचक्रमचिरात्संहृत्य निर्यद्वहिः पूर्ण ज्ञानवनाघमेवमचलं पश्यंति शातं महः ॥१२९॥ रागादीनां झगिति विगमात् सर्वतोप्यास्रवाणां नित्योद्योतं किमपि परमं वस्तु संपश्यतोऽतः । स्फोरस्फारैः स्वरसविसरैः प्लावयत्सर्वभावानालोकांतादचलमतुलं ज्ञानमुन्मग्नमेतत् ॥१३०॥ इति आस्रवो निष्क्रांतः। इति समयसारव्याख्यायामात्मख्यातौ चतुर्थोऽकः ॥ तात्पर्यवृत्तिः -- तत्रैवं सति रंगभूमेः सकाशात्, शृंगाररहितपात्रवत्-शुद्धजीवस्वरूपेण संवरो निष्क्रांतः । अथ वीतरागनिर्विकल्पसमाधिरूपा शुद्धोपयोगलक्षणा संवरपूर्विका निर्जरा प्रविशति. उवभोनमिंदियेहिं इत्यादिगाथामादिं कृत्वा दंडकान् विहाय पाठक्रमेण पंचाशद्गाथापर्यंत षस्थलैर्निजेराव्याख्यानं करोति । तत्र द्रव्यनिर्जराभावनिर्जराज्ञानशक्तिवैराग्यक्तीनां क्रमेण व्याख्यानं करोति, इति पीठिकारूपेण प्रथमस्थले गाथाचतुष्टयं । तदनंतर ज्ञानवैराग्यशक्तेः सामान्यव्याख्यानार्थं सेवंतोविण सेवादि इत्यादि द्वितीयस्थले गाथापंचकं । ततः परं तयोरेव ज्ञानशक्त्योर्विशेषविवरणार्थ परमाणुमित्तियपि इत्यादि तृतीयस्थले सूत्रदशकं । ततश्च मतिश्रुतावधिमनःपर्ययकेवलज्ञानमभेदरूपं परमार्थसंज्ञं मुक्तिकारणभूतं यत्परमात्मपदं, तत्पदं येन स्वसंवेदनज्ञानगुणेन लभ्यते तस्य सामान्यव्याख्यानार्थ णाणगुणेहि विहीणा इत्यादि चतुर्थस्थले सूत्राष्टकं । ततः परं तस्यैव ज्ञानगुणस्य विशेषविवरणार्थ णाणी रागप्पजहो इत्यादि पंचमस्थले गाथाः, चतुर्दश । तदनंतरं शुद्धनयमाश्रित्य चिदानंदैकस्वभावशुद्धात्मभावनाश्रितानां निश्चयनिश्शंकाद्यष्टगुणानां व्याख्यानार्थं सम्मादिट्टीजीवो इत्यादि षष्ठस्थले सूत्रनवकं कथयति, इति षड्भिरंतराधिकारैः, निर्जराधिकारे समुदायपातनिका । तद्यथा, अथ द्रव्यनिर्जरां कथयति । ' आत्मख्यातिः-अथ प्रविशति निर्जरारागाद्यास्रवरोधतो निजधुरां धृत्वा परः संवरः कर्मागामि समस्तमेव भरतो दूरान्निरुधन स्थितः । प्राग्बद्धं तु तदेव दग्धुमधुना व्याजृम्भते निर्जरा ज्ञानज्योतिरपावृतं न हि यतो रागादिभिमूर्छति ॥१३१।। उवभोजमिंदियेहिं दवाणमचेदणाणमिदराणं । जं कुणदि सम्मदिछी तं सव्वं णिजरणिमित्तं ॥२०५॥ उपभोगमिंद्रियः द्रव्याणामचेतनानामितरेषां । यत्करोति सम्यग्दृष्टिः, तत्सर्व निर्जरानिमित्तं ॥२०५॥ तात्पर्यवृत्तिः-उवभोजामिंदियेहिं दवाणमचेदणाणमिदराणं जे कुणदि सम्मदिहीसम्यग्दृष्टिः कर्ता चेतनाचेतनद्रव्याणां संबंधि यद्वस्तूपभोग्यं करोति । कैः कृत्वा ? पचेन्द्रियविषयैः तं णिज्ज रणिमित्तं तद्वस्तु भिथ्यादृष्टेजीवस्य राषद्वेषमोहानां सद्भावेन बंधकारणमपि सम्यग्दृष्टेर्जीवस्य रागद्वेषमोहा १ रागादिसद्भावे । २ आत्मशुद्धत्वानुभवः । ३ ज्ञानावशेष व्यक्तिसमूहः । ४ बहिरनात्मपदार्थे निर्यद् भ्राम्यत् । ५ अनंतानतैः ६ । स्वरसस्य चिद्रूपतायाः विसरैः प्रसरैः । ७ सर्वभावानतीतानागतवर्तमानान् पदार्थ न प्लावयमात्मनि प्रतिषिवितान कुर्वन् । ० Page #112 -------------------------------------------------------------------------- ________________ समयप्राभृतं । १०७ नामभावेन समस्तमपि निर्जरानिमित्तं भवतीति । अत्राह शिष्यः- रागद्वेषमोहाभावे सति निर्जराकरणं भणितं सम्यग्दृष्टेस्तु रागादयः संति, ततः कथं निर्जराकारणं भवतीति ? अस्मिन्पूर्वपक्षे परिहारः । अत्रग्रंथे वस्तुवृत्त्या वीतरागसम्यग्दृष्टेम्रहण, तत्र तु परिहारः पूर्वमेव भणितः । कथमिति चेत् ? मिथ्यादृष्टे सकाशादसंयतसम्यग्दृष्टेः, अनंतानुबंधिक्रोधमानमायालोभमिथ्यात्वोदयजनिताः, श्रावकस्य वा प्रत्याख्यानक्रोधमानमायालोभोदयजनिता रागादयो न संतीत्यादि । किं च सम्यग्दृष्टेः संवरपूर्विका निर्जरा भवति मिथ्यादृष्टेस्तु गजस्नानवत्, बंधपूर्विका भवति तेन कारणेन मिथ्यादृष्टयपेक्षया सम्यग्दृष्टिरबंधकः। एवं द्रव्यनिर्जराव्याख्यानरूपेण गाथा गता। - अथ भावनिर्जरास्वरूपमाख्याति आत्मख्याति:-विरागस्योपभोगो निर्जरायैव रागादिभावानां सद्भावेन मिथ्यादृष्टेरचेतनान्य द्रव्योपभोगो बंधनिमित्तं स्यात् । एतेन द्रव्यनिर्जरास्वरूपमावेदितं । अथ भावनिर्जरास्वरूपमावेदयति दव्वे उवभुजंते णियमा जायदि सुहं च दुक्खं च । तं सुहदुःखमुदिण्णं वेददि अह णिजरं जादि ॥२०६॥ द्रव्ये, उपभुज्यमाने नियमाज्जायते सुखं च दुःखं च । ... तत्सुखदुःखमुदीर्ण वेदयते अथ निर्जरां याति ॥२०६॥ तात्पर्यवृत्तिः-दव्वे उवभुज्जते णियमा जायदि सुहं च दुक्खं च उदयागतद्रव्यकर्मणि जीवेनोपभुज्यमाने सति नियमात् निश्चयात् सातासातोदयवशेन सुखदुःखं वा वस्तु स्वभावत एव जायते तावत् । तं सुहदुक्खमुदिष्णं वेददि निरुपरागस्वसंवित्तिभावेन, उत्पन्नपारमार्थिकसुखाद्भिन्नं तत्सुखं वा दुःखं वा समुदीर्ण सत् सम्यग्दृष्टिर्जीवो रागद्वेषौ न कुर्वन् हेयबुद्ध्या वेदयति । न च तन्मयोभूत्वा, भहं सुखी, दुःखीत्याद्यहमिति प्रत्ययेनानुभवति । अथ णिज्जरं जादि अथ अहो ततः कारणान्निर्जरां याति स्वस्थभावेन निर्जराया निमित्तं भवति । मिध्यादृष्टेः पुनः, उपादेयबुद्ध्या सुख्यहं दुःख्यहमिति प्रत्ययेन बंधकारणं भवति । किं च यथा कोऽपि तस्करो यद्यपि मरणं नेच्छति । तथापि तलवरण गृहीतः सन् मरणमनुभवति । तथा सम्यग्दृष्टिः, यद्यप्यात्मोत्थसुखमुपादेयं च जानाति । विषयसुखं च हेये जानाति तथापि चरित्रमोहोदयतलवरेण गृहीतः सन् तदनुभवति, तेन कारणेन निर्जरानिमित्तं स्यात् , इति भावनिर्जराव्याख्यानं गतं । अथ वीतरागस्वसंवेदनज्ञानसामर्थ्य दर्शयति. आत्मख्यातिः- उपभुज्यमाने सति हि परद्रव्ये तन्निमित्तः सातासातविकल्पानतिक्रमणेन वेदनायाः सुखरूपो दुःखरूपो वा नियमादेव जीवस्य भाव उदेति । स तु यदा वेद्यते तदा मिथ्यादृष्टेः, रागादिभावानां सद्भावेन बंधनिमित्तं भूत्वा निर्जीर्यमाणोष्यजीर्णः सन् बंध एव स्यात् । सम्यग्दृष्टेस्तु रागादिभावाभावेन बंधनिमित्तमभूत्वा केवलमेव निर्जीर्यमाणोप्यजीर्णः सन्निजरैव स्यात् ।। तद्ज्ञानस्यैव सामर्थ्य विरागस्य च वा किल ॥१३२॥ यत्कोऽपि कर्मभिः कर्म भुंजानोऽपि न बध्यते । अथ ज्ञानसामर्थ्य दर्शयति-- जह विसमुवभुजंता विजा पुरिसा ण मरणमुवयंति । पोग्गलकम्मस्सुदयं तह भुंजदि णेव वज्झदे णाणी ॥२०७॥ यथा विषमुपभुंजानाः सतो विद्यापुरुषा न मरणमुपयांति । पुद्गलकर्मण उदयं तथा भुंक्त नैव बध्येत ज्ञानी ।। २०७॥ . . . . . . Page #113 -------------------------------------------------------------------------- ________________ १.८ सनातमजैनग्रंथमालाया. तात्पर्यवृतिः-जह विमभुरभुज्बंता विजापुरिसा जमवणमुवयंति यथा विषमुपमुंजानाः संतो गारुडविद्यापुरुषाः, अमोघमंत्रसामर्थ्यात्, नैव मरणमुपयांति । पुग्गलकम्मम्सुदयं तह मुजदि व वज्झदे णाणी तथा परमतत्त्वज्ञानी शुभाशुभकर्मफलं भुक्ते तथापि निर्विकल्पसमाधि लक्षणभेदज्ञानामोघमंत्रवलानैव बध्यते कर्मणेति ज्ञानशक्तिव्याख्यानं गतं । अथ संसारशरीरभोगविषये वैराग्यं दर्शयति___ आत्मख्यातिः - यथा कश्चिद्विषवैद्यः परेषां मरणकारणं विषमुष/जानोऽपि, अमोघविद्यासामर्थ्येन निरुद्धतच्छक्तित्वान्न म्रियते, तथा अज्ञानिनां रागादिभावसद्भावेन बंधकारणं पुद्गलकर्मोदयमुपंभुजा नोऽपि अमोघज्ञानसामर्थ्यात् रागादिभावानामभावे सति निरुद्धतच्छक्तित्वात् न बध्यते ज्ञानी । अथ वैराग्यसामर्थ्य दर्शयति । जह मजं पिवमाणो अरदिभावेण मजदि ण पुरिसो। दव्वुवभोगे अरदो णाणीवि ण वज्झदि तहेव ॥२०॥ । यथा मद्यं पिवन अरतिभावेन माद्यति न पुरुषः । द्रव्योपभोगे अरतो ज्ञान्यपि न बध्यते तथैव ॥१०८॥ तात्पर्यवृत्तिः - जह मज्जं पिवमाणो अरदिभावेण मज्जदि ण पुरिसो यथा कश्चित् पुरुषो व्याधिप्रतीकारनिमित्तं मद्यमध्ये मद्यप्रतिपक्षभूतमौषधं निक्षिप्य मद्यं पिवन्नपि रतेरभावान्न माद्यति । दव्वुव भोगे अरदो णाणीवि ण वज्झदि तहेव तथा परमात्मतत्त्वज्ञानी पंचेंद्रियविषयभूताशनपानादिद्रव्योपभोगे सत्यपि यावता यावतांशेन निर्विकारस्वसंवित्तिशून्यबहिरात्मजीवापेक्षया रागभावं न करोति, तावता तावतांशेन कर्मणा न बध्यते । यदा तु हर्षविषादादिरूपसमस्तविकल्पजालरहितपरमयोगलक्षणभेदज्ञानवलेन सर्वथा वीतरागो भवति । तदा सर्वथा न बध्यते इति वैराग्यशक्तिव्याख्यानं गतं । एवं यथा क्रमेण द्रव्यनिर्जराभावनिर्जराज्ञानशक्तिवैराग्यशक्तिप्रतिपादनरूपेण निर्जराधिकारे तात्पर्यव्याख्यानमुख्यत्वेन गाथाचतुष्टयं गतं । अथैतदेव वैराग्यस्वरूपं विवृणोति आत्मख्याति:-यथा कश्चित्पुरुषो मैरेयं प्रति प्रवृत्ततीव्रारतिभावः सन् मैरेयं पिक्नपि तीव्रारतिसामर्थ्यान्न माद्यति तथा रागादिभावानामभावेन सर्वद्रव्योपभोगं प्रति प्रवृत्ततीव्रविरागभावः सन् विषयानुफ्भुंजानोऽपि तीव्रविरागभावसामर्थ्यान्न बध्यते ज्ञानी । नाश्नुते विषयसेवनेऽपि यः स्खं फलं विषयसेवनस्य ना। ज्ञानवैभवविरागतावलात् सेवकोऽपि तदसावसेवकः ॥ १३३ ॥ अथैतदेव दर्शयति सेवंतोविण सेवदि असेवमाणोवि सेवगो कोवि। पगरणचेट्टा कस्सवि णयपायरणोत्ति सो होदि ॥२०९॥ संवमानोऽपि न सेवते, असेवमानोऽपि सेवकः कश्चित् । प्रकरणचेष्टा कस्यापि न च प्राकरण इति सा भवति ॥२०९॥ .. तात्पर्यवृत्तिः-सेवंतोवि सेवदि असेवपाणावि सेवगो कोवि निर्विकारस्वंसंवेदन ज्ञानी जीवः स्वकीयगुणस्थानयोग्याशनपानादिपंचेंद्रियभोगं सेवन्नपि सेवको न भवति । अन्यः पुनः, अज्ञानी कश्चित् रागादिसद्भावादसेवन्नपि सेवको भवति । अमुमेवार्थ दृष्टांतेन दृढयति । पगरणचेडा Page #114 -------------------------------------------------------------------------- ________________ ""समर्थप्रामृतं। कस्सवि णय पायरणोत्ति सो होदि यथा कस्यापि परगृहादागतस्य विवाहादिप्रकरणचेष्टा तावदस्ति तथापि विवाहादिप्रकरणस्वामित्वाभावात् प्राकरणिको न भवति । अन्यः पुनः प्रकरणस्वामी नृत्यगीतादिप्रकरणव्यापारमकुर्वाणोऽपि प्रकरणरागसद्भावात् प्राकरणिको भवति । तथा परमतत्त्वज्ञानी सेवमानोप्यसेवको भवति । अज्ञानी जीवो रागादिसद्भावादसेवकोऽपि सेवक इति । अथ सम्यग्दृष्टिः स्वपरस्वरूपमेव विशेषेण जानाति आत्मख्याति:-यथा कश्चित् प्रकरणे व्याप्रियमाणोपि प्रकरणस्वामित्वाभावात् , न प्राकरणिकः । अपरस्तु तत्राव्याप्रियमाणोऽपि तत्स्वामित्वात्प्राकरणिकः । तथा सम्यग्दृष्टि: पूर्वकर्मोदयसंपन्लान् विषयान् सेवमानोऽपि रागादिभावानामभावेन विषयसेवनफलस्वामित्वाभावादसेवक एव । मिथ्याद्दष्टिस्तु विषयानसेवमानोऽपि रागादिभावानां सद्भावेन विषयसेवनफलस्वामित्वात्सेवकः । सम्यग्दृष्टेर्भवति नियतं ज्ञानवैराग्यशक्तिः स्वतःस्तुत्यं कलयितुमयं स्वान्यरूपाप्तिमुक्त्या। यस्माद् ज्ञात्वा व्यतिकरमिदं तत्त्वतः स्वं परं च स्वस्मिन्नास्ते विरमति परात्सर्वतो रागयोगात्॥१३॥ सम्यग्दृष्टिः विशेषेण स्वपरावेवं तावजानाति पुगग्लकम्म कोहो तस्स विवागोदयो हवाद एसो। ण दु एस मज्झभावो जाणगभावो दु अहमिको ॥२१०॥ पुद्गलकर्म क्रोधस्वस्य विपाकोदयो भवति एषः।। नत्वेष मम भावः, ज्ञायकभावः खरवहमेकः ॥२१०॥ तात्पर्यवृत्तिः-पुग्गलकम्म कोहो तस्स विवागोदयो हवदि एसो पुद्गलकर्मरूपो योऽसौ द्रव्यक्रोधो जीवे पूर्ववद्धस्तिष्ठति तस्य विशिष्टपाको विपाकः फलरूप उदयो भवति । स कः? शांतात्मतत्त्वा प्रथग्भूत एषः, अक्षमारूपो भावः क्रोध: णदु एस मज्झभावो जाणगभावो दु अहमिको न वैष मम भावः, कस्मात् ? इति चेत् टंकोत्कीर्णपरमानंदज्ञायकैकभावोऽहं यतः । किं च-पुद्गल कर्मरूपो द्रव्यक्रोधस्तदुदयजनितो यश्चाक्षमारूपः स भावक्रोधः । इति व्याख्यानं पूर्वमेव कृतं तिष्ठति कथं ? इति चेत् पुग्गलपिंडो दन्वं तस्सत्तीभावकम्मं तु इत्यादि । एवमेव च क्रोधपदपरिवर्तनेन मानमायालोभरागद्वेषमोहकर्मनोकर्ममनोवचनकायश्रोत्रचक्षुर्घाणरसनस्पर्शनसंज्ञाषोडशसूत्राणि व्याख्येयानि । तेनैव प्रकारेणान्यान्यपि, असंख्येयलोकमात्रप्रमितानि विभावपरिणामस्थानानि वर्जनीयानीति । अथ कथं तव स्वरूपं न भवतीति पृष्टे सति भेदभावनारूपेणोत्तरं ददाति आस्मख्याति:-अस्ति किल रागो नाम पुद्गलकर्म तदुदयविपाकप्रभवोयं रागरूपोभावः, न पुनमम स्वभावः । एष टंकोत्कीर्णज्ञायकस्वभावोहं । एवमेव च रागपदपरिवर्तनेन द्वेषमोहक्रोधमानमायालोभकर्मनोकर्ममनोवचनकायश्रोत्रचक्षुर्घाणरसनस्पर्शनसूत्राणि षोडश व्याख्येयानि, अनया दिशा अन्यान्यप्यूह्यानि । एवं च सम्यग्दृष्टिः स्वं जानन् रागं मुंश्च नियमाज्ञानवैराग्याभ्यां संपन्नो भवति । कह एस तुज्झ ण हवदि विविहो कम्मोदयफलविवागो। . परदव्वाणुवओगो णदु देहो हवदि अण्णाणी ॥२१॥ कथमेष तब न भवति विविधः कर्मोदयफलविपाकः ॥ परद्रव्याणामुपयोगो न तु देहो भवति अज्ञानी ॥२१॥ १ भात्मख्यातो, रागो इत्येव पाठः। २ आत्मख्याती मामेयं वर्तत एव न । Page #115 -------------------------------------------------------------------------- ________________ सनातननग्रंथमालातात्पर्यवृत्ति:-कह एम तुज्झ ण हवदि विविहो कम्मोदयफलविवागो कथमेष विविधकर्मोदयफलविपाकस्तवरूपं न भवतीति केनापि पृष्टः तत्रोत्तरं ददाति परदव्वाणुवओगो निर्विकारपरमाह्लादै कलक्षणस्वशुद्धात्मद्रव्यात्प्रथग्भूतानि परद्रव्याणि यानि कर्माणि जीवे लग्नानि तिष्ठति तेषामुपयोग उदयोयं, औपाधिकस्फटिकस्य परोपाधिवत् । न केवलं भावक्रोधादि ममस्वरूपं न भवति, इति णदु देहो हवादि अग्णाणी देहोऽपि मम स्वरूपं न भवति हु स्फुटं कस्मादिति चेत् , अज्ञानी जडवरूपो यतः कारणात् , अहं पुनः, अनंतज्ञानादिगुणस्वरूप इति । अथ सम्यग्दृष्टिः स्वस्वभावं जानन् रागादींश्च मुंचन् नियमाज्ज्ञानवैराग्यसंपन्नो भवति इति कथयति एवं सम्माइट्ठी अप्पाणं मुणदि जाणगसहावं । उदयं कम्मविवागं च मुअदि तचं वियाणंतो ॥२१॥ एवं सम्यग्दृष्टिः आत्मानं जानाति बायकस्वभावं । उदयं कर्मविपाकं च मुंचति तवं विजानन् ।॥ २१२ ॥ तात्पर्यवृत्तिः-एवं सम्माइट्ठी अपाणं मुणदि जाणगसहावं एवं-पूर्वोक्तप्रकारेण सम्यग्दष्टिर्जीवः आत्मानं जानाति, कथंभूतं ! टंकोत्कीर्णपरमानंदज्ञायकैकस्वभावं । उदयं कम्मविवागं मुअ. दि तचं बियाणंतो उदयं पुनर्ममस्वरूपं न भवति कर्मविपाकोयमिति पत्वा मुंचति । किं कुर्वन् सन् ? नित्यानंदैकस्वभावं परमात्मतत्त्वं त्रिगुप्तिसमाधौ स्थित्वा जाननिति । अथ सम्यग्दृष्टिः सामान्येन स्वपरस्वभावमनेकप्रकारेण जानाति आत्मख्याति: - एवं सम्यग्दृष्टिः सामान्येन विशेषेण च परस्वभावेभ्यो भावेभ्यो सर्वेभ्योऽपि विविच्य टंकोत्कीर्णैकजायकस्वभावमात्मनस्तत्त्वं विजानाति । तथा तत्त्वं विजानंश्च स्वपरभावापादानापोहननिष्पाद्य स्वस्य वस्तुत्वं प्रथयन् कर्मोदयविपाकप्रभवान् भावान् सर्वानपि मुंचति। ततोयं नियमात् ज्ञानवैराग्याभ्यां संपन्नो भवति । सम्यग्दृष्टिः स्वयमयमहं जातु बंधो न मे स्यादित्युत्तानोत्पुलकवदना रागिणोप्याचरंतु । आलंबंतां समितिपरतां ते यतोद्यापि पापा आत्मानात्मावगमविरहात्सति सम्यक्त्वरिक्ताः ॥१३॥ सम्यग्दृष्टिः सामान्येन स्वपरावेवं तावजानातिउदयविवागो विविहो कम्माणं वण्णिदो जिणवरेहि । ण दु ते मज्झ सहावा जाणगभावो दु अहमिको ॥२१३॥ उदयविपाको विविधः कर्मणां वर्णितो जिनवरैः । न तु ते मम स्वभावाः झायकभावस्त्वहमेकः ॥ २१३ ॥ तात्पर्यवृत्तिः-उदयविवागो विविहो कम्माणं वण्णिदो जिणवरेहिं उदयविपाको विविधो नानाप्रकारः कर्मणां संबंधी वर्णितः कथितः, जिनवरैः ण दु ते मत्झसहावा जाणगभावो दु अहमिको ते कौदयप्रकारा कर्मभेदा मम स्वभावा न भवंति, इति कस्मात् ? इति चेत् टंकोत्कीर्णपरमानंद शायकैकत्वभावोऽहं यतः कारणात् । सम्यग्दृष्टिः सामान्येन स्वपरस्वरूपावेवं जानाति इति भणितं । कथं समान्यं ? इतिचेत् क्रोधोहं मानोहमित्यादि विवक्षा नास्तीति । तदपि कथमिति चेत् “विवक्षाया अभावः सामान्यमिति वचनात्" । एवं भेदभावनारूपेण ज्ञानवैराग्ययोः सामान्यव्याख्यानमुख्यत्वेन गाथापंचकं गतं । इत ऊर्ध्व गाथादशपर्यंतं पुनरपि ज्ञानवैराग्यशक्तयेोविशेषविवरणं करोति । तद्यथा। Page #116 -------------------------------------------------------------------------- ________________ समयप्रायतं । १११ रागी सम्यग्दष्टिर्न भवतीति कथयति - यात्मख्याति:-ये कर्मोदयविपाकप्रभवा विविधा भावा म ते मम स्वभावाः । एष टेकोल्कणिकज्ञायकस्वभावोहं। कथं रागी न भवति सम्यग्दृष्टिरिति चेत् परमाणुमित्तियं पि हु रागादीणं तु विजदे जस्स । णवि सो जाणदि अप्पा णयं तु सव्वागमधरोवि ॥२१॥ अप्पाणमयाणंतो अणप्पयं चेव सो अयाणंतो। कह होदि सम्मदिट्ठी जीवाजीवे अयाणतो ॥२१५॥ युग्मं परमाणुमात्रमपि खलु रागादीनां तु विद्यते यस्य । नापि स जानात्यात्मानं सर्वागमधरोऽपि ॥ २१४ ॥ आत्मानमजानन् अनात्मानमपि सोऽजानन् । कथं भवति सम्यग्दृष्टिर्नीवाजीवावजानन ॥ २१५ ॥ तात्पर्यवृत्तिः -परमाणुमित्तयंपि य रागादीणं तु विज्जदे जस्स परमाणुमात्रमपि रागादनिां तु विद्यते यस्य हृदये हु स्फुटं णवि सो जाणदि अप्पाणयं तु सव्वागमधरोवि सतु परमात्मतत्त्वज्ञानाभावात् , शुद्धबुद्धकस्वभावं परमात्मानं न जानाति, नानुभवति । कथंभूताऽपि सर्वागमधरोऽपि सिद्धांत सिंधुपारगोऽपि । अप्पाणमयाणंतो अणप्पयं चव सो अयाणंतो स्वसंवेदनज्ञानवलेन सहजानंदैकस्वभावं शुद्धात्मानमजानन्, तथैवाभावयंश्च शुद्धात्मनो भिन्नरागादिरूपमनात्मानं जानन् कह होदि सम्मदिही जीवाजीवो अयाणंतो स पुरुषो जीवाजीवस्वरूपमजानन् सन् कथं भवति सम्यग्दृष्टिः ! न कथमपीति । रागी सम्यग्दृष्टिर्न भवतीति भणितं भवद्भिः । तर्हि चतुर्थपंचमगुणस्थानवर्तिनः, तीर्थंकर कुमरभरत-सगर-राम-पांडवादयः सम्यग्दृष्टयो न भवंति !, इति । तन्न मिथ्यादृष्टयपेक्षया त्रिचत्वारिंशत्प्रकृतीनां बंधाभावात् सरागसम्यग्दृष्टयो भवति । कथं ! इति चेत् चतुर्थगुणस्थानवर्तिनां जीवानां अनंतानुबंधि क्रोधमानमायालोभमिथ्यात्वोदयजनितानां पाषाणरेखादिसमानानां रागादीनामभावात् । पंचमगुणस्थानवर्तिनां पुनर्जीवानां, अप्रत्याख्यानक्रोधमानमायालोभोदयजनितानां भूमिरेखादिसमानानां रागादीनामभावात्, इति पूर्वमेव भणितमास्ते । अत्र तु ग्रंथे पंचमगुणस्थानादुपरितनगुणस्थानवर्तिनां वीतरागसम्यग्दृष्टीनां मुख्यवृत्त्या ग्रहणं सरागसम्यग्दृष्टीनां गौणवृत्त्येति व्याख्यानं सम्यग्दृष्टिव्याख्यानकाले सर्वत्र तात्पर्येण ज्ञातव्यं । अथ भाविनं भोगं ज्ञानी न कांक्षतीति कथयति आत्मख्याति:-यस्य रागाद्यज्ञानभावानां लेशतोऽपि विद्यते सद्भावः, भवतु स श्रुतकेवलिसहशोऽपि तथापि ज्ञानमयभावानामभावेन न जानात्यात्मानं । यस्त्वात्मानं न जानाति सोऽनात्मानमपि न जानाति स्वरूपपररूपसत्तासत्ताभ्यामेकस्य वस्तुनो निश्चीयमानत्वात् । ततो य आत्मानात्मानौ न जानाति स जीवाजीवौ न जानाति । यस्तु जीवाजीवौ न जानाति स सम्यग्दृष्टिरेव न भवति । ततो रागी ज्ञानाभावान्न भवति सम्यग्दृष्टिः । आसंसारात्प्रतिपदममी रागिणो नित्यमत्ताः सुप्ता यस्मिन्नपदमपदं सद्धि बुध्यध्वमंधाः । एतैतेतः पदमिदमिदं यत्र चैतन्यधातुः शुद्धः शुद्धः स्वरसभरतः स्थायिभावत्वमेति ॥१३६॥ कुतोऽनागतं ज्ञानी नांकांक्षतीति चेत् Page #117 -------------------------------------------------------------------------- ________________ २१२ समातनजैनग्रंथमालायाजो वेददि वेदिजदि समए समए विणस्सदे उहयं । तं जाणगो दु णाणि उभयमवि ण कंखदि कयावि ॥२१॥ यो वेदयते वेधते समये सपये विनश्यत्युभयं । तद् नायकस्तु ज्ञानी, उभयमपि न कांक्षति कदाचित् ।। २१६ ॥ तात्पर्यवृत्तिः-जो वेददि वेदिजदि समए समए विणस्सदे उहयं योसौ रागादिविकल्पः फर्ता वेदयत्यनुभवति यस्तु सातोदयः कर्मतापन्नं वैद्यते तेन रागादिविकल्पेन, अनुभूयते । तदुभयमपि अर्थपर्यायापेक्षया समय समय प्रति विनश्वरं तं जाणगो दु णाणी उभयपि ण कखदि कयावि तदुभयमपि घेद्यवेदकरूपं वर्तमानं भाषिनं च विनश्वरं जानन् सन् तत्त्वज्ञानी नाकांक्षति न बांछति कदा चिदपि । अथ तथैवापध्यानरूपाणि निष्प्रयोजनबंधनिमित्तानि शरीरविषये भोगनिमित्तानि च रागाद्यध्यघसानानि परमात्मतत्त्ववेदी न वांछति, इति प्रतिपादयति - । __ आत्मख्याति:-ज्ञानी हि तापद्धृवत्वात् स्वभावभावस्य टंकोत्कीर्णैकज्ञायकभावो नित्यो भवति यौ तु वद्यवेदकभावौ तौ तूत्पन्नाध्यंसित्वाद्विभावभावानां क्षणिकौ भवतः । तत्र यो भावि कांक्षमाणं वेद्यभावं वेदयते स यावद्भवति तावत्कांक्षमाणो भावो विनश्यति । तस्मिन् विनष्ट वेदको भावः किं वेदयते । यदि काक्षमाणवेद्यभावपृष्ठभाविनमन्यं भावं वेदयते । तदा तद्भवनात्पूर्व विनश्यति कस्तं वेदयते । । यदि वेदकभावपृष्ठभावी भावोन्यस्तं वेदयते तदा तद्भवनात्पूर्व स विनश्यति । किं स वेदयते ? इति कांक्ष्यमाण भाववेदनानवस्था तां च विजानन् बानी किंचिदेव कांक्षति पेद्यवेदकविभावचलत्वाद्वेद्यते न खलु कांक्षितमेव तेन कांक्षति न किंचन विद्वान् सर्वतोप्यतिविरक्तिमुपैति । १३७ । तथाहि बंधुवभोगणिमित्तं अज्झवसाणोदएसु णणिस्स । संसारदेहविसएसु णेव उप्पजदे रागो ॥ २१७ ॥ धापभोगनिमित्तेषु, अध्यवसानोदयेषु शानिनः । संसाग्देहविषयेषु नैवोत्पद्यते रागः ॥ २१७ ॥ तात्पर्यवृत्तिः-बंधुवभोगणिमित्तं अज्झवसाणोदयेसु गाणिस्स व उप्पजदे रागो स्वसंवेदनज्ञानिनो जीवस्य रागायुदयरूपेषु, अध्यवसानेषु बंधनिमित्तं भोगनिमित्तं वा नैषोत्पद्यते रागः । कथंभूतेष्वध्यवसानेषु ? संसरादेहविस एसु निष्प्रयोजनबंधनिमित्तेषु संसारविषयेषु, भोगनिमित्तेषु देहविषयेषु वा । इदमत्र तात्पर्य भोगनिमित्तं स्तोकमेव पापं करोत्ययं जीवः । निष्प्रयोजनापल्यानेन बहुतरं करोति शालिमत्स्यवत् । तथा चोक्तमभ्यानलक्षणं___बंधबधच्छेदादेद्वेषादागाच परकलत्रादेः आध्यानमपध्यानं शासति जिनशासने विशदाः। ॥ १॥ इति. अपध्याने कर्म बध्नाति तदप्युक्तमास्ते संकल्पकल्पतरुसंश्रयाणात्वदीयं चेतो निमजति मनोरथसागरेऽस्मिन् । तत्रार्थतस्तव चकास्ति न किंचनापिं पक्षःपरं भवसि कल्मषसंश्रयस्य ॥ १॥ दैविध्यदग्धमनसोंऽतरुपात्तमुक्तेश्चित्तं यथोल्लसति ते स्फुरितोत्तरंगं । धाम्नि स्फुरेद्यदि तथा परमात्मसंज्ञे कौतुस्कृती तव भवेदिफला प्रसूतिः ॥२॥ आचारशास्त्रे भणितं Page #118 -------------------------------------------------------------------------- ________________ समयप्राभृतं । फंखदि कलुसिदभूदो दुकामभोगेहिं मुच्छिदो संतो। णय भुंजतो भोगे बंधदि भावेण कम्माणि ॥ १ ॥ .. इति ज्ञात्वा, अपध्यानं त्यक्त्वा च शुद्धात्मस्वरूपे स्थातव्यमिति भावार्थः । अथ मिथ्यात्वरागादिरूपमपध्यानं मम परिग्रहो न भवति, इति पुनरपि भेदज्ञानशक्तिं वैराग्यशक्तिं च प्रकटयति भात्मख्यातिः-इह खल्वध्यवसानोदयाः कतरेऽपि संसारविषयाः, कतरेपि शरीरविषयाः । तत्र पतरे संसारविषयाः, ततरे बंधनिमित्ताः । यतरे शरीरविषयास्ततरे तूपभोगनिमित्ताः । यतरे बंधनिमित्तास्ततरे रागद्वेषमोहाद्याः । यतरे तूपभोगनिमित्तास्ततरे सुखदुःखाद्याः। अथामीषु सर्वेष्वपि ज्ञानिनो नास्ति रागः । नानाद्रव्यस्वभावत्वेन टंकोत्कीर्णैकज्ञायकभावस्वभावस्य तस्य तत्प्रतिषेधात् । ज्ञानिनो न हि परिग्रहभावं कर्मरागरसरिक्ततयैति रागयुक्तिरकषायितवस्त्रं स्वीकृतैव हि बहिलठतीह । १३८ । ज्ञानवान् स्वरसतोऽपि यतःस्यात् सर्वरागरसवर्जनशीलः लिप्यते सकलकर्मभिरेष कर्ममध्यपतितोऽपि ततो न । १३९ । मज्झं परिग्गहो जदि तदो अहमजीविदं तु गच्छेज । णादेव अहं जमा तह्मा ण परिग्गहो मज्झ ॥ २१८॥ मम परिग्रहो यदि ततोऽहमजीवतां तु गच्छेयं । ज्ञातैवाहं यस्मात्तमान परिग्रहो मम ॥ २१८ ॥ तात्पर्यवृत्तिः-मझं परिग्गहो जदि तदो अहमजीविदं तु गच्छेज्ज सहजशुद्धकेवलज्ञानदर्शनस्वभावस्य मम यदि मिथ्यात्वरागादिकं परद्रव्यं परिग्रहो भवति ततोऽहं, अजीवत्वं जडत्वं गच्छामि । न चाहं अजीवो भवामि । णादेव अहं जमा तह्मा ण परिग्गहो मज्झ परमात्मज्ञानपदमेवाहं यस्मात्ततः परद्रव्यं मम परिग्रहो न भवतीत्यर्थः। भथ किं तत्परमात्मपदमिति पृच्छति आत्मख्याति:-यदि परद्रव्यमहं परिगृण्हीयां तदावश्यमेवाजीवो ममासौ स्वः स्यात् । अहमप्यवश्यमेवाजीवस्यामुष्य स्वामी स्यां । अजीवस्य तु यः स्वामी स किलाजीवः । एवमवशेनापि ममाजीवत्वमापद्येत । मम तु एको ज्ञायक एव भावः, यः स्वः, अस्यैवाहं स्वामी, ततो माभून्ममाजीवत्वं ज्ञातैवाहं भविध्यामि, न परद्रव्यं परिगृहामि, अयं च मे निश्चयः । किं तत्पदं ? आदमि दव्वभावे अथिरे मोत्तूण गिण्ह तव णियदं । थिरमगमिमं भावं उवलंभंतं सहावेण ॥ २१९ ॥ आत्मनि द्रव्यभावान्यस्थिराणि मुक्त्वा गृहाण तव नियतं । स्थिरमेकमिमं भावं उपलभ्यमानं स्वभावेन ॥ २१९ ॥ तात्पर्यवृचिः-आदमि दवभावे अथिरे मोत्तूण आत्मद्रव्येऽधिकरणभूते, द्रव्यकर्माणि भावकर्माणि च यानि तिष्ठति तानि विनश्वराणि, इति विज्ञाय मुक्त्वा गिण्ह हे भव्य गृहाण । कं ! कर्मता पनं तव णियदं थिरमेगमिमं भावं उपलब्भंतं सहावेण भावं, आत्मपदार्थ कथंभूतं ? तव, संबंधिख १ कर्म-विषयोपभोगलक्षणा क्रिया, राग आत्मनोरंजकपरिणामः स एव सस्तविकतया तद्भिातया। २ स्वीकता संयोगपरिणामपरिणता । ३ मामख्यातिवृत्ता, 'भपदे मोखूण' इति पाठः । - Page #119 -------------------------------------------------------------------------- ________________ ११४ सनातन जैनप्रथमालाथां रूपं । नियतं, निश्चितं । पुनरपि कथंभूतं ? स्थिरं, अविनश्वरं । एक, असहायं । इदं प्रत्यक्षीभूतं । पुनरपि किं विशिष्टं ? उपलभ्यमानं, अनुभूयमानं । केन कृत्वा ! परमात्मसुखसंवित्तिरूपस्वसंवेदनबानस्वभावेनेति । अथ ज्ञानी परद्रव्यं जानातीति भेदभावनां प्रतिपादयति आत्मख्यातिः - इह खलु भगवत्यात्मनि बहूनां द्रव्यभावानां मध्ये ये किल, अतत्स्वभावेनोपलभ्यमानाः, अनियतत्वावस्थाः, अनेके, क्षणिकाः, व्यभिचारिणो भावाः, ते सर्वेऽपि स्वयमस्थायित्वेन स्थातुः स्थानं भवितुमशक्यत्वात्, अपदभूताः । यस्तु तत्स्वभावेनोपलभ्यमानः, नियतत्वावस्थः, एकः, नित्यः, अव्यभिचारी भावः, स एक एव स्वयं स्थायित्वेन स्थानं भवितुं शक्यत्वात् पदभूतः । ततः सर्वानेवास्थायि - भावान् मुक्त्वा स्थायिभावभूतं, परमार्थरसतया स्वदमानं ज्ञानमेकमेवेदं स्वाद्यं । एकमेव हि तत्स्वाद्यं विपेदामपदं पदं अपदान्येव भासते पदान्यान्यानि यत्पुरः । १४० । एकं ज्ञायकभावनिर्भरमहास्वादं समासादयन् स्वादं द्वंद्वमयं विधातुमसहः स्वां वस्तुवृत्तिं विदन् । आत्मात्मानुभवानुभावविवशो भ्रश्यविशेषोदयं सामान्यं कलयत्किलैष सकलं ज्ञानं नयत्येकतां ॥ १४१ ॥ कुतो ज्ञानी न परं गृण्हातीति चेत् — को नाम भणिज हो परदव्वं मममिदं हवदि दव्वं । अप्पाणमप्पणो परिग्गहं तु णियदं वियाणंतो ॥ २२० ॥ को नाम भद्बुधः परद्रव्यं ममेदं भवति द्रव्यं । आत्मानमात्मनः परिग्रहं तु नियतं विजानन् ॥ २२० ॥ तात्पर्यवृत्तिः–को नाम भणिज्ज वुहो परदव्वं मममिदं हवदि दव्वं परद्रव्यं मम भवतीति नाम स्फुटमहो वा को ब्रूयात् ? बुधो ज्ञानी न कोपि । किं कुर्वन् ? अप्पाणमप्पणो परिग्गहं तु णियदं वियाणंतो चिदानंदैकस्वभावशुद्धात्मानमेव, आत्मनः परिग्रहं विजानन् नियतं निश्चितमिति । अथायं च मे निश्चयः, देहरागादि मम परिग्रहो न भवतीति भेदज्ञानं निरूपयति आत्मख्यातिः - यतो हि ज्ञानी योहि यस्य स्वो भावः स तस्य स्वः स तस्य स्वामीति खरतरतस्वदृष्ट्यवष्टंभात्, आत्मानमात्मनः परिग्रहं तु नियमेन जानाति । ततो न ममेदं स्वं नाहमस्य स्वामी इति परद्रव्यं न परिगृहाति । अतोहमपि न तत्परिगृण्हामि । छिजदु वा भिजदु वा णिजदु वा अहव जादु विप्पलयं । जह्मा तह्मा गच्छदु तहावि ण परिग्गहो मज्झ ॥ २२१ ॥ छिद्यतां वा भिद्यतां वा नीयतां अथवा यातु विप्रलयं । यस्मात्तस्माद् गच्छतु तथापि न परिग्रहो मम ।। २२१ ॥ तात्पर्यवृत्तिः - छिज्जदु वा भिज्जदु वा णिज्जदु वा अहव जादु विप्पलयं छिद्यतां वा द्विधा भवतु, भिद्यतां वा छिद्री भवतु, नीयतां वा केन चित् । अथवा विप्रलयं विनाशं गच्छतु, एवमेव जह्मा तह्मा गच्छदु तहावि ण परिग्गहो मज्झ अन्यस्मात् यस्मात् तस्मात् कारणाद्वा गच्छतु तथापि शरीरं मम परिग्रहो न भवति । कस्मात् ? इति चेत् टंकोत्कीर्णपरमानंदज्ञायकैकस्वभावहिं, यतः कारणात् । अयं च मे निश्चयः । १ विपदां चातुर्गातिकदुःखानां। २ अपदानि अस्वभावभूतानि चातुर्गतिकपर्या वा- रागद्वेषसुखदुःखावस्थाभेदा वा । ३ स्थैर्यादिधर्मान्वितस्य चैतन्यस्य पुरस्तात् । ४ गौंणीकुर्वत् । Page #120 -------------------------------------------------------------------------- ________________ समयप्राभृतं । ११५ भथात्मसुखे संतोषं दर्शयति मात्मख्याति:-छिद्यतां वा भिद्यतां वा नीयतां वा विप्रलयं यातु वा यतस्ततो गच्छतु वा तथापिन परद्रव्यं परिगृहामि । यतो न परद्रव्यं मम स्वं नाहं परद्रव्यस्य स्वामी । परद्रव्यमेव परद्रव्यस्य स्वं परद्रव्यमेव परद्रव्यस्य स्वामी । अहमेव मम स्वं अहमेव मम स्वामीति जानाति । इत्थं परिग्रहमपास्य समस्तमेव सामान्यतः स्वपरयोरविवेकहेतुं । अज्ञानमुज्झितुमना अधुना विशेषाद् भूयस्तमेव परिहर्तुमयं प्रवृत्तः ॥ १४२ ।। एदमि रदो णिचं संतुट्ठो होहि णिचमेदसि । एदेण होहि तित्तो तो होहदि उत्तमं सोक्खं ॥ २२२ ॥ एतामिन् रतो नित्यं संतुष्टो भव नित्यमेतस्मिन् । एतेन भव तृप्तो तर्हि भविष्यति तवोत्तमं सौख्यं । २२२ । तात्पर्यवृत्तिः- एदलि रदो णिचं संतुट्टो होहि णिच्चमेदमि एदेण होहि तितो हे भव्य पंचेंद्रियसुखनिवृत्तिं कृत्वा निर्विकल्पयोगवलेन स्वाभाविकपरमात्मसुस्वे रतो भव संतुष्टो भव, तृप्तो भव, नित्यं सर्वकालं तो होइदि उत्तमं सुक्खं ततस्तस्मादात्मसुखानुभवनात् तवोत्तममक्षयं मोक्षसुखं भविष्यति । .. अथ मतिश्रुतावधिमनःपर्ययकेवलज्ञानाभेदरूपं परमार्थसंज्ञं मोक्षकारणभूतं यत्परमात्मपदं तत्समस्तहर्षविषादादिविकल्पजालरहितं परमयोगाभ्यासादेवात्मानुभवति, इति प्रतिपादयति आत्मख्यातिः - एतावानेव सत्य आत्मा यावदेतज्ज्ञानमिति निश्चित्य ज्ञानमात्र एव नित्यमेव रतिमुपैहि । एतावत्येव सत्याशीः, यावदेतज्ज्ञानमिति निश्चित्य ज्ञानमात्रेणैव नित्यमेव संतोषमुपैहि । एतावदेव सत्यमनुभवनीयं यावदेव ज्ञानमिति निश्चित्य ज्ञानमात्रेणैव नित्यमेव तृप्तिमुपैहि । अथैवं तव तन्नित्यमेवात्मरतस्य, आत्मसंतुष्टस्य, आत्मतृप्तस्य च वाचामगोचरं सौख्यं भविष्यति । तत्तु तत्क्षण एव त्वमेव स्वयमेव द्रक्ष्यसि मा अन्यान् प्राक्षीः । अचिंत्यशक्तिः स्वयमेव देवश्चिन्मात्रचिंतामणिरेव यस्मात् । सर्वार्थसिद्धात्मतया विधत्ते ज्ञानी किमन्यस्य परिग्रहेण ॥१४३॥ आभिणिसुदोहिमणकेवलं च तं होदि एकमेव पदं । सो एसो परमट्टो जं लहिदं णिव्वुदि जादि ॥ २२३ ।। ' आभिनिबोधिकश्रुतावधिमनःपर्ययकेवळ च तद्भवत्येकमेव पदं। स एव परमार्थः, यं लब्ध्वा निवृत्ति याति ॥ २२३ ॥ तात्पर्यवृत्तिः-आभिणिसुदोहिमणकेवलं च तं होदि एकमेव पदं मतिश्रुतावधिमनःपर्ययकेवलज्ञानाभेदरूपं यत्तन्निश्चयेन, एकमेव पदं । परं किं तु यथादित्यस्य मेघावरणतारतम्यवशेन प्रकाशभेदा भवंति । तथा मतिज्ञानावरणादिभेदकर्मवशेन मतिश्रुतज्ञानादि मेदभिन्नं जातं सो एसो परमट्ठो जं लहिदु णिव्वुदि जादि स एष लोकप्रसिद्धः पंचज्ञानाभेदरूपः परमार्थः यं परमार्थ लब्ध्वा जीवो निवृति याति लभत इत्यर्थः । एवं ज्ञानशक्तिवैराग्यशक्तिविशेषविवरणरूपेण सूत्रदशकं गतं । अत ऊर्ध्व गाथाष्टकपर्यंतं तस्यैव परमात्मपदस्य प्रकाशको योसौ ज्ञानगुणः, तस्य सामान्यविवरणं करोति। तद्यथा ... अथ मत्यादिपंचज्ञानाभेदरूपं साक्षान्मोक्षकारणभूतं यत्परमात्मपदं, तत्पदं शुद्धात्मानुभूतिशून्यं बततपश्चरणादिकायक्वेशं कुर्वाणा अपि स्वसंवेदनज्ञानगुणेन विना न लभंत इति कथयति Page #121 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायाआत्मख्यातिः-आत्मा किल परमार्थः तत्तु ज्ञानं, आत्मा च एक एव पदार्थः, ततो ज्ञानमध्येक मेव पदं यदेतत्तु ज्ञानं नामैकं पदं स एष परमार्थः साक्षान्मोक्षोपायः । न चाभिनिबोधिकादयो भेदा इदमेक पदमिह भिंदंति ? किं तु तेपीदमेवैकं पदमभिनंदंति। तथाहि-यथात्र सवितुर्धनपटलावगुंठितस्य तद्विघटनानुसारेण प्राकव्यमासादयतः प्रकाशनातिशयभेदा न तस्य प्रकाशस्वभावं भिंदंति । तथा, आत्मनः कर्मपटलोदयावगुंठितस्य तद्विघटनानुसारेण प्राकव्यमासादयतो ज्ञानातिशयभेदा न तस्य ज्ञानस्वभावं भिंद्युः । किं तु प्रत्युतमभिनंदेयुः । ततो निरस्तसमस्तभेदमात्मस्वभावभूतं ज्ञानमेवैकमालम्ब्यं तदालंबनादेव भवति पदप्राप्तिः । नश्यति भ्रांतिः । भवत्यात्मलाभः । सिद्धत्यनात्मपरिहारः, न कर्म मूर्छति । न रागद्वेषमोहा उत्प्लवंते । न पुनः कर्म, आस्रवति । न पुनः कर्म बध्यते । प्रागबद्धं कर्म, उपभुक्तं निर्जीयते । कृत्स्नकर्माभावात् साक्षान्मोक्षो भवति । अच्छाच्छाः स्वयमुच्छलति यदिमाः संवेदनव्यक्तयो निष्फीताखिलभावमंडलरसप्राग्भारमत्ता इव । यस्याभिन्नरसः स एष भगवानेकोप्यनेकी भवन् वैलगत्युत्कालिकाभिरद्भुतनिधिश्चैतन्यरत्नाकरः । १४४। किं च-क्लिश्यतां स्वयमेव दुष्करतरैर्मोक्षोन्मुखैः कर्मभिः क्लिश्यतां च परे महाव्रततपोभारेण भग्नाश्चिरं । साक्षान्मोक्ष इदं निरामयपदं संवेद्यमानं स्वयं ज्ञानं ज्ञानगुणं विना कथमपि प्राप्तुं क्षमंते न हि ।१४५/ णाणगुणेहिं विहीणा एदं तु पदं वहूवि ण लहंति । तं गिह सुपदमेदं जदि इच्छसि कम्मपरिमोक्खं ॥ २२४ ॥ ज्ञानगुणैर्विहीना एतत्तु पदं बहवोऽपि न लभते । ___ तद्गहाण सुपदमिदं यदीच्छसि कर्मपरिमोक्षं ॥ २२४ ॥ तात्पर्यवृत्तिः-णाणगुणेहिं विहीणा एदं तु पदं बहुवि ण लहंति निर्विकारपरमात्मतत्त्वोपलब्धिलक्षणज्ञानगुणेन विहीनाः, रहिताः पुरुषाः, बहवोऽपि शुद्धात्मोपादेयसंवित्तिरहितं दुर्धरकायक्लेशादितपश्चरणं कुर्वाणा अपि मत्यादिपंचज्ञानाभेदरूपं साक्षान्मोक्षकारणं खसंवेद्यं शुद्धात्मसंवित्तिविलक्षणमिदं पदं न लभंते । तं गिण्ह सुपदमेदं जदि इच्छसि कम्मपरिमोक्खं हे भव्य तत्पदं गृहाण यदीच्छसि कर्मपरिमोक्षमिति । अथ विशेषपरिग्रहत्यागरूपेण तमेव ज्ञानगुणं विवृणोति आत्मख्यातिः—यतो हि सकलेनापि कर्मणा कर्मणि ज्ञानस्याप्रकाशनात् ज्ञानस्यानुपलंभः । केवलेन ज्ञानेनैव ज्ञान एव ज्ञानस्य प्रकाशनाद् ज्ञानस्योपलंभः । ततो बहवोऽपि बहुनापि कर्मणा ज्ञानशून्या नेदमुपलभंते । इदमनुपलभमानाश्च कर्मभिर्विप्रमुच्यते ततः कर्ममोक्षार्थिना केवलज्ञानावष्टंभेन नियतमेवेदमेकं पदमुपलंभनीयं । पदमिदं ननु कर्मदुरासदं सहजबोधकलासुलभं किल । तत इदं निजबोधकलावलात्कलयितुं यततां सततं जगत् । १४६ । अपरिग्गहो अणिच्छो भणिदो णाणीय णिच्छदे धम्म । अपरिग्गहो दु धम्मस्स जाणगो तेण सो होदि ॥२२५॥ अपरिग्रहोऽनिच्छो भणितो ज्ञानी च नेच्छति धर्म । अपरिग्रहस्तु धर्मस्य ज्ञायकस्तेन स भवति ॥ २२५॥ र यावंतः पर्यायास्तेभ्योऽभिन्नसत्ताकः २ परिणमति । ३ अनादितो मत्याद्यनेकभेदः । ४ शुद्धखरूपानुभवभ्रष्टाः । ५ सांबारिकंक्लेशरहितं । । शुद्धखरूपानुभवशाफिमंतरेण | ७ णियदमित्यात्मख्यातिवृत्ती पाठः । Page #122 -------------------------------------------------------------------------- ________________ समवप्रामृतं । तात्पर्यवृत्तिः-अपरिग्गडो अणिच्छो भाणदो गाणीय णिच्छदे धम्म अपरिग्रहो भणितः कोसौ ! अनिच्छः । तस्य परिग्रहो नास्ति यस्य बहिर्द्रव्येष्विच्छा वांछा मोहो नास्ति । तेन कारणेन खसंवेदनज्ञानी शुद्धोपयोगरूपं निश्चयधर्म विहाय शुभोपयोगरूपं धर्मं पुण्यं नेच्छीत । अपरिग्गहो दु धम्मस्स जाणगो तेण सो होदि ततः कारणात्पुण्यरूपधर्मस्यापरिग्रहः सन् पुण्यमिदं ममस्वरूपं न भवतीति ज्ञात्वा तद्रूपेणापरिणमन् , अतन्मयो भवन् दर्पणे विम्बस्येव ज्ञायक एव भवति । आत्मख्याति:-इच्छा परिग्रहः तस्य परिग्रहो नास्ति यस्येच्छा नास्ति, इच्छात्वज्ञानमयो भावः, अज्ञानमयो भावस्तु ज्ञानिनो न भवति, ज्ञानिनो ज्ञानमय एव भावोऽस्ति, ततो जानी, अज्ञानमयस्व भावस्य इच्छाया अभावात् धर्म नेच्छति । तेन ज्ञानिनो धर्मपरिग्रहो नास्ति । ज्ञानमयस्यैकस्य ज्ञायकभावस्य भावाद् धर्मस्य केवलं ज्ञायक एवायं स्यात् । अपरिग्गहो अणिच्छो भणिदो णाणीय णिच्छदि अहम्मं । अपरिग्गहो अधम्मस्स जाणगो तेण सो होदि ॥ २२६ ॥ अपरिग्रहोऽनिच्छो भणितो ज्ञानी च नेच्छत्यधर्म । ___अपरिग्रहोऽधर्मस्य ज्ञायकस्तेन स भवति ॥ २२६ ॥ तात्पर्यवृत्तिः-अपरिग्महो अणिच्गे भणिदो गाणीय णिच्छदि हम्म अपरिग्रहो भणितः, स कः ? अनिच्छः-तस्य परिग्रहो नास्ति यस्य बहिर्द्रव्येषु, इच्छा कांक्षा नास्ति । तेन कारणेन तत्त्वज्ञानी विषयकषायरूपं अधर्म पापं नेच्छति । अपरिग्गहो अधम्मस्स जाणगो तेण सो होदि तत एव कारणात्-विषयकषायरूपस्याधर्मस्याऽपरिग्रहः सन् पापमिदं मम स्वरूपं न भवतीति ज्ञात्वा तद्रूपेणापरिणमन् दर्पणे विम्बस्येव ज्ञायक एव भवति । एवमेव च, अधर्मपदपरिवर्तनेन रागद्वेषक्रोधमानमायालोभकर्मनोकर्ममनोवचनकायश्रोत्रचक्षुर्घाणरसनस्पर्शनसंज्ञानि सप्तदशसूत्राणि व्याख्येयानि । तेनैव प्रकारेण शुभाशुभसंकल्पविकल्परहितानंतज्ञानादिगुणस्वरूपशुद्धात्मनः प्रतिपक्षभूतानि शेषाण्यप्यसंख्येयलोकप्रमितानि विभावपरिणामस्थानानि वर्जनीयानि । आत्मख्याति:-इच्छा परिग्रहः तस्य परिग्रहो नास्ति यस्येच्छा नास्ति, इच्छात्वज्ञानमयो धर्मः । अज्ञानमयो भावस्तु ज्ञानिनो नास्ति ज्ञानिनो ज्ञानमय एव भावोऽस्ति । ततो ज्ञानी, अज्ञानमयस्य भावस्य इच्छाया अभावात् अधर्म नेच्छति तेन ज्ञानिनः, अधर्मपरिग्रहो नास्ति ज्ञानमयस्यैकस्य ज्ञायकमावस्य भावादधर्मस्य केवलं ज्ञायक एवायं स्यात् । एवमेव चाधर्मपदपरिवर्तनेम रागद्वेषक्रोधमानमायालोभकर्मनोकर्ममनोवचनकायश्रोत्रचक्षुर्घाणरसनस्पर्शनसूत्राणि षोडश व्याख्येयानि, अनया दिशाऽन्यान्यप्यूह्यानि । धम्मच्छि अधम्मच्छी आयासं सुत्तमंगपुव्वेसु । संगं च तहा णेयं देवमणुअत्तिरियणेरइयं ॥ २२७॥ तात्पयवत्तिः-अपरिग्रहो भणितः कोऽसौ ! अनिच्छः तस्य परिग्रहो नास्ति यस्य बहिर्द्रव्येषु आकांक्षा नास्ति तेन कारणेन परमतत्त्वज्ञानी चिदानंदैकखभावं शुद्धात्मानं विहाय धर्माधर्माकाशाधंगपूर्वगतश्रुतबाह्याभ्यंतरपरिग्रहदेवमनुष्यतिर्यनरकादिविभावपर्यायानेच्छति इति ज्ञेयं ज्ञातव्यं । ततः कारणात्तद्विषये निष्परिग्रहो भूत्वा तद्रूपेणापरिणमन् सन् दर्पणे बिम्बस्येव ज्ञायक एव भवति । अपरिग्गहो अणिच्छो भेणिदो असणं तु णिच्छदे णाणी। अपरिग्गहो दु असणस्स जाणगो तेण सो होदि ॥ २२८ ॥ १ नेयमात्मख्यातो माथा तात्पर्यवृत्तावेव । २ 'मणिदा णाणीदु णिच्छदे असंणं' आत्मख्याती पाठोऽयं । Page #123 -------------------------------------------------------------------------- ________________ ११८ समातनजैनग्रंथमालार्या अपरिग्रहोंऽनिच्छो भणितोऽशनं च नेच्छति ज्ञानी । अपरिग्रहस्त्वशनस्य ज्ञायकस्तेन स भवति ।। २२८ ॥ तात्पर्यवृत्तिः - अपरिग्गहो अणिच्छो भणिदो असणं व णिच्छदे णाणी अपरिग्रहो भणितः स कः ? अनिच्छः । तस्य परिप्रहो नास्ति यस्य बहिर्द्रव्येषु इच्छा मूर्छा ममत्वं नास्ति । इच्छा त्वज्ञानमयो भावः स च ज्ञानिनो न संभवति । अपरिग्महा दु असणस्स जाणगो तेण सो होषि तत एव कारणात् आत्मसुखे तृप्तो भूत्वा अशनविषये निष्परिग्रहः सन् दर्पण बिम्बस्येव अशनाद्याहारस्य वस्तुनो वस्तुरूपेण ज्ञायक एव भवति । न च रागरूपेण ग्राहक इति । आत्मख्यातिः: - इच्छा परिग्रहः तस्य परिग्रहो नास्ति यस्येच्छा नास्ति, इच्छात्वज्ञानमयो भावः, अज्ञानमयो भावस्तु ज्ञानिनो नास्ति । ज्ञानिनो ज्ञानमय एव भावोऽस्ति । ततो ज्ञानी, अज्ञानमयस्य भावस्य इच्छाया अभावात्, अशनं नेच्छति तेन ज्ञानिनोऽशनपरिग्रहो नास्ति ज्ञानमयस्यैकस्य ज्ञायकभावस्य भावादशनस्य केवलं ज्ञायक एवायं स्यात् । अपरिग्गहो अणिच्छो भणिदो पाणं च णिच्छदे णाणी । अपरिग्गहो दु पाणस्स जाणगो तेण सो होदि ॥ २२९ ॥ अपरिग्रहो अनिच्छा भणितः पानं च नेच्छति ज्ञानी । अपरिग्रहस्तु पानस्य सायकस्तेन स भवति ।। २२९ । तात्पर्यवृत्तिः – अपरिग्गहो अणिच्छो भणिदो पाणं तु णिच्छदे णाणी अपरिप्रहो भणितः कोसौ ? अनिच्छः । तस्य परिग्रहो नास्ति यस्य बहिर्दव्येश्वाकांक्षा तृष्णा मोह इच्छा नास्ति । इच्छात्वज्ञानमयो भावः स च ज्ञानिनो न संभवति अपरिग्महो दु पाणस्स जाणगो सेण सो होदि ततः कारणात् स्वाभाविकपरमानंदसुखे तृप्तो भूत्वा विविधपानकविषये निष्परिग्रहः सन् दर्पणे बिम्बस्येक वस्तुस्वरूपेण ज्ञायक एव भवति, नच रागरूपेण ग्राहक इति । तथा चोक्तं वाउ सादु अट्ठण सरीरस्य वयट्ठते जङ्कं णाणठ्ठे संजमठ्ठे झाणां चेव भुंजंति ॥१॥ अरकाभरकणिमित्तं इसिणो भुंजंति पाणधारणणिमित्तं पाणा धम्मणिमित्तं धम्मं हि चरंति मोक्खटुं । २ ॥ अथ परिग्रहत्यागव्याख्यानमुपसंहरति 1 आत्मख्यातिः: -- इच्छा परिग्रहः, तस्य परिग्रहो नास्ति यस्येच्छा नास्ति, इच्छात्वज्ञानमयो भावः अज्ञानमयो भावस्तु ज्ञानिनो नास्ति । ज्ञानिनो ज्ञानमय एव भावोऽस्ति । ततो ज्ञानी, अज्ञानमयस्य भावस्य इच्छाया अभावात् पानं नेच्छति । तेन ज्ञानिनः पानपरिग्रहो नास्ति ज्ञानमयस्यैकस्य ज्ञायकभावस्य भावात् केवलं पानकस्य ज्ञायक एवायं स्यात् । व्वादु एदु विवि सव्वे भावेय णिच्छदे णाणी । जागभावो यिदो पीरालंवोय सव्वत्थ ॥ २३० ॥ इत्यादिकांस्तु विविधान् सर्वान् भावान्नेच्छति ज्ञानी । ज्ञायकभावो नियतः निरालंबच सर्वत्र ।। २३० ॥ तात्पर्यवृत्तिः – इब्वादु एदु विविहे सव्वे भावेय णिच्छदे णाणी इत्यादिकान् पुण्या - १ 'आत्मख्यातौ - मणिदो णाणी दु णिच्छदे पाणं' इति पाठः । २ एवमादु इत्यात्मख्याती । Page #124 -------------------------------------------------------------------------- ________________ - समयप्राभूतं । पान् पानादिबहिर्भावात् सर्वतः परमात्मतत्त्वज्ञानी नेच्छति । अनिच्छन् स कथंभूतो भयन् भावो णीयदो णिरालंबोय सव्वत्थ टंकोत्कीर्णपरमानंदज्ञायकैकस्वभाव एव भवति नियतो निश्चितः । पुनश्च कथंभूतो भवति जगत्त्रये कालत्रयेऽपि मनोवचनकायैः कृतकारितानुमितैश्च बाह्याभ्यंतरपरि प्रहरूपे चतनाचेतनपरद्रव्ये सर्वत्र निरालंबोऽपि, अनंतज्ञानादिगुणस्वरूपे स्वस्वभावे पूर्णकलश इव सालंबन एव तिष्ठतीति भावार्थः ।। __ अथ ज्ञानी वर्तमानभाविभोगेषु वांछां न करोतीति कथयति___ आत्मख्याति:-एवमादयोऽन्येऽपि बहुप्रकाराः परद्रव्यस्य ये भावास्तान् सर्वानेव नेच्छति ज्ञानी तेन ज्ञानिनः सर्वेषामपि परद्रव्यभावानां परिग्रहो नास्ति इति सिद्धं ज्ञानिनोऽत्यंतनिष्परिग्रहत्वं । अथैव मयमशेषभावांतरपरिग्रहशून्यत्वात् उद्वांतसमस्ताज्ञानः सर्वत्राप्यत्यंतनिरालंबो भूत्वा प्रतिनियतटकोत्कीगैंकज्ञायकभावः सन् साक्षाद्विज्ञानधनमात्मानमनुभवति । पूर्वबद्धनिजकर्मविपाकाद् ज्ञानिनो यदि भवत्युपभोगः । तद्भवत्वथ च रागवियोगान्नूनमेति न परिग्रहभावं ॥ १४७ ॥ उप्पण्णोदयभोगे विओगवुद्धीय तस्स सो णिचं । कंखामणागदस्स य उदयस्स ण कुव्वदे णाणी ॥ २३१ ॥ उत्पन्नोदयभोगे बियोगबुद्ध्या तस्य स नित्यं । कांक्षामनागतस्य चोदयस्य न करोति ज्ञानी ।। २३१ ॥ ___ तात्पर्यवृत्तिः-उप्पण्णोदयभोगे वियोगबुद्धीय तस्स सो णिचं उत्पन्नोदयभोगे वियोगबद्विश्च हेयबुद्धिर्भवति तस्य तस्मिन् भोगविषये षष्ठीसप्तम्योरभेद इति वचनात् ' कोसौ निरीहवृत्तिर्भवति स्वसंवेदनज्ञानी नित्यं सर्वकालं कंखामणागदस्सय उदयस्स ण कुव्वदेणाणी स एव ज्ञानी, अनागतस्य निदानबंधरूपभाविभागोदयस्याकांक्षां न करोति । किं च विशेषः य एव भोगोपभोगादिचेतनाचेतनसमस्तपरद्रव्यनिरालंबनो भावपरिणामः स एव स्वसंवेदनज्ञानगुणो भण्यते । तेन ज्ञानगुणालंबनेन य एव पुरुषः ख्याति-पूजा-लाभ-भोगाकांक्षारूपनिदानबंधादिविभावरहितः सन् जगत्त्रये कालत्रयेऽपि मनोवचनकायैः कृतकारितानुमितैश्च विषयसुखानंदवासनावासितं चित्तं मुक्त्वा शुद्धात्मभावनोत्थवीतरागपरमानंदसुखेन वासितं रंजितं मूर्छितं परिणतं तन्मयं तृप्तं रतं संतुष्टं चित्तं कृत्वा वर्तते स एव मतिश्रुतावधिमनः पर्ययकेवलज्ञानाभेदरूपं परमार्थशब्दाभिधेयं साक्षान्मोक्षकारणभूतं शुद्धात्मसंवित्तिलक्षणं परमागमभाषया वीतरागधर्मध्यानशुक्लध्यानस्वरूपं स्वसंवेद्यशुद्धात्मपदं परमसमरसीभाबेन अनुभवति न चान्यः । यादृशं परमात्मपदमनुभवति तादृशं परमात्मपदस्वरूपं मोक्षं लभते । कस्मात् ! इतिचेत् उपादानकारणसदृशं कार्य भवति यतः कारणात् इति । एवं स्वसंवेदनज्ञानगुणं विना मत्यादिपंचज्ञानविकल्परहितमखंडपरमात्मपदं न लभ्यते इति संक्षेपव्याख्यानमुख्यत्वेन सूत्राष्टकं गतं । भथानंतरं तस्यैव ज्ञानगुणस्य चतुर्दशगाथापर्यंतं पुनरपि विशेषव्याख्यानं करोति । तद्यथा-ज्ञानी सर्वद्रव्येषु वीतरागत्वात्कर्मणा न लिप्यते सरागत्वादज्ञानी लिप्यते, इति प्रतिपादयति आत्मख्यातिः-कर्मोदयोपभोगस्तावत् अतीतः प्रत्युत्पन्नो नागतो वा स्यात् ! तत्रातीतस्तावत् अतीतत्वादेव सन् परिग्रहभावं विभर्ति । अनागतस्तु आकांक्ष्यमाण एव परिग्रहभावं विभृयात् । प्रत्युत्पन्नस्तु स किल रागबुद्ध्या प्रवर्तमान एव तथा स्यात् । नच प्रत्युत्पन्नः कर्मोदयोपभोगो ज्ञानिनो रागबुद्ध्या प्रवर्तमानो दृष्टः, ज्ञानिनोऽज्ञानमयभावस्य रागबुद्धेरभावात् । वियोगबुद्ध्यैव केवलं प्रवर्तमानस्तु स किल न परिग्रहः स्यात् । ततः प्रत्युत्पन्नः कर्मोदयोपभोगो शानिनः परिग्रहो न भवेत् । अनागतस्तु स किल झानिनो Page #125 -------------------------------------------------------------------------- ________________ १२० सनातन जैनग्रंथमालायां न कांक्षित एव, ज्ञानिनोऽज्ञानमयभावस्याकांक्षाया अभावात् । ततो नागतोऽपि कर्मोदयोपभोगो ज्ञानिनः परिमहो न भवेत् । णाणी रागप्प हो सव्वदव्वेसु कम्ममज्झगदो । णो लिप्पदि कम्मरएण दु कद्दममज्झे जहा कणयं ॥ २३२॥ अण्णाणी पुण रत्तो सव्वदव्वेसु कम्ममज्झगदो | लिप्पदि कम्मरएण दु कद्दममज्झे जहा लोहं ॥ २३३ ॥ ज्ञानी रागप्रायः सर्वद्रव्येषु कर्ममध्यगतः । नो लिप्यते कर्मरजसा तु कर्दममध्ये यथा कनकं ॥ २३२ ॥ अज्ञानी पुनारक्तः सर्वद्रव्येषु कर्ममध्यगतः । लिप्यते कर्मरजसा कर्दममध्ये यथा लाई || २३३ || तात्पर्यवृत्तिः– हर्षविषादादिविकल्पोपाधिरहितः स्वसंवेदनज्ञानी सर्वद्रव्येषु रागादिपरित्यागशील: यतः कारणात्, ततः कर्दममध्यगतं कनकमिव कर्मरजसा न लिप्यते । अज्ञानी पुनः स्वसंवेदनज्ञानाभावात् सर्वपचेंद्रियादिपरद्रव्ये रक्तः कांक्षितो मूर्छितो मोहितो भवति यतः कारणांत्, ततः कर्दममध्यलोहमिव कर्मरजसा बध्यते इति । अथ सकलकर्मनिर्जरा नास्ति कथं मोक्षो भविष्यतीति प्रश्ने परिहारमाह आत्मख्यातिः–यथा खलु कनकं कर्दममध्यगतमपि कर्दमेन न लिप्यते तदलेपस्वभावत्वात् तथा किल ज्ञानी कर्ममध्यगतोऽपि कर्मणा न लिप्यते सर्वपरद्रव्यकृतरागत्यागशीलत्वे सति तदलेपस्वभावत्वात् । यथा लोहं कर्दममध्यगतं सत्कर्दमेन लिप्यते तल्लेपस्वभावत्वात् तथा किलाज्ञानी कर्ममध्यगतः सन् कर्मणा लिप्येत सर्वपरद्रव्यकृतरागोपादानशीलत्वे सति तल्लेपस्वभावत्वात् । यादृक् तादृगिहास्ति तस्य वशतो यस्य स्वभावो हि यः कर्तुं नैष कथंचनापि हि परैरन्यादृशः शक्यते । अज्ञानं न कथंचनापि हि भवेत् ज्ञानं भवत्संततं ज्ञानिन् भुंक्ष्व परापराधजनितो नास्तीह बंधस्तव ॥ १४८ ॥ नागफणीए मूलं णाइणितोएण गव्भणागेण । जागं होइ सुवण्णं धम्मं तं भच्छवाएण || २३४ ॥ नागफण्या मूळ नागिनीतोयेन गर्भनागेन । नागं भवति सुवर्ण धम्यमानं भस्त्रावायुना ॥ २३४ ॥ तात्पर्यवृत्ति - नागफणी नामौषधी तस्या मूलं नागिनी हस्तिनी तस्यास्तोयं मूत्रं गर्भनागं सिंदूरद्रव्यं नागं सीसकं । अनेन प्रकारेण पुण्योदये सति सुवर्ण भवति न च पुण्याभावे । कथंभूतः सन् भस्त्रया धम्यमानमिति दृष्टांतगाथागता । अथ दाष्टतमाह कम्मं हड़ कि रागादी कालिया अह विभाओ । सम्मत्तणाणचरणं परमोसहमिदि वियाणाहि ॥ २३५ ॥ कर्म भवति किट्टं रागादयः कालिका अथ विभावाः । सम्यक्त्वज्ञानदर्शनचारित्रं परमौषधमिति विजानीहि ।। २३५ ।। Page #126 -------------------------------------------------------------------------- ________________ समयप्राभृतं । १२१ - तात्पर्यवृत्तिः-द्रव्यकर्म किट्टसंज्ञं भवति रागादिविभावपरिणामाः कालिकासंज्ञा ज्ञातन्याः सम्पग्दर्शनज्ञानचारित्रत्रयं भेदाभेदरूपं परमौषधं जानीहि इति । झाणं हवेइ अग्गी तवयरणं भत्तली समक्खादो । जीवो हवेइ लोहं धमियव्वो परमजोईहिं ॥२३६॥ ध्यानं भवत्यग्निः तपश्चरणे भस्वा समाख्याते । जीवो भवति लोहं धमितव्यः परमयोगिभिः ॥ २३६ ॥ तात्पर्यवृत्तिः-वीतरागनिर्विकल्पसमाधिरूपं ध्यानमग्निर्भवति । द्वादशविधतपश्चरणं भस्त्रा ज्ञातव्या । आसन्नभव्यजीवो लोहं भवति । स च भव्यजीवः पूर्वोक्तसम्यक्त्वाद्यौषधध्यानाग्निभ्यां संयोगं कृत्वा द्वादशविधतपश्चरणभस्त्रया परमयोगिभिः धमितव्यो ध्यातव्यः । इत्यनेन प्रकारेण यथा सुवर्ण भवति तथा मोक्षो भवतीति संदेहो न कर्तव्यो भट्टचार्वाकमतानुसारिभिरिति । . अथ ज्ञानिनः शंखदृष्ठांतेन बंधाभावं दर्शयति भुंजतस्सवि दव्वे सचित्ताचित्तमिस्सिये विविहे। संखस्स सेदभावो णवि सकदि किण्हगो काढुं ॥ २३७ ॥ तह णाणिस्स दु विविहे सचित्ताचित्तमिस्सिए दव्वे । भुंजत्तस्सवि णाणं णवि सकदि रागदो णेदुं ॥ २३८ ॥ जइया स एव संखो सेदसहावं तयं पजहिदूण । गच्छेज किण्हभावं तइया सुकत्तणं पजहे ॥ २३९ ॥ जह संखो पोग्गलदो जइया सुकत्तणं पजहिदूण । गच्छेज किण्हभावं तइया सुकत्तणं पजहे ॥ २४०॥ तह णाणी विय जइया णाणसहावत्तयं पजहिदूण । अण्णाणेण परिणदो तइया अण्णाणदं गच्छे ॥२४॥ मुंजानस्यापि विविधानि सचित्ताचित्तमिश्रितानि द्रव्याणि । शंखस्य श्वेतभावो नापि शक्यते कृष्णकः कर्तु ॥ २३७॥ तथा ज्ञानिनोऽपि सचित्ताचित्तमिश्रितानि द्रव्याणि । भुंजानस्यापि ज्ञानं नापि शक्यते रागतां नेतुं ॥२३८॥ यदा स एव शंखः श्वेतस्वभावं तकं प्रहाय । गच्छेत् कृष्णभावं तदा शुक्लत्वं प्रजह्यात् ॥ २३९ ॥ यथा शंखः पौगलिकः यदा शुक्लत्वं पहाय । गच्छेत् कृष्णभावं तदा शुक्लत्वं प्रजह्यात् ।। २४० ।। तथा ज्ञान्यपि यदि ज्ञानस्वभावं तकं प्रहाय । अज्ञानेन परिणतस्तदा अज्ञानतां गच्छेत् ॥ २४१ ॥ १ एतद्गाषांतगाथाचतुष्टयं नात्मख्यातौ। २ख. पुस्तके ध्यानाग्न्यभ्यासादित्यपि पाठः । ३ गाथेयं नात्मल्याने Page #127 -------------------------------------------------------------------------- ________________ १२२ सनातनजनग्रंथमालायांतात्पर्यवृत्तिः- यथा स्वजीवस्य संखस्य श्वेतभावः कृष्णीकर्तुं न शक्यते । किं कुर्वाणस्थापि । भुंजानस्यापि । कानि ? कर्मतापनसचित्ताचित्तमिश्राणि विविधद्रव्याणीति व्यतिरेकदृष्टांतगाथा गता। तथा तेनैव प्रकारेण ज्ञानिनो जीयस्य वीलरागस्वसंवेदनलक्षणभेदज्ञानं, रामत्वमज्ञानत्वं नेतुं न शक्यते 'कस्मात् ? स्वभावस्यान्यथाकर्तुमशक्यत्वात् । किं कुर्वाणस्यापि ? भुजानस्यापि । कानि स्वकीयगुणस्थानावस्थायोग्यानि सचित्ताचित्तमिश्राणि बिबिधद्रव्याणि । ततः कारणात् चिरंतनबद्धकर्मनिर्जरैव भवति । नवतरस्य संवर इति व्यतिरेकदृष्टांतगाथा गता । अन्वयव्यतिरेकशब्देन सर्वत्र विधिनिषेधौ ज्ञातव्यौ इति । यथा यदा स एव पूर्वोक्तः सजीवशंखः कृष्णपरद्रव्यलेपवशात्, अंतरंगस्वकीयोपादानपरिणामाधीनः सन् श्वेतस्वभावत्वं विहाय कृष्णभावं गच्छेत् तदा शुक्लत्वं त्यजति । इत्यन्वयदृष्टांतगाथा गता। तथैव च यथा निर्जीवशंखः कृष्णपरद्रव्यलेपवशात् अंतरंगोषादानपरिणामाधीनः सन् श्वेतखभावत्वं विहाय कृष्णभावं गच्छेत् तदा शुक्लत्वं त्यजति । इति निर्जीवशंखनिमित्तं द्वितीयान्वयदृष्टांतगाथा गता। तथा तेनैव प्रकारेण ज्ञानी जीवोऽपि हि स्फुटं स्वकीयप्रज्ञापराधेन वीतरागज्ञानस्वभावत्वं विहाय मिथ्यात्वरगाद्यज्ञानभावेन परिणतो भवति तदा स्वस्थभावच्युतः सन्नज्ञानत्वं गच्छेत् । तस्य संवरपूर्विका निर्जरा नास्तीति भावार्थ:-इत्यन्क्यदार्टीतगाथा गता। अथ सरागपरिणामेन बंधः, तथैव वीतरागपरिणामेन मोक्षो भवतीति दृष्टांतदाष्टीताभ्यां समर्थयति आत्मख्यातिः-यथा खलु शंखस्य परद्रव्यमुपभुजानस्यापि न परेण श्वेतभावः कृष्णीकर्तुं शक्येत 'परस्य परभावतत्त्वनिमित्तत्वानुपपत्तेः । तथा किल ज्ञानिनः परद्रव्यमुपभुजानस्यापि न परेण ज्ञानमज्ञानं कर्तुं शक्येत परस्य परभावतत्त्वनिमितत्वानुपपत्तेः । ततो ज्ञानिनः परापराधनिमित्तो नास्ति बंधः । यथा च यदा स एव शंखः परद्रव्यमुपभुजानोऽनुपभुजानो वा श्वेतभावं प्रहाय स्वयमेव कृष्णभावेन परिणमते तदास्य श्वेतभावः स्वयंकृतः कृष्णभावः स्यात् । तथा यदा स एव ज्ञानी परद्रव्यमुपभुंजानोऽनुपर्भुजानो वा ज्ञानं प्रहाय स्वयमेवाज्ञानेन परिणमेत सदास्य ज्ञान स्वयंकृतमज्ञानं स्यात् । ततो ज्ञानिनो यदि ( ? ) वापराधनिमित्तो बंधः । ज्ञानिन् कर्म न जातु कर्तुमुचितं किंचित्तथाप्युच्यते मुंश्वे हंत न जातु मे यदि परं दुर्भुक्त एवासि भोः । बंधः स्यादुपभोगतो यदि न तत्किं कामचारोऽस्ति ते ज्ञानं सन्वस बंधमेष्यपरथा स्वस्यापराधाद्भवं ॥१४६॥ कर्तारं स्वफलेन यत्किल वलात्कमैव नो योजयेत् कुर्वाणः फललिप्सुरेव हि फलं प्राप्नोति यत्कर्मणः । ज्ञानं संस्तदपास्तरागरचनो नो बध्यते कर्मणा कुर्वाणोऽपि हि कर्म तत्फलपरित्यागैकशीलो मुनिः ॥१४७॥ पुरिसो जह कोवि इह वित्तिणिमित्तं तु सेवदे रायं । तो सोवि देदि राया विविहे भोगे सुहप्पादे ॥ २४२ ॥ एमेव जीवपुरिसो कम्मरयं सेवदे सुहणिमित्तं । तो सोवि कम्मरायो देदि सुहप्पादगे भोगे ॥ २४३ ॥ जह पुण सो चेव णरो वित्तिणिमित्तं ण सेवदे रायं । तो सो ण देदि राया विविहसुहप्पादगे भोगे ॥२४४ ॥ एमेव सम्मदिट्ठी विसयत्तं सेवदे ण कम्मरयं । तो सो ण देदि कम्मं विविहे भोगे सुहुप्पादे ॥२४५॥ 7 पंचेंद्रियाविषयाननुभवति । २ दुर्भुक एवासि एवमपि भोगो न कर्तव्य इति भावः । Page #128 -------------------------------------------------------------------------- ________________ समवप्रामृतं । पुरुषो यथा कोपीह वृत्तिनिमित्तं तु सेवते राजानं । तत्सोऽपि ददाति राजा विविधान् भोगान् सुखात्पादकान् ॥ २५२॥ एवमेव जीवपुरुषः कर्मरजः सेवते सुखनिमित्तं । सत्सोपि ददाति कर्मराजा विविधान् भोगान् सुखोत्पादकान् ॥ २४३ ॥ यथा पुनः सएव पुरुषो वृत्तिनिमित्तं न सेवते राजानं । तत्सोऽपि न ददाति राजा विविधान् सुखोत्पादकान् भोगान् ॥ २४४ ॥ एवमेव सम्यग्दृष्टिः विषयार्थ सेवते न कर्मरजः। सत्तन ददाति कर्म विविधान् भोगान् सुखोत्पादकान् ॥ २४५ ॥ - तात्पर्यवृत्ति:- यथा कश्चित्पुरुषः, वृत्तिनिमित्तं राजानं सेवते ततः सोऽपि राजाः तस्मै सेवकाया ददाति, कान् ? विविक्सुखोत्पादकान् भोगान् इत्यज्ञानिविषयेऽन्वयदृष्टांतगाथा गता । . एवमेवाज्ञानी जीवपुरुषः शुद्धात्मोत्थसुखात्प्रच्युतः सन्नुदयागतं. कर्मरजः सेवते. विषयसुखनिमित्त ततः सोऽपि पूर्वोपार्जितपुण्यकर्मराजा ददाति, कान् ! विषयसुखोत्पादकान् भोगाकांक्षान् शुद्धात्मभाकानाविनाशकान् रागादिपरिणामान् इति ।। अथवा द्वितीयव्याख्यानं-कोऽपि जीवोऽभिनवपुण्यकर्मनिमित्तं भोगाऽकांक्षानिदानरूपेण शुभकर्मानुष्ठानं करोति सोऽपि पापानुबंधिपुण्यराजा कालांतरे भोगान् ददाति । तेऽपि निदानबंधन प्राप्ता, भोगा रावणादिवन्नरकादिदुःखपरंपरां प्रापयंतीति भावार्थः । एवमज्ञानिजीवं प्रत्यत्वयदृष्टांतगाथा गता ।। यथा स चैव पूर्वोक्तपुरुषो वृत्तिनिमित्तं न सेवते राजानं । ततः सोऽपि राजा. तस्मै.न.ददाति, कान्ह विविधान् सुखोत्पादकान्, भोगान् इति ज्ञानिजीवविषये व्यतिरेकदृष्टांतगाथा गता। एवमेव च सम्यग्दृष्टिीवः पूर्वोपार्जितमुदयागतं कर्मरजः शुद्धात्मभावनोत्थवीतसगसुखानंदात्प्रच्युतो भूत्वा विषयसुखार्थ, उपादेयबुद्ध्या न सेवते ततस्तदपि कर्म. न ददाति,, कान् ? विविधसुखोत्पादकान भोगाकांक्षारूपान् शुद्धात्मभावनाविनाशकान् रागादिपरिणामानिति ।. . अथवा. द्वितीयव्याख्यानं-कोऽपि सम्यग्दृष्टिर्जीवो. निर्विकल्पसमाधेरभावात् , अशान्यानुष्ठानेन विष-- यकषायवंचनार्थ यद्यपि व्रतशीलदानपूजादिशुभकर्मानुष्ठानं. करोति. तथापि. भोगाकांक्षारूमनिदानबंधना तत्पुण्यकर्मानुष्ठानं न सेवते । तदपि पुण्यानुबंधिपुण्यकर्म भवांतरे तीर्थंकर-चक्रवर्ती-वलदेवाद्यभ्युदय-- रूपेणोदयागतमपि पूर्वभवभावितभेदविज्ञानवासनावलेन, शुद्धात्मभावनाविनाशकान् विषयसुखोत्पादकान् भोगाकांक्षानिदानरूपान् रागादिपरिणामान्न ददाति, भरतेश्वरादीनामिव । इति. संज्ञानिज़ीवं प्रतिव्यतिरेकदार्टी लगाथा गता । एवं मतिश्रुतावधिमनःपर्ययकेवलज्ञानाभेदरूपपरमार्थशब्दवाच्यं साक्षान्मोक्षफारणभूतं शुद्धात्मसंवित्तिलक्षणं स्वसंवेद्यं संवरपूर्विकाया निर्जराया उपादानकारणं पूर्व यव्याख्याप्तं परमात्मपदं, तत्पदं पेन निर्विकारस्वसंवेदनलक्षणभेदविज्ञानगुणेन विना न लभ्यते तस्यैव भेदविज्ञानगुणस्य पुनरपि विशेष-- न्याख्यानरूपेण चतुर्दशसूत्राणि गतानि । इत उर्ध्वं निश्शंकाद्यष्टगुणकथनं गाथानवकपर्यंतं व्याख्यानं करोति। तत्रः तावत् प्रथमगाथायां निजपरमात्मपदार्थभावनोत्पन्नसुखामृतरसास्वादतृप्ताः संतः सम्यग्दृष्टयः, घोसेपसर्गेऽपि सप्तभयरहितत्वेन निर्विकारस्वानुभवस्वरूपं स्वस्थभावं न त्यजन्तीति कथयति आत्मरूयातिः-यथा कश्चित्पुरुषोः फलार्थ राजानं सेवते ततःस राजा तस्य फलं ददाति । तथा जीवः फलार्थ कर्म सेवते ततस्तत्कर्म तस्य फलं ददाति । यथा च स एव पुरुषः: फलार्थ राजानं न सेवले ततः स राजा तस्य फलं न ददाति । तथा सम्यादृष्टिः फलार्थ कर्म न सेवते. ततस्तत्कर्म, तस्य फूलंक ददातीति तात्पर्य । Page #129 -------------------------------------------------------------------------- ________________ १२४ सनातनजैनग्रंथमालायांत्यक्तं येन फलं स कर्म कुरुते नेति प्रतीमो वयं किन्त्वस्यापि कुतोऽपि किंचिदपि तत्कर्मावशेनापतेत् । तस्मिन्नापतिते त्वकंपपरमज्ञानस्वभावे स्थितो ज्ञानी किं कुरुतेऽथ किं न कुरुते कर्मेति जानाति कः॥१४॥ सम्यग्दृष्टय एव साहसमिदं कर्तुं क्षमंते परं यद्वजेऽपि पतत्यमी भयचलत्रैलोक्यमुक्ताध्वनि । सर्वामेव निसर्गनिर्भयतया शंकां विहाय स्वयं जानंतः स्वमबध्यबोधवपुषं बोधाच्च्यवंते न हि ॥१४९॥ समादिट्ठी जीवा णिस्संका होति णि भया तेण । सत्तभयविप्पमुक्का जमा तझा दु णिस्संका ॥ २४६ ॥ सम्यग्दृष्टयो जीवा निश्शंका भवंति निर्भयास्तेन । सप्तभयविषमुक्ता यस्मात्तस्मात्तु निश्शंकाः ॥ २४६॥ तात्पर्यवृत्तिः-सम्मादिट्ठी जीवा णिस्संका होति सभ्यग्दृष्टयो जीवाः शुद्धबुद्धकस्वभावनिर्दोषपरमात्माराधनं कुर्वाणाः संतो निश्शंका भवंति यस्मात् कारणात्। णिन्भया तेण तेन निर्भया भवंति सत्तभयविप्पमुक्का जमा यस्मादेव कारणात् , इहलोक-परलोक-अत्राण-अगुप्ति-मरण-वेदना-आकस्मिकसंज्ञितसप्तभयविप्रमुक्ता भवंति तह्मा दु णिस्संका तस्मादेव कारणात् घोरपरीषहोपसर्गे प्राप्तेपि निश्शंकाः शुद्धात्मस्वरूपे निष्कपाः संतः शुद्धात्मभावनोत्थवीतरागसुखानंदतृप्ताश्च परमात्मस्वरूपान्न प्रच्यवंते पांडवादिवत्। - अथानंतरं वीतरागसम्यग्दृष्टर्निशंकाद्यष्टगुणाः नवतरबंध निवारयति ततः कारणाद्वंधो नास्ति किंतु संवरपूर्विका निर्जरैव भवतीति प्रतिपादयति आत्मख्याति:-येन नित्यमेव सम्यग्दृष्टयः सकलकर्मनिरभिलाषाः संतः, अत्यंतकर्मनिरपेक्षतया वर्तते तेन नूनमेते, अत्यंत निश्शंकदारुणाध्यवसायाः संतोऽत्यंतनिर्भयाः संभाव्यते । लोकः शाश्वत एक एष संकलव्यक्तो विविक्तात्मनः, चिल्लोकं स्वयमेव केवलमयं यल्लोकयत्येककः। लोकोऽयं न तवापरस्तव परस्तस्यास्ति तद्भीः कुतो निश्शंकं सततं स्वयं स सहजं ज्ञानं सदा विंदति ॥१४९॥ एषैकैव हि वेदना यदचलं ज्ञानं स्वयं वेद्यते निर्भेदोदितवेद्यवेदकवलादेकं सदानाकुलैः । नैवान्यागतवेदनैव हि भवेत्तद्भीः कुतो ज्ञानिनो निश्शंकः सततं स्वयं स सहजं ज्ञानं सदा विंदति ॥१५॥ यत्सन्नाशमुपैति यन्न नियतं व्यक्तेति वस्तुस्थितिमा॑नं सत्स्वयमेव तत्किल ततस्त्रातं किमस्यापरैः । अस्यात्राणमतो न किंचन भवेत्तद्भीः कुतो ज्ञानिनो निःशंकः सततं स्वयं स सहजं ज्ञानं सदा विंदति ॥१५॥ स्वं रूपं किल वस्तुनोऽस्ति परमा गुप्तिः स्वरूपे न यच्छक्तः कोऽपि परप्रवेष्टुमकृतं ज्ञानं स्वरूपं च नुः । अस्यागुप्तिरतो न काचन भवेत्तद्भीः कुतो ज्ञानिनो निश्शंकः सततं स्वयं स सहजं ज्ञानं सदा विंदति ॥१५२॥ प्राणोच्छेदमुदाहरंति मरणं प्राणाः किलास्यात्मनो ज्ञानं तत्स्वयमेव शाश्वततया नो छिद्यते जातुचित् । तस्यातो मरणं न किंचन भवेत्तद्भीः कुतो ज्ञानिनो निश्शंकः सततं स्वयं स सहजं ज्ञानं सदा विंदति ॥१५३॥ एकं ज्ञानमनाद्यनंतमचलं सिद्ध किलैतत्स्वतो यावत्तावदिदं सदैव हि भवेन्नात्र द्वितीयोदयः । तन्नाकस्मिकमत्र किंचन भवेत्तद्भीः कुता ज्ञानिनो निश्शंकः सततं स्वयं स सहजं ज्ञानं सदा विंदति ॥१५४॥ टंकोत्कीर्णस्वरसनिचितज्ञानसर्वस्वभाजः सम्यग्दृष्टेर्यदिह सकलं नंति लक्ष्माणि कर्म । तत्तस्यास्मिन्पुनरपि मनाकर्मणो नास्ति बंधः पूर्वोपात्तं तदनुभवतो निश्चितं निर्जरैव ॥ जो चत्तारिवि पाए छिंददि ते कॅम्ममोहवाधकरे । सो णिस्संको चेदा सम्मादिट्ठी मुणेदवो ॥ २४७॥ __यश्चतुरेपि पादान् छिनत्ति तान् कर्ममोहवाधाकरान् ।। स निश्शंकश्चेतयिता सम्यग्दृष्टिातव्यः ॥ २४७ ॥ सकलं कालं ब्यक्तः प्रकटः सकलव्यक्त इत्यर्थः । २ एषोऽयं लोकः केवलमयं चिल्लोकं लाकयतीत्यर्थः । ३ खरसः खभानः स्वपरावयोधशत्त्युपेतत्वं तेन चितं व्याप्तमित्यर्थः ॥ ४ आत्मख्यातौ "कम्मवंधमोहकरे" पाठ । Page #130 -------------------------------------------------------------------------- ________________ समयप्रामृतं । तात्पर्यवृत्तिः-जो चत्तारिवि पाए छिददि ते कम्पमोहवाधकरे यः कर्ता मिथ्यात्वाविरति कषाययोगलक्षणान् संसारवृक्षस्य मूलभूतान् निष्कात्मतत्त्वविलक्षणत्वेन कर्मकरान् निर्मोहात्मद्रव्यप्रथक्त्वेन मोहकरान् अव्यावाधसुखादिगुणलक्षणपरमात्मपदार्थभिन्नत्वेन वा बाधाकरांस्तान् आगमप्रसिद्धांश्चतुरः पादान् शुद्धात्मभावनाविषये निश्शंको भूत्वा स्वसंवेदनज्ञानखड्ड्रेन छिनत्ति सोणिस्संको चेदा सम्मादिही मणेदव्वो स चेतयिता आत्मा सम्यग्दृष्टिर्निशंको मंतव्यः, तस्य तु शुद्धात्मभावनाविषये शंकाकृतो नास्ति बंधः, किं तु पूर्ववद्धकर्मणो निश्चितं निर्जरैव भवति । आत्मख्याति:- यतो हि सम्यग्दृष्टिः, टंकोस्कीर्णैकज्ञायकभावमयत्वेन कर्मबंधशंकाकरमिथ्यात्वादि भावाभावान्निश्शंकः, ततोऽस्य शंकाकृतो नास्ति बंधः । किं तु निर्जरैव जो ण करेदि दु कंखं कम्मफले तहय सव्वधम्मसु । सो णिकंखो चेदा सम्मादिट्ठी मुणेदवो ॥ २४८ ॥ यो न करोति तु कांक्षा कर्मफलेषु तथा च सर्वधर्मेषु । स निष्कांक्षश्वेतायता सम्यग्दृष्टितिव्यः ॥ २४८॥ तात्पर्यवृत्तिः-जो ण करेदि दु कंखं कम्मफले तहय सम्वधम्मेसु यः कर्ता शुद्धात्मभावनासंजातपरमानंदसुखे तृप्तो भूत्वा काक्षां वाछां न करोति केषु ? पंचेंद्रियविषयसुखभूतेषु कर्मफलेषु तथैव च समस्तवस्तुधर्मेषु स्वभावेषु अथवा विषयसुखकारणभूतेषु नानाप्रकारपुण्यरूपधर्मेषु अथवा इहलोकपरलोककांक्षारूपसमस्तपरसमयप्रणीतकुधर्मेषु । सो णिकंखो चेदा सम्मादिही मुणेदन्यो स चेतयिता आत्मा सम्यग्दृष्टिः संसारसुखे निष्कांक्षितो मंतव्यः । तस्य विषयसुखकांक्षाकृतो नास्तिं बंधः किंतु पूर्वसंचितकर्मणो निर्जरैव भवति । आत्मख्यातिः-यतो हि सम्यग्दृष्टिः, टंकोत्कीर्णैकज्ञायकभावमयत्वेन सर्वेष्वपि कर्मफलेषु सर्वेष बस्तुधर्मेषु च कांक्षाभावान्निष्काक्षस्ततोऽस्य कांक्षाकृतो नास्ति बंधः किं तु निर्जरैव । जो ण करेदि दु गुंछं चेदा सब्बेसिमेव धम्माणं । सो खलु णिविदिगिंछो सम्मादिट्ठी मुणेदवो ॥ २४९ ॥ यो न करोति जुगुप्सां सर्वेषामेव धर्माणां । __स खलु निर्विचिकित्सः सम्यग्दृष्टिातव्यः॥२४९ ॥ तात्पर्यवृत्तिः-जो ण करेदि दु गुंछं चेदा सम्वेसिमेव धम्माणं यश्चेतयिता आत्मा परमात्मतत्त्वभावनावलेन जुगुप्सां निंदां दोषं विचिकित्सान्न करोति, केषां संबंधित्वेन ? सर्वेषामेव वस्तधर्माणां स्वभावानां, दुर्गधादिविषये वा सो खलु णिन्विदिगिंछो सम्मादिही मुणेदव्यो स सम्यग्दृष्टिः स्फुटं मंतव्यो ज्ञातव्यः तस्य च परद्रव्यद्वेषनिमित्तो नास्ति बंधः । किं तु पूर्वसंचितकर्मणो निर्जरैव भवति । __ आत्मख्यातिः-यतोहि सम्यग्दृष्टिः टंकोत्कीर्णैकज्ञायकस्वभावमयत्वेन सर्वेष्वपि वस्तुधर्मेषु जुगुप्साऽभावान्निर्विचिकित्सः ततोऽस्य विचिकित्साकृतो नास्ति बंधः किं तु निर्जरैव । जो हवदि असम्मूढ़ो चेदा सब्वेसु कम्मभावेसु । सो खलु अमूढदिट्ठी सम्मादिट्ठी मुणेदव्वो ॥ २५०॥ १ 'जो दुण करेदि खं' पाठोयमात्मख्यातौ । Page #131 -------------------------------------------------------------------------- ________________ सनातनजनग्रंथमालायांयो भवति, असंमूढः चेतयिता सर्वेषु कर्मभावेषु । स खलु अमूढदृष्टिः सम्यग्दृष्टिातव्यः ॥ २५० ॥ तात्पर्यवृत्तिः-जो हवदि असमूढो चेदा सव्वेसु कम्मभावेसु यश्चेतयिता आत्मा स्वकीयशुद्धात्मनि श्रद्धानज्ञानानुचरणरूपेण निश्चयरत्नत्रयलक्षणभावनावलेन शुभाशुभकर्मजनितपरिणामरूपे बहिर्विषये सर्वथाऽसमूढो भवति सो खलु अमृढदिडी सम्मादिही मुणेदव्यो स खलु स्फुटं सम्यग्दृष्टिरमूढदृष्टिभंतव्यो ज्ञातव्यः । तस्य च बहिर्विषये मूढताकृतो नास्ति बंधः परसमयकृतो का । किं तु पूर्वबद्धकर्मणो निश्चितं निर्जरैक भवति। आत्मख्यातिः-यतो हि सम्यग्दृष्टिः, टंकोत्कीर्णायकभावमयत्वेन सर्वेष्वपि भावेषु मोहाभावादमूढइष्टिः ततोऽस्य मूढदृष्टिकृतो नास्ति बंधः किं तु निर्जरैव। जो सिद्धभत्तिजुत्तो उवगृहणगो दु सव्वधम्माणं । सो उवगृहणगारी सम्मादिठी मुणेदव्वो ॥ २५१ ॥ यः मिद्धभक्तियुक्तः उपगृहनकस्तु सर्वधर्माणां । स उपगृहनकारी सम्यग्दृष्टिज्ञातव्यः ॥ २५१ ।। तात्पर्यवृत्तिः-जो सिद्धभत्तिजुत्तो उवगोहूणगो दु सव्वधम्माणं शुद्धात्मभावनारूपपारमार्थिकसिद्धभक्तियुक्तः मिथ्यात्वरागादिविभावधर्माणामुपगूहकः प्रच्छादको विनाशकः सो उवगृहणगारी सम्मादिही मुणेदब्बो स सम्यग्दृष्टिः, उपगृहनकारी मंतव्यो ज्ञातव्यः । तस्य चानुपगृहनकृतो नास्ति बंधः किं तु पूर्वसंचितकर्मणो निश्चितं निर्जरैव भवति। आत्मख्यातिः- यतो हि सम्यग्दृष्टिः, टंकोत्कीर्णेकज्ञायकभावमयत्वेन समस्तात्मशक्तीनामुपवृहणा दुपहकः, ततोऽस्य जीवस्य शक्तिदौर्बल्यकृतो नास्ति बंधः किं तु निर्जरैव । उम्मंगं गच्छंतं सिवमग्गे जो ठवेदि अप्पाणं । सोठिदिकरणेण जुदो सम्मादिट्ठी मुणेदब्बो ॥ २५२ ॥ उन्मार्ग गच्छंतं शिवमार्गे यःस्थापयत्यात्मानं । स स्थितिकरणेन युक्तः सम्यग्दृष्टिज्ञातव्यः ।। २५२॥ तात्पर्यवृत्तिः--उम्मग्गं गच्छंत सिवमग्गे जो ठवेदि अप्पाणं यः कर्ता मिथ्यात्वरागादि रूपमुन्मार्ग गच्छंतं सतमात्मानं परमयोगाभ्यासवलेन शिवमार्गे स्वशुद्धात्मभावनारूपे निश्चयमोक्षमार्गे निश्चलं स्थापयति सो ठिदिकरणेण जुदो सम्मादिही मुणेदब्बो स सम्यग्दृष्टिः स्थितिकरणयुक्तो मंतव्यो ज्ञातव्यः । तस्य चास्थितिकरणकृतो नास्ति बंधः किं तु पूर्वबद्धकर्मणहो निश्चितं निर्जरैव भवति । आत्मख्यातिः- यतो हि सम्यग्दृष्टि: टंकोत्कीर्णेकज्ञायकस्वभावमयत्वेन मार्गे एक स्थितिकरणात् स्थितिकारी ततोऽस्य मार्गच्यवनकृतो नास्ति बंधः किं तु निर्जरैव । जो कुणदि वच्छलत्तं तिण्हे साधूण मोक्खमग्गम्मि । सो वच्छलभावजुदो सम्मादिट्ठी मुणेदव्वो ॥ २५३ ॥ यःकरोति वल्सलत्वं त्रयाणां साधूनां मोक्षमार्गे। स वात्सल्यभावयुक्तः सम्यग्दृष्टितिव्यः ॥२५३ ॥ 'सामग्गे' इत्यात्मख्यातो पाठः । Page #132 -------------------------------------------------------------------------- ________________ समयप्राभूत। १२७ तात्पर्यवृत्तिः-जो कुणदि वच्छलत्तं तिहे साधण मोक्खमग्गमि यः कर्ता मोक्षमार्गे स्थिस्था वत्सलत्वं भक्तिं करोति, केषां ? स्वकीयसम्यग्दर्शनज्ञानचारित्राणो, कथंभूतानां साधूनां ? मोक्षमार्गे साधकानां अथवा ब्यवहारेण तदाधारभूतसाधूनां सो बछलभावजुदो सम्मादिही मुणेदग्बो स सम्यग्दृष्टिः वत्सलभावयुक्तो मंतव्यो जातव्यः । तस्य चावात्सल्यभावकृतो नास्ति बंधः किं तु पूर्वसंचितकर्मणो निजैरैव भवति । आत्मख्यातिः-यतो हि सम्यग्दृष्टिष्टकोत्कीर्णैकनायकभाषमयत्वेन सम्यग्दर्शनशानचारित्राणां स्वर स्मादभेदबुद्ध्या सम्यग्दर्शनान्मार्गवत्सलः, ततोऽस्य मार्गानुपलेभकृतो नास्ति बंधः किं तु निर्जरैव । विजारहमारुढो मणोरहरएसु हणदि जो चेदा । सो जिणणाणपहावी सम्मादिट्ठी मुणेदव्वो ॥२५४॥ विधारथमारूढः मनोरथरयान् हंति यश्चेतयिता । स जिनज्ञानप्रभावी सम्यग्दृष्टिातव्यः ॥२५४॥ तात्पर्यटत्तिः -विजारहमारुढो मणोरहरएसु हणदि जो चेदा यश्चेतयिता आत्मा स्वशुधात्मतत्त्वोपलब्धिस्वरूपविद्यारथमारुढ़ःसन् ख्यातिपूजालाभभोगाकांक्षारूपनिदानबंधादिविभावपरिणामरूपान् द्रव्यक्षेत्रादिपंचप्रकारसंसारदुःखकारणान् शत्रून् मनोरथरयान् वेगांश्चित्तकल्लोलान् स्वस्थभावसारथिवलेन इदतरध्यानखङ्गेन हति । सो जिणणाणपहावी सम्मादिही मुणेदव्यो स सम्यग्दृष्टिर्जिनज्ञानप्रभावी मंतव्यो ज्ञातव्यः। तस्य चाप्रभावनाकृतो नास्ति बंधः किं तु पूर्वसंचितकर्मणो निश्चितं निर्जरैव भवति । एवं संघरपूर्विकाया भावनिर्जराया उपादानकारणभूतानां शुद्धात्मभावनारूपाणां शुद्धनयमाश्रित्य निश्शंकाघष्टगुणानां व्याख्यानमुख्यत्वेन गाथानवकं गतं । इदं तु निश्शंकाद्यष्टगुणव्याख्यानं निश्चयनयमुख्यत्वेन व्याख्यातं । निश्चयरत्नत्रयसाधके व्यवहाररत्नत्रयेऽपि स्थितस्य सरागसम्यग्दृष्टेरप्यंजनचौरादिकथारूपेण व्यवहारनयेन यथासंभवं योजनीयं । निश्चयं व्याख्याय पुनरपि किमर्थ व्यवहारनयव्याख्यानं ! इति चेन्नैवं । अग्निसुवर्णपाषाणयोरिव निश्चयव्यवहारनययोः परस्परसाध्यसाधकभावदर्शनार्थमिति तथाचोक्तं जेइजिणसमई पउंजह तामा ववहाराणच्छए मुवह । एकण विणा छिज्जइ तित्थं अण्णेण पुण तच्चं । इति किं च-संवरपूर्विका निर्जरा या व्याख्याता सा सम्यग्दृष्टेर्जीवस्य शुद्धात्मसम्यक्श्रद्धानज्ञानानुष्ठानरूपे मुख्यवृत्त्या निश्चयररत्नत्रये सति वीतरागधर्मध्यानशुक्लध्यानरूपे शुभाशुभबहिर्द्रव्यनिरालंबने निर्विकल्प समाधौ सति भवति स च समाधिरतीव दुर्लभः । कस्मात् ? इति चेत् एकेंद्रियविकलोंद्रियपंचेन्द्रियसंज्ञिपर्याप्त मनुष्यदेशकुलरूपेंद्रियपटुत्वनिर्व्याध्यायुष्कवरबुद्धिसद्धर्मश्रवणग्रहणधारणश्रद्धानसंयमविषयसुखव्यावर्तनक्रोधा दिकषायनिवर्तनतपोभावनासमाधिमरणानि परंपरादुर्लभानि यतः । तदपि कस्मात् ? तत्प्रतिपक्षभूतानां मिथ्यात्वविषयकषायख्यातिपूजालाभभोगाकांक्षारूपनिदानबंधादिविभावपरिणामानां प्रवलत्वात् इति दुर्लभपरंपरां ज्ञात्वा सर्वतात्पर्येण समाधौ प्रमादो न कर्तव्यः। तदप्युक्तंइत्यतिदुर्लभरूपां बोधिं लब्ध्वा यदि प्रमादी स्यात् । संसृतिभीमारण्ये भ्रमति वराको नरः सुचिरं ॥ इति । इति समयसारव्याख्यायां शुद्धात्मानुभूतिलक्षणायां तात्पर्यवृत्तौ गाथाचतुष्टयं पीठिकारूपेण, ___ गाथापंचकं ज्ञानवैराग्यशक्त्योः सामान्यविवरणरूपेण, गाथादशकं तयोरेव विशेषविवरणरूपेण, गाथाष्टकं ज्ञानगुणस्य सामान्यविवरणरूपेण, गाथाचतुर्दश तस्यैव विशेषविवरणरूपेण, गाथानवकं निश्शंकाद्यष्टगुणकथनरूपेण । . "मनोरहपहेस भमह जो चेदा" पाठोऽयमात्मख्याती । Page #133 -------------------------------------------------------------------------- ________________ “१२८ सनातनजैनग्रंथमालायांघेति समुदायेन पंचाशद्गाथाभिः षडभिः रंतराधिकारैः ___ सप्तमो निर्जराधिकारः समाप्तः । तत्रैवं सति शृंगाररहितपात्रवत् शांतरसरूपेण निर्जरा निष्क्रांता। आत्मख्याति:-यतो हि सम्यग्दृष्टिष्टंकोत्कीर्णेकज्ञानभावमयत्वेन ज्ञानस्य समस्तशक्तिप्रबोधेन प्रभावजननात्प्रभावनकरः ततोस्य ज्ञानप्रभावनाप्रकर्षकृतो नास्ति बंधः किं तु निर्जरैव । रुंधन बंध नवमिति निजैः संगतोऽष्टाभिरंगैः प्राग्बद्धं तु क्षयमुपनयन् निर्जराज्जंभणेन । सम्यग्दृष्टिः स्वयमतिरसादादिमभ्यांतमुक्तं ज्ञानं भूत्वा नटति गगनाभोगरंगं विगाह्य ॥१५६॥ ___ इति निर्जरा निष्कांता . इति समयसारव्याख्यायामात्मख्याती षष्ठोऽकः। तात्पर्यवृत्तिः-अथ प्रविशति बंधः । तत्र जहणाम कोवि पुरिसो इत्यादि गाथामादिं कृत्वा पाठक्रमेण षट्पंचाशद्गाथापयतं व्याख्यानं करोति । तासु षट्पंचाशद्गाथासु मध्ये प्रथमतस्तावद् बंधस्वरूपसूचनमुख्यत्वेन गाथादशकं.। तदनंतरं निश्चयेन हिंसाहिंसाव्रताव्रतद्वयस्य लक्षणकथनरूपेण जो मण्णदि हिंसामि इत्यादि गाथासप्तकं । ततः परं बहिरंगद्रव्यहिंसा भवतु मा भवतु, निश्चयेन हिंसाध्यवसाय एव हिंसेति प्रतिपादनरूपेण जो मरदि इत्यादि' गाथाषद्कं । अथानंतरं निश्चयरत्नत्रयलक्षणं यद्भेदविज्ञानं तस्माद्विलक्षणानि यानि व्रताव्रतानि तद्व्याख्यानमुख्यत्वेन एवमलिऐ इत्यादि सूत्रभूतगाथाद्वयं । तदनंतरं तस्यैव भावपुण्यपापरूपव्रताव्रतस्य शुभाशुभबंधकारणभूतस्य परिणामव्याख्यानमुख्यत्वेन वत्थु पदुच्च इत्यादि गाथात्रयोदश । एवं समुदायेन पंचदश । तदनंतरं निश्चये स्थित्वा व्यवहारो निषेध्यत इति कथनरूपेण ववहारणओ इत्यादि सूत्रषद्कं । अतः परं रागद्वेषरहितज्ञानिनां प्राशुकानपानाद्याहारो, बंधकारणं न भवति इति पिंडशुद्धिव्याख्यानरूपेण आधाकम्मादीया इत्यादि सूत्रचतुष्टयं । तदनंतरं क्रोधादिकषायाः कर्मबंधनिमित्तं भवंति तेषां च चेतनाचेतनबहिर्द्रव्यं निमित्तं भवतीति प्रतिपादनरूपेण जह फलिहमाण विसुद्धो इत्यादि सूत्रपंचकं । तदनंतरमप्रतिक्रमणमप्रत्याख्यानं च बंधकारणं भवति न पुनः शुद्धात्मेति व्याख्यानमुख्यत्वेन अप्पडिकमणं इत्यादिगाथात्रयं चेति समुदायेन षट्पंचाशद्गाथाभिरष्टांतराधिकरैः बंधाधिकारे समुदायपातानका । तद्यथा बहिरात्मजीवसबंधिनो बंधकारणभूतस्य श्रृंगारसहितपात्रस्थानीयस्य मिथ्याज्ञानस्य नाटकरूपेण प्रविशतः सतः शांतरसपारणतं वीतरागसम्यक्त्वाविनाभूतं भेदज्ञानप्रतिषेधं करोतीति उपदिशति । आत्मख्याति:-अथ प्रविशति बंधः।। रोगोद्गारमहारसेन सकलं कृत्वा प्रमत्तं जगत्क्रीडतं रसभारनिर्भरमहानाट्येन बंधं धुनत् । आनंदामृतनित्यभोज सहजावस्थां स्फुटं नाटयद्वीरोदारमनाकुलं निरुपधिज्ञानं समुन्मज्जति ॥१५॥ जह णाम कोवि पुरिसो णेहभत्तोदु रेणुवहुलम्मि । ठाणम्मि ठाइदूणय करदि सत्थेहि वायामं ॥२५५॥ छिंददि भिंदंदि य तहा तालीतलकदलिवंसपिंडीओ। सचित्ताचित्ताणं करेदि दवाणमुवघादं ॥२५६॥ १ गगनलक्षणं यच्छुद्धस्वरूपं तस्याभोगो विस्तारः सएव रंगो नाट्यशाला । २ रागशब्द उपलक्षणं तेन द्वेषमोहादीनामपि प्रहणं तस्य उदार आधिक्यं स एव महारस उन्मादकरसः तेन रागोद्गारमहारसेन । ३ वेपयत् । Page #134 -------------------------------------------------------------------------- ________________ १२२ समयप्राभृतं । उवधादं कुव्वंतस्स तस्स णाणाविहेहि करणेहिं । णिच्छयदो चिंतिनदु किं पञ्चयगोदु तस्स रयवंधो ॥२५७॥ जो सो दुणेहभावो तमि गरे तेण तस्स रयवंधो । णिच्छयदो विण्णेयं ण कायचेट्टाहिं सेसाहिं ॥२५॥ एवं मिच्छादिट्ठी वलुतो वहुविहासु चेट्टासु । रागादी उवओगे कुव्वंतो लिप्पदि रयेण ॥२५९॥ यथा नाम कोऽपि पुरुषः नहाभ्यक्तस्तु रेणुबहुले । स्थाने स्थित्वा करोति शस्त्रायामं ॥२५५॥ छिनत्ति भिनत्ति च तथा तालीफलकदलीवंशपिंडीः । सचित्ताचित्तानां करोति द्रव्याणामुपघातं ॥२५॥ उपघातं कुर्वतस्तस्य नानाविधैः करणैः । निश्चयतश्चित्यतां किंप्रत्ययकस्तु तस्य रजोबंधः ॥२५७।। यः स तु स्नेहभावस्तस्मिन्नरे तेन तस्य रजोबंधः । निश्चयतो विज्ञेयं न कायचेष्टाभिः शेषाभिः ॥ २५८ ॥ एवं मिथ्यादृष्टिर्वर्तमानो बहुविधासु चेष्टासु । रागादीनुपयोगे कुर्वाणो लिप्यते रजसा ॥ २५९ ॥ तापर्यवृत्तिः-जहणाम कोवि पुरिसो इत्यादि व्याख्यानं क्रियते-यथा नाम स्फुटमहो वा कश्चिरपुरुषः महाभ्यक्तः सन् रजोवहुलस्थाने स्थित्वा शस्त्रैर्व्यायाममभ्यासं श्रमं करोति इति प्रथमगाथा गता। छिनत्ति भिनत्ति च तथा, कान् ? तालतमालकदलीवंशाशोकसंज्ञान् बृक्षविशेषान् तत्संबंधिसचित्ताचित्तद्रव्याणामुपघातं च करोति इति द्वितीयगाथा गता। उपघातं कुर्वाणस्य तस्य नानाविधैर्वैशाखस्थानादिकरणविशेषनिश्चयतश्चिंत्यतां विचार्यतां किंप्रत्ययकः किंनिमित्तकः रजोबंधः ! इति पूर्वपक्षरूपेण गाथात्रयं गतं । अत्रोत्तरं यः स्नेहभावस्तस्मिन्नरे स पूर्वोक्तस्तैलाभ्यंगनरूपः तेन तस्य रजोबंध इति निश्चयतो विज्ञेयं न काया- . दिव्यापारचेष्टाभिः शेषाभिरित्युत्तरगाथा । एवं सूत्रचतुष्टयेन प्रश्नोत्तररूपेण दृष्टांतो गतः । अथ दार्टीतमाह एवं मिच्छादिही वलुतो वहुविहासु चेट्ठासु एवं पूर्वोक्तदृष्टांतेन मिथ्यादृष्टिर्जीवः विविधासु कायव्यापारचेष्टासु वर्तमानः रागादी उवआगे कुव्वंतो लिप्पदि रयेण शुद्धात्मतत्त्वसम्यक्श्रद्धानज्ञानानुचरणरूपाणां सम्यग्दर्शनज्ञानचारित्राणामभावात् मिथ्यात्वरागाद्युपयोगान् परिणामान् कुर्वाणः सन् कर्मरजसा लिप्यते बध्यत इत्यर्थः । एवं यथा तैलम्रक्षितस्य रजोबंधो भवति तथा मिथ्यात्वरागादिपरिणतस्य जीवस्य कर्मबंधो भवति इति बंधकारणतात्पर्यकथनरूपेण सूत्रपंचकं गतं । अथ गाथापंचकेन वीतरागसम्यग्दृष्टंबंधाभावं दर्शयति आत्मख्याति:- इह खलु यथा कश्चित् पुरुषः स्नेहाभ्यक्तः स्वभावत एव रजोवहुलायां भूमौ स्थितः शस्त्रव्यायामकर्म कुर्वाणः, अनेकप्रकारकरणः सचित्ताचित्तवस्तूनि निघ्नन् रजसा बध्यते । तस्य कतमो बंध हेतुः ! न तावत्स्वभावत एव रजोवहुला भूमिः, स्नेहानभ्यक्तानामपि तत्रस्थानां तत्प्रसंगात् । न शस्त्रन्यायामकर्म, मेहानभ्यक्तानामपि तस्मात् तत्प्रसंगात् । नानेकप्रकारकरणानि, स्नेहानभिव्यक्तानामपि तैस्त Page #135 -------------------------------------------------------------------------- ________________ १३० सनातन जैनग्रंथमालायां प्रसंगात् । न सचित्ताचित्तवस्तूपघातः, स्नेहानभिव्यक्तानामपि तस्मिंस्तत्प्रसंगात् । ततोम्यायवलेनैवैतदायातं यत्तस्मिन् पुरुषे स्नेहाभ्यंग करणं संबंधहेतुः । एवं मिध्यादृष्टिः, आत्मनि रागादीन् कुर्वाणः स्वभावत एव कर्मयोग्य पुद्गलबहुले लोके कायवाङ्मनःकर्म कुर्वाणोऽनेकप्रकारकरणैः सचित्ताचित्तवस्तूनि विघ्नन् कर्मरजसा बध्यते । तस्य कतमो बंधहेतुः ? न तावत्स्वभावत एव कर्मयोग्यपुद्गलबहुलो लोकः, सिद्धानामपि तत्रस्थानां तत्प्रसंगात्। न कायवाङ्मनः कर्म, यथारख्यातसंयतानामपि तत्प्रसंगात् । नानेकप्रकारकरणानि, केवलज्ञानिनामपि तत्प्रसंगात् । न सचित्ताचित्तवस्तूपघातः, समितितत्पराणामपि तत्प्रसंगात् । ततोन्यायनैतदेवायातं यदुपयोगे रागादिकरणं संबंधहेतुः । न कर्मबहुलं जगत् न चलनात्मकं कर्म वा न नैककरणानि वा न चिदचिद्वधो बंधकृत् । यदैक्यमु॑पयोगभूः समुपयाति रागादिभिः, स एव किल केवलं भवति बंधहेतुर्नृणां ॥ १५८ ॥ जह पुण सोचे णरो हे सव्वा अवणिये संते । रेणुवहुलम्म ठाणे करेदि सत्थेहि वायामं ॥ २६० ॥ छिंददि भिंददि य तहा तालीतलकदलिवंसपिंडोओ । सच्चित्ताचित्ताणं करेदि दव्वाणमुवघादं ॥ २६१|| उवघादं कुव्वतस्स तस्स णाणाविहिं करणेहिं । णिच्छयदो चिंतिजहु किंपच्चयगो ण तस्स रयबंधो ॥२६२॥ जो सोदु णेहभावो ह्नि परे तेण तस्स रयवंधो । णिच्छयदो विण्णेयं ण काय | हिं साहि ॥ २६३ ॥ एवं सम्मादिट्ठी तो बहुविहेसु जोगेसु । अकरंतो उवओगे रागादी व वज्झदि रयेण ॥ २६४ ॥ यथा पुनः स चैव नरः स्नेहे सर्वस्मिन्नपनीते सति । रेणुवहु स्थाने करोति शस्त्रैर्व्यायामं ॥ २६० ॥ छिनत्ति भिनत्ति च तथा तालीतलकदलीवंश पिंडीः । सचित्ताचित्तानां करोति द्रव्याणामुपघातं || २६१ ॥ उपघातं कुर्वतस्तस्य नानाविधैः करणैः । निश्वयतो विज्ञेयं किंमत्ययको न रजोबंधः ॥२६२॥ यः स, अस्नेहभावस्तस्मिन्नरे तेन तस्य रजोबंधः । निश्चयतो विज्ञेयं न काय चेष्टाभिः शेषाभिः || २६३॥ एवं सम्यग्दृष्टिर्वर्तमानो बहुविधेषु योगेषु । अकुर्वन्नुपयोगे रागादीन् न लिप्यते रजसा || २६४ ॥ तात्पर्यवृत्तिः - यथा स एव पूर्वोक्तो नरः स्नेहे सर्वस्मिन्नपनीते सति धूलिबहुलस्थाने शस्त्रैर्व्यायाम, अभ्यासं श्रमं करोतीति प्रथमगाथा गता । छिनति भिनति च तथा, कान् ? तालतमालकदलीवंश • पिंडीसंज्ञान् वृक्षविशेषान् । तत्सबंधिसचित्ताचित्तद्रव्याणामुपघातं च करोति इति द्वितीयगाथा गता । उप १ मात्मा । Page #136 -------------------------------------------------------------------------- ________________ समयप्राभृतं । घातं कुर्वाणस्य तस्य नानाविधैवैशाखस्थानादिकरणविशेषैः, निश्चयतश्चिंत्यता विचार्यता किंप्रत्ययकः किंनिमित्तकः, तस्य रजोबंधो न भवति । एंव प्रश्नरूपेण गाथात्रयं गतं । अत्रात्तरं यः स्नेहभावस्तस्मिनरे स पूर्वोक्तस्तैलाभ्यंगरूपः, तेन स तस्य रजाबंधः, इति निश्चयतो विज्ञेयं । न कायादिव्यापारचेष्टाभिः शेषाभिः, तदभावात् तस्य बंधो नास्तीत्यभिप्रायः, इत्युत्तरगाथा गता। एवं सूत्रचतुष्टयेन प्रश्नोत्तररूपेण दृष्टांतो गतः। अथ दार्टीतमाह एवं सम्मादिही वलुतो वहुविहेसु जोगेसु एवं पूर्वोक्तदृष्टांतेन सम्यग्दृष्टिर्जीवः विविधयोगेषु नाना प्रकारमनावचनकायव्यापारेषु वर्तमानः । अकरंतो उवओगे रागादी निर्मलात्मतत्त्वसम्यश्रद्धानज्ञानानुष्ठानरूपाणां सम्यग्दर्शनज्ञानचारित्राणां सद्भावात् रागाद्युपयोगान् परिणामानकुर्वाणः सन् व वज्झदि रयेण कर्मरजसा न बध्यते । एवं तैलम्रक्षणाभावे यथा रजोबंधो न भवति तथा वीतराग, सम्यग्दृष्टेर्जीवस्य रागाद्यभावाबंधो न भवति, इति बंधाभावकारणतात्पर्यकथनरूपेण गाथापंचकं गतं । किं च यथात्र पातनिकायां भणितं, संज्ञानिजीवस्य शांतरसे स्वामित्वं, अज्ञानिनस्तु शृंगाराद्यष्टरसाना स्वामित्वं, तथाध्यात्मविषये नाटकावतारप्रस्तावे नवरसानां स्वामित्वं ज्ञातव्यं । इति सूत्रदशकसमुदायेन प्रथमस्थलं गतं । भथ वीतरागस्वस्थभावं मुक्त्वा हिंस्यहिंसकभावेन परिणमनमज्ञानिजीवलक्षणं । तद्विपरीतं संज्ञानिलक्षणमिति प्रज्ञापयति__आत्मख्यातिः-यथा स एव पुरुषः स्नेहे सर्वस्मिन्नपनीते सति तस्यामेव स्वभावत एव रजोबहुलायां भूमौ तदेव शस्त्रव्यायामकर्म कुर्वाणस्तैरेवानेकप्रकारकरणैस्तान्येव सचित्ताचित्तवस्तूनि निघ्नन् रजसा न बध्यते स्नेहाभ्यंगस्य बंधहेतोरभावात् । तथा सम्यग्दृष्टिः, आत्मनि रागादीनकुर्वाणः सन् तस्मिन्नेव स्वभावत एव कर्मयोग्यपुद्गलबहुले लोके तदेव कायवाङमनःकर्म कुर्वाणः, तैरेवानकप्रकारकरणैः, तान्येव सचित्ताचित्तवस्तूनि निघ्नन् कर्मरजसा न बध्यते रागयोगस्य बंधहेतोरभावात् । लोकः कर्म ततोऽस्तु सोऽस्तु न परिस्पंदात्मकं कर्म तत् तान्यस्मिन् करणानि संतु चिदचिद्व्यापादनं चास्तु तत्। रागादीनुपयोगभूमिमनयन् ज्ञानं भवन् केवलं बंधं नैव कुतोप्युपेत्ययमहो सम्यग्दृगात्मा ध्रुवः ॥१५९॥ सथापि न निरर्गलं चरितमीक्षते ज्ञानिनां तदायतनमेव सा किल निरर्गला व्यापृतिः । अकामकृतकर्म तन्मतमकारणं ज्ञानिनां द्वयं न हि विरुध्यते किमु करोति जानाति च ॥१६॥ जानाति यः स न करोति करोति यस्तु जानात्ययं न खलु तत्किल कर्मरागः रागं त्वबोधमयमध्यवसायमाहुर्मिध्यादृशः स नियतं स हि बंधहेतुः ॥२६१॥ जो मण्णदि हिंसामिय हिंसिजामिय परेहि सत्तेहिं । सो मूढो अण्णाणी णाणी एत्तोदु विवरीदो ॥२६५।। ----- यो मन्यते हिनस्मि हिंस्ये च परैः सत्त्वे । स मृढोऽज्ञानी ज्ञान्यतस्तु विपरीतः ॥ २६५ ॥ तापर्यवृत्तिः-जो मण्णदि हिंसामिय हिंसिज्जामिय परेहिं सत्तेहिं सो मूढो अण्णाणी यो मन्यते जीवानहं हिनस्मि परैः सत्वैरहं हिंस्ये इति च योसौ परिणामः स निश्चितमज्ञानः स एव बंधहेतुः, स परिणामो यस्यास्ति स चाज्ञानी । णाणी एत्तोदु विवरीदो एतस्माद्विपरीतो यो जीवितमरणलाभालाभसुखदुःखशत्रुमित्रनिंदाप्रशंसादिविकल्पविषये रागद्वेषरहितशुद्धात्मभावनासंजातपरमानंदसुखास्वादरूपे वा भेदज्ञाने रतः स ज्ञानीत्यर्थः । .. अथ कथमयमध्यवसायः पुनरज्ञानं ? इति चेत् Page #137 -------------------------------------------------------------------------- ________________ १३२ सनातनजैनग्रंथमाला__आत्मख्याति:-परजीवानहं हिनस्मि परजीवैर्हिस्ये चाहमित्यध्यवसायो ध्रुवमज्ञानं स तु यस्यास्ति सोऽज्ञानित्वान्मिध्यादृष्टिः । यस्य तु नास्ति स ज्ञानित्वात्सम्यग्दृष्टिः । कथमयमध्यवसायोऽज्ञानं ? इति चत् आउक्खयेण मरणं जीवाणं जिणवरेहिं पण्णत्तं । आउं ण हरेसि तुमं कह ते मरणं कदं तेसिं ॥२६६।। आउक्खयेण मरणं जीवाणां जिणवरेहिं पण्णत्तं । आउं न हरांत तुह कह ते मरणं कदं तेहिं ॥२६॥ आयुःक्षयेण मरणं जीवानां जिनवरैः प्रज्ञप्तं । आयुर्न हरसि त्वं कथं त्वया मरणं कृतं तेषां ॥२६६।। आयुःक्षयेण मरणं जीवानां जिनवरैः प्रजमं । ___ आयुर्न हरंति तव कयं ते मरणं कृतं तैः ॥२६७॥ तात्पर्यति:-आउक्खयेण मरणं जीवाणं जिणवरेहिं पण्णत्तं आयुःक्षयेण मरणं जीवाना जिनवरैः प्रज्ञप्तं कथितं । आउं ण हरेसि तुमं कहते मरणं कदं तेसिं तेषामायुःकर्म च न हरसि त्वं तस्यायुषः स्वोपयोगेनैव क्षीयमाणत्वात् कथं ते त्वया तेषां मरणं कृतमिति ।। आत्मख्याति:-- मरणं हि तावज्जीवानां स्वायुःकर्मक्षयेणैव तदभावे तस्य भावयितुमशक्यत्वात् स्वायुःकर्म च नान्येनान्यस्य हर्तुं शक्यं तस्य खोपभोगेनैव क्षीयमाणत्वात् । ततो न कथंचनापि, अन्योऽन्यस्य मरणं कुर्यात् । ततो हिनस्मि हिंस्ये चेत्यध्यवसायो ध्रुवमज्ञानं ।। जीवनाध्यवसायस्य तद्विपक्षस्य का वार्ता ? इति चेत् जो मण्णदि जीवेमिय जीविजामिय परेहि सत्तेहिं । सो मूढो अण्णाणी णाणी एत्तोदु विवरीदो ॥२६८॥ यो मन्यते जीवयामि जीव्ये चापरैः सत्वैः । स मुढोऽज्ञानी ज्ञान्यतस्तु विपरीतः ॥२६८॥ आत्मख्यातिः-परजीवानहं जीवयामि परजीवैर्जीव्ये चाहमित्यध्यवसायो ध्रुवमझानं स तु यस्यास्ति सोऽज्ञानित्वान्मिध्यादृष्टिः । यस्य तु नास्ति स ज्ञानित्वात् सम्यग्दृष्टिः । कथमयमध्यवसायो ज्ञानमिति चेत् ? आउउदयेण जीवदि जीवो एवं भणंति सव्वण्हू । आउं च ण देसि तुम कहतए जीविदं कदं तेसिं ॥२६९॥ आऊदयेण जीवदि जीवो एवं भणंति सव्वण्हू । आउं च ण दित्ति तुहं कहं णु ते जीविदं कदं तेहिं ॥२७०॥ श्रायुरुदयेन जीवति जीव एवं भणति सर्वज्ञाः ।। आयुश्च न ददासि त्वं कथं त्वया जीवितं कृतं तेषां ॥२६९।। १ तात्पर्यवृत्तौ नयं ग था, आत्मख्यातावेव तत एव नेतस्यास्तात्पयवृ त्तष्टीका । २ इयमाप गाथा तात्पर्यवृत्ती मास्ति ३ इयमपि न, भात्मख्यातादेव । Page #138 -------------------------------------------------------------------------- ________________ समयप्राभूतं । आयुरुदयेन जीवति जीव एवं भणति सर्वज्ञाः । आयुश्व न ददाति तव कथं तु ते जीवितं कृतं तैः ॥२७०॥ तात्पर्यवृत्तिः - आउउदयेण जीवदि जीवो एवं भांति सव्वण्हू आयुरुदयेन जीवति जीक एवं भणति सर्वज्ञाः । आउं च ण देसि तुमं कहं तए जीविदं कदं तेसिं आयुः कर्म च न ददासि त्वं तेषां जीवानां तस्यायुषः स्वकीयशुभाशुभपरिणामेनैव उपार्ज्यमाणत्वात् कथं त्वया जीवितं कृतं ? न कथमपि । किं च ज्ञानिना पुरुषेण स्वसंवित्तिलक्षणत्रिगुणत्रिगुप्तसमाधौ स्थातव्यं तावत् । तदभावे चाशक्यानुष्ठानेन प्रमादेन; अस्य मरणं करोमि, अस्य जीवितं करोमि, इति यदा विकल्पो भवति तदा मनसि चिंतयति अस्य शुभाशुभकर्मोदये सति, अहं निमित्तमात्रमेव जातः इति मत्वा मनसि रागद्वेषरूपोऽहंकारो न कर्तव्य इति भावार्थ: । अथ दुःखसुखमपि निश्चयेन स्वकर्मोदयवशाद् भवति, इत्युपदिशति आत्मख्यतिः - जीवितं हि तावज्जीवानां स्वायुः कर्मोदयेनैव तदभावे तस्य भावयितुमशक्यत्वात् । आयुः कर्म च नान्येनान्यस्य दातुं शक्यं तस्य स्वपरिणामेनैव, उपार्थ्यमाणत्वात् । ततो न कथंचनापि अन्योऽन्यस्य जीवितं कुर्यात् । अतो जीवयामि जीव्ये चेत्यध्यवसायो ध्रुवमज्ञानं । दुःखसुखकरणाध्यवसायस्यापि, एषैव गति: जो अप्पणादु मण्णदि दुःखिदसुखिदे करेमि सत्तेति । सो मूढो अण्णाणी गाणी एत्तोदु विवरदो ॥ २७१|| य आत्मना तु मन्यते दुःखितसुखितान् करोमि सत्वानिति । स मूढोऽज्ञानी ज्ञान्यतस्तु विपरीतः || २७१ || १३३ तात्पर्यवृत्तिः – जो अप्पणादु मण्णदि दुःखिदसुहिदे करेमि सत्तेति यः कर्ता आत्मनः संबंधित्वेन मन्यते किं ? दुःखितसुखितान् सत्वान् करोम्यहं । सो मूढ़ो अण्णाणी णाणी एत्तोदु विवरीदो यश्वाहमिति परिणामों निश्चितमज्ञानः स एव बंधकारणं स परिणामो यस्यास्ति स अज्ञानी बहिरात्मा । एतस्माद्विपरीतः परमोपेक्षासंयमभावनापरिणताभेदरत्नत्रयलक्षणे भेदज्ञाने स्थितो ज्ञानीति । अथ परस्य सुखदुःखं करोमीत्यध्यवसायकः कथमज्ञानी जात: ? इति चेत् — आत्मख्यातिः - परजीवानहं दुःखितान् सुखितांश्च करोमि । परजीवैर्दुखितः सुखितश्च क्रियेहं, इत्यध्यवसायो ध्रुवमज्ञानं । स तु यस्यास्ति सोऽज्ञानित्वान्मिथ्यादृष्टिः । यस्य तु नास्ति स ज्ञानित्वात् सम्यग्दृष्टिः । कथमध्यवसायोऽज्ञानमिति चेत् । कम्मैणिमित्तं सव्वे दुक्खिद सुहिदा हवंति जदि सत्ता । कम्मं च ण देसि तुमं दुक्खिदसुहिदा कहं कदा ते ॥ २७२॥ कम्मणिमित्तं सव्वे दुक्खिदसु हिदा हवंदि जदि सत्ता । कम्मं च ण देसि तुमं कह तं सुहिदो कदो तेहिं ॥ २७३॥ कम्मोदयेण जीवा दुक्खिदसुहिदा हवंति जदि सव्वे | कम्मं च ण देसि तुमं कह तं दुहिदो कदो तेहिं ॥ २७४॥ १ आनरूपात “ कम्मोदयेण जीवा दुक्खिदसु हिदा हवंति जदि सव्वे " इति पाठः । Page #139 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायांकर्मनिमित्तं सर्वे दुःखितसुखिता भवंति यदि सत्वाः । कर्म च न ददासि त्वं दुःखितसुखिताः कथं कृतास्ते ॥२७२।। कनिमित्तं सर्वे दुःखितमुखिता भवंति यदि सत्वाः।। कर्म च न ददासि त्वं कथं त्वं सुःखितः कृतस्तैः ॥२७॥ कर्मोदयेन जीवा दुःखितमुखिता भवंति यदि सर्वे । कर्म च न ददासि त्वं कथं त्वं दुखितः कृतस्तैः ।।२७४॥ तात्पर्यवृत्तिः-कम्मणिमित्तं सव्वे दुक्खिदसुहिदा हबंति जदि सत्ता यदि चेत् कर्मोदयनिमित्तं सर्वे सत्वा जीवाः सुखितदुःखिता भवति ? कम्मं च ण देसि तुमं दुःखिदसुहिदा कहं कदा ते तर्हि शुभाशुभकर्म च न ददासि त्वं कथं ते जीवात्वया सुखितदुःखिताः कृताः ! न कथमपि । . कम्मणिमित्तं सव्वे दुःखिदसुहिदा हवंति जदि सत्ता यदि चेत्कर्मोदयनिमित्तं सर्वे जीवा सुखितदुःखिता भवंति कम्मं च ण देसि तुमं कह सुहिदो कदो तेहिं तर्हि शुभाशुभकर्म च न ददासि त्वं न प्रयच्छसि तेभ्यः कथं त्वं सुखीकृतस्तैः ! न कथमपि । ___ कम्मोदयेण जीवा दुःखिदसुहिदा हवंति जदि सव्वे यदि चेत् कर्मोदयेन सर्वे जीवा दुःखित सुखिता भवंति कम्मं च ण देसि तुमं कह तं दुहिदो कदो तेहिं तर्हि शुभाशुभकर्म च न ददासि लं न प्रयच्छसि तेभ्यः कथं त्वं सुखीकृतस्तैः ! न कथमपि । किं च तत्त्वज्ञानी जीवस्तावत् अन्यस्मै परजीवाय सुखदुःखे ददामि, इति विकल्पं न करोति । यदा पुनर्निर्विकल्पसमाधेरभावे सति प्रमादेन सुखदुःखं करोमीति विकल्पो भवति तदा मनसि चिंतयति-अस्य जीवस्यांतरंगपुण्यपापोदयो जातः अहं पुनर्निमित्तमात्रमेव, इति, ज्ञात्वा मनसि हर्षविषादपरिणामेन गर्व न करोति, इति । एवं परजीवानां जीवितमरणं सुखदुःखं करोमीति व्यख्यानमुख्यतया गाथासप्तकेन द्वितीयस्थलं गतं । अथ परोजनः परस्य निश्चयेन जीवितमरणसुखदुःखं करोतीति योसौ मन्यते स बहिरात्मेति प्रतिपादयति आत्मख्यातिः-सुखदुःखे हि तावजीवानां स्वकर्मोदयेनैव तदभावे तयोर्भवितुमशक्यत्वात् । स्वकर्म च नान्येनास्य दातुं शक्यं तस्य स्वपरिणामेनैवोपाय॑माणत्वात् । ततो न कथंचनापि, अन्योन्यस्य सुखदुःखे कुर्यात् । अतः सुखितदुःखितान् करोमि । सुखितदुःखितश्च किये चेत्यध्यवसायो ध्रुवमज्ञानं । सर्व सदैव नियतं भवति स्वकीयकर्मोदयान्मरणजीवितदुःखसौख्यं । अज्ञानमेतदिह यत्तु परः परस्य कुर्यात् पुमान् मरणजीवितदुःखसौख्यं ॥१६२॥ अज्ञानमेतदधिगम्य परात्परस्य पश्यंति ये मरणजीवितदुःखसौरख्यं । कर्माण्यहंकृतिरसेन चिकीर्षवस्ते मिथ्यादृशो नियतमात्महनो भवति ॥१६३॥ जो मरदि जोय दुहिदो जायदि कम्मोदयेण सो सम्बो । तमा दु मारिदोदे दुहाविदो चेदि णहु मिच्छा ॥२७५॥ जो ण मरदि णय दुहिदो सोविय कम्मोदयेण खलु जीवो। तमा ण मरिदोदे दुहाविदो चेदि णहु मिच्छा ॥२७६॥ १ 'सोचिय कम्मोदयेण सो चैव' पाठोयमात्मख्याती । Page #140 -------------------------------------------------------------------------- ________________ ‘समयप्राभृतं । . यो म्रियते यश्च दुःखितो जायते कर्मोदयेन स सर्वः । समातु मारितस्ते दुःखितो वेति न खलु मिथ्या ॥२७५॥ यो न म्रियते न च दुखितो भवति सोपि च कर्मोदयन खलु जीवः । तस्मान मारितो नो दुःखितो वेति न खलु मिथ्या ॥२७॥ तात्पर्यवृति:-जो मरदि जोय दुहिदो जायदि कम्मोदयेण सो सन्चो यो म्रियते यश्च दुःखितो भवति स सर्वोऽपि कर्मोदयेन जायते तह्मा दु मारिदोदे दुहाविदो चेदि णह मिच्छा . तस्मात्कारणात्, मया मारितो दुःखीकृतश्चेति तवाभिप्रायोयं न खलु मिथ्या ? किंतु मिथ्यैव । जोण मरदि णय दुहिंदो सोविय कम्मोदयेण खलु जीवो यो न म्रियते यश्च दुःखितो न भवति कोऽसौ ! जीवः खलु स्फुटं स सर्वोऽपि कर्मोदयेनैव तह्मा ण मारिदो दे दहाविदो चेदि णह मिच्छा तस्मात् कारणात् न मारितो मया न दुःखीकृतश्चेति तवाभिप्रायोयं न खलु मिथ्या ! अपि तु मिथ्यैव अनेनापध्यानेन स्वस्थभावाच्च्युतो भूत्वा कर्मैव बनातीति भावार्थः । अथ स एव पूर्वसूत्रद्वयोक्तो मिथ्याज्ञानभावो मिथ्यादृष्टबंधकारणं भवतीति कथयति आत्मख्यातिः-यो हि म्रियते जीवति वा दुःखितो भवति सुखितो भवति च स खलु कर्मोदयेनैव तदभावे तस्य तथा भवितुमशक्यत्वात् ततः, मयायं मारितः, अयं जीवितः अयं दुःखितः कृतः, अयं सुखितः कृतः, इति पश्यन् मिथ्यादृष्टिः । मिथ्यादृष्टेः स एवास्य बंधहेतुर्विपर्ययात ___ स एवाध्यवसायोयमज्ञानात्मास्य दृश्यते ॥१६४॥ एसा दुजा मदी दे दुःखिदसुहिदे करेमि सचेति । एसा दे मूढमदी सुहासुहं बंधदे कम्मं ॥ २७७ ॥ एषा तु या मातिस्ते दुःखितमुखितान् करोमि सत्वानिति । ___एषा त मूढ़मतिः शुभाशुभं बध्नाति कर्म ॥ २७७ ॥ तात्पर्यवृत्तिः -एगदुजा मदी दे दुःखिर सुहिदे करमि सनेति एषा या मतिस्ते तव दुःखितसुखितान् करोम्यहं सत्वान् एसा दे मृढ़नदी सुहासुई वंधदे कम्मं सैषा भवदीया मतिः हे मूढमते स्वस्थभावच्युतस्य शुभाशुभं कर्म बध्नाति न किमप्यन्यत्कार्यमस्ति इति । अथ निश्चयन रागाद्यध्यवसानमेव बंधहेतुर्भवति इति प्रतिपादनरूपेण तमेवार्थ दृढयति आत्मख्याति:--परजीवानहं हिनस्मि न हिनस्मि दुःखयामि सुखयामि इति य एवायमज्ञानमयो ऽध्यवसायो मिथ्यादृष्टेः स एव स्वयं रागादिरूपत्वात्तस्य शुभाशुभबंधहेतुः । अथाध्यवसायं बंधहेतुत्वेनावधारयति दुक्खिदसुहिदे सत्ते करेमि जं एस मज्झवसिदं ते । तं पाववंधगं वा पुण्णस्स य वंधगं होदि ॥२७॥ मारमि जीवावेमिय सत्ते जं एव मज्झवसिदंते । । तं पाववंधगं वा पुण्णस्स य वंधगं होदि ॥२७९॥ दुःखितसुखितान् सत्वान् करोमि यदेवमध्यवासितं ते । सत्पापबंधकं वा पुण्यस्य च बंधकं वा भवति ॥ २७८ ॥ Page #141 -------------------------------------------------------------------------- ________________ १३६ सनातनजैनग्रंथमालायांमारवामि जीवधामि च सत्वान् यदेवमध्यवसितं ते । तत्पापबंधकं वा पुण्यस्य बंधकं वा भवति ॥ २७९ ।। तात्पर्यवृत्तिः--दुःखितसुखितान् सत्वान् करोम्यहं कर्ता यदेवमध्यवसितं रागाद्यध्यवसानं ते तव शुद्धात्मभावनाच्युतस्य सतः पापस्य पुण्यस्य वा तदेव बंधकारणं भवति नचान्यत् किमपि दुःखादिकं कर्तुमायाति । कस्मात् ? इति चेत् तस्य सुखदुःखपरिणामस्य जीवस्य स्वोपार्जितशुभाशुभकर्माधीनत्वात् इति । ___मारयामि जीवयामि सत्वान् यदेवमध्यवसितं ते तव शुद्धात्मश्रद्धानज्ञानानुष्ठानशून्यस्य सतः पापस्य पुण्यस्य वा तदेव बंधकं भवति नचान्यत् किमपि कर्तुमायाति । कस्मात् ? इति चेत् तस्य परजीवस्य जीवितमरणादेः स्वोपार्जितकर्मोदयाधीनत्वात् इति । अथैवं निश्चयनयेन हिंसाध्यवसाय एव हिंसेत्यायातं विचार्यमाणं आत्मख्यातिः-य एवायं मिथ्यादृष्टेरज्ञानजन्मारागमयोध्यवसायः स एव वंधहेतुः, इत्यवधारणीयं न च पुण्यपापत्वेन द्वित्वाद्वंधस्य तद्वित्वंतरमन्वेष्टव्यं ? एकेनैवानेनाध्यवसायेन दुःखयामि, मारयामि, इति सुखयामि, जीवयामीति च द्विधा शुभाशुभाहंकाररसनिर्भरतया द्वयोरपि पुण्यपापयोर्बधहेतुत्वस्याविराधोत् एवं हि हिंसाध्यावसाय एव हिंसेत्यायातं अन्झवसिदेण वंधो सत्ते मारे हि माव मारे हि । एसो वंधसमासो जीवाणं णिच्छयणयस्स ॥ २८॥ अध्यवसितेन बंधः सत्वान् मारयतु मा वा मारयतु । एष बंधसमासो जीवानां निश्चगनयस्य ॥ २८० ॥ तात्पर्यवृत्तिः-अज्झवसिदेण बंधो सत्ते मारे हि मान मारे हि अध्यवसितेन परिणामेन बंधो भवति, सत्वान् मारय मा वा मारय एसो बंधसमासो एष प्रत्यक्षीभूतो बंधसमासः बंधसंक्षेपः । तद्विपरीतेन निरुपाधिचिदानंदैकलक्षणनिर्विकल्पसमाधिना मोक्षो भवतीति मोक्षसमासः । केषां ! नीवाणां णिच्छयणयस्स जीवानां निश्चयनयस्येति । एवं जीवितमरणसुखदुःखानि परेषां करोमीत्यध्यवसाय एव बंधकारणं, प्राणव्यपरोपरागादिव्यापारो भवतु मा भवतु । एवं सर्वं ज्ञात्वा रागाद्यपध्यानं त्यजनीयमिति व्याख्यानमुख्यत्वेन सूत्रषट्केन तृतीयस्थलं गतं ।। अथ हिंसाध्यवसानं पूर्वमुक्तं तावत् इदानीं पुनः असत्याद्यव्रताध्यवसानैः पापं सत्याद्यवसानैश्च पुण्यबंधो भवतीत्याख्याति आत्मख्यातिः-परजीवानां स्वकर्मोदयवैचित्र्यवशेन प्राणव्यपरोपः कदाचिद् भवतु, कदाचिन्माभवतु । य एव हिनस्मीत्यहंकाररसनिर्भरो हिंसायामध्यवसायः स एव निश्चयतस्तस्य बंधहेतुः, निश्चयेन परभावस्य प्राणव्यपरोपस्य परेण कर्तुमशक्यत्वात् । अथाध्यवसायं पापपुण्ययो बैधहेतुत्वेन दर्शयति-- एवमलिये अदत्ते अवह्मचेरे परिग्गहे चेव । कीरदि अन्झवसाणं जं तेण दु वज्झदे पावं ॥२८१ ॥ तहय अचोजे सच्चे वंभे अपरिगहत्तणे चेव । कीरदि अज्झवसाणं जं तेण दु वज्झदे पुण्णं ॥ २८२ ॥ एवमलीकेऽदत्तेऽब्रह्मचर्ये परिग्रहे चैव । । क्रियतेऽध्वसानं यत्तेन तु बध्यते पापं ॥ २८ ॥ . Page #142 -------------------------------------------------------------------------- ________________ १३७ समयप्राभृतं । तथापि च सत्ये दत्ते ब्रह्मणि, अपरिग्रहत्वे चैव । क्रियतेऽध्यवसानं यत्तेन तु बध्यते पुण्यं ॥ २८२ ॥ तात्पर्यवृत्तिः-एवमसत्येऽचौर्येऽऽब्रह्मणि परिग्रहे चैव यत्क्रियतेऽध्वसानं तेन पापं बध्यते इति प्रथमगाथा गता। ___ यश्चाचौर्ये सत्ये ब्रह्मचर्ये तथैवापरिग्रहत्वे यत्क्रियतेऽध्यवसानं तेन पुण्यं बध्यते इति व्रताव्रतविषये पुण्यपापबंधरूपेण सूत्रभूतगाथाद्वयं गतं । अतः परमिदमेव सूत्रद्वयं परिणाममुख्यत्वेन त्रयोदशगाथाभिर्विवृणोति तद्यथा बाह्यं वस्तुं रागादि परिणामकारणं परिणामवस्तु बंधकारणमित्यावेदयति आत्मख्यातिः-एवमयमज्ञानात् यो यथा हिंसायां विधीयतेऽध्यवसायः, तथा असत्यादत्ताब्रह्मपरिप्रहेषु यश्च विधीयते स सर्वोऽपि केवल एव पापबंधहेतुः यस्तु अहिंसायां यथा विधीयते, अध्यवसायः। तथा यश्च सत्यदत्तब्रह्मापरिग्रहेषु विधीयते स सर्वोऽपि केवल एव पुण्यबंधहेतुः । न च बाह्यवस्तु द्वितीयोऽपि बंधहेतुरिति शक्यं वक्तुं-- वत्थु पड्डुच्च जं पुण अज्झवसाणं तु होदि जीवाणं । ण हि वत्थुदो दु वंधो अज्झवसाणेण वंधोति ॥२८३॥ वस्तु प्रतीत्य यत्पुनरध्यवसानं तु भवति जीवानां । न च वस्तुतस्तु बंधोऽध्यबसानेन बंधोस्ति ॥ २८३ ॥ तात्पर्यवृत्तिः-वत्थु पडुच्च जं पुण अज्झवसाणं तु होदि जीवाणं बाह्यवस्तुचेतनाचेतनं पंचेंद्रियविषयभूतं प्रतीत्य आश्रित्य जीवानां तत्प्रसिद्धं रागाद्यध्यवसानं भवति ण हि वत्थुदो दु वंधो न हि वस्तुनः सकाशाद्वंधो भवति । तर्हि केन बंधः ? अज्झवसाणेण वंधोत्ति वीतरागपरमात्मतत्त्वभिन्नन रागद्यध्यवसानेन बंधो भवति । वस्तुनः सकाशाद्वंधो कथं न भवतीति चेत् अन्वयव्यतिरेकाभ्यां व्यभिचारात् । तथा हि बाह्यवस्तुनि सति नियमेन बंधो भवतीति-अन्वयो नास्ति, तदभावे बंधो भवतीति व्यतिरेकोऽपि नास्ति । तर्हि किमर्थ बाह्यवस्तुत्यागः ? इति चेत् रागाद्यध्यवसानानां परिहारार्थ । अयमत्र भावार्थः । बाह्यपंचेंद्रियविषयभूते वस्तुनि सति, अज्ञानभावात् रागाद्यध्यवसानं भवति तस्मादध्यवसाना ढुंगेभवतीति पारंपर्येण वस्तु, बंधकारणं भवति नच साक्षात् । अध्यवसानं पुनर्निश्चयेन बंधकरणमिति । एवं बंधहेतुत्वेन निर्धारितस्याध्यवसानस्य स्वार्थक्रियाकारित्वाभावेन मिथ्यात्वमसत्यत्वं दर्शयति आत्मख्यातिः--अध्यवसानमेव बंधहेतुर्न तु बाह्यवस्तु तस्य बंधहेतोरध्यवसानस्य हेतुत्वेनैव चरितार्थत्वात् । तर्हि किमर्थो बाह्यवस्तुप्रतिषेधः ? अध्यवसानप्रतिषेधार्थः । अध्यवसानस्य हि बाह्यवस्तु, आश्रभूतं । न हि बाह्यवस्त्वनाश्रित्य, अध्यवसानमात्मानं लभते । यदि बाह्यवस्त्वनाश्रित्यापि, अध्यवसानं जायेत तदा यथा वीरसूसुतस्याश्रयभूतस्य सद्भावे वीरसूनुं हिनस्मीत्यध्यवसायो जायते, तथा बंध्यासुतस्याश्रयभूतस्यासद्भावेऽपि बंध्यासुतं हिनस्मीत्यध्यवसायो जायेत । नच जायते । ततो निराश्रयं नास्त्यध्यवसानमिति नियमः । तत एव चाध्यवसानाश्रयभूतस्य बाह्यवस्तुनोऽत्यंतप्रतिषेधः, हेतुप्रतिषेधेनैव हेतुमप्रतिषेधात् । नच बंधहेतुहेतुत्वे सत्यपि बह्यं वस्तु बंधहेतुः स्यात् ईर्यासमितिपरिणतयतींद्रपदव्यापाद्यमानवेगापतत्कालचोदितकुलिंगवत् बाह्यवस्तुनो बंधहेतुहेतोरबंधहेतुत्वेन बंधहेतुत्वस्यानैकांतिकत्वात् । अतो न बाह्यवस्तु जीवस्यातद्भावो बंधहेतुः । अध्ययसानमेव सस्य तद्भावो बंधहेतुः । एवंविधहेतुत्वेन निर्धारितस्याध्यवसानस्य स्वार्थक्रियाकारिलाभावेन मिथ्यात्वं दर्शयति१८ Page #143 -------------------------------------------------------------------------- ________________ १३८ सनातैनजैनप्रथमालायांदुक्खिदसुहिंदे जीवे करेमि बंधेमि तह विमोचेमि । जा एसा तुज्झ मदी णिरच्छया सा हु दे मिच्छा ॥२८४॥ दुःखितसुखितान् जीवान् करोमि बनामि तथा विमोचयामि । सा एषा तव मतिः निरर्थिका सा खलु अहो मिथ्या ॥२८॥ तात्पर्यवृत्तिः - दुक्खिदसुदिहे जीवे करेमि बंधामि तह विमोचेमि दुःखितसुखितान् जीवान् करोमि, बध्नामि, तथा विमोचयामि जा एसा तुज्झ मदी णिरच्छया साहु दे मिच्छा या एषा तव मतिः सा निरर्थिका निष्प्रयोजना हु स्फुटं । दे अहो ततः कारणात् मिथ्या वितथा व्यलीका भवति । कस्मात् ! इति चेत् भवदीयाध्यवसाने सत्यपि परजीवानां सातासातोदयाभावात् सुखदुःखाभावः स्वकीयाशुद्धशुद्धाध्यवसानाभावात् बंधो मोक्षाभावश्चेति ॥ अथ कस्मादध्यवसानं स्वार्थक्रियाकारि न भवतीति चेत् आत्मख्यातिः-परान् जीवान् दुःखयामि सुखयामीत्यादि बंधयामि वा यदेतदध्यवसानं तत्सर्वमपि परभावस्य परस्मिन्नव्याप्रियमाणत्वेन स्वार्थक्रियाकारित्वाभावात् खंकुसुमं लुनामीत्यध्यवसानवमिथ्यारूपं केवलमात्मनोऽनर्थायैव । कुतो नाध्यवसानं स्वार्थक्रियाकारि ? इति चेत् अज्झवसाणणिमित्तं जीवा वझंति कम्मणा जदि हि । मुचंति मोक्खमग्गे ठिदा य ते किंकरोसि तुमं ॥२८५॥ अध्यवसाननिमित्तं जीवा वध्यंते कर्मणा यदि हि । मुच्यते मोक्षमार्गे स्थिताश्च किंकरोषि त्वं ॥२८५।। तात्पर्यवृत्तिः--अज्झवसाणणिमित्तं जीवा वझंति कम्पणा जदि हि मिथ्यात्वरागादि स्वकीयाध्यवसाननिमित्तं कृत्वा ते जीवा निश्चयेन कर्मणा वध्यते; इति चेत् मुच्चंति मोक्खमग्गे ठिदा यते शुद्धात्मसम्यक्त्वश्रद्धानज्ञानानुचरणरूपनिश्चयरत्नत्रयलक्षणे मोक्षमार्गे स्थिताः पुनर्मुच्यते यदि चेत्ते जीवाः किं करोसि तुमं तर्हि किं करोषि त्वं हे दुरात्मन् न किमपीति, त्वदीयाध्यवसानं स्वार्थक्रियाकारिन भवति। अथ दुःखिता जीवाः स्वकीयपापोदयेन भवंति न च भवदीयपरिणामेनेति आत्मख्यातिः-यत्किल बंधयामि मोचयामीत्यध्यवसानं तस्य हि स्वार्थक्रिया यद्वंधनं मोचनं जीवानां । जीवस्तु, अस्याध्यवसायस्य सद्भावेऽपि सरागवीतरागयोः स्वपरिणामयोः; अभावान्न बध्यते न मुच्यते। सरागवीतरागयोः स्वपरिणामयोः सद्भावात्तस्याध्यवसायस्याभावेऽपि बध्यते मुच्यते च, यतः परत्राकिंचित्करत्वान्नेदमध्यवसानं स्वार्थक्रियाकारि ततश्च मिथ्यैवेति भावः । अनेवाध्यवसानेन निष्फलेन विमोहितः । तत्किंचनापि नैवास्ति नात्मात्मानं करोति यत् ॥१६५।। कोयेण दुक्खवेमिय सत्ते एवं तु जं मदिं कुणसि । सव्वावि एस मिच्छा दुहिदा कम्मेण जदि सत्ता ॥२८६।। वाचाए दुक्खवेमिय सत्ते एवं तु जं मदिं कुणसि । सव्वावि एस मिच्छा दुहिदा कम्मेण जदि सत्ता ॥२८७॥ इत भारभ्य गाथापचकं मोपलब्धमात्मरव्यातौ ततो नास्त्यस्य गाथापंचकस्यात्मख्यातिः ॥ Page #144 -------------------------------------------------------------------------- ________________ समय प्राभृतं । मणसाए दुक्खवेमिय सत्ते एवं तु जं मदिं कुणास । सव्वावि स मिच्छा दुहिदा कम्मेण जदि सत्ता ॥ २८८॥ सच्छेण दुक्खवेमिय सत्ते एवं तु जं मदिं कुणसि । सव्वावि एस मिच्छा दुहिदा कम्मेण जदि सत्ता ॥ २८९ ॥ कायेन दुःखयामि सत्वान् एवं तु यन्मतिं करोषि । सर्वापि एषा मिथ्या दुःखिताः कर्मणा यदि सत्वाः ॥ २८६ ॥ वाचा दुःखयामि सत्वान् एवं तु यन्मतिं करोषि । सर्वापि एषा मिथ्या दुःखिताः कर्मणा यदि सत्वाः ||२८७|| मनसा दुःखयामि सत्वान् एवं तु यन्मतिं करोषि । सर्वापि एषा मिथ्या दुःखिताः कर्मणा यदि सत्वाः ||२८८॥ शस्त्रेण दुःखयामि सत्वान् एवं तु यन्मतिं करोषि । सर्वापि एषा मिथ्या दुःखिताः कर्मणा यदि जीवाः ॥ २८९ ॥ तात्पर्यवृत्तिः कायेण इत्यादि स्वकायपापादयेन जीवाः दुःखिताः भवंति यदि चेत् ? तेषां जीवानां . स्वकीयपापकर्मोदयभावे भवतो किमपि कर्तुं नायाति इति हेतोः मनोवचनकायैः शस्त्रैश्च जीवान् दुःखितान् करोमि इति रे दुरात्मन् त्वदीया मतिर्मिथ्या । परं किं तु स्वस्थभावच्युतो भूत्वा त्वं पापमेव बध्नासि इति । अथ सुखिता अपि निश्चयेन स्वकीयशुभकर्मोदये सति भवतीति कथयति - कायेण च वायाइव मणेण सुहिदे करेमि सत्तेति । एवंपि हवदि मिच्छा सुहिदा कम्मेण जदि सत्ता ॥ २९०॥ कायेन च वाचा वा मनसा सुखितान् करोमि सत्वानिति । एवमपि भवति मिथ्या सुखिनः कर्मणा यदि सत्वाः ॥ २९०॥ १३९ तात्पर्यवृत्तिः - स्वकीयकर्मोदयेन जीवा यदि चेत् सुखिता भवंति । न च त्वदीयपरिणामेन तर्हि 'मनोवचन कायैर्जीवान् सुखितानहं करोमि इति भवदीया मतिर्मिथ्या । एवं तवाध्यवसानं स्वार्थकं न भवति । परं किं तु निरुपरागपरम चिज्ज्योतिः स्वभावे स्वशुद्धात्मतत्त्वमश्रद्दधानः, तथैवाजानन् अभावयंश्च तेन शुभ- परिणामेन पुण्यमेव बध्नाति इत्यर्थः । अथ स्वस्थभावप्रतिपक्षभूतेन च रागाद्यध्यवसानेन मोहितः सन्नयं जीवः समस्तमपि परद्रव्यमात्मनि नियोजयति इत्युपदिशति - सव्वे करेदि जीवो अज्झवसाणेण तिरियणेरेइए । 'देवमणुवेपि सव्वे पुण्णं पावं अणेयविहं ॥ २९९ ॥ धमाधम्मं च तहा जीवाजीवे अलोगलोगं च । सव्वे करेदि जीवो अज्झवसाणेण अप्पाणं ॥ २९२॥ सर्वान् करोति जीवानध्यवसानेन तिर्यङ्ङ्गैरयिकान् । देवमनुजांच सर्वान् पुण्यं पापं च नैकविधं ।। २९९ ।। Page #145 -------------------------------------------------------------------------- ________________ १४० सनातनजैनग्रंथमालायांधर्माधर्म च तथा जीवाजीवौ अलोकलोकं च । सर्वान् करोति जीवः अध्यवसानेन आत्मानं ॥२९॥ तात्पर्यवृत्तिः- उदयागतनरकगत्यादिकर्मवशेन नारकतिर्यङ्मनुष्यदेवपापपुण्यरूपान् कर्मजनितभावान् आत्मानं करोति आत्मनः संबंधात्करोति । निर्विकारपरमात्मतत्त्वज्ञानाद् भ्रष्टः सन् नारकोऽहमित्यादि रूपेण, उदयागतकर्मजनितविभावपरिणामान् , आत्मनि योजयतीत्यर्थः। धर्माधर्मास्तिकायजीवाजीवलोकालोकज्ञेयपदार्थान् अध्यवसानेन तत्परिछित्तिविकल्पेनात्मानं करोति, आत्मनः संबंधात् करोतीत्यभिप्रायः । किं च यथा घटाकारपरिणतं ज्ञानं घट इत्युपचारेणोच्यते । तथा धर्मास्तिकायादिशेयपदार्थविषये धर्मोऽयमित्यादि योऽसौ परिछित्तिरूपो विकल्पः सोप्युपचारेण धर्मास्तिकायादिर्भण्यते । कथं ? इति चेत् धर्मास्तिकायादिविषयत्वात् । स्वस्थभावच्युतोभूत्वा यदा धर्मास्तिकायोयमित्यादिविकल्पं करोति तदा तस्मिन् विकल्पे कृते सति धर्मास्तिकायादिरप्युपचारेण कृतो भवति इति । ____ अथ निश्चयेन परद्रव्याद्भिन्नोऽपि यस्य मोहस्य प्रभावात् आत्मानं परद्रव्ये योजयति स मोहो येषां नास्ति त एव तपोधना इति प्रकाशयति___ आत्मख्यातिः-यथायमेव क्रियागर्भहिंसाध्यवसानेन हिंसकं, इतराध्यवसानैरितरं च ; अत्मात्मानं कुर्यात्, तथा विपच्यमाननारकाध्यवसानेन नारकं, विपच्यमानतिर्यगध्यवसानेन तिर्यंचं, विपच्यमानमनुष्याध्यवसानेन मनुष्यं, विपच्यमानदेवाध्यवसानेन देवं, विपच्यमानसुखादिपुण्याध्यवसानेन पुण्यं, विपच्यमानदुःखादिपापाध्यवसानेन पापमात्मानं कुर्यात् । तथैव च ज्ञायमानधर्माध्यवसानेन धर्म, ज्ञायमानालोकाकाशाध्यवसायेनालोकाकाशमात्मानं कुर्यात् । विश्वाद्विभक्तोऽपि हि यत्प्रभावादात्मानमात्मा विदधाति विश्वं । मोहैककंदोध्यवसाय एष नास्तीह येषां यतयस्त एव ॥१६॥ एदाणि णत्थि जेसिं अज्झवसाणाणि एवमादीणि । ते असुहेण सुहेण य कम्मेण मुणी ण लिप्पंति ॥२९३।। एतानि न संति येषामध्यवसानान्येवमादीनि । तेऽशुभेन शुभेन वा कर्मणा मुनयो न लिप्यंति ॥२९३॥ तात्पर्यवृत्तिः-एदाणि णत्थि जेसि अज्झवसाणाणि एवमादीणि एतान्येवमादीनि पूर्वोतानि शुभाशुभाध्यवसानानि कर्मबंधनिमित्तभूतानि न संति येषां ते असुहेण सुडेण य कम्मेण मुणी ण लिप्पति त एव मुनीश्वराः शुभाशुभकर्मणा न लिप्यते । किं च विस्तरः शुद्धात्मसम्यश्रद्धानज्ञानानुचरणरूपं निश्चयरत्नत्रयलक्षणं भेदविज्ञानं यदा न भवति तदाहं जीवान् हिनस्मीत्यादि हिंसाध्यवसानं नारकोहमित्यादि कर्मोदयाध्यवसानं, धर्मास्तिकायोयमित्यादि ज्ञेयपदार्थाध्यवसानं च निर्विकल्पशद्धात्मनः सकाशाद्भिन्नं जानातीति । तदा जानन् हिंसाध्यवसानविकल्पेन सहात्मानमभेदेन श्रद्दधाति जानाति अनुचरति च, ततो मिथ्यादृष्टिर्भवति मिथ्याज्ञानी भवति भित्र्याचारित्री भवति । ततः कर्मबंधो भवतीति भावार्थः। कियंतं कालं परभावानात्मनि योजयतीति चेत् आत्मख्यातिः-एतानि किल यानि त्रिविधान्यध्यवसानानि समस्तान्यपि शुभाशुभकर्मबंधनिमित्तानि स्वयमज्ञानादिरूपत्वात् । तथा हि यदिदं हिनस्मीत्याद्यध्यवसानं तत्त्वज्ञानमयत्वेन आत्मनः सदहेतुकज्ञप्त्यैकक्रियस्य रागद्वेषविपाकमयीनां हननादिक्रियाणां च विशेषाज्ञानेन विविक्तात्माऽज्ञानादस्ति तावदज्ञानं विविक्तात्माऽदर्शनादस्ति च मिथ्यादर्शनं; विविक्तात्मानाचरणादस्ति चाचारित्रं । यत्पुनरेष धर्मो ज्ञायत १ अज्ञानादर्शनाचारित्रसंज्ञकानि । Page #146 -------------------------------------------------------------------------- ________________ समयप्राभृतं । इत्याद्यध्यवसानं तदप्यज्ञानमयत्वेनात्मनः सदहेतुकज्ञानैकरूपस्य ज्ञेयमयानां धर्मादिरूपाणां च विशेषाज्ञानेन विविक्तात्माऽज्ञानादस्ति तावदज्ञानं विविक्तात्मादर्शनादस्ति च मिथ्यादर्शनं विविक्तात्मानाचरणादस्ति चाचारित्रं । ततो बंधनिमित्तान्येवैतानि समस्तान्यध्यवसानानि । येषामैवेतानि न विद्यते त एव मुनिकुंजराः । केचन सदहेतुकज्ञप्त्यैकक्रियं सदहेतुकज्ञायकैकभावं सदहेतुकज्ञानैकरूपं च विविक्तात्मानं जानंतः सम्यक्पश्यतोऽनुचरंतश्च स्वच्छस्वच्छदोद्यदमंदांतोतिषोऽत्यंतमज्ञानादिरूपत्वाभावात् शुभेनाशुभेन वा कर्मणाखलु न लिप्येरन् । जो संकप्पवियप्पो ता कम्मं कुणद असुहसुहजणयं । अप्पसरूवा रिद्धी जाय ण हियए परिप्फुरइ ॥२९॥ . यावत्संकल्पविकल्पो तावत्कर्म करोत्यशुभशुभजनकं । आत्मस्वरूपा ऋद्धिः यावत् न हृदये परिस्फुरति ॥२९४॥ तात्पर्यवृत्तिः- यावत्कालं बहिर्विषये देहपुत्रकलत्रादौ ममेतिरूपं संकल्पं करोति अभ्यंतरे हर्षविषादरूपं विकल्पं च करोति तावत्कालमनंतज्ञानादिसमृद्धिरूपमात्मानं हृदये न जानाति । यावत्कालमित्थंभूत आत्मा हृदये न परिस्फुरति, तावत्कालं शुभाशुभजनकं कर्म करोतीत्यर्थः । अथाध्यवसानस्य नाममालामाह वुद्धी ववसाओविय अज्झवसाणं मदीय विण्णाणं । इक्कठमेव सव्वं चित्तं भावोय परिणामो ॥२९५॥ बुद्धिर्व्यवसायोऽपि वा अध्यवसानं मतिश्च विज्ञानं । एकार्थमेव सर्व चित्तं भावश्च परिणामः ॥२९५॥ तात्पर्यवृत्तिः-बोधनं बुद्धिः, व्यवसानं व्यवसायः, अध्यवसानमध्यवसायः, मननं पर्यालोचनं मतिश्च, विज्ञायते अनेनेति विज्ञानं, चिंतनं चित्तं, भवनं भावः, परिणमनं परिणामः, इति शब्दभेदेऽपि नार्थभेद:-किं तु सर्वोऽपि समभिरूढनयापेक्षयाऽध्यवसानार्थ एव । कथं ! इति चेत् यथेंद्र सक्रः पुरंदर इति। एवं व्रतैः पुण्यं अवतैः पापमिति कथनेन सूत्रद्वयं पूर्वमेव व्याख्यातं तस्यैव सूत्रस्य विशेषविवरणार्थ बाह्यं वस्तु रागाद्यध्यवसानकारणं रागाद्यध्यवसानं तु बंधकारणमिति कथनमुख्यत्वने त्रयोदश गाथा गताः, इति समुदायेन पंचदशसूत्रैश्चतुर्थस्थलं समाप्तं । ___ अतः परमभेदरत्नत्रयात्मकनिर्विकल्पसमाधिरूपेण निश्चयनयेन विकल्पात्मकव्यवहारनयो हि बाध्यत इति कथनमुख्यत्वेनं गाथाषट्कपर्यंतं व्याख्यानं करोति आत्मख्यातिः- स्वपरयोविवेके सति जीवस्योध्यवसितिमात्रमध्यवसानं । तदेव च बोधनमात्रत्वाबुद्धिः । व्यवसानमात्रत्वात् व्यवसायः । मननमात्रत्वान्मतिज्ञानं । चेतनामात्रत्वाञ्चित्तं । चितोभवनमात्रत्वाद भावः । चितः परिणमनमात्रत्वात् परिणामः । सर्वत्राध्यवसानमेवमखिलं त्याज्यं यदुक्तं जिनैः तन्मन्ये व्यवहार एव निखिलोप्यन्याश्रयस्त्याजितः । सम्यनिश्चयमकमेव तदमी निष्कंपमाक्रम्य किं शुद्धज्ञानघने महिन्नि न निजे बध्नति संतो धृति ॥१६॥ एवं ववहारणओ पडिसिद्धो जाण णिच्छयणयेण । णिच्छयणयसल्लीणा मुणिणो पावंति णिव्वाणं ॥२९६॥ १ नेयमात्मख्याती गाथा नात आत्मख्यातिव्याख्यतस्याः । २ निश्चितिरित्यर्थः । Page #147 -------------------------------------------------------------------------- ________________ १४२ सनातनजैनग्रंथमालायां‘एवं व्यवहारनयः पतिषिद्धो जानीहि निश्चयनयेन । निश्चयनयसंलीना मुनिनः प्राप्नुवंति निर्वाणं ॥२९६॥ तात्पर्यवृत्ति:--एवं ववहारणओ पडिसिद्धो जाण णिच्छयणयेण एवं पूर्वोक्तप्रकारेण परद्रव्याश्रितत्वाद् व्यवहारनयः प्रतिषिद्ध इति जानीहि । केन ? कर्तृभूतेन शुद्धात्मद्रव्याश्रितनिश्चयनयेन। कस्मात् ? णिच्छयणयसल्लीणा मुणिणो पावंति णिवाणं निश्चयनयमालीना आश्रिताः स्थिताः संतो मुनयो निर्वाणं लभंते यतः कारणादिति । किं च यद्यपि प्राथमिकापेक्षया प्रारंभप्रस्तावे सविकल्पावस्थायां निश्चयसाधकत्वाद् व्यवहारनयः सप्रयोजनस्तथापि विशुद्धज्ञानदर्शनलक्षणे शुद्धात्मनि स्थितानां निष्प्रयोजन इति भावार्थः । कथं निष्प्रयोजनः ? इति चेत् कर्ममिरमुच्यमानेनाभव्येनाण्याश्रियमाणत्वात् । आत्मख्याति:--आत्माश्रितो निश्चयनयः, पराश्रितो व्यवहारनयः । तत्रैवं निश्चयनयेन पराश्रित समस्तमध्यवसानं बंधहेतुत्वेन मुमुक्षोः प्रतिषेधयता व्यवहारनय एव किल प्रतिषिद्धः, तस्यापि पराश्रितत्वाविशेषात् । प्रतिषेध्य एवं चायं, आत्माश्रितनिश्चयनयाश्रितानामेव मुच्यमानत्वात् , पराश्रितव्यवहारनयस्यैकातेनामुच्यमानेनाभव्येनाश्रियमाणत्वाच्च । कथमभव्येनाश्रियते व्यवहारनयः ? इति चेत् । वदसमिदी गुत्तीओ सीलतवं जिणवरेहि पण्णतं । कुव्वंतोवि अभविओ अण्णाणी मिच्छदिठ्ठीय ॥२९७॥ व्रतसमितिगुप्तयः शीलतपो जिनवरैः प्रज्ञप्तं । कुर्वन्नप्यभव्योऽज्ञानी मिथ्यादृष्टिस्तु ॥२९७॥ तात्पर्यवृत्तिः–वदसमिदी गुत्तीओ सीलतवं जिणवरेहि परिकहिदं व्रतसमितिगुप्तिशील तपश्चरणादिकं जिनवरैः प्रज्ञप्तं कथितं कुव्वंतोवि अभव्यो अण्णाणी मिच्छदिडीओ मंदमिथ्यात्वमंदकषायोदये सति कुर्वन्नप्यभव्यो जीवस्त्वज्ञानी भवति मिथ्यादृष्टिश्च भवति । कस्मात् ? इति चेत् मिथ्यात्वा दिसप्तप्रकृत्युपशमक्षयोपशमक्षयाभावात् शुद्धात्मोपादेयश्रद्धानाभावात् । इति अथ तस्यैकादशांगश्रुतज्ञानमस्ति कथमज्ञानी ? इति चेत् आत्मख्तातिः - शीलतपःपरिपूर्ण त्रिगुप्तिपंचसमितिपरिकलितमहिंसादिपंचमहाव्रतरूपं, व्यवहारचारित्रं,अभव्योऽपि कुर्यात् तथापि स निश्चारित्रोऽज्ञानी मिथ्यादृष्टिरेव निश्चयचारित्रहेतुभूतज्ञानश्रद्धाशून्यत्वात्। तस्यैकादशांगज्ञानमस्ति ? इति चेत् मोक्खं असदहंतो अभवियसत्तो दु जो अधीएज । पाठो ण करेदि गुणं असदहंतस्स णाणं तु ॥२९८॥ मोक्षमश्रद्दधानोऽभव्यसत्वस्तु योधीयीत । पाठो न करोति गुणमश्रद्दधानस्य ज्ञानं तु ॥२९८॥ तात्पर्यवृत्तिः-- मोक्खं असदहतो अभविय सत्तो हुँ जो अधीयेज मोक्षमश्रदधानः सन्नभव्यजीवो यद्यपि ख्यातिपूजालाभार्थमेकादशांगश्रुताध्ययनं कुर्यात् पाठो ण करेदि गुणं तथापि तस्य शास्त्रपाठः शुद्धात्मपरिज्ञानरूपं गुणं न करोति किंकुर्वतस्तस्य ? असदहंतस्य णाणं तु अश्रद्दधतोऽरोच मानस्य । किं ? ज्ञानं । कोऽर्थः ? शुद्धात्मसम्यक्श्रद्धानज्ञानानुष्ठानरूपेण निर्विकल्पसमाधिना प्राप्यं गम्यं पिच्छयणयासिदा पुण पाठायमात्मरख्याती। Page #148 -------------------------------------------------------------------------- ________________ समयप्राभृतं । १४३ शुद्धात्मस्वरूपमिति । कस्मान्न श्रद्धत्ते ! दर्शनचारित्रमोहनीयोपशमक्षयोपशमक्षयाभावात् । तदपि कस्मात् ? अभव्यत्वादिति भावार्थः। अथ तस्य पुण्यरूपधर्मादिश्रद्धानमस्तीति चेत् आत्मख्यातिः--मोक्षं हि न तावदभव्यः श्रद्धत्ते शुद्धज्ञानमयात्मज्ञानशून्यत्वात् । ततो ज्ञानमपि नासौ श्रद्धत्ते, ज्ञानमश्रद्दधानश्चाचाराद्येकादशांगं श्रुतमधीयानोऽपि श्रुताध्ययनगुणाभावान्न ज्ञानी स्यात् स किल गुणः श्रुताध्ययनस्य यद्विविक्तवस्तुभूतज्ञानमयात्मज्ञानं तच्च विविक्तवस्तुभूतं ज्ञानमश्रद्दधानस्याभव्यस्य श्रुताध्ययनेन न विधातुं शक्येत ततस्तस्य तद्गुणाभावः, ततश्च ज्ञानश्रद्धानाभावात् सोऽज्ञानीति प्रतिनियतः। तस्य धर्मश्रद्धानमस्तीति चेत् - सदहदिय पत्तयदिय रोचेदिय तह पुणोवि फासेदि । धम्म भोगणिमित्तं णहु सो कम्मक्खयणिमित्तं ॥२९९॥ श्रद्दधाति प्रत्येति च रोचयति तथा पुनश्च स्पृशति । धर्म भोगनिमित्तं न खलु स कर्मक्षयनिमित्तं ॥२९९॥ तात्पर्यवृत्तिः-सद्दहदि श्रद्धत्ते च पत्तेदिय ज्ञानरूपेण प्रत्येति च प्रतीति परिच्छित्तिं करोति रोचेदिय विशेषश्रद्धानरूपेण रोचते च तह पुणोवि फासदिय तथा पुनःस्पृशति च अनुष्ठानरूपेण कं? धम्म भोगणिमित्तं अहमिंद्रादिपदवीकारणत्वादिति मत्वा भोगाकांक्षारूपेण पुण्यरूपं धर्म ण हु सो कम्मक्खयणिमित्तं नच कर्मक्षयनिमित्तं शुद्धात्मसंवित्तिलक्षणं निश्चयधर्ममिति । अथ कीदृशौ तौ प्रतिषेध्यप्रतिषेधको व्यवहारनिश्चयनयाविति चेत् आत्मख्यातिः-अभव्यो हि नित्यकर्मफलचेतनारूपं वस्तु श्रद्धत्ते, नित्यज्ञानचेतनामात्रं न तु श्रद्धत्ते नित्यमेव भेदविज्ञानानहत्वात् । ततः स कर्ममोक्षनिमित्तं ज्ञानमात्रं भूतार्थ धर्म न श्रद्धते भोगनिमित्तं शुभकर्ममात्रमभूतार्थमेव श्रद्धत्ते । तत एवासौ, अभूतार्थधर्मश्रद्धानप्रत्ययनरोचनस्पर्शनैरुपरितनप्रैवेयकभोगमात्रमास्कंदन्न पुनः कदाचनापि विमुच्यते ततोऽस्य भूतार्थधर्मश्रद्धानाभावात् , श्रद्धानमपि नास्ति एवं सति तु निश्चयनयस्य व्यवहारनयप्रतिषेधो युज्यत एव ।। कीदृशौं प्रतिषेध्यप्रतिषेधको व्यवहारनिश्चयनयाविति चेत् आयारादीणाणं जीवादीदंसणं च विण्णेयं । छजीवाणं रक्खा भणदि चरितं तु ववहारो ॥३०॥ आदा खु मज्झणाणे आदा मे दसणे चरित्ते य । आदा पञ्चक्खाणे आदा मे संवरे जोगे ॥३०१॥ . आचारादिज्ञानं जीवादिदर्शनं च विज्ञेयं । षद्जीवानां रक्षा भणति चरित्रं तु व्यवहारः ॥३०॥ आत्मा खलु मम ज्ञानमात्मा मे दर्शनं चरित्रं च। आत्मा प्रत्याख्यानं आत्मा मे संवरो योगः ॥३०॥ तात्पर्यवृत्तिः-आयारादीणाणं आचारसूत्रकृतमित्यादि एकादशांगशब्दशास्त्रज्ञानस्याश्रयत्वात्कारणत्वाद् व्यवहारेण ज्ञानं भवति । जीवादी दंसणं च विण्णेयं जीवादिनवपदार्थः श्रद्धानविषयः सम्य १ भात्मख्याती छजीवाणं च तहा इति पाठः । Page #149 -------------------------------------------------------------------------- ________________ सनातनजनग्रंथमालायां- . क्वाश्रयत्वान्निमित्तत्वाद् व्यवहारेण सम्यक्त्वं भवति । छज्जीवाणं रक्खा भणति चरितं तु ववहारो षट्जीवनिकायरक्षा चारित्राश्रयत्वात्, हेतुत्वाद् व्यवहारेण चारित्रं भवति एवं पराश्रितत्वेन व्यवहारमोक्षमार्गः प्रोक्त इति । ___ आदा खु मज्झ णाणे स्वशुद्धात्मा ज्ञानस्याश्रयत्वानिमित्तत्वानिश्चयनयेन मम सम्यग्ज्ञानं भवति । आदा मे दंसणे शुद्धात्मा सम्यग्दर्शनस्याश्रयत्वात् कारणत्वात् निश्चयेन सम्यग्दर्शनं भवति चरित्ते य शुद्धात्मा चारित्रस्याश्रयत्वाद्धेतुत्वात् निश्चयेन सम्यक्चारित्रं भवति आदा पच्चक्खाणे शुद्धात्मा रागादिपरित्यागलक्षणस्याप्रत्याख्यानस्याश्रयत्वात्कारणत्वात् निश्चयेन प्रत्याख्यानं भवति । आदा मे संवरे शुद्धात्मा स्वरूपोपलब्धिवलेन हर्षविषादादिनिरोधलक्षणसंवरस्याश्रयत्वान्निश्चयेन संवरोभवति जोगे शुभाशुभचिंतानिरोधलक्षणपरमध्यानशब्दवाच्ययोगस्याश्रयत्वाद्धेतुत्वात् परमयोगो भवतीति शुद्धात्माश्रितत्वेन निश्चयमोक्षमार्गो ज्ञातव्यः । एवं व्यवहारनिश्चयमोक्षमार्गस्वरूपं कथितं तत्र निश्चयः प्रतिषेधको भवति, व्यवहारस्तु प्रतिषेध्य इति । कस्मादिति चेत् निश्चयमोक्षमार्गे स्थितानां नियमेन मोक्षो भवति व्यवहारमोक्षमार्गे स्थितानां तु न भवति च । कथं न भवति ? इति चेत् यदि मिथ्यात्वादिसप्तप्रकृत्युपशमक्षयोपशमक्षयात्सकाशाच्छुद्धात्मानमुपादेयं कृत्वा वर्तते तदा मोक्षो भवति । यदि पुनः सप्तप्रकृत्युपशमाद्यभावे शुद्धात्मानमुपादेयं कृत्वा न वर्तत तदा मोक्षो न भवति । तदपि कस्मात् ! सप्तप्रकृत्युपशमाद्यभावे सति, अनंतज्ञानादिगुणस्वरूपमात्मानमुपादेयं कृत्वा न वर्तते न श्रद्धत्ते यतः कारणात् । यस्तु तादृशमात्मानमुपादेयं श्रद्धत्ते तस्य सप्तप्रकृत्युपशमादिकं विद्यते स तु भव्यो भवति । यस्य पुनः पूर्वोक्तशुद्धात्मस्वरूपमुपादेयं नास्ति तस्य सप्तप्रकृत्युपशमादिकं न विद्यते इति ज्ञातव्यं । मिथ्यादृष्टिरसौ तेन कारणेनाभव्यजीवस्य मिथ्यात्वादिसप्तप्रकृत्युपशमादिकं कदाचिदपि न संभवति इति भावार्थः । किं च निर्विकल्पसमाधिरूपनिश्चये स्थित्वा व्यवहारस्त्याज्यः, किं तु तस्यास्त्रिगुप्तावस्थायां व्यवहारः स्वयमेव नास्तीति तात्पर्यार्थः। एवं निश्चयनयेन व्यवहारः प्रतिषिद्ध इति कथनरूपेण षट्सूत्रैः पंचमं स्थलं गतं । अथाहारविषये सरसविरसमानापमानादिचिंतारूपरागद्वेषकारणाभावादाहारग्रहणकृतो ज्ञानिनां बंधो नास्ति, इति कथयति आत्मख्याति:-आचारादिशब्दश्रुतं ज्ञानस्याश्रयभूतत्वात् ज्ञानं, जीवादयो नवपदार्था दर्शनस्याश्रयत्वाद्दर्शनं, षट्जीवनिकायश्चारित्रस्याश्रयत्वात् चारित्रं, व्यवहारः । शुद्ध आत्मा ज्ञानाश्रयत्वाद्ज्ञानं, शुद्ध आत्मा दर्शनाश्रयत्वाद्दर्शनं, शुद्ध आत्मा चारित्रामयत्वाच्चारित्रमिति निश्चयः । तत्राचारादीनां ज्ञानाश्रयत्वस्यानैकांतिकत्वाद् व्यवहारनयः प्रतिषेध्यः । निश्चयनयस्तु शुद्धस्यात्मनो ज्ञानाद्याश्रयत्वस्यैकांतिकत्वात् तत्प्रतिषेधकः । तथाहि- नाचारादिशब्दश्रुतं, एकांतेन ज्ञानस्याश्रयः, तत्सद्भावेप्यभव्यानां शुद्धात्माभावेन ज्ञानस्याभावात् । न जीवादयः पदार्था दर्शनस्याश्रयाः तत्सद्भावेप्यभव्यानां शुद्धात्माभावेन दर्शनस्याभावात् । न षद्जीवनिकायः चारित्रस्याश्रयस्तत्सद्भावेप्यभव्यानां शुद्धात्माभावेन चारित्रस्याभावात् । शुद्ध आत्मैव ज्ञानस्याश्रयः, आचारादिशब्दश्रुतसद्भावेऽसद्भावे वा तत्सद्भावेनैव ज्ञानस्य सद्भावात् । शुद्ध आत्मैव दर्शनस्याश्रयः, जीवादिपदार्थसद्भावेऽसद्भावे वा तत्सद्भावेनैव दर्शनस्य सद्भावात् । शुद्ध आत्मैव चारित्रस्याश्रयः षड्जीवनिकायसद्भावेऽसद्धावे वा तत्सद्भावेनैव चारित्रस्य सद्भावात् । रागादयो बंधनिदानमुक्तास्ते शुद्धचिन्मात्रमहोऽतिरिक्ताः ' आत्मा परो वा किमु तन्निमित्तमिति प्रणुन्ना पुनरेवमाहुः ॥१६॥ आधाकम्मादीया पुग्गलदव्वस्स जे इमे दोसा । ........ कह ते कुव्वदि णाणी परदब्वगुणा हु जे णिचं ॥३०२॥ Page #150 -------------------------------------------------------------------------- ________________ १४५ समयप्रामृतं । आधाकम्मादीया पुग्गलदव्वस्स जे इमे दोसा। कहमणुमण्णदि अण्णेण कीरमाणा परस्स गुणा ॥३०॥ आषाकमाधाः पद्लद्रव्यस्य ये इमे दोषाः। कथं तान् करोति ज्ञानी परद्रव्यगुणाः खल्ल ये नित्यं ॥३०२।। आषाकर्माचाः पुद्गलद्रव्यस्य ये इमे दोषाः। कथमनुमन्यते अन्येन क्रियमाणाः परस्य गुणाः ॥३३॥ तात्पर्यवत्तिः- स्वयं पाकेनोत्पन्न आहार आधाकर्मशब्देनाच्यते तत्प्रभृतिव्याख्यानं करोति-भाधाकर्माद्या ये इमे दोषाः, कथंभूताः ! शुद्धात्मनः सकाशात्परस्याभिन्नस्याहाररूपपुद्गलद्रव्यस्य गुणाः । पुनरपि कथंभूताः ! तस्यैवाहारपुद्गलस्य पचनपाचनादिक्रियारूपाः तान्निश्चयेन कथं करोतीति ज्ञानीति प्रथमगाथार्थः । अनुमोदयति वा कथमिति द्वितीय गाथार्थः परेण गृहस्थेन क्रियमाणान् , न कथमपि। कस्मात् ! निर्विकल्पसमाधौ सति आहारविषयममोवचनकायकृतकारितानुमननाभावात् इत्याधाकर्मव्याख्यानरूपण गाथाद्वयं गतं । माहारग्रहणात्पूर्व तस्य पात्रस्य निमित्तं यत्किमप्यशनपानादिकं कृतं तदौपदेशिकं भण्यते तेनापदेशिकेन सह तदेवाधाकर्म पुनरपि गाथाद्वयेन कथ्यते आधाकम्मं उद्देसियं च पोग्गलमयं इमं दव्वं । कह तं मम होदि कदं जं णिचंमवेदणं वुत्तं ॥३०४॥ ओघाकम्मं उद्देसियं च पोग्गलमयं इमं दव्वं । कह तं मम कारविदं जं णिचमचेदणं वुत्तं ॥३.५॥ आधाकौंपदेशिकं च पुद्गलमयमेतद्व्यं । कथं तन्मम भवति कृतं यनित्यपचेतनमुक्तं ॥३०४॥ आधाकर्मोपदेशिकं च पुद्गलमयमेतद्रव्यं । कथं तन्मम कारितं यनित्यमचेतनमुक्तं ॥३०५॥ तात्पर्यवृत्तिः- यदिदमाहारकपुद्गलद्रव्यमाधाकर्मरूपमौपदेशिकं च चेतनशुद्धात्मद्रव्यपृथक्त्वेन नित्यमेवाचेतनं भणितं तत्कथं मया कृतं भवति कारितं वा कथं भवति ! न कथमपि । कस्माद्धेतोः ! निश्वयरत्नत्रयलक्षणभेदज्ञाने सति आहारविषये मनोवचनकायकृतकारितानुमानाभावात् । इत्यौपदेशिकन्याख्यानमुख्यत्वेन च गाथाद्वयं गतं । अयमत्राभिम्रायः पश्चात्पूर्व संप्रतिकाले वा योग्याहारादिविषये मनोवचनकायकृतकारितानुमतरूपैनवभिर्विकल्पैः शुद्धास्तेषां परकृताहारादिविषये बंधो नास्ति यदि पुनः परकीयपारिणामेन बंधो भवति तर्हि कापि काले निर्वाणं नास्ति । तथा चोक्तं । णावकोडिकम्मसुद्धो पच्छापुरदोय संपदियकाले। परसुहदुक्खणिमित्तं वज्झदि जदि णत्थि णिव्वाणं ॥ एवं ज्ञानिनामाहारग्रहणकृतो बधो नास्तीति व्याख्यानमुख्यत्वेन सूत्रचतुष्टयेन षष्टस्थलं गतं । अथ रागादयः किळ कर्मबंधकारणं भणिताः, तेषां पुनः किं कारणं ! इति पृष्टे प्रत्युत्तरमाह, एतद्दार्थातगाथाचतुष्टयमत्र स्थलें नोपसन्धमात्मख्यातौ । स्थलांतरे प्रतियुग्मांतगाथाद्वयमुलग्धं तवं तथैव विलोबिध्यते, भात्मख्यातौं। Page #151 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायांजह फलियमणि विसुद्धो ण सयं परिणमदि रागमादीहि । राइजदि अण्णेहिं दु सो रत्तादियेहिं दव्वेहिं ॥३.६॥ एवं णाणी सुद्धो ण सयं परिणमदि रागमादीहिं । राइजदि अण्णेहिं दु सो रागादीहिं दोसेहिं ॥३०७॥ यथा स्फटिकमणिः शुद्धो न स्वयं परिणमते रागायैः । रज्यतेऽन्यैस्तु स रक्तादिभिर्द्रव्यैः ॥३०६॥ एवं ज्ञानी शुद्धो न खयं परिणमते रागाद्यैः। रज्यतेऽन्यैस्तु स रागादिभिर्दोषैः ॥३०७॥ तात्पर्यवृत्तिः--यथा स्फदिकमणिविशुद्धो बहिरुपाधिं विना स्वयं रागादिभावेन न परिणमति प. श्चात् स एव रज्यते, कैः ? जपापुष्पादिबहिर्भूतान्यद्रव्यैरिति दृष्टांतो गतः । एवमनेन दृष्टांतेन ज्ञानी शुद्धोभवन् स्वयं निरुपाधिचिच्चमत्कारस्वभावेन कृत्वा जपापुष्पस्थानीयकर्मोदयरूपपरोपाधिं विना रागादिविभाचैन परिणमति पश्चात्सहजस्वच्छभावच्युतः सन् स एव रज्यते, कैः ? कर्मोदयनिमित्तैरागादिदोषैः परिणामैरिति तेन ज्ञायते कर्मोदयजनिता रागादयो न तु ज्ञानिजीवजनिता इति दाटतो गतः । ___एवं चिदानंदैकलक्षणं स्वस्थभावं जानन् ज्ञानी रागादीन्न करोति ततो नवतररागाद्युत्पत्तिकारणभूतकर्मणां कर्ता न भवतीति कथयति आत्मख्याति:-यथा खलु केवलः स्फटिकोपलः परिणामस्वभावत्वे सत्यपि स्वस्थ शुद्धस्वभावस्वेन रागादिनिमित्तत्वाभावात् रागादिभिः स्वयं न परिणमते, परद्रव्येणैव स्वयं रागादिभावापन्नतया स्वस्य रागादिनिमित्तभूतेन शुद्धस्वभावात्प्रच्यवमान एव रागादिभिः परिणम्यते । तथा केवलः किलात्मा परिणामस्वभावत्वे सत्यपि स्वस्य शुद्धस्वभावत्वेन रागादिनिमित्तत्वाभावात् रागादिभिः स्वयं न परिणमते परद्रव्येणैव स्वयं रागादिभावापन्नतया स्वस्य रागादिनिमित्तभूतेन शुद्धस्वभावात्प्रच्यवमान एव रागादिभिः परिणम्येत, इति तावद्वस्तुस्वभावः। न जातु रागादिनिमित्तभावमात्मात्मनो याति यथार्ककांतः तस्मिन्निमित्तं परसंग एव वस्तुस्वभावोयमुदेति तावत् । १६९ । इति वस्तुस्वभावं स्वं ज्ञानी जानाति तेन सः रागादीन्नात्मनः कुर्वन्नालो भवति कारकः ॥ १७० ॥ णवि रागदोसमोहं कुव्वदि णाणी कसायभावं वा । सयमप्पणो ण सो तेण कारगो तेसि भावाणं ॥३०॥ नापि रागद्वेषमोहं करोति ज्ञानी कषायभावं वा। खयमेवात्मनो न स तेन कारकस्तेषां भावानां ॥३०८॥ तात्पर्यवृत्तिः–णवि रागदोसमोहं कुब्वदि गाणी कसायभावं वा ज्ञांनी न करोति । कान् ! रागादिदोषरहितशुद्धात्मस्वभावात्प्रथग्भूतान् रागद्वेषमोहान् क्रोधादिकषायभावं वा । कथं न करोति ! सयं स्वयं शुद्धात्मभावेन कर्मोदयसहकारिकारणं विना । कस्य संबंधित्वेन ? अप्पणो आत्मनः ण सो तेण कारगो तेसिं भावाणं तेन कारणेन स तत्त्वज्ञानी तेषां रागादिभावानां कर्ता न भवतीति ... अज्ञानी जीवः शुद्धस्वभावमात्मानमजानन् रागादीन् करोति ततः स भावरागादिजनकनवतरकर्मणां कर्ता भवतीत्युपदिशति Page #152 -------------------------------------------------------------------------- ________________ समयप्रामृतं। आत्मख्याति:- यथोक्तवस्तुस्वभावं जानन् ज्ञानी शुद्धस्वभावादेव न प्रध्यवते, ततो रागद्वेषमोहादिभावैः स्वयं न परिणमते न परेणापि परिणम्यते, ततष्टंकोल्कीणकनायकस्वभावो ज्ञानी रागद्वेषमोहादिभावानामकतैवेति नियमः। इति वस्तुस्वभावं स्वं नाज्ञानी वेत्ति तेन सः । रागादीनात्मनः कुर्यादतो भवति कारकः ॥ १७१ ॥ रागाह्मय दोसहिय कसायकम्मेसु चेव जे भावा । तेहिं दु परिणममाणो रायादी बंधदि पुणोवि ॥३०९॥ रागे दोषे च कषायकर्मसु चैव ये भावाः। तैस्तु परिणममानो रागादीन् बध्नाति पुनरपि ॥३०९॥ . तात्पर्यवृत्तिः-रागप्रिय दोसह्मिय कसायकम्मसु चेव जे भावा रायद्वेषकषायरूपे द्रव्यकर्मण्युदयागते सति स्वस्थभावच्युतस्य तदुदयनिमित्तन ये जीवगतरागादिभावाः परिणामा भवंति । हिंदु परिणममाणो रागादी बंधदि पुणोवि तैः कृत्वा रागादिरहमित्यभेदेनाहमिति प्रत्ययेन कृत्वा परिणमन् सन् पुनरपि भाविरागादिपरिणामोत्पादकानि द्रव्यकर्माणि बध्नाति ततस्तेषां रागादीनामज्ञानी जीवः कर्ता भवतीति । तमेवार्थ दृढयति आत्मख्यातिः-यथोक्तं. वस्तुस्वभावमाजानंस्त्वज्ञानी शुद्धस्वभावादासंसारं प्रच्युत एव । ततः कर्मविपाकप्रभवैरागद्वेषमोहादिभावैः परिणममानोऽज्ञानी रागद्वेषमोहादिभावानां कर्ता भवन् बध्यत एवेति प्रतिनियमः । ततः स्थितमतत् रागझिय दोसझिय कसायकम्मेसु चेव जे भावा । ते मम दु परिणमंतो रागादी बंधदे चेदा ॥३१॥ रागे च दोषे च कषायकर्मसु चैव ये भावाः।। तन्मम तु परिणममानो रागादीन् बध्नाति चेतयिता ॥३१०॥ तात्पर्यवृत्ति:--पूर्वगाथायामहं रागादील्यभेदन परिणमन् सन् तानि रागादिभावोत्पादकानि नवतरद्रव्यकर्माणि बध्नातीत्युक्तं । अत्र तु शुद्धात्मभावनारहितत्वेन मदीयो रागः इति संबंधन परिणमन् सन् तानि नवतरद्रव्यकर्माणि बध्नाति, इति विशेषः । किं च विस्तरः-यत्र मोहरागद्वेषा व्याख्यायते तत्र मोहशब्देन दर्शनमोहः; मिथ्यात्वादिजनक इति ज्ञातव्यं । रागद्वेषशद्धेन तु क्रोधादिकषायोत्पादकश्चरित्रमोहो ज्ञातव्यः । अत्राह शिष्यः-मोहशब्देन तु मिथ्यात्वादिजनको दर्शनमाहो भवतु दोषो नास्ति द्वेषशब्देन चारित्रमोह इति कथं भण्यते ! इति पूर्वपक्षे परिहारं ददाति-कषायवेदनीयाभिधानचारित्रमोहमध्ये क्रोधमानौ द्वेषांगौ द्वेषोत्पादकत्वात्, मायालोभी रागांगौ रागजनकत्वात्, नोकषायवेदनीयसंज्ञाचारित्रमोहमध्ये स्त्रीपुन्नपुंसकवेदत्रयहास्यरतयः पंच नोकषायाः रागांगा रागोत्पादकत्वात् इत्यनेनाभिप्रायेण मोहशब्देन दर्शनमोहो मिथ्यात्वं भण्यते रागद्वेषमोहशब्देन पुनश्चारित्रमोह इति सर्वत्र ज्ञातव्यं । एवं कर्मबंधकारणं रागादयः, रागादीनां च कारणं निश्चयेन कर्मोदयो न च ज्ञानी जीव इति व्याख्यानमुख्यत्वेन सप्तमस्थले गाथापंचकं गतं । : अथ कथं सम्यग्ज्ञानी जीवो रागादीनामकारक इति पृष्टे प्रत्युत्तरमाह पविनियम इत्यपि पाठांतरं । २ मामख्याती तु तेहिं दु परिणममाणो इत्येव पाठः । Page #153 -------------------------------------------------------------------------- ________________ १४४ सनातनजेनग्रंथमालायांआत्मख्याति:-य इमे किलाज्ञानिनः पुगलकर्मनिमित्ता रागद्वेषमोहादिपरिणामास्त एव भूयोराग' देषमोहादिपरिणामनिमित्तस्य पुद्गलकर्मणो बंधहेतुरिति । कथमात्मा रागादीनामकारकः ! इति चेत् अपडिक्कमणं दुविहं अपञ्चक्खाणं तहेव विण्णेयं । एदेणुवदेसेण दु अकारगो वण्णिदो चेदा ॥३१॥ अपडिकमणं दुविहं दव्वे भावे अपच्चखाणंपि। एदेणुवदेसेण दु अकारगो वण्णिदो चेदा ॥३१२॥ जोव ण पञ्चक्खाणं अपडिकमणं च दवभावाणं । कुव्वदि आदा ताव दु कत्ता सो होदि णादव्वं॥३१॥त्रिकलं अप्रतिक्रमणं द्विविधमप्रत्याख्यानं तथैव विज्ञेयं । एतेनोपदेशेनाकारको वर्णितश्चेतयिता ॥३११॥ अप्रतिक्रमणं द्विविधं द्रव्ये भावे तथैवापत्याख्यानं । ऐतेनोपदेशेनाकारको वर्णितश्चेतयिता ॥३१२॥ यावन प्रत्याख्यानमप्रतिक्रमणं च द्रव्य भावयोः। करोत्यात्मा तावत्तु कर्ता स भवति ज्ञातव्यः ॥३१॥ तात्पर्यवृत्तिः- अपडिकमणं दुविहं अपञ्चक्खाणं तहेव विष्णेयं पूर्वानुभूतविषयानुभवरागादिस्मरणरूपमप्रतिक्रमणं द्विविधं, भाविरागादिविषयाकांक्षारूपमप्रत्याख्यानमपि तथैव विविध एदेणुघदेसेण दु अकारगो वण्णिदो चेदा एतेनोपदेशेन परमागमेन ज्ञायत किं ज्ञायते ! चेतयितात्मा हि द्विप्रकाराप्रतिक्रमणेन द्विप्रकाराप्रत्याख्यानेन च रहितत्वात् कर्मणामकर्ता भवतीति । अपटिकमणं दुवि दव्वे भावे अपञ्चखाणंपि द्रव्यभावरूपेण प्रतिक्रमणं प्रत्याख्यानं च द्विविधं भवति एदेणुब. देसेणदु अकारगो बण्णिदो चेदा तदेव बंधकारणमित्युपदेश आगमः तेनोपदेशेन ज्ञायते, किं ज्ञायते ! द्रव्यभावरूपेणाप्रत्याख्यानेनाप्रतिक्रमणेन च परिणतः शुद्धात्मभावनाच्युतो योऽसावज्ञानी जीवः स कर्मणां कारकः । तद्विपरीतोऽज्ञानी चेतयिता पुनरकारक इति। तमेवार्थ दृढयति-जाव ण पञ्चक्खाणं यावत्कालं द्रव्यभावरूपं, निर्विकारस्वसंवित्तिलक्षणं प्रत्याख्यानं नास्ति अपडिक्कमणं तु दवभावाणं कुचदि यावत्कालं द्रव्यभावरूपमप्रतिक्रमणं च करोति आदा तावदु कत्ता सो होदि णादवो तावत्कालं परमसमाधेरभावात स चाज्ञानी जीवः कर्मणां कारको भवतीति ज्ञातव्यः । किं चाप्रतिक्रमणमप्रत्याख्यानं च कर्मणां कर्तृ, न च ज्ञानी जीवः । यदि स एव कर्ता भवति ! तदा सर्वदैव कर्तृत्वमेव । कस्मात् ! इति चेत् जविस्य सदैव विद्यमानत्वात् इति । अप्रतिक्रमणमप्रत्याख्यानं पुनरनित्यं रागादिविकल्परूपं, तच्च स्वस्थभावच्युतानां भवति न सर्वदैव । तेन किं सिद्धं ! यदा स्वस्थभावच्युतः सन् अप्रतिक्रमणाप्रत्याख्यानाभ्यां परिणमति तदा कर्मणां कारको भवति । स्वस्थभावे पुनरकारकः इति भावार्थः । एवमज्ञानिजीवपरिणतिरूपमप्रतिक्रमणमत्याख्यानं च बंधकारणं नच ज्ञानी जीवः इति व्याख्यानमुख्यत्वेनाष्टमस्थले गाथात्रयं गतं । ... अथ निर्विकल्पसमाधिरूपनिश्चयप्रतिक्रमणनिश्चयप्रत्याख्यानरहितानां जीवानां योऽसौ बंधो भणितः १ आत्मस्बातो जावं अपाडकमण अपचक्खंणि च दन्वभावाणं, इति पाठः । Page #154 -------------------------------------------------------------------------- ________________ समयप्राभूतं । .. १४९ स च हेयस्याशेषस्य नारकादिदुःखस्य कारणत्वाद्धेयः । तस्य बंधस्य विनाशार्थ विशेषभावनामाहः सहजशुद्धज्ञानानंदैकस्वभावोऽहं, निर्विकल्पोहं, उदीसीनोह, निरंजननिजशुद्धात्मसम्यक्श्रद्धानज्ञानानुष्ठानरूपनिश्चयरत्नत्रयात्मकनिर्विकल्पसमाधिसंजातवीतरागसहजानंदरूपसुखानुभूतिमात्रलक्षणेन स्वसंवेदनज्ञानेन संवेद्यो गम्यः प्राप्यः, भरितावस्थोऽहं, राग-द्वेष-मोह-क्रोध-मान-माया-लोभ-पंचेंद्रियविषयव्यापार, मनोवचनकायव्यापार-भावकर्म-द्रव्यकर्म-नोकर्म-ख्याति-पूजा-लाभ-दृष्टश्रुतानुभूतभोगाकांक्षांरूपनिदानमायामिथ्याशल्पत्रयादिसर्वविभावपरिणामरहितः शून्योऽहं, जगत्रये कालत्रयेपि मनोवचनकायैः कृतकारितानुमतैश्च शुद्धनिश्चयेन, तथा सर्वे जीवाः इति निरंतरं भावना कर्तव्या। । इति समयसारव्याख्यायां शुद्धात्मानुभूतिलक्षणायां तात्पर्यवृत्तौ पूर्वोक्तक्रमेण जहणाम कोवि पुरिसो इत्यादि मिध्यादृष्टिसदृष्टिव्याख्यानरूपेण गाथादशकं । निश्चयहिंसाकथनरूपेण गाथासप्तकं, निश्चयेन रागादिविकल्प एव हिंसेति कथनरूषेण सूत्रषट्कं, अव्रतव्रतानि पापपुण्यबंधकारणानीत्यादिकथनेन गाथापंचदश, निश्चयनयेन स्थित्वा व्यवहारस्त्याज्य इति मुख्यत्वेन गाथाषटू, पिंडशुद्धिमुख्यत्वेन सूत्रचतुष्टयं । निश्चयनयेन रागादयः कर्मोदयजनिता इति कथनमुख्यत्वेन सूत्रपंचकं, निश्चयनयेनाप्रतिक्रमणमप्रत्याख्यामं च बंधकारणमिति प्रतिपादनरूपेण गाथात्रयमित्येवं समुदायेन षट्पंचाशद्गाथाभिरष्टभिरंतराधिकारैः, अष्टमो बंधाधिकारः समाप्तः।। आवख्याति-आत्मा अनात्मनां रागादीनामकारक एव, अप्रतिक्रमणाप्रत्याख्यानयोद्वैविध्योपदेशान्यथानुपपत्तेः । यः खलु, अप्रतिक्रमणाप्रत्याख्यानयोर्दव्यभावभेदेन द्विविधोपदेशः स द्रव्यभाषयोनिमित्तनैमित्तिकभाब प्रथयनकर्तृत्वमात्मनो ज्ञापयति । तत एतत् स्थितं परद्रव्यं निमित्तं नैमित्तिका आस्मनो रागादिभावाः । यद्येवं नेष्येत तदा द्रव्याप्रतिक्रमणाप्रत्याख्यानयोः कर्तृत्वनिमित्तत्वोपदेशोऽनर्थक एव स्यात् तदनर्थकत्वेत्वेकस्यैवात्मनो रागादिभावनिमित्तत्वापत्तो नित्यकर्तृत्वानुषंगान्मोक्षाभाव: प्रसजेच ततः परद्रव्यमेवात्मनो रागादिभावानिमित्तमस्तु तथा सति तु रागादीनामकारक एवात्मा, तथापि यावनिमित्तभूतं द्रव्यं न प्रतिक्रामति न प्रत्याचष्टे च तावन्नैमित्तिकभूतं भावं न प्रतिक्रामति न प्रत्याचष्टे च यावत्तु भावं न प्रतिक्रामति न प्रत्याचष्टे तावत्कर्तेव स्यात् । यदैव निमित्तभूतं द्रव्यं प्रतिक्रामति प्रत्याचष्टे च तदैव नैमित्तिकभूतं भावं प्रतिक्रामति प्रत्याचष्टे च । यदा तु भावं प्रतिक्रामति प्रत्याचष्टे च तदा साक्षादकतैव स्यात् । द्रव्यभावयोनिमित्तनैमित्तिकभावोदाहरणं चैतत् । आधाकम्मादीया पुगालदवस्स जे इमे दोसा । कह ते कुव्वदि णाणी परदव्वगुणादु जे णिचं ॥३१॥ आधाकम्मं उद्देसियं च पोग्गलमयं इमं दव्वं ।। कह तं मम होदि कयं जं णिचमचेदणं वुत्तं ॥३१५॥ अधःकर्माद्याः पुद्गलद्रव्यस्य य इमे दोषाः। कथं तत्करोति ज्ञानी परद्रव्यगुणास्तु ये नित्यं ॥३१॥ अधः कोदेशिकं च पुदलमवमिदं द्रव्यं । कथं तम्मम भवति कृतं यानित्यमचेतनमुक्तं ॥३१५॥ १ गाथाद्वयस्यास तात्पर्यवृत्तिः पूर्व निगदिता । Page #155 -------------------------------------------------------------------------- ________________ सनातनजनप्रथमालायाआत्मख्याति- यथाधःकर्मनिष्पन्नमुद्देशनिष्पन्नं च पुद्गलद्रव्यनिमित्तभूतमप्रत्याचक्षाणो नैमिः त्तिकभूतं बंधसाधकं भावं न प्रत्याचष्टे तथा समस्तमपि परद्रव्यमप्रत्याचक्षाणस्तन्निमित्तकं भावं न प्रत्याचष्टे । यथा चाधःकर्मादीन् पुद्गलद्रव्यदोषान्न नाम करोत्यात्मा परद्रव्यपरिणामत्वे सति, आत्मकार्यत्वाभावात् ततोऽधःकर्मोद्देशिकं च पुद्गलद्रव्यं न मम कार्य नित्यमचेतनत्वे सति मत्कार्यत्वाभावात् इति तत्त्वज्ञानपूर्वकं पुद्गलद्रव्यं निमित्तभूतं प्रत्याचक्षाणो नैमित्तिकभूतं बंधसाधकं भावं प्रत्याचष्टे तथा समस्तमपि परद्रव्यं प्रत्याचक्षाणस्तन्निमित्तं भावं प्रत्याचष्टे एवं द्रब्यभावयोरस्ति निमित्तनैमित्तिकभावः । इत्यालोच्य विवेच्य तत्किल परद्रव्यं समग्र वलात्तन्मूलं बहुभावसंततिमिमामुद्धर्तुकामः समं ॥ आत्मानं समुपैति निर्भरवहत्पूर्णैकसंचिद्युतं येनोन्मूलितबंध एष भगवानात्मात्मनि स्फूर्जति ॥१७२॥ रागादीनामुदयमदयं दारयत्कारणानां कार्य बंधं विविधमधुना सद्य एव प्रणुद्य ॥ ज्ञानज्योतिः क्षपिततिमिरं साधु सन्नद्धमेतत्तद्वद्यद्वत्प्रसरमपरः कोऽपि नास्या वृणोति ॥१७॥ - इति बंधो निष्कांतः। इति समयसारव्याख्यायामात्मख्यातौ सप्तमोऽकः । तात्पर्यवृत्तिः-तत्रैवं सति पात्रस्थानीयशुद्धात्मनः सकाशात्प्रथग्भूत्वा श्रृंगारस्थानीयबंधो निष्क्रांतः । अथ प्रविशति मोक्ष:-- जहणाम कोवि पुरिसो इत्यादि गाथामादिं कृत्वा यथाक्रमेण द्वाविंशतिगाथापयंत मोक्षपदार्थ प्याख्यानं करोति-तत्रादौ मोक्षपदार्थस्य संक्षपव्याख्यानरूपेण गाथासप्तकं, तदनंतर मोक्षकारणभूतभदविज्ञानसंक्षेपसूचनार्थ बंधाणं च सहावं इत्यादि सूत्रचतुष्टयं अतः परं तस्यैव भेदज्ञानस्य विशेषविवरणार्थ पण्णाए घेत्तव्वो इत्यादि सूत्रपंचकं तदनंतरं वीतरागचारित्रसहितस्य. द्रव्यप्रतिक्रमणादिकं विषकुंभः सरागचारित्रस्यामृतकुंभ इति युक्तिसूचनमुख्यत्वेन ते यादी अवरोहे इत्यादि सूत्रषटुं कथयतीति द्वाविंशतिगाथाभिः स्थलचतुष्टये मोक्षाधिकारे समुदायपातनिका । तद्यथा विशिष्टभेदज्ञानावष्टंभेन बंधात्मनोः प्रथक्करणं मोक्ष इति प्रतिपादयतिआत्मख्यातिः-अथ प्रविशति मोक्षः । द्विधाकृत्य प्रज्ञाक्रकचदलनाद्वंधपुरुषौ नयन्मोक्षं साक्षात्पुरुषमुपलभैकनियतं । इदानीमुन्मजन् सहजपरमानंदसरसं परं पूर्ण ज्ञानं कृतसकलकृत्यं विजयते ॥१७४॥ जह णाम कोवि पुरिसो वंधणियमि चिरकालपडिवद्धो। तिव्वं मंदसहावं कालं च वियाणदे तस्स ॥३१६॥ जइ णवि कुव्वदि छेदं णे मुंचदि तेण कम्मवंधेण । कालेण वहुएणवि ण सो णरो पावदि विमोक्खं ॥३१॥ इय कम्मवंधणाणं पयेसपयडिहिदीयअणुभागं । जाणंतोवि ण मुंचदि मुंचदि सव्वेज जदि सुद्धो ॥३१॥ यथा नाम कश्चित्पुरुषो बंधनके चिरकालप्रतिबद्धः । तीव्र मंदखभावं कालं च विजानाति तस्य ॥३१६॥ १ मुंचए तेण बंधणवसोसं पाठोऽयमात्मख्याती। Page #156 -------------------------------------------------------------------------- ________________ समयप्राभृतं । यदि नापि करोति छेदं न मुध्यते तेन कर्मबंधेन । कालेन बहुकेनापि न स नरः प्राप्नोति विमोक्षं ॥ ३१७॥ इति कर्मबंधनां प्रदेशस्थितिप्रकृतिमेवमनुभागं । जानन्नपि न मुंचति मुंचति सर्वान् यदिविशुद्धः || ३१८ ॥ तात्यर्पवृत्तिः:- जह णाम इत्यदि यथा कश्चित्पुरुषः बंधन के चिरकालबद्धस्तिष्ठति तस्य बंधस्य सीव्रमंदस्वभावं जानाति दिवसमासादिकालं च विजानाति इति प्रथमगाथा गता । जानन्नपि यदि बंघच्छेदं न करोति तदा न मुच्यते तेन कर्मबंधविशेषेणामुच्यमानः सन् पुरुषो बहुतरकालेऽपि मोक्षं न लभते इति गाथाद्वयेन दृष्टांतोगतः । अथ इय कम्मबंधणाणं पदेसपयडिट्ठिदीय अणुभागं जाणतोविण मुंचदि एवं ज्ञानावरणादिमूलोत्तरप्रकृतिभेदभिन्नकर्मबंधनानां प्रदेशं प्रकृतिस्थिती, अनुभागं च जानान्नति कर्मणा न मुंचति । चदि सब्वे जदि विसुद्धो यदा मिथ्यात्वरागादिरहितो भवति तदाऽनंतज्ञानादिगुणात्मकपरमात्मस्वरूपे स्थितः सर्वान्कर्मबंधान् मुंचति । अथवा पाठांतरं मुंचदि सच्चे जदि स बंधे मुच्यते कर्मणा यदि किंसिस्यति छिनत्ति कान् ? सर्वबंधान् । अनेन व्याख्यानेन ये प्रकृत्यादिबधपरिज्ञानमात्रेण संतुष्टास्ते प्रतिबोध्यत । कथं ? इति चेत् वंधपरिज्ञानमात्रेण स्वरूपोपलब्धिरूपवीतरागचारित्ररहितानां स्वर्गादिसुखनिमित्तभूतः पुण्यबंधो भवति न च मोक्ष इति दाष्टतगाथा गता । एतेन व्याख्यानेन कर्मबंधप्रपंचरचनाविषये चिंतामात्रपरिज्ञानेन संतुष्टा निराक्रियंत । आत्मख्यातिः—आत्मबंधयोद्विधाकरणं मोक्षः, बंधस्वरूपज्ञानमात्रं तद्धेतुरित्येके तदसत् न कर्मबद्धस्य बंधस्वरूपज्ञानमात्रं मोक्षहेतुः अहेतुत्वात् निगडादिबद्धस्य बंधस्वरूपज्ञानमात्रवत् एतेन कर्मबंधप्रपंच रचनापरिज्ञानमात्रसंतुष्टा उत्थाप्यंते - जह वंधे चिंतंतो वंधणवद्धो ण पावदि विमोक्खं । तह बंधे चिंततो जीवोवि ण पावदि विमोक्खं ॥३१९॥ १५१ यथा बंधं चिंतयन् बंधनबद्धो न प्राप्नोति विमोक्षं । तथा बंधं चिंतयन् जीवोऽपि न प्राप्नोति विमोक्षं ॥३१९॥ तात्पर्यवृत्तिः–जह बंधे चिंततो बंधणवद्धो ण पावदि विमोक्स्खं यथा कश्चित्पुरुषो बंधंनबद्धो बंधं चिंतयमानो मोक्षं न लभते तह बंधं चिंततो जीवोवि ण पावदि विमोक्खं तथा जीवो - ऽपि प्रकृतिस्थित्यनुभागप्रदेशबंध चितयमानः स्वशुद्धात्मावाप्तिलक्षणं मोक्षं न लभते । किं च समस्त शुभाशुभबहिर्द्रव्यालंबनरहितचिदानंदैकशुद्धात्मावलंबनस्खरूपवीतरागधर्मध्यानशुक्लध्यानरहितो जीवः, बंधप्रपंचरचनाचिंतारूपसरागधर्मध्यानशुभोपयोगन स्वर्गादिसुखकारणपुण्यबंधं लभते नच मोक्षमिति भावार्थः । I अथ कस्तर्हि मोक्षहेतुरिति प्रश्न प्रत्युत्तरं ददाति आत्मख्यातिः - बंधचिताप्रबंधो मोक्षहेतुरित्यन्ये तदप्यसत् न कर्मबद्धस्य बंधचिंताप्रबंधज्ञानमात्रं मोक्षहेतुरहेतुत्वात् निगडादिबद्धस्य बंधचिता प्रबंधवत् । एतेन कर्मबंधविषयचिंता प्रबंधात्मकविशुद्धधर्मध्यानांधबुद्धयो बोध्यंते । कस्तर्हि मोक्षहेतुः ? इति चेत् जह वंधे मुत्तूणय वंधणवद्धोद पावदि विमोक्खं । तह बंधे मुत्तूणय जीवो संपावदि विमोक्खं ॥ ३२० ॥ Page #157 -------------------------------------------------------------------------- ________________ १५२ सनातनजनग्रंथमालायांयथा बंधश्छित्वा च बंधवद्धस्तु पामोति विमोक्षं। . तथा बंधश्छित्वा च जीवः पामोति विमोक्षं ॥३२०॥ तात्पर्यवृत्तिः-जह बंधे मुत्तूणय बंधणवदीय पावदि विमोक्खं तह बंधे मुतणय जीवो संपावदि विषोक्खं यथा बंधनबद्धः कश्चित्पुरुषो रज्जुवंधं शृंखलाबंधं काष्ठनिगलबंधं वा कमपि बंधं छित्त्वा कमपि भित्त्वा कमपि मुक्त्वा स्वकीयविज्ञानपौरुषवलेन मोक्षं प्राप्नोति । तथा जीवोऽपि वीतरागनिर्विकल्पस्वसंवेदन ज्ञानयुद्धेन बंधं छित्त्वा द्विधाकृत्वा भित्त्वा विदार्य मुवत्वा छोटयित्वाच निजशुद्धात्मोपलंभस्वरूपमोक्षं प्राप्नोतीति । अत्राह शिष्यः प्राभृतग्रंथे यन्निर्विकल्पस्वसंवेदनज्ञानं भण्यते तन्न घटते कस्मात् । इति चेत् तदुच्यते-सत्तावलोकनरूपं चक्षुरादिदर्शनं यथा जैनमते निर्विकल्पं कथ्यत तथा बौद्धमते ज्ञानं निर्विकल्पं भण्यते परंतु तन्निर्विकल्पमपि विकल्पजनकं भवति । जैनमते तु विकल्पस्योत्पादकं भवत्येवं न किंतु स्वरूपेणैव सविकल्पमिति तथैव स्वपरप्रकाशकं चेति । तत्र परिहारः-कथंचित्सर्विकल्पमच कथं चिन्निर्विकल्पं च । तद्यथा यथा विषयानंदरूपं सरागस्वसंवेदनज्ञानं सरागसंवित्तिविकल्परूपेण सविकल्पमपि शेषानीहितसूक्ष्मविकल्पानां सद्भावेऽपि सति तेषां मुख्यत्वं नास्ति तेन कारणेन निर्विकल्पमपि भण्यते । तथापि स्वशुद्धात्मसंवित्तिरूपं वीतरागस्वसंवेदनज्ञानमपि स्वसंवित्त्याकारकविकल्पेन सविकल्पमपि बहिविषयानीहितसूक्ष्मविकल्पानां सद्धावेऽपि सति तेषां मुख्यत्वं नास्ति तेन कारणेन निर्विकल्पमपि भण्यते एत एवेहापूर्वस्वसंवित्त्याकारांतर्मुख्यप्रतिभासेऽपि बहिर्विषयानीहित सूक्ष्मविकल्पा अपि संति तत एवकारणात् स्वपरप्रकाशकं च सिद्धं इदं निर्विकल्पसविकल्पस्य । तथैव स्वपरप्रकाशकस्य च ज्ञानस्य च व्याख्यान यथागमाध्यात्मतर्कशास्त्रानुसारेण विशेषेण व्याख्यायते तदा महान् विस्तरो भवति संचाध्यास्मशास्त्रत्वान्न कृतः । एवं भोक्षपदार्थसंक्षेपसूचनार्थ प्रथमस्थले गाथासप्तकं गतं । अथ किमयमेव मोक्षमार्ग ! इति चेत् आत्मख्यातिः-कर्मबद्धस्य बंधच्छेदो मोक्षहेतुः, हेतुत्वात् निगडादिबद्धस्य बंधच्छेदवत् एतेन उभयेऽपि पूर्व आत्मबंधयोधिाकरणे व्यापार्यते । किमययेव मोक्षहेतुः ! इतिचेत् । वंधाणं च सहावं वियाणिदुं अप्पणो सहावं च । वंधे सु जोण रजदि सो कम्मविमुक्खणं कुणदि ॥३२१॥ बंधानां च स्वभावं विज्ञायात्मनः स्वभावं च । बंधेषु यो न रज्यते स कर्मविमोक्षणं करोति ॥३२१॥ तात्पर्यवृत्तिः-वंधाणं च सहावं बियाणिदुं भावबंधानां मिथ्यात्वरागादीनां स्वभावं ज्ञात्वा कथं ज्ञात्वा ! मिथ्यात्वस्वभावो हेयोपादेयविषये विपरीताभिनिवेशो भण्यते रागादीनां च स्वभावः पंचेंद्रियविषयेष्विष्टानिष्टपरिणाम इति । न केवलं बंधस्वभावं ज्ञात्वा अप्पणो सहावं च अनंतज्ञानादिस्वरूप शद्धात्मनः स्वभाव च ज्ञात्वा वंधेसु जो ण रजदि द्रव्यबंधहेतुभूतेषु मिथ्यात्वरागादिभावबंधेषु निर्विकल्पसमाधिवलेन यो म रज्यते सो कम्मविमोक्खणं कुणदि स कर्मविमोक्षणं करोति । ___ अथ केन कृत्वात्मबंधो द्विधा भवति ! इतिचेत् ! - आत्मख्याति:-य एव निर्विकारचैतन्यचमत्कारमात्रमात्मस्वभावं तद्विकारकारकं बंधानां च स्वभावं विज्ञाय बंधेम्यो विरमति स एव सकलकर्ममोक्षं कुर्यात् । एतेनात्मबंधयोद्विधाकरणस्य मोक्षहेतुत्वं नियम्यते। केनात्मबंधो द्विधा क्रियते ! इतिचेत् Page #158 -------------------------------------------------------------------------- ________________ समयप्रामृत ।... जीवो वंधोय तहा छिजंति सलक्खणेहिं णियएहिं । पण्णाछेदणएणदु छिण्णा णाणत्तमावण्णा ॥३२२॥ ___जीवो बंधश्च तथा छिद्यते स्वलक्षणाभ्यां नियताभ्यां । प्रज्ञाछेदकेन तु छिन्नौ नानात्वमापन्नौ ॥३२२॥ वात्पर्यवृत्तिः-जीवो वंधोय तहा छिज्जति सलक्खणेहिं णियएहिं यथा जीवस्तथा बंधश्चै तौ द्वौ छियेते पृथकक्रियेते, काभ्यां कृत्वा ? स्वलक्षणरूपाभ्यां निजकाभ्यां पण्णाछेदणएण दुछिण्णा. णाणत्तमावण्णा प्रज्ञाछेदनैकलक्षणेन भेदज्ञानेन छिन्नौ संतौ नानात्वमापन्नौ इति । तथाहि-जीवस्य लक्षणं शुद्धचैतन्यं भण्यते, बंधस्य लक्षणं मिथ्यात्वरागादिकं, ताभ्यां पृथक्कृतौ । केन ! करणभूतेन प्रज्ञाछेदनैकेन, शुद्धात्मानुभूतिलक्षणभेदज्ञानरूपा प्रज्ञैव छेत्र्येव छुरिका तया एवेत्यर्थः । छिन्नौ संतो. नानात्वमापन्नौ । आत्मबंधयोधिाकरणे किं साध्यं ? इति चेत्- . . भात्मख्यातिः-आत्मबंधयोधिाकरणे कार्ये कर्तुरात्मनः करणमीमांसायां निश्चयतः स्वतोभिन्नकरणासंभवात् भगवती प्रचैव छेदनात्मकं करणं । तया हि तौ छिन्नौ नानात्वमवश्यमेवापद्यते ततः प्रज्ञै. वात्मबंधयोधिाकरणं । ननु कथमात्मबंधौ चत्यचेतकभावेनात्यंतप्रत्यासत्तरेकीभूतौ भेदविज्ञानाभावा देकचेतकवव्यवढियमाणौ प्रजया छेत्तुं शक्यते ! नियतस्वलक्षणसूक्ष्मांतःसंधिसावधाननिपातनादिति बुध्येमहि । आत्मनो हि समस्तशेषद्रव्यासाधरणत्वाँच्चैतन्यं स्वलक्षणं तत्तु प्रवर्तमानं यद्यद्यदभिव्याप्य प्रवर्त्त ते निवर्तमानं च यद्यदुपादाय निवर्तते तत्तत्समस्तमपि सहप्रवृत्तं क्रमप्रवृत्तं था पर्यायजातमात्मेति लक्षणीयं तदेकलक्षणलक्ष्यत्वात्, समस्तसहक्रमप्रवृत्तानंतपर्यायाविनाभावित्वाच्चैतन्यस्य चिन्मात्र एवात्मा निश्चेतव्यः, इति यावत्। बंधस्य तु आत्मद्रव्यसाधरणा रागादयः स्वलक्षणं । नच रागादय आत्मद्रव्यासाधारणतां विभ्राणाः प्रतिभासंते नित्यमेव चैतन्यचमत्कारादतिरिक्तत्वेन प्रतिभासमानत्वात्। नच यावदेव समस्तस्वपर्यायव्यापि चैतन्यं प्रतिभाति ! रागादीनंतरेणापि चैतन्यस्यात्मलाभसंभावनात् । यत्तु रागादीनां चैतन्येन सहैवोत्प्लवनं तच्चेत्यचेतकभावप्रत्यासत्तेरेव नैकद्रव्यत्वात् , चेत्यमानस्तु रागादिरात्मनः प्रदीप्यमानो घटादिः प्रदीपस्य प्रदीपकतामिव चेतकतामेव प्रथयेन पुनारागादीनां, एवमपि तयोरत्यंतप्रत्यासत्त्या भेदसंभावनाभावनादिरस्त्येकत्वव्यामोहः स तु प्रश्यैव छिद्यत एव । आत्मबंधी द्विधाकृत्वा किं कर्तव्यं ! इति चेत् । प्रज्ञा छेत्री शितयं कथमपि निपुणैः पातिता सावधानैः । सूक्ष्मेंऽतःसंधिबंधे निपतति रभसादात्मकर्मोभयस्य ।। आत्मानं मग्नमंतःस्थिरविशदलसद्धाम्नि चैतन्यपूरे। बंधं चाज्ञानभावे नियमितमभितः कुर्वती भिन्नभिन्नौ ॥१७॥ जीवो वंधोय तहा छिजंति सलक्खणेहिं णियएहिं । वंधो छेदेदव्वो सुद्धो अप्पाय घेत्तब्वो ॥३२३॥ जीवो बंधश्च तथा छिद्यते स्वलक्षणाभ्यां नियताभ्यां । बंधश्छेत्तव्यः शुद्ध आत्मा गृहीतव्यः ॥३२३॥ तात्पर्यवृत्तिः-जीवो वंधोय तहा छिजति सलक्खणेहिं णियएहिं जीवबंधी द्वौ पूर्वोक्ताभ्यां स्वलक्षणाभ्यां निजकाभ्यां । छियेते पूर्ववत् । ततश्छेदानंतरं किं साध्यं ? वधो छेदेदव्यो विशुद्धज्ञानदर्शनस्वभावपरमात्मतत्त्वसम्यक्श्रद्धानज्ञानानुचरणरूपनिश्चयरत्नत्रयात्मकभेदज्ञानछुरिकया मिथ्यात्वरागादिरूपो बंधश्छेत्तव्यः शुद्धात्मनः सकाशात्पृथक्कर्तव्यः । सुद्धो अप्पाय घेत्तम्वो वीतरागसहजपरमानंदलक्षणः सुखसमरसीभावेन शुद्धात्मा च गृहीतव्य इत्यभिप्रायः । २० Page #159 -------------------------------------------------------------------------- ________________ सनातन जैनप्रथमालायां इदमेवात्मबंधयोर्द्विधाकरणे प्रयोजनं यद्वंधपरिहारेण शुद्धात्मोपादानमित्युपदिशति आत्मख्यातिः - आत्मबंधौ हि तावन्नियतस्वलक्षणविज्ञानेन सर्वथैव छेत्तव्यौ ततो रागादिलक्षण समस्त एव बंध निर्मोक्तव्यः, उपयोगलक्षणशुद्ध आत्मैव गृहीव्यः । एतदेव किलात्मबंध योर्द्विधाकरणस्य प्रयोजनं यद्वंधत्यागेन शुद्धात्मोपादानं । १५४ कह सो धिप्पदि अप्पा पण्णाए सो दु धिप्पदे अप्पा | जह पण्णाए विभत्तो तह पण्णा एव घित्तव्व ॥ ३२४॥ कथं स गृह्यते आत्मा प्रज्ञया सः तु गृह्यते आत्मा । यथा प्रज्ञया विभक्तस्तथा प्रज्ञयैव गृहीतव्यः || ३२४॥ तात्पर्यवृत्ति - कह सो घिप्पदि अप्पा कथं स गृह्यते आत्मा 'दृष्टिविषयो न भवत्यमूर्त्तत्वात्, इति प्रश्न : ? पण्णाए सो दु धिप्पदे अप्पा प्रज्ञाभेदज्ञानेन गृह्यते, इत्युत्तरं । कथं ! इति चेत जह पण्णा विभत्तो यथा पूर्वसूत्रे प्रज्ञया विभक्तः, रागादिभ्यः पृथक्कृतः तह पण्णाएव घित्तव्वो तथा प्रज्ञयैव गृहीतव्यः । ननु केन शुद्धोऽयमात्मा गृहीतव्यः ? प्रज्ञयैव शुद्धोयमात्मा गृहीतव्यः शुद्धस्यात्मनः स्वयमात्मानं गृण्हतोऽपि विभजत इव प्रज्ञककरणत्वात् । अतो यथा प्रज्ञया प्रविभक्तस्तथा प्रज्ञयैव गृहीतव्यः । कथमात्मा प्रज्ञया गृहीतव्य इति चेत् आत्मख्यातिः - ननु केन शुद्धोयमात्मा गृहीतव्यः ? प्रज्ञयैव शुद्धायमात्मा गृहीतव्यः, शुद्धस्यात्मनः स्वयमात्मानं गृण्हतो विभजत इव प्रज्ञैककरणत्वात् अतो यथ प्रज्ञया विभक्तस्तथा प्रज्ञयैव गृहीतव्यः । - कथमात्मा प्रज्ञया गृहीतव्य: ? इति चेत् पण्णा घेत्तव्वो जो चेदा सो अहं तु णिच्छयदो । अवसेसा जे भावा ते मज्झपरित्त णादव्वा ॥ ३२५॥ ज्ञया गृहीतव्यो यश्चेतयिता सोऽहं तु निश्चयतः । अवशेषा ये भावाः ते मम परा इति ज्ञातव्याः ॥ ३२५॥ तात्पर्यवृत्तिः: - प्रज्ञया गृहीतव्यो यश्चेतयिता सोहं तु निश्चयतः अवशेषा ये भावास्ते मम परे इति ज्ञातव्याः। यो हि निश्चयतः स्वलक्षणावलंविन्या प्रज्ञया प्रविभक्तश्चेतयिता सोऽयमहं, ये त्वमी अवशिष्टा अन्ये `स्वलक्षणलक्ष्या व्यवह्रियमाणाभावास्ते सर्वेऽपि चेतयितृत्वस्य व्यापकस्य व्याप्यत्वमनायांतोऽत्यंतमत्तो भिन्नास्ततोऽहमेव मयैव मत्त एव मय्येव मामेव गृह्णामि, यत् किल गृह्णामि तच्चेतनैकक्रियत्वादात्मनश्वेतये एव, चेतयमान एव चेतयें, चेतयमानेनैव चेतये, चेतयमानायैव चेतये, चेतयमानादेव चेतये, चेतयमान एव चेतये, चेतयमानमेव चेतये।अथवा न चेतय, न चेतयमानश्चेतये, न चेतयमानेन चेतये, न चेतयमानाय चेतये, न चेतयमानाच्चेतये, न' चेतयमाने चेतये, न चेतयमानं चेतये, किं तु सर्वविशुद्ध चिन्मात्राभावोऽस्मि । भित्त्वा सर्वमपि स्वलक्षणवलात्तुं हि यच्छक्यते चिन्मुद्रांकितनिर्विभागमहिमा शुद्धश्विदेवास्म्यहं । भिद्यते यदि कारकाणि यदि वा धर्मा गुणा वा यदि भिद्यतां न भिदास्ति काचन विभौ भावे विशुद्धे चिति ॥ आत्मख्यातिः -- योहि नियतस्वलक्षणावलंविन्या प्रज्ञया प्रविभक्तश्चेतयिता सोऽयमहं । ये त्वमी अवशिष्टा अन्यस्वलक्षणलक्ष्या व्यवह्रियमाणा भावाः, ते सर्वेऽपि चेतयितृत्वस्यं व्यापकत्वस्य व्याप्यत्वमनायांतोऽत्यंतं मत्तो भिन्नाः । ततोऽहमेव मयैव मामेव मत्त एव मय्येव मामेव गृण्हामि । यत्किल गृण्हामि तच्चेतनैकक्रियत्वादात्मंनश्चेतये, चेतयमान एव चेतये, चतयमानेनैव चेतये, चेतयमानायैव चेतये, चेतयमानादेव चेतये, चेतयमाने एव चेतये, चेतयमानमेव चेतये । अथवा न चेतये, न चेतयमानश्चेतये, न चेतयमानेन Page #160 -------------------------------------------------------------------------- ________________ समयप्राभृतं ।' चेतये, न चैतयमानाय चेतये, न चेतयमानाचेतये, न चेतयमाने चेतये, न चेतयमानं चेतये । किंतु सर्वविशुद्धचिन्मात्री भावोऽस्मि । भित्वा सर्वमपि स्वलक्षणवलाद्रेत्तुं न यच्छक्यते । चिन्मुद्रांकितनिर्विभागमहिमा शुद्धश्चिदेवास्म्यहं ।। भिद्यते यदि कारकाणि यदि वा धर्मा गुणा वा यदि। भिद्यतां न भिदास्ति काचन विभौ भावे विशुद्धे चिति ॥ १७६ ।। पण्णाए पित्तवो जो दट्ठा सो अहं तु णिच्छयदो। अवसेसा जे भावा ते मज्झ परेति णादव्वा ॥३२६॥ पण्णाए पित्तव्वो जो णादा सो अहं तु णिच्छयदो। अवसेसा जे भावा ते मज्झ परोत्ति णादव्वा ॥३२७॥ युग्मं ॥ प्रज्ञया गृहीतव्यो यो दृष्टा सोऽहं तु निश्चयतः । अवशेषा ये भावास्ते मम परा इति ज्ञातव्याः ॥३२६॥ प्रज्ञया गृहीतव्यो यो ज्ञाता सोऽहं तु निश्चयतः। अवशेषाः ये भावास्ते मम परा इति ज्ञातव्याः ॥३२७॥ तात्पर्यवृत्तिः- प्रज्ञया गृहीतव्यो यो दृष्टा सोहं तु निश्चयतः, अवशेषा मे भावा ते ममः परा इति ज्ञातव्याः । प्रज्ञया गृहीतव्यो यो ज्ञाता सोऽहं तु निश्चयतः, अवशेषा ये भावा ते मम परा इति ज्ञातव्याः चेतनाया दर्शनज्ञानविकल्पानतिक्रमणाच्चेतयितृत्वमिव दृष्टुत्वं ज्ञातृत्वं चात्मनः स्वलक्षणमेव । ततोह दृष्टांरमात्मानं गृहामि । यत्किल गृह्णामि तत्पश्याम्येव, पश्यन्नेव पश्यामि, पश्यतैव पश्यामि, पश्यते एंव पश्यामि, पश्यत एव पश्यामि, पश्यत्येव पश्यामि, पश्यंतमेव पश्यामि । अथवा-न पश्यामि, न पश्यन् पश्यामि, न पश्यता पश्यामि, न पश्यते पश्यामि, न पश्यतः पश्यामि, न पश्यति पश्यामि, न पश्यंतं पश्यामि । किं तु सर्वविशुद्धो दृङ्मात्रो भावोऽस्मि । अपि च ज्ञातारमात्मानं गृहामि यत्किल गृण्हामि तज्जानाम्येव, जानन्नेव जानामि, जानतैव जानामि, जानते एव जानामि, जानत एव जानामि, जानत्येव जानामि, जानंतमेव जानामि । अथवा न जानामि, न जानन् जानामि, न जानतैव जानामि, न जानते जानामि, न जानतो जानामि, न जानति जानामि, न जानंतं जानामि । किं तु सर्वविशुद्धो ज्ञप्तिमात्रो भावोऽस्मि । ननु कथं चेतना दर्शनज्ञानविकल्पौ नातिकामति येन चेतयिता दृष्टा ज्ञाता च स्यात् ? उच्यतेचेतना तावत्प्रतिभासरूपा सा तु सर्वेषामेव वस्तूनां सामान्यविशेषात्मकत्वाद् द्वैरूप्यं नातिकामति । ये तु तस्या द्वे रूपे ते दर्शनज्ञाने, ततः सा ते नातिक्रामति । यद्यतिक्रामति ? सामान्यविशेषातिक्रांतत्वाच्चेतनैव न भवति । तदभावे द्वौ दोषौ स्वगुणोच्छेदाच्चेतनस्याचेतनतापत्तिः, व्यापकाभावे व्याप्यस्य चेतनस्याभावो वा । ततस्तद्दोषभयाद्दर्शनज्ञानात्मिकैव चेतनाभ्युपगंतव्या । । अद्वैतापि हि चेतना जगति चेदृग्ज्ञप्तिरूपं त्यजेत् तत्सामान्यविशेषरूपविरहात्सास्तित्वमेव त्यजेत् । तत्यागे जडता चितोऽपि भवतिव्याप्यो विना व्यापकादात्मा चांतमुपैति तेन नियतं दृग्ज्ञप्तिरूपास्तु चित्। एकश्चितश्चिन्मय एव भावो भावाः परे ये किल ते परेषां ग्राह्यस्ततश्चिन्मय एव भावो भावाः परे सर्वत एव हेयाः ॥ अवशेषा ये रागादिभावा विभावपारणामास्ते चिदानंदैकभावस्य ममापेक्षया परा इति ज्ञातव्याः । अत्राह शिष्यः-चेतनाया ज्ञानदर्शनभेदौ न स्तः, एकैकचेतना ततो ज्ञाता दृष्टेति द्विधात्मा कथं घटत १ दर्शनज्ञाने इत्यर्थः। - Page #161 -------------------------------------------------------------------------- ________________ ११६ सनातनजे नग्रंथमालायां इति ? अत्र पूर्वपक्षे परिहारः -- सामान्य ग्राहकं दर्शनं, विशेषग्राहकं ज्ञानं । सामान्यविशेषात्मकं च वस्तु । सामान्यविशेषात्मकत्वाभावे चेतनाया अभावः स्यात् । चेतनाया अभावे आत्मनो जडत्वं, चेतनालक्षणस्य विशेषगुणस्याभावे सत्यभावो वा भवति । नचात्मनो जडत्वं दृश्यते नचाभावः ? प्रत्यक्षविरोधात् ? ततः स्थितं यद्यप्यभेदनयेनैकरूपा चेतना तथापि सामान्यविशेषविषयभेदेन दर्शनज्ञानरूपा भवतीत्यभिप्रायः । भथ शुद्धबुद्धैकस्वभावस्य परमात्मनः शुद्धचिद्रूप एक एव भावः न च रागादय इत्याख्याति - आत्मख्यातिः --चेतनया दर्शनज्ञानविकल्पानतिक्रमणाच्चेतयितृत्वमिव दृष्टत्वं ज्ञातृत्वं चात्मनः स्वलक्षणमेव ततोहं दृष्टारमात्मानं गृण्हामि यत्किल गृहामि तत्पश्याम्येव, पश्यन्नेव पश्यामि पश्यतैव पश्यामि पश्यते एव पश्यामि पश्यत एव पश्यामि पश्यत्येव पश्यामि पश्यतमेव पश्यामि । अथवा न पश्यामि, न पश्यन् पश्यामि, न पश्यता पश्यामि, न पश्यते पश्यामि न पश्यतः पश्यामि न पश्यति पश्यामि, न पश्यंतं पश्यामि । किंतु सर्वविशुद्धो दृङ्मात्रो भावोऽस्मि । अपि च - ज्ञातारमात्मानं गृहामि यत्किल गृण्हामि तज्जानाम्येव, जानन्नेव जानामि, जानतैव जानामि, जानते एक जानामि, जानत एव जानामि, जानत्यव जानामि, जानंतमेव जानामि । अथवा- न जानामि, न जानन् जानामि, न जानता जानामि, न जानते जानामि, न जानतो जानामि न जानति जानामि, न जानंतं जानामि । किंतु सर्वविशुद्धो ज्ञप्तिमात्रो भावोऽस्मि । ननु कथं चेतना दर्शज्ञानविकल्पौ नातिक्रामति येन चेतयिता दृष्टा ज्ञाता च स्यात् ? उच्यते -चेतना तावत्प्रतिभासरूपा सा तु सर्वेषामेव वस्तूनां सामान्यविशेषात्मकत्वात् द्वैरूप्यं नातिक्रायति । ये तु तस्या द्वे रूपे ते दर्शनज्ञाने, ततः सा नातिक्रामति । यद्यतिक्रामति ? सामान्यविशेषातिक्रांतत्वाच्चेतनैव न भवति । तदभावे द्वौ दोषौ – स्वगुणोच्छेदाच्चेतनस्याचेतनतापत्तिः, व्याप काभावे व्याप्यस्य चेतनस्याभावो वा । ततस्तद्दोषभयाद्दर्शनज्ञानात्मिकैव चेतनाभ्युपगंतव्या । अद्वैतापि हि चेतना जगति चेदूदृग्ज्ञप्तिरूपं त्यजेत्तत्सामान्यविशेषरूपविरहात्सास्तित्वमेव त्यजेत् । तत्त्यागे जडता चितोऽपि भवति व्याप्यो विना व्यापकादात्मा चांतमुपैति तेन नियतं दृग्ज्ञाप्तिरूपास्ति चित् ॥ कश्चितश्चिन्मय एव भावो भावाः परे ये किल ते परेषां । ग्राह्यस्ततश्चिन्मय एव भावो भावाः परे सर्वत एव हेयाः । १७७ । को नाम भणिज वुहो णादुं सव्वे परोदये भावे । मज्भमिणं तिय वयणं जाणंतो अप्पयं सुद्धं ॥ ३२८ ॥ को नाम भणेद् बुधः ज्ञात्वा सर्वान् परोदयान् भावान् । ममेदमिति वचनं जानन्नात्मानं शुद्धं ॥ ३३८ ॥ - तात्पर्यवृत्तिः – कोणाम भणिज्ज वुहो को ब्रूयाद्बुधो ज्ञानी विवेकी नाम स्फुटम्रहो वा न कोऽपि । किं ब्रूयात् । मज्झमिणंतियवयणं ममेति वचनं किं कृत्वा ? पूर्वं णादुं निर्मलात्मानुभूतिलक्षणभेदज्ञानेन ज्ञात्वा । कान् ? सव्बे परोदये भावे सर्वान् मिथ्यात्वरागादिभावान् विभावपरिणामान् । कथंभूतान् ? परोदयान् शुद्धात्मनः सकाशात् परेण कर्मोदयेन जनितान् । किं कुर्वन् सन् ? जाणतो अप्पयं सुद्धं जानन् परमसमरसीभावेनानुभवन् कं ? आत्मानं । कथं भूतं ? शुद्धं, भावकर्मद्रव्यकर्म नोकर्मरहितं । केन कृत्वा जानन् ? शुद्धात्मभावनापरिणताभेदरत्नत्रयलक्षणेन भेदज्ञानेनेति । एवं विशेषभेदभावनाव्याख्यानमुख्यत्वेन तृतीयस्थले सूत्रपंचकं गतं । अथ मिथ्यात्वरागादिपरभावस्वीकारेण बध्यते वीतरागपरमचैतन्यलक्षणस्वस्थभावस्वीकारेण मुच्यते जीव इति प्रकाशयति १ पराइये भावे पाठोयमात्मख्याती ॥ Page #162 -------------------------------------------------------------------------- ________________ - समयप्रामृतं। आत्मख्याति:-योहि परात्मनोनियतस्वलक्षणविभागपातिन्या प्रज्ञया ज्ञानी स्यात् स खल्वेकं चिन्मात्रं भावमात्मीयं जानाति शेषांश्च सर्वानेब भावान् परकीयान् जानाति । एवं जानन् कथं परभावान्ममामी इति व्रयात् परात्मनोनिश्चयेन स्वस्वामिसंबंधस्यासंभवात् । अतः सर्वथा चिद्भाव एव गृहीतव्यः शेषाः सर्वे एव भावाः प्रहातव्या इति सिद्धांतःसिद्धांतोऽयमुदात्तचित्तचरितर्मोक्षार्थिभिः सेन्यता शुद्धं चिन्मयमेकमेव परमं ज्योतिः सदैवास्म्यहं । एते ये तु समुल्लसंति विविधा भावा पृथग्लक्षणाः तेहं नास्मि यतोऽत्र ते मम परद्रव्यं समप्रा अपि ।१७८० परद्रव्यग्रहं कुर्वन् वध्यते वापराधवान् । बध्येतानपराधेन स्वद्रव्ये संवृतो मुनिः ॥ १७९ ॥ तेयादी अवराहे कुव्वदि जो सो ससंकिदो होदि । मा वज्झेहं केणवि चोरोत्ति जणम्मि विवरंतो ॥३२९॥ जो ण कुणदि अवराहे सो णिस्संको दु जणवदे भमदि । गवि तस्स वज्झिदुं जे चिंता उप्पजदि कयावि ॥३३॥ एवं हि सावराहो वज्झामि अहं तु संकिदो चेदा। जो पुण गिरवराहो णिस्संकोहं ण वज्झामि ॥३३१॥ स्तेयादीनपराधान् करोति यः स शंकितो भवति । मा बध्ये केनापि चौर इति जने विवृण्वन् ॥ ३२९॥ यो न करोत्यपराधान् स निश्शंकस्तु जनपदे भवति । नापि तस्य बधु अहो चिंतोत्पद्यते कदाचित् ॥ ३३०॥ एवं हि सापराधो बध्येऽदं तु शंकितश्चेतयिता। यदि पुनर्निरपराधो निश्शंकोऽहं तु बध्ये ॥ ३३१ ॥ तात्पर्यवृत्तिः-तेयादी अवराहे कुव्वदि जो सो ससंकिदो होदि यस्तेयपरदाराद्यपराधान् करोति स पुरुषः सशंकितो भवति । केन रूपेण ? मा जज्झेहं केणवि चोरोत्ति जणमि विवरंतो जने विचरन् माहं बध्ये केनापि तलवरादिना । किं कृत्वा ? चौर इति मत्त्वा । इत्यन्वयदृष्टांतगाथा गता - जो ण कुणदि अवराहे सो णिस्संको दु जणवदे भमदि यस्तेयपरदाराद्यपराधं न करोति स निशंको जनपदे लोके भ्रमति । णवि तस्स वज्झिदं जे चिंता उप्पज्जदि कयावि तस्य चिंता नोत्पद्यते कदाचिदपि जे अहो यस्मात्कारणात् वा निरपराधः, केन रूपेण चिंता नोत्पद्यते ? नाहं बध्ये केनापि चौर इति मत्त्वा । एवं व्यतिरेकदृष्ठांतगाथा गता । एवंहि सावराहो वज्झामि अहं तु संकिदो चेदा यो रागादिपरद्रव्यग्रहणं स्वीकारं करोति स स्वस्थभावच्युतः सन् सापराधो भवति सापराधोऽत्र शंकितो भवति । केन रूपेण ? बध्येऽहं कर्मतापन्नो ज्ञानावरणादिकर्मणा । ततः कर्मबंधभीतः प्रायश्चित्तंप्रतिक्रमणरूपं दंडं ददाति जो पुण णिरवराहो णिस्संकोहं ण वज्झामि यस्तु पुनर्निरपराधो भवति। कन रूपेण : इति चेत्-रागाद्यपराधरहितत्वात् नाहं बध्ये केनापि कर्मणेति प्रतिक्रमणादिदंडं विनाप्यनंतज्ञानादिरूपनिर्दोषपरमात्मभावनयैव शुद्ध्यति इत्यन्वयव्यतिरेकदा तगाथा गता। ___ अथ को हि नामायमपराधः ! इति पृच्छति । १. पुस्तके सापराधाच्छंकितो भवाति पाठः। - - Page #163 -------------------------------------------------------------------------- ________________ सनातन जैनप्रथमालायां 'आत्मख्यातिः: - यथात्र लोके य एव परद्रव्यग्रहणलक्षणमपराधं करोति तस्यैव बेक्शंका समवति । यस्तु शुद्धः सन् तं न करोति तस्य सा न संभवति । तथात्मापि य एवाशुद्धः सन् परद्रव्यग्रहणलक्षणमपराधं करोति तस्यैव बंधशंका संभवति यस्तु शुद्धः संस्तं न करोति तस्य सा न संभवति, इति नियमः अतः सर्वथा सर्वपरकीयभावपरिहारेण शुद्ध आत्मां गृहीतव्यः, तथा सत्येव निरपराधत्वात् । ११८ कोहि नामायमपराध: ? ----- संसिद्धिराधसिद्धी साधिदमाराधिदं च एयट्ठो । अवगदराघो जो खलु चेदा सो होदि अवराहो ||३३२ ॥ जो पुण णिरवराहो चेदा णिस्संकिओ दु सो होदि । आराणाए णिचं वद्वेहिं अहं तु जाणतो ॥ ३३३॥ संसिद्धिरापसिद्धं साधितमाराधितं चैकार्थं । अपगतराधो यः खलु चेतयिता स भवत्यपराधः ॥ ३३२ ॥ यः पुनर्निरपराधश्चेतयिता निश्शंकितस्तु सं भवति । आराधनया नित्यं वर्तते, अहमिति जानन् ||३३३|| तात्पर्यवृत्तिः - संसिद्धिराघसिद्धी साधिदमाराधिदं च एयट्ठो कालत्रयवर्तिसमस्तमिथ्यात्वविषयकषायादिविभावपरिणामरहितत्वेन निर्विकल्पसमाधौ स्थित्वा निजशुद्धात्माराधनं सेवनं राधइत्युघ्यते संसिद्धिः सिद्धिरिति साधितमित्याराधितं च तस्यैव राधशब्दस्य पर्यायनामानि । अवगदराघो जो खलु चेदा सो होदि अवराहो अपगतो विनष्टो राधः शुद्धात्माराधना यस्य पुरुषस्य स पुरुषवा भेदेन भवत्यपराधः । अथवा अपगतोविनष्टो राधः शुद्धात्माराधः शुद्धात्माराधना यस्य रागादिविभावपरिणामस्य स भवत्यपराधः सहापराधेन वर्तते यः स सापराधः चेतयितात्मा तद्विपरीत त्रिगुप्तिसमाधिस्थो निरपराध इति । अथ हे भगवन् किमनेन शुद्धात्माराधनाप्रयासेन यतः प्रतिक्रमणाद्यनुष्ठानेनैव निरपराधो भक्त्यात्मा, कस्मात् ? इति चेत् सापराधस्याप्रतिक्रमणादेर्दोपशब्दवाच्यापराधाविनाशकत्वेन विषकुंभवे सति प्रतिक्रमणा देर्दोषशब्दवाच्यापराधविनाशकत्वेनामृतकुंभत्वात् इति तथा चोक्तं चिरंतनप्रायश्चितग्रंथे— अपडिक्कमणं अपडिसरणं अप्पडिहारो अधारणा चेव । अणियत्तीय अणिदा अगरुहा सोहीय विसकुंभो ॥ १ ॥ पडकमणं पडसरणं पडिहरणं धारणा णियत्तीय । जिंदा गरुहा सोही अट्ठविहो अमयकुंभोदु ॥ २ ॥ अत्र पूर्वपक्षे परिहारः - आत्मख्यातिः — परद्रव्यपरिहारेण शुद्धस्यात्मनः सिद्धिः साधनं वा राधः, अपगतो राधो यस्य भावस्य सोऽपराधस्तेन सह यश्चेतयिता वर्तते स सापराधः स तु परद्रव्यग्रहणसद्भावेन शुद्धात्मसिद्ध्यभावा द्वंधशंकासंभवे सति स्वयमशुद्धत्वादनाराधक एव स्यात् । यस्तु निरपराधः स समग्रपरद्रव्यपरिहारेण शुद्धात्मासद्धिसद्भावाद्बधशंकाया असंभवे सति, उपयोगैकलक्षणशुद्ध आत्मैक एवाहमिति निश्चिन्वन् नित्यमे शुद्धात्मसिद्धिलक्षणयाराधनया वर्तमानत्वादाराधक एव स्यात् । १ नेयं गाथात्र स्वात्पर्यवृत्तौ— Page #164 -------------------------------------------------------------------------- ________________ - -~-समयप्राभृतं । .. -१५९ अनवरतमनंतैर्बध्यते सापराधः स्पृशति निरपराधो बंधनं जातु नैव। ............ नियतमयमशुद्धं स्वं भजन सापराधो भवति निरपराधः साधु शुद्धात्मसेवी ॥१८०॥.. - ननु किमनेन शुद्धात्मोपासनेन यतः प्रतिक्रमणादिनैव निरपराधो भवत्यात्मा सापराधस्याप्रतिक्रमणादेस्तदनपोहकत्वेन विषकुंभत्वे सति प्रतिक्रमणादेस्तदपोहकत्वेनामृतकुंभत्वात् । उक्तं च व्यवहार सूत्रे। .. अपडिकमणं अपरिसरणं अप्पडिहारो अधारणा चैव । अणियत्तीय अणिंदा अगरुहा सोहीय विसकुंभो ॥ १ ॥ पडिकमणं पडिसरणं परिहारणं धारणा णियत्तीय । जिंदा गरहा सोही अट्ठविहो अमयकुंभो दु॥२॥ अत्रोच्यते पडिकमणं पडिसरणं परिहरणं धारणा णियत्तीय। जिंदा गरुहा सोहिय अट्टविहो होदि विसकुंभो ॥३३४॥ अपडिकमणं अपडिसरणं अप्पडिहारो अधारणा चेव। । अणियत्तीय अणिंदा अगरुहा विसोहिय अमयकुंभो ॥३३५॥ प्रतिक्रमणं प्रतिसरणं परिहारो धारणा निवृत्तिश्च । ........ निंदा गर्दा शुद्धिः अष्टविधो भवति विषकुंभः ॥३३४॥ अप्रतिक्रमोऽप्रतिसरणं परिहारोऽधारणा चैव । । अनिवृत्तिश्चानिंदागोऽशुद्धिरमृतकुंभः ॥३३५।। तात्पर्यवृत्तिः-पडिकमणमित्यादि पडिकमणं प्रतिक्रमणं कृतदोषनिराकरणं । पडिसरणं प्रतिसरणं सम्यकत्वादिगुणेषु प्रेरणं । पडिहरणं प्रतिहरणं मिथ्यात्वरागादिदोषेषु निवारणं धारणा पंचनमस्कारप्रभृतिमंत्रप्रातमादिबहिर्द्रव्यालंवनेन चित्तस्थिरीकरणं धारणा । णियत्तीय बहिरंगविषयकषा यादीहागतचित्तस्य निवर्तनं निवृत्तिः । जिंदा आत्मसाक्षिदोषप्रकटनं निंदा गरुहा गुरुसाक्षिदोषप्रकटनं गर्दा । सोहिय दोषे सति प्रायश्चित्तं गृहीत्वा विशुद्धिकारणं शुद्धिः। इत्यष्टविकल्पशुरूपशुभोपयोगो यद्यपि मिथ्यात्वादिविषयकषायपरिणतिरूपाशुभोपयोगापेक्षया सविकल्पसरागचारित्रावस्थायाममृतकुंभो भवति । तथापि रागद्वेषमोहख्यातिपूजालाभदृष्टश्रुतानुभूतिभागाकांक्षारूपनिदानबंधादिसमस्तपरद्रव्यालंबनविभावपरिणामशून्या, चिदानंदैकस्वभावविशुद्धात्मालंबनभरितावस्था निर्विकल्पशुद्धोपयोगलक्षणा, अपडिकमणं इति गाथाकथितक्रमेण ज्ञानिजनाश्रितनिश्चयाप्रतिक्रमणादिरूपा तु या तृतीया भूमिस्तदपेक्षया वीतरागचा रित्रस्थितानां पुरुषाणां विषकुंभ एवेत्यर्थः । किं च विशेषः-अप्रतिक्रमणं द्विविधं भवति ज्ञानिजनाश्रित, अज्ञानिजनाश्रितं चेति। अज्ञानिजनाश्रितं यदप्रतिक्रमणं तद्विषयकषायपरिणतिरूपं भवति । ज्ञानिजीवाश्रितमप्रतिक्रमणं तु शुद्धात्मसम्यक्त्वश्रद्धानज्ञानानुष्ठानलक्षणत्रिगुप्तिरूपं । तच्च ज्ञानिजनाश्रितमप्रतिक्रमणं सरागचारित्रलक्षणशुभोपयोगापेक्षयायद्यप्यप्रतिक्रमणं भण्यते तथापि वीतरागचारित्रापेक्षया तदेव निश्चयप्रतिक्रमणं । कस्मात् ? इति चेत् समस्तशुभाशुभास्रवदोषनिराकरणरूपत्वादिति । ततः स्थितं तदेव निश्चयप्रतिक्रमणं व्यवहारप्रतिक्रमणोपक्षया, अप्रतिक्रमणशब्दवाच्यं ज्ञानिजनस्य मोक्षकारणं भवति । व्यवहारप्रतिक्रमणं तु यदि शुद्धात्मा.. भारमख्याती परिहारो धारणा णियत्तीय' इति पाठः। Page #165 -------------------------------------------------------------------------- ________________ ११० सनातन जैन ग्रंथमालाया नमुपादेयं कृत्वा तस्यैव निश्चयप्रतिक्रमणस्य साधकभावेन विषयकषायवचनार्थे करोति तदपि परंपरया मोक्षकारणं भवति, अन्यथा स्वर्गादिसुखनिमित्त पुण्य कारणमेव । यत्पुनरज्ञानिजनसंबंधिमिध्यात्वविषयकषायपरिमतिरूपमप्रतिक्रमणं तन्नरकादिदुःखकारणमेव । एवं प्रतिक्रमणाद्यष्टविकल्परूपशुभोपयोगो यद्यपि सवकल्पावस्थायाममृतकुभो भवति तथापि सुखदुःखादिसमतालक्षणपरमो पेक्षारूपंसयमापेक्षया विषकुंभ एवेति व्याख्यानमुख्यत्वेन चतुर्थस्थले गाथाष्टकं गतं । इति समयसारव्याख्यायां शुद्धात्मानुभूतिलक्षणायां तात्पर्यवृत्तौ द्वाविंशतिगाथाभिश्चतुर्भिरंतराधिकारैर्नवमो मोक्षाधिकारः समाप्तः । आत्मख्यातिः- यस्तावदज्ञानिजनसाधरणोऽप्रतिक्रमणादिः स शुद्धात्मसिद्ध्यभावस्वभावत्वेन स्वयमेवापराधत्वाद्विषकुंभ एव किं विचारेण । यस्तु द्रव्यरूपः प्रतिक्रमणादिः स सर्वापराधविषापदाकर्षणसमर्थत्वेनामृतकुंभोऽपि प्रतिक्रमणादिविलक्षणाप्रतिक्रमणादिरूपां तार्तीयकीं भूमिमपश्यतः स्वकार्य करणामर्थत्वेन विपक्षकार्यकरित्वाद्विषकुंभ एव स्यात् । अप्रतिक्रमणादिरूपा तृतीयभूमिस्तु स्वयं शुद्धात्मसिद्धि - रूपत्वेन सर्वापराधविषदोषाणां सर्वकषत्वात् साक्षात्स्वयममृतकुंभो भवतीति व्यवहारेण द्रव्यप्रतिक्रमणादे रपि, अमृतकुंभत्वं साधयति । तयैव च निरपराधो भवति चेतयिता । तदभावे द्रव्यप्रतिक्रमणादेरप्यपराध I एव । अतस्तृतीयभूमिकयैव निरपराधत्वमित्यवतिष्ठते तत्प्राप्त्यर्थ एवायं द्रव्यप्रतिक्रमणादिः, ततो ि मंस्था यत्प्रतिक्रमणादीन् श्रुतिरूपा जयति किंतु द्रव्यप्रतिक्रमणादिना न मुंचति अन्यदीयप्रतिक्रमणा प्रतिक्रमणाद्यगोचराप्रतिक्रमणादिरूपं शुद्धात्मसिद्धिलक्षणमतिदुष्करं किमपि करिष्यति । वक्ष्यते चात्रैवकम्मं जं पुव्वकयं सुहासुहमणेयवित्थरविसेसं । तत्तोणियत्त अप्पयं तु जो सो पडिकम्मणं इत्यादि ॥ अतो हताः प्रमादिनो गताः सुखासीनतां । प्रलीनं चापलं मुन्मीलितमालंबनं । आत्मन्येवालानितं चित्तमासंपूर्ण विज्ञानघनोपलब्धेः ॥ १८१ ॥ यत्र प्रतिक्रमणमेव विषप्रणीतं तत्राप्रतिक्रमणमेव सुधा कुतः स्यात् । तत्किं प्रमाद्यति जनः प्रपतन्नधोऽधः किं नोर्ध्वमूर्ध्वमधिरोहति निष्प्रमादः ॥ १८२ ॥ प्रमादकलितः कथं भवति शुद्धभावोऽलसः कषायभरगौरवादलसतां प्रमादो यतः । अतः स्वरसनिर्भरे नियमितः स्वभावे भवन्मुनिः परमशुद्धतां ब्रजति मुच्यते वाचिरात् ॥१८३॥ त्यक्त्वा शुद्धविधायि तत्किल परद्रव्यं समयं स्वयं स्वे द्रव्ये रतिमेति यः स नियतं सर्वापराधच्युतः । बंधध्वंसमुपेत्य नित्यमुदितस्वज्योतिरच्छोच्छल चैतन्यामृतपूरपूर्णमहिमा शुद्धो भवन्मुच्यते ॥ १८४ ॥ बंधच्छेदात्कलयदतुलं मोक्षमक्षय्यमेतन्नित्योद्योतस्फुटित सहजावस्थमेकांत शुद्धं । एकाकारस्वरस भरतोऽत्यंतगंभीरधीरं पूर्णज्ञानज्वलितमचले स्वस्य लीने महिम्नि || १८५ ॥ इति मोक्षो निष्क्रांतः इति समयसारव्याख्यायामात्मख्यातौ, अष्टमों कः । तात्पर्यवृत्तिः- तत्रैवं सति शृंगाररहितपात्रवद्रागादिरहितशांतरसपरिणतशुद्धात्मरूपेण मोक्षो निष्क्रांतः । अथ प्रविशति सर्वविशुद्धज्ञानं – संसारपर्यायमाश्रित्याशुद्धोपादानरूपेणाशुद्धनिश्चयनयेन यद्यपि कर्तृत्वभोक्तृत्वंबधमोक्षादिपरिणामसहितो जीवस्तथापि सर्वविशुद्धपारिणामिकपरमग्राहकेण शुद्धोपादान• पेण शुद्धद्रव्यार्थिकनयेन कर्तृत्व- भोक्तृत्व-बंधमोक्षादिकरणभूतपरिणामशून्य एवेति । दवियं जं उप्पज्जदि Page #166 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालाकी नियमावली। १. इस ग्रंथमालामें मूल संस्कृत प्राकृत तथा संस्कृतटीकासहित दिगम्बरजैनाचार्यकृत दर्शन, सिद्धांत, न्याय, अध्यात्म, व्याकरण, काव्य, साहित्य, पुराण, इतिहास, गणित, ज्योतिष, वैद्यकप्रभृति सर्व प्रकारके प्राचीन ग्रंथ छपते हैं। २. इस ग्रंथमालाका प्रत्येक खंड (अंक) दश फारमसे ( ८० पृष्ठसे ) कम नहीं होगा। और प्रत्येक खंडमें एक दो या तीनसे अधिक ग्रंथ नहीं रहेंगे। ३. इस ग्रंथमालाका मूल्य १२ खंडोंका सर्वसाधारणसे ८) रु. प्रथम ही ले लिया जायगा और नैयायिक, वेदांतिक और संस्कृत पुस्तकालयोंकी सेवामें यह ग्रंथमाला विना मूल्य भी भेजी जायगी। परंतु पोष्टेज खर्च प्रत्येक अंकका =) वी. पी. से सबको देना होगा। _____४. जो महाशय एक साथ १००) रु. भेजेंगे वे यावज्जीव स्थायी ग्राहक समझे जावेंगे । परंतु मार्गव्यय उनको भी जुदा देना होगा। ५. जो दानी महाशय पुस्तकालयों, मंदिरों, विद्यार्थियों वा विद्वानोंको वितरण करनेके लिये ग्राहक बनेंगे उनको १००) रु. पेशगी भेजनेसे १२ खंड तक पंद्रह २ प्रति प्रत्येक खंडकी भेजी जायगीं। मार्गव्यय पृथक् देना होगा। मूल्य व पत्र भेजनेका पता पन्नालाल जैन, मंत्री श्रीजैनधर्मप्रचारिणीसभा, काशी, पोष्ट-बनारस सिटी। जैनी भाइयोंसे प्रार्थना। यह ग्रंथमाला प्राचीन जैनग्रंथोंके जीर्णोद्धारार्थ व जैनधर्मके प्रचारार्थ प्रकाशित की जाती है । इसमें जो कुछ द्रव्यलाभ होगा वह भी धर्मप्रचार व परोपकारमें ही लगाया जायगा । इसकारण प्रत्येक धर्मात्मा उदार महाशयोंको चाहिये कि प्रथम तो एक २ दो दो ग्रंथ छपाकर जीर्णोद्धार करनेके लिये अथवा अपने पिता आदिकी स्मृतिके लिये द्रव्य प्रदान करें। दूसरे प्रत्येक मंदिरजीके शास्त्रभंडारमेंसे ग्राहक बनकर इन सब ग्रंथोंका संग्रह करके रक्षा करें अथवा स्वयं दानी ग्राहक जो साधारण ग्राहक बनकर अपने यहांके संस्कृत पढ़नेवाले विद्यार्थियोंको अथवा संस्कृतज्ञ अन्यमती विद्वानोंको दान देकर सत्यार्थ पदार्थोंका प्रचार करें । शास्त्रज्ञानी महाशयोंके लिये ही हमने पांचवां नियम बनाया है। प्रार्थी-पन्नालाल बाकलीवाल । Page #167 -------------------------------------------------------------------------- ________________ इस ग्रंथमालामें क्रमशः नीचे लिखे ग्रंथ छपेंगे। जैनदर्शनग्रन्थ । ग्रंथ नाम । ग्रंथकर्ताओंके नाम। तत्त्वार्थाधिगममोक्षशास्त्रपर गंधहस्तमहा भाष्य (८४,००० श्लोक) श्रीमत्स्वामी समंतभद्राचार्य राजवार्तिकालंकार श्रीमद्भट्टाकलंकदेव श्लोकवार्तिकालंकार स्याद्वादविद्यापति श्रीमद्विद्यानंदस्वामी जैनसिद्धान्तग्रन्थ । गोमट्टसार टीका श्रीमदभयचंद्रसिद्धांतचक्रवर्ति , गोमट्टसार टीका श्रीकेशव वर्णी परमात्मप्रकाश सटीक श्रीयोगींद्रदेव नाटकत्रय सटीक श्रीमदमृतचंद्रसूरिप्रभृति जैनन्यायग्रन्थ । न्यायविनिश्चयालंकार श्रीमद्भट्टाकलंकदेव न्यायकुमुदचंद्रोदय श्रीमत्प्रभाचंद्राचार्य आप्तमीमांसालंकृति (अष्टसहस्त्री) स्याद्वादविद्यापति श्रीमद्विद्यानंदस्वामी जैनव्याकरणग्रन्थ । शब्दानुशासन (शाकटायन व्याकरण) श्रुतकेवलिदेशीय श्रीमत् शाकटायनाचार्य शब्दानुशासन अमोघवृत्तिसहित अमोघाचार्य शब्दार्णवचंद्रिका (जैनेंद्र लघुवृत्ति) सोमदेवसूरि शब्दार्णव (जैनेंद्र महावृत्तिसहित) श्रीमत्पूज्यपादस्वामी देवनंद्याचार्य शब्दार्णव (भाष्य वा न्यास) श्रीमत्प्रभाचंद्राचार्य जैनसाहित्यग्रन्थ। .अलंकारचिंतामणि सटीक श्रीमदजितसेनाचार्य (वादीभसिंहसूरि) विक्रांतकौरवीय नाटक महाकवि हस्थिमल्ल अंजनापवनंजय नाटक मैथिलीपरिणय नाटक सुभद्रा नाटिका च , चतुःसंधान, सप्तसंधान, चतुर्विंशतिसंधान श्रीमत्पण्डितराज जगन्नाथ महाकवि पौराणिक काव्यग्रंथ। त्रिषष्टिशलाका महापुराण (प्राकृत) श्रीमत्पुष्पदंताचार्य हरिवंशपुराण और पद्मपुराण , पद्मपुराण (जैनरामायण १८,००० श्लोक) श्रीमदरविषेणाचार्य पांडवपुराण (जैनमहाभारत ) पार्श्वपुराण महाकविश्रीमद्वादिराजसूरि गणितज्योतिष ग्रंथ। गणितसारसंग्रह गणिताचार्यशिरोमणि श्रीवीराचार्य त्रिलोकसार सटीक (प्राकृत) श्रीनेमिचंद्राचार्य जैनसिद्धांतचक्रवर्ति भद्रबाहुसंहिता ,सार्द्धद्वयदीपप्रज्ञप्ति ज्योतिषाचार्य श्रीमद्भद्रबाहुस्वामी जंबूद्वीपप्रज्ञप्ति श्रीपद्मनंद्याचार्य चंद्रसूर्यप्राप्ति श्रीमदमितगत्याचार्य Page #168 -------------------------------------------------------------------------- ________________ HNEELAMRANEY हैदरावादप्रांतस्थ-उस्मानावादनिवासिगांधीकस्तूरचंद्रस्यात्मज बालचंद्रस्य स्मरणार्थ । श्रीपरमात्मने नमः। SEDICHI AAS.GNABA सनातनजैनग्रंथमालायाः नवमांक। PAN KARN श्रीमद्भगवत्कुंदकुंदाचार्यविरचितं समयप्राभृतं । प्रकाशिकाकाशीस्थ-भारतीयजैनसिद्धांतप्रकाशिनी संस्था । AMOH SAR Jeet YXx0 संपादक:श्रीयुत पंडित गजाधरलालजैन-न्यायशास्त्री IC 2128 Page #169 -------------------------------------------------------------------------- ________________ FAD COM श्रीपरमात्मने नमः । सनातनजैनग्रंथमाला श्रीमद्भगवत्कुंदकुंदाचार्यविरचितं समयप्राभृतं तात्पर्ययवृत्ति-आत्मख्यातीतिटीकाद्वयोपेतं न्यायशास्त्रिणा श्रीयुत-पंडितगजाधरलालजैनेन संपादितं । तच्च उस्मानावादनिवासि-स्वर्गीयश्रेष्ठिवर्यगांधीकस्तूरचंद्रस्यात्मजबालचंद्रस्य स्मरणार्थ काशीस्थ-भारतीयजैनसिद्धांतप्रकाशिनीसंस्थाया व्यवस्थापकेन श्रीपन्नालालजैनेन काशीस्थ-चंद्रप्रभानाम्नि मुद्रणालये प्रकाशितं । श्रीबीरनिर्वाणसंवत्सरः २४४० ख्रिष्टाब्दः १९१४ प्रथमसंस्करणं मूल्यं रूप्यकचतुष्कं। Page #170 -------------------------------------------------------------------------- ________________ PUBLISHED BY PANDIT PANNALAL JAIN BAKALIWAL Secretary BHARATIY JAIN SIDDHANT PRAKASHINI SANSTHA Benares City. PRINTED BY BABU GAURI SHANKER LAL MANAGER CHANDRAPRABHA PRESS. Benares City Page #171 -------------------------------------------------------------------------- ________________ प्रस्तावना प्रियमहाभागाः केचिन्निरवधिविशंकटाजवंजवजलनिधिविलसितविविधातुंदनक्रशंबूकसं जनितामितभीतिभारचंचुरचेतसः सुचेतसः विरहितनिखिलव्यसनानिकरसंभूतानघस्वस्वरूपालयं कमप्यालयं गवेषमाणाः परिधावमा - नाश्वाहरहस्तत्संगमसमीहयाऽवतरंत्यनुभूतिगोचरतां परितो भुवि । परं पितृपैतामहसंपदनादिदुर्वासनानिचितांतःकरणत्वात् वास्तविकात्मतत्त्वावबोधबहिर्भूत सर्वज्ञमन्यस्वार्थिमर्त्यप्रतारितात्मत्वात् कल्पितविफल लोकापवादसमुत्पत्स्यमानभयाकीर्णत्वाद्वा न नाम चेतयंते ते आत्मनीनस्वरूपं स्वायत्तया । किंतु न तथाविधपक्षपातार्हाः मनस्विनः । न वा तेषां पक्षपातो धर्मः । असुभृत्समष्टिसमीहितपरिपूरणकल्प महीरुहा हि संतः समादरणीयस्तै निहत्य विकल्पं विभाव्यात्मनीनमनीषया समीचीनः पन्थाः । विनिमय्यैवं समुन्नीयते प्रकाशपदवीं तात्त्विकात्मस्वरूपप्रतिभासकमिदं समयप्राभृतं । समवगतिरियं महती विदुषां यत्सत्तावस्थापन्नेषु सांख्यमीमांसाप्रभृतिनैकविधशास्त्रनिकरेषु समवबोधयति यथा याथात्म्येनात्मनः स्वरूपं परमात्मप्रीतिं च वेदांतशास्त्रं न तथापरं । अवितथं चैतत् यावन्न भवत्यात्मस्वरूपविबोधः स्वात्मनि, न विरज्यते तावदनात्मनीननितंबिनीसूनुसुहृत्संपद्भिरात्मा । आत्मस्वरूपावगतिरेव वैराग्यं तच्च यदि शिक्षयति तद्वेदांतशास्त्रमेव कथंचित् । भारतव्यतिरिक्त-इंगळें । दिदेशानामपि संडुढौके संप्रति सन्मानसराणं वेदांतशास्त्रं । समाविरभाविषत कियंत्यश्चित् परिषदस्तत्र परितो वेदांतशास्त्रानवद्यसिद्धांत प्रसाराय । मनंति च शेमुषीमंथनदंडेन तद्रसघृतसमीहया तच्छास्त्र सिद्धांत क्षीरमहरहस्ते । विभाव्य वेदांतशास्त्रस्य तथाविधविचित्रसन्मानततिं, अमलात्मस्वरूपलिलिक्षां च बहलतया पक्षपातबहिर्भूतानां स्वपरहितैषिणां च सुमनीषिणां समुपानीयते कथंकथमपि समाविर्भाव्यैतत्समयप्रामृतं तेषां पुरस्तात् । समेति-समीचीनतया जानातीति समय आत्मा तस्य प्राभृतं - शास्त्रमित्यनुगतार्थे विभ्राणं नामेदंआत्मन एव कृतो विचारोऽत्र शास्त्रे - इति समाविर्वेभूयते । दिगंबर जैनसमाजे प्राभृतामिदं जैनवेदांताध्यात्मशास्त्रनामभ्यां विश्रुतं स्वीयानवद्यात्मस्वरूपविवरणशैलीप्रभावात् । नात्र चित्रं प्राभृतरचयितुः श्रीमद्भगवत्कुंदकुंदस्य कृतिसर्वस्वमेतद्भिभाव्यते । पूर्वे जिनागमतः समवगम्यात्मस्वरूपं स्वात्मना च पश्चादनुभूय स्वपरात्मस्वरूपसमास्वादसमीहया व्यलेखीदं महीयान् ग्रंथो महता प्रयासेन जनसमुदयहिताय तेन भगवता । एतच्छास्त्रसमुपवर्णितसिद्धांताः सर्वथा वेदांतशास्त्रसमाहितसिद्धांतसाम्यं प्रतिपद्यते इति शक्नुमो वयं प्रतिपादयितुं यतो हि--आर्हतसिद्धांते वरीवरीति नयद्वयमादिष्टं । तत्र नात्मनः परकीयं ललनात्मजादिवस्तु-आत्मनीनमिति हि शुद्धनिश्वयविषयः । परकीयवस्त्वपि कथंचित्संबंधितां विभर्ति घृतकुंभवदिति व्यवहारविषयः । नैतावता ब्रह्म विहाय परवस्त्वेव नास्तीति जैनवेदांतमतं । इतरवेदांते च वस्तुतस्तु वस्तु ब्रह्मैव तदपरं सकलं कल्पितं ततो न सामस्त्येन जैनवेदांतेतरवेदांतयोस्तौल्यं । संबंधमात्रतः परं वस्तु नात्मनः [ ब्रह्मणः ] परवस्तुन्यात्मत्वाभिमानो मिथ्येति इतरवेदांता सिद्धांतत्वे सम्मतमेव तज्जैनवेदांतस्यापि । कियतां चिदन्येतरवेदांत सिद्धांतानां विमतत्वेऽपि सम्मतत्वमपि कियतां चिदपरं । नात्र संशीतिः सकलोपाधिविरहितत्वेनोपासनं तु ब्रह्मण इतरवेदांतस्य पुष्णात्येव निष्कल्मषं तुल्यत्वं जैनवेदांतस्य । । विशदतया कियतां चित्सिद्धांतानां समत्वाविर्भावाय व्यचारि मया परं नाशकं तथाकर्तुमहमनवका - शतया । मत्कृतसमत्वत एव वा मा तुष्युर्विद्वांसः स्वयं चोभयेोस्तौल्यं विनिर्णोयासुरिति च विनिचाय्य बुद्धापि Page #172 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायां नाविरभावि मया तयोस्तुल्यत्वं । ततोनिरवद्यात्मस्वरूपावजिगिमिषवो विद्वांसो नियतं विचारयेयुरेतत्प्राभृतरहस्यमिति सप्रश्रयं तेषां पुरस्तान्मामकाभ्यर्थना । __समयप्राभृतसंपादनकाले आदिमस्यांकस्याविर्भावार्थ तात्पर्यवृत्त्यात्मख्यात्योः पुस्तकद्वयस्य कियांश्चिद्भागः १०८ अभिनवमट्टारक-ईडरस्थ-श्रीमद्विजयकीर्तिजीमहाराजैः प्रेषितं, तात्पर्यवृत्तिद्वयं च जैनमित्रसंपादक श्रीमद्ब्रह्मचारिशीतलप्रसादजीमहात्मभिः प्रहितं आत्मख्यातिपुस्तकैकं च सत्यवादिसंपादकसुहृद्वरविद्वद्वरश्रीपंडित-उदयलालजीमहोदयैः समुपलब्धं ततोऽस्म्यहं गरीयानुपग्रहभाजनं संश्रुतोक्तमहात्मनां विदुषां च । समीहे चायतिकालीनां तथाविधामेव सकलजनताहितकारिणीमनुकंपामिति । कियतीनां चिद्गाथानां परिच्युतत्वादात्मख्यातौ, ससुल्लेखाच्च तासांतात्पर्यवृत्तौ अकृत किल तात्पर्यवृत्त्यनुसार्येव पाठक्रमः श्रीसमयप्राभृतस्य ततोमूलपाठस्तात्पर्यवृत्त्यनुसार्येव विभावनीयः । विषयक्रमोऽपि समयप्राभृतस्य तात्पर्यवृत्त्यनुगामी । चतुर्विंशतितमगाथाधस्ताद्विलिखितात्मख्यातिविंशतमाया गाथाया ज्ञातव्या भगवत्कुंदकुंदस्वामिनो जीवनेतिवृत्तं प्राकाशि जैनहितैषिसंपादकपंडितश्रीनाथूरामजीमहो. दयैः स्वीये जैनहितैषिपत्रे तदेवानाधिकीकृत्य समाविर्भावितमत्र । ततोऽस्म्यहमुपग्राह्यो भूयानुक्तमहानुभावानां । नाकार्षमहं कियतां चित्प्रष्ठानां संपादनमितस्ततो नैमित्तिकभ्रांत्या वैकल्यतश्च। प्राकाशिषतता, अशुद्धयः शोधनपत्रे तथापि दृष्ट्यविषयं भवेत्वापि स्खलनं परिमार्ण्य तत्क्षमनीयोऽहं सुविचारचेतोभिर्मनीषिभिरिति सप्रणतिमभ्यर्थना। साक्षरानुचरो गजाधरलाल: KARE Page #173 -------------------------------------------------------------------------- ________________ श्रीमद्भगवत्कुंदकुंदाचार्याः । प्रिय पाठकमहाशयाः श्रीमन्महावीरजिनवरपरमनिश्रेयसप्रापणानंतरमजनिषत नैकविधागमपयोमरालायमाना आर्हतहर्म्यस्तंभायमानाश्च भुत्रि गरीयांसोऽनेकविद्वांसः । परं पूज्यतामहत्तयोः परमावधिं तेषु भगवान् श्रीकुंदकुंदाचार्य एव समुपालभत । प्रतिवादिकरिनिकरपंचलपनायमानैर्गरीयोभिर्विद्वद्धिः समाविरभावि यत्र कुतश्चिदात्मनीनपरिचितिस्तत्र 'वयं भगवत्कुंदकुंदान्वयिनस्तदनुयायिनश्चेति प्रतिपादयद्भिरेव तैः सानंदमवाबोधि स्वीयं सौभाग्यं । अद्यत्वेऽपि भगवान् कुंदकुंदः तीर्थप्रवर्तकधर्मसंस्थापक सामान्येनैव दिगम्बरसमाजे प्रतिष्ठाप्यते । आर्हतमतामलतत्त्वतत्पवित्रता संरक्षकंषु भगवत्कुंदकुंद एवाभून्मुख्यः । दिगम्बर जैन संप्रदायस्य बहलतमांशः किल सांप्रतं भगवत्कुंदकुंदजल्पितसरणिशरण एव विभाव्यते, किंतु सत्यप्येवं भगवत्कुंदकुंदः क़ आसीत् ? कदा, क, परमपावनात्मनीनवैदुष्येण भारतभूमिं विभूषयामास ? इति नांशमात्रमपि जानीमो वयं । भक्तिवशंवदतया तद्विषयं किमपि वृत्तं परिचाययितुं समाश्रयतोऽपि परंपरागण भ्रमाकीर्णत्वात्तस्य नात्मकामनां कर्तुं फलवतीं पारयामः । ततः परिश्रमतमत्वेऽपि भगवत्कुंदकुंदपरिचय समाविर्भावाय नियतं विद्वद्भिः सुदृढप्रतिज्ञैर्भवितव्यमिति सनतिं तेषां पुरस्सरमास्माकीनाभ्यर्थना । भगवत्कुंदकुदविषयकं यत्किमपीतिवृत्तं समवाबोधि, समुपानीयते विदुषां पुरस्तात् तदस्माभिरत्र— नामविचारः प्राथमिकः प्रधानश्चाभिधेयः श्रीमद्भगवत्कुंदकुंदस्य पद्मनंदीति । परं विश्रुतिर्वहलतयाद्यत्वेऽस्य महात्मनः कोण्डकुंदनाम्ना कुंदकुंदेन वा । आसीच्चायं कोण्डकुण्डाभिधनगरवास्तव्यस्ततोऽनुमीयते नागरिकाभिधयैवायमात्मविश्रुतिं प्रत्यपद्यत । कोण्ड कुंदेतिकर्णाटकभाषीयं नाम तस्य श्रुतिकटुकतया संस्कृतकविभिः समस्ति परावर्तितं श्रुतिमधुरकुंद कुंदरूपेणेति । श्रीमदिंद्रनंदि सूरिभिर्व्यलेखि स्वविरचितश्रुतावतारग्रंथेएवं द्विविधो द्रव्यभावपुस्तकगतः समागच्छन् गुरुपरिपाट्या ज्ञातः सिद्धांत: कोण्डकुण्ड पुरे ॥ १६० ॥ श्रीपद्मनंदिमुनिना सोऽपि द्वादशसहस्रपरिमाण: ग्रंथपरिकर्मकर्ता षट्खंडाद्यत्रिखंडस्य ।। १६१ । अमुना पद्येन श्रीमन्मुनिवरपद्मनंदिवास : कोण्डकुण्ड पुर एव निश्चीयते । अन्येऽपि समभूवन् भूयांस आचार्याः कार्णाटकदेशे, समुपालेभिरे ये स्वनिवासस्थाननाम्नैव भुवि विश्रुतिं यथा श्रीतुम्बुलूराचार्यः । प्राथमिकं नाम श्रीमत्तुंबुल्लूराचार्यस्य वर्धनदेव आसीत् परं तुम्बुलूर ग्रामनिवासित्वादयमाचार्यपादो विशुश्राव तुम्बुलाचार्याभिधया । विलिखितं श्रुतावतारे तदुल्लेखसमये - " अथ तुम्बुलूरनामाचार्योऽभूत्तम्बुलूर सद्ग्रामे ' इति नवमे दशमे च श्रवणवेलगुलशिलालेखे श्रीमत्कुंदकुंदाचार्यस्य समुल्लेखः खलु पद्मनंदि - कुंदकुंदेतिनामद्वितयेनैव कृतः । एवमन्यत्रापि । किंतु नंदिसंघपट्टावल्यामस्य पावनात्मनः कुंदकुंद - वक्रग्रीव - एलाचार्य-गृध्रपिच्छ-पद्मनंदीतिनामपंचकमभाणि - ततोऽभवत्पंचसु नामधामा श्रीपद्मनंदी मुनिचक्रवर्ती । आचार्यः कुंदकुंदाख्यो वक्रग्रीवा महामतिः । एलाचार्यो गृध्रपिच्छः पद्मनंदीति तन्नुतिः ||४|| Page #174 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायांगृध्रपिच्छ-वक्रमीव-एलाचार्येति नामत्रिकमन्यदप्यास्त श्रीमत्कुंदकुंदाचार्यस्येति पट्टावलीस्थपद्यपंक्तीनामासामत्र तात्पर्य । . कुतश्चिदसाधारणकारणसंपातात्तिरोभूतत्वात्पुरातनपट्टावलीनां तत्स्थाने-अनुमानतः, कल्पनावलतः पूर्वापरविरुद्धमिलितकियच्चित्पराचीनोल्लोखैश्चेमा विरचिताः संयभिनवाः पट्टावल्यः शतद्विशतसांवत्सरिकैर्भट्टारकैः । ततः समुपलब्धाधुनिकपट्टावल्यः सर्वथा संशीतिकारणत्वान्न प्रमाणतामंचंति । नंदिसंघपट्टावल्यपि तथाभूतैव । एवं च तल्लिखितगध्रपिच्छ इति नाम न भगवत्कुंदकुंदस्वामिनः किंतु-भगवदुमास्वामिनः उमास्वातेर्वा । अत्र नैकानि प्रमाणनि संति यथा तत्त्वार्थसूत्रकर्तारं गृध्रपिच्छोपलाक्षतं वंदे गणींद्रसंजातमुमास्वामिमुनीश्वरं ॥ १ ॥ तत्त्वार्थप्रशस्तिः तस्यान्वये भूविदिते वभूव यः पद्मनंदिप्रथमाभिधानः श्रीकुंदकुंदादिमुनीश्वराख्यः सत्संयमादुद्गतचारणार्द्धः ॥ ४ ॥ अभूदुमास्वातिमुनीश्वरोऽसावाचार्यशब्दोत्तरगृध्रपिच्छः । तदन्वये तत्सदृशोऽस्ति नान्यस्तात्कालिकाशेषपदार्थवेदी ॥५॥ ४० तमः श्रवणवेलगुललेख: तदीयवंशाकरतः प्रसिद्धादभूदद्यदेषा यतिरत्नमाला बभौ यदंतर्मणिवन्मुनींद्रस्स कुण्डकुण्डोदितचंडदंडः ॥१०॥ अभूदुमास्वातिमुनिः पवित्रे वंशे तदीये सकलार्थवेदी सूत्रीकृतं येन जिनप्रणीतं शास्त्रार्थजातं मुनिपुंगवेन ॥११॥ स प्राणिसंरक्षणसावधानो बभार योगी किल गृध्रपक्षान् तदा प्रभृत्येव बुधा यमाहुराचार्यशब्दोत्तरगृध्रपिच्छं ॥१२॥ मंगराजकविकृतशिलालेखः। एतत्प्रमाणातिरिक्तान्यन्यान्यपि-उमास्वामिनो गृध्रपिच्छनामत्वे संति तानि च संकीर्तितानि स्युर्यथावसरं पुरस्तात् ततोऽनया प्रमाणसमष्ट्या नियतं निर्धार्यते नाभवत् भगवत्कुंदकुंदस्य गृध्रपिच्छ इति नाम । विमुच्य प्रतिपादितपट्टावलीं वक्रग्रीवनामापि कुंदकुंदस्य नोपलभ्यते काप्यन्यत्र, किंतु तन्नाम्नापर एव कश्चिदाचार्यो व्यश्रौषीद्भुवि । श्रवणवेलगुणमल्लिषेणप्रशस्तौ समुदीरितश्चायं तदुल्लेखः वक्रग्रीवमहामुनेर्दशशतग्रीवोऽप्यहींद्रो यथा ___ जातं स्तोतुमलं वचोवलमसौ किं भग्नवाग्मिनजं योऽसौ शासनदेवतावहुमतो हावक्रवादिग्रह प्रीवोऽस्मिन्नथ शब्दवाच्यमवदन्मासान्समासेन षट् ॥ इति ॥ कथितमल्लिषेण प्रशस्तौ च । ___ 'वंद्यो विभुर्भुवि न कैरिह कोण्डकुंदः" __ इति पूर्व कुंदकुदं समुपवर्ण्य ततश्च समंतभद्र सिंहनंदिनं च समुल्लिख्य पश्चाद्वक्रग्रीवः संस्तुतस्ततो समनुमन्यते भगवत्कुदकुंदतोऽन्य एव कश्चित् समजनि परवादिभुग्नभारतीग्रीवो वक्रग्रीवो विद्वान् न कुंदकुंद एव वक्रग्रीवः पट्टावलीलेखकाधारात् । .. नांचति किमपि गमकमत्रापि दृष्टिगोचरतां यत्कुदकुदस्वामिन एवाभूदेलाचार्य इत्यभिधयः । किंत्वपर एव कश्चित् प्रत्यपद्यताऽभिधयानया प्रत्यग्रविद्यो विद्वानेलाचार्यः । स चासचित्रकूटपुरवास्तव्यः । तत्समीपे च भगवज्जिानसेनगुरुवीरसेनः प्राध्यैष्ट सुकरतयानवद्यासद्धांतशास्त्रं । तत्र गमक Page #175 -------------------------------------------------------------------------- ________________ भगवत्कुंदकुंदाचार्यः। काले गते कियत्यपि ततः पुनश्चित्रकूटपुरवासी श्रीमानेलाचार्यों वभूव सिद्धान्ततत्त्वज्ञः ॥ ७७ ॥ तस्य समीप सकलं सिद्धान्तमधीत्य वीरसेनगुरुः उपरि तमनिवंधनाद्यधिकारानष्ट च लिलेख ॥ १७८ ॥ कुन्दकुन्द उमास्वामी च । कुन्दकुन्दोमास्वामिनोः कः पास्परिकसंबंध आसीदित्यत्र मतात्रिकं-उमास्वामिनो गुरुरासीत्कुंदकुंद इत्याद्यं । कुंदकुंद एव शिष्य उमास्वामिन इति द्वितीयं । तृतीयं कुंदकुंद एवोमास्वामीति । परन्तु येषु सप्तसु श्रवेणवेलगुलशिलालेखेषु भगवत्कुंदकुंदसमुल्लेखस्तेषु-भगवदुमास्वामी श्रीकुंदकुंदांतेवासीति प्रथमप्रमाणात् । पट्टावलीलेखकश्च-उमास्वाम्येव कुंदकुंदस्य शिष्य इति संपुष्य समाविरभावि श्रीकुंदकुंदगुरुर्जिनचंद्र इति द्वितीयप्रमाणात् । अनेकेषु प्रथेषु कुंदकुंदस्यानुल्लिख्योमास्वमिनं गुरुं तदपर एव विलिखित इति तृतीय प्रमाणाञ्च नियतं विज्ञायतंऽस्माभिः-उमास्वाम्येव कुंदकुंदस्यांतवासीत्यस्मन्मतानुसार्याद्यस्यैव श्रेयस्त्वं सिद्धांतस्येति । श्रीमानुमास्वातिरयं यतीशस्तत्त्वार्थसूत्रं प्रकटीचकार । यन्मुक्तिमार्गे चरणोद्यतानां पाथेयमयं भवति प्रजानां ॥ १ ॥ तस्यैव शिष्योऽजनि गृद्धपिच्छो द्वितीयसंज्ञास्य वलाकपिच्छः । यत्सूक्तिरत्नानि भवन्ति लोके मुक्त्यंगनामोहनमंडनानि ॥ १ ॥ इति पद्यद्वयं यशोधरचरितभूमिकायां कस्यचिद्ग्रंथस्य समुद्भुतं । अमुना पद्यद्वयेन समुत्पद्यते गरीयसी संशतिरियं यद्गृध्रपिच्छ इतीदं नाम न भगवदुमास्वातेः किन्तु कस्यचित्तच्छिष्यस्य स च कुंदकुद एव स्याद् । पदावलीलेखकेनापि च गृध्रपिच्छ इति नाम कुंदकुंदस्य समाविरभावि परंतु भ्रांतिरेवेयमेकां. न्तेन । वलोकपिच्छः खलु भगवदुमास्वामिशिष्यस्यांन्तेवास्यासीत् समुपवर्णितश्चानेकत्र भगवदुमास्वाति शिष्याशिष्यत्वेन सः। निष्टंकितं चैतत् गृधपिच्छेतिनाम भगवदुमास्वातेरेव । यदि तच्छिष्यस्यापि श्रूयते तदा तस्य भगवदुमास्वामिशिष्यत्वेनैवेति.विभावनीय ।। कुंदकुंद एवामास्वातिरिति तृतीयमतसमुल्लेखः सर्वार्थसिद्ध्यवतरणिकायां प्राकाशि निटववंशोद्भवपंडित-कल्लापाभरमापामहोदयैः परन्तु तयौरैक्ये वलवत्प्रमाणाभावात् , एकैश्च संस्कृतभाषायां गूढगभीरदर्शनशास्त्रप्रतिपादकः, अपरश्च प्राकृतथाषायां सरलतमभाषयाध्यात्मशास्त्रनिदर्शक इत्युभयो विभिन्नरचनासमालोचनाच्च न हि कुंदकुंदोमास्वामिनोरैक्यं प्रामाण्यमास्कंदति-तयोरैक्यकल्पनासमुत्पत्तिस्तूभयोर्विदेहगमनात्, उभयोर्वा गृध्रपिच्छेतिनामसमालोचनात् भ्रांत्याभूदिति निश्चीयते भगवत्कुंदकुंदगुरुः __भगवत्कुंदकुंदस्य पाठयिता गुरुः क आसीदित्यत्रापि मतपार्थक्यं-पूर्वोद्धृतपट्टावलीपद्यद्वितयेन विभाव्यते माघनंद्याचार्यांतेवासी गुणचंद्रस्तच्छिष्य उत्तराधिकारी वा भगवान् कुंदकुंदः समभूत् इति व्यावर्णितः। १ श्रीमूलसंघेऽजनि नंदिसंघस्तस्मिन् वलात्कारगणोऽतिरम्यः । तत्राभवत्पूर्वपदांशवेदी श्रीमाघनंदी नरदेववंद्यः ॥१॥ पदे तदीये मनिमान्यवत्तौ जिनादेिचद्रः समभदतन्तः । ततोऽभवत्पंच सुनामधामा श्रीपद्मनंदी मुनिचक्रवर्ती ॥१॥ २ श्रीगृध्रपिच्छमुनिपस्य बालकपिच्छः शिष्योऽजनिष्ट भुवनत्रयवर्तिकीर्तिः चारित्रचंचुरखिलावनिपालमौलिमालाशिलीमुखविराजितपादपद्मः ॥ १॥ श्रवणवेलस्य ४० तमोलखः, . ३ उमाखातिः ४ कुंदकुंदः। Page #176 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायां___अथ श्रीकुमारनंदिसैद्धांतिकदेवशिष्यैः प्रसिद्धकथान्यायेन पूर्वविदेहं गत्वा वीतराग सर्वज्ञसीमंधरस्वामितीर्थकरपरमदेवं दृष्वा च तन्मुखकमलविनिर्गतदिव्यवर्णश्रवणादवधारितपदार्थसमूहैर्बुद्धात्मतत्त्वादिसारार्थ गृहीत्वा पुनरप्यागतैः श्रीमत्कुंद कदाचार्यदेवैः पद्मनंद्य परनामधेयरंतस्तत्त्वबहिस्तत्त्वगौणमुख्यप्रतिपत्त्यर्थं - अथवा-शिवकुमारमहाराजादिसंक्षेप रुचिशिष्यप्रतिबोधनार्थ विरचिते पंचास्तिकायमाभृतशास्त्रे यथाक्रमेणाधिकारशुद्धिपूर्वक तात्पयोर्थव्याख्यानं कथ्यते___इति श्रीमज्जयसेनाचार्यकरकल्पमहीरुहखचितसमयसारसंस्कृतटीकालिखितगद्यतश्च पमनंदीत्यपराभिधाविभूषितश्रीकुंदकुंदभगवान् कुमारनंदिसैद्धांतिदेवशिष्यः प्रकटीकृतः । किंतु मतद्वयमपीदमर्वाचीनतमत्वान्न प्रामाणिकी तथ्यतामवांचति । यतः-- - श्रुतावतारे--अहंदलेः पश्चान्माघनंदिनस्तदनंतरं च धरसेनादिगुरुणां समुल्लेखः कृतः न माघनंद्यनंतरं गुणचंद्रस्य नापि कुमारनंदिनः । श्रवणवेलगुललेखेष्वपि न कापि श्रीकुंदकुंद गुरोरुल्लेखो दृष्टिपथमवातरत् किंतु महीपतिचंद्रगुप्तवर्णनासमनंतरं कुंदकुंदभगवानेव समुपवर्णितः । प्राधा च गुरुपरंपरा श्रीमत्कुंदकुंदत एव तद्वर्णनायां । नंदिसंघस्य प्रधानारातीयः श्रीकुंदकुंद एवाजीगणत, इति न केनापि विजज्ञे क आसीत्कुंदकुंदभगवद्गुरुः ? स्वरचितग्रंथेष्वपि कापि नोल्लेखयांचक्रे कुंदकुंदभगवानात्मनीनं गुरुमिति । शिष्यपरंपरा श्रीमद्भगवत्कुंदकुंदाचार्यः समजनिष्ट नंदिसंघस्य नंदिगणस्य वा प्राथमिकाचार्यः । समस्ति कश्चित् १११५ तम-ए. डी. शताब्दिसन्निकृष्टः शिलालेखः । तत्र व्यलेखि विस्तरतया समुल्लेखः श्रीकुंदकुंदशिष्य परंपरायाः । स्थानाभावादप्रकाशयतोऽपि वयं तं, समुद्भावयामः कियन्तं चित्तत्सारं श्रीमत्पद्मनंदिनोऽपराभिधेयः कुंदकुंद आसीत् । स च समियाय चारणद्धिं प्रखरामलाचारणमाहा. स्म्यात् । समजनि च तस्योमास्वातिः शिष्यः । गृध्रपिच्छाचार्यनाम्नापि स समुपालेभे भुवि विश्रति । नाभूच्च पद्मनंद्यन्वये गृध्रपिच्छसमः कश्चिदन्यः प्रखरविद्वान् । तस्य च नैकनरपतिपरिपूजितचरणः वोभवतिस्म वलाकपिच्छः शिष्यः । वलाकपिच्छस्यांतेवासी च तर्कव्याकरणसाहित्यादिनिगमागमजल निधिसमाहितपारो यतिश्च समजनि गुणनंदिविद्वान् । गुणनंदिनश्च त्रिशतशिष्या समभूवन् तेष्वपि कठिनतममपि विषयं सुलभतया व्याख्यातृत्वात्, प्रमाणतत्त्वावबोद्धृत्वात् सिद्धांतशास्त्रस्य वेत्तृत्वाच्च समन्निखिलांतेवासिशिरोमणिः श्रीदेवेंद्रविद्वान् । देवेंद्राचार्यांतेवासी सिद्धांतचक्रवर्ती वा कमिनीवल्लभश्चवभूव कलधौतनंदी ( कनकनंदी ( ? । ) तस्य च पुत्रो मदनशंकरो महेंद्रकीर्तिर्वा समजनि । तच्छिष्यश्च श्रीवीरनंदी स च कविचूडामणिः, गमकः महावादी, वाग्मी च जातः । इत्यादि । वतीयमंगराजरचितशिलालेखेऽपि पद्मनंदि-उमास्वाति-वलाकपिच्छेत्याचार्यत्रयवर्णनानंतरं सं. स्तुताः समंतभद्र-पूज्यपाद-अकलंकप्रभृतयः सूरयः । किंतु न कापि समुलिलिख समंतभदः किल वलाकपिच्छस्य शिष्य आसीदिति । परं तद्वंशपरंपरायामभूदिति लेखः । ४०तमे शिलालेखेऽपि यत्र बलाकपिच्छवर्णनानंतरं समंतभद्रपूज्यपादौ स्त्येतेस्म तत्र समंतभद्रः ~वलाकपिच्छपरंपरायामेव समजनि न तु तच्छिष्य इति समाविरभावि सुस्पष्टतया। . परंतु लेखद्वितयमपीदं न नंदिसंघपट्टावलीसमतामवांचति । नदिसंघपट्टावल्यास्तु परंपरेयं-उमास्वातिः, लोहाचार्यः, यशःकीर्तिः, यशोनंदी, देवनंदी, (पूज्यपादः) गुणनंदीत्यादयः । संभाव्यते पट्टभेदाद्भवेदयं भेदः । पट्टावलीरचयितारो वा प्रमाणाभावेऽप्यनुमानतस्तं क्रमं लिलिखुरिति । Page #177 -------------------------------------------------------------------------- ________________ भगवत्कुंदकुंदाचार्यः। स्थानं । श्रुतावतारलेखतः समनुभूयते-समभूद्भगवान् कुंदकुंदः संभाव्यमानकर्णाटकप्रांतांतर्गतकोण्डकण्डपु. रे । यदा भद्रबाहुस्वामिसमानकालीनः समजनि गरीयान्दुष्कालस्तदा, अगाद्विशालसंघो मुनीनां मुनिवरभद्रबाहुणा समं कर्णाटकदेशं । समजनि च तदात्वे चारित्रशैथिल्यादत्र श्वेतांबरदिगंबरविभागः । विनिर्धार्यते संजायमाने किल भेदद्वये दिगंबराचार्यैदक्षिणकर्णाटकदेशः श्वेतांबरैश्च गुर्जरः, उत्तरभारतश्च विचक्रे स्वीयं प्रधानस्थलं । कियस्कालप्रागेवास्माद्भेदात्समजनि श्रीकुंदकुंदभगवान् । अतः कर्णाटकप्रांत एव नियतमेतनिवासस्थलं विभाव्यते। श्रीमत्कुंदकुंदशिष्या गुणनंदिदेवेद्रादयोऽपि कर्णाटकप्रांत एव समभूवन्नतोऽपि भगवान् कुदकुदः कर्णाटकप्रांतस्थ एव विनिश्चीयते पांगलगोत्रोद्भवश्रीमपंडिततात्यानेमिनाथमहोदयैर्विलिखिता काचित्कुंदकुंदाचार्यविषयिणी कथा ज्ञानप्रबोधाभिधभाषाग्रंथाधारतः । तत्र प्रकटीचक्रे श्रीमत्पांगलमहोदयैः कुदकुंदभगवान् मालवप्रांतांतर्गत वारापुरवास्तव्यः परंतु केवलतत्कथातिरिक्तं वारापुरनिवासित्वे न नियामकं किमप्यनवयं गमकं । समयविचारः समवगम्यते किलेदं नंदिसंघपट्टावलीतो यत् ४९ तमायां वैक्रमशताब्दी न्यवासीद्भगवान् कुंदकुंदो नंदिसंघपट्टे । स च तदावे त्रायस्त्रिंशद्वर्षीयः। एवं च मासदशकपूर्वकैकपंचाशद्वर्षाणि संघ संशास्य १०१ तमसंवत्सरसन्निकृष्टे समन्वभूदव्ययसुखं । परंतु विचारनिकषायमाणे विनिर्णीतः किलायं समयकलधौतः सर्वथा कल्पित एव प्रतिभाति । जिनवरमहावीरनिर्वाणप्रापणानंतरं समजनिष्ट ६८३ वर्षपर्यंतमंगज्ञानप्रवृत्तिरत्र । अनंतरं च सा तिरोबभूव इति श्रुतावतारग्रंथाधारतः समवगम्यते । इत्थं तद्व्यवस्था१ इंद्रभूतिगणधरः (केवली) १२ वर्षाणि २ सुधर्माचार्यः १२ वर्षाणि ३ जम्बूस्वामी ३८ वर्षाणि ४ विष्णुप्रभृतिपंचश्रुतकेवलिनः । १०० वर्षाणि ५ विशाखदत्तप्रभृतयः-एकदशांगदशपूर्वपाठिनः १८३ वर्षाणि नक्षत्रादय एकादशांगपाठिनः २२० वर्षाणि सुभद्रादय आचांरांगपाठिनः ११८ वर्षाणि महावीरभगवनिर्वार्णानंतरं ६८३ वर्षपर्यंत जागर्तिस्मांगप्रवृत्तिरिति-हरिवंशपुराणप्रशस्तावीप लिखितमास्ते । यथा त्रयः क्रमात्केवलिनो जिनात्परे द्विषष्टिवर्षांतरभाविनोऽभवन् । ततः परे पंच समस्तपूर्विणस्तपोधना वर्षशतांतरे गताः ॥ १॥ ज्यशीतिके वर्षेशते तु रूपयुक् दशैव गीता दशपूर्विणः शते । १ त्रिलोकसारादिप्रथप्रामाण्या त्सुनिश्चितमेतत् ४७० तमवैक्रमसंवत्सरपूर्व मुमुचे भगवन्महावीरः । अस्म त्रिनिर्दिष्टसमयः श्वेतांबरंथश्वपि निश्चितः। २ पहावलीलेखकमतात्-लोहाचार्यानंतरभाविनः-अद्विलि-माघनंदि-भूतवलि-पुष्पदंताचार्या अप्यंगशानिनः समभूवन किंतु प्रमाणाभावान्न तचारु । ३ गुणधरधरसेनान्वयगुर्वोः पूर्वापरक्रमोऽस्माभिः । न ज्ञायते तदन्वयकथकागममुनिजनाभावात् ॥११॥ भुतावतारः। Page #178 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायांद्वये च विशेंगभृतोऽपि पंच ते शते चं साष्टादशके चतुर्मुनिः ॥२॥ ___ आदिपुराणस्य द्वितीयपर्वणि १३९-१५० तमाभ्यां पद्याभ्यां भगवजिनसेनाचार्यैरपि मतमिदं पुपुषे । प्रथत्रयमपीदं पराचीनतमत्वात्प्रमाणतमं च ततो वीरनिर्वाणानंतर ६८३ संवत्सरपर्यंत अर्थात् २१३ वैक्रमः संवत्सरपर्यंतमचीकमतभारतेंऽगज्ञानप्रवृत्तिरत्र न कापि संशीतिः । ___ 'श्रुतावतारावलंबनतः वीरनिर्वाण-६८३-वर्षानंतरं श्रीदत्त-शिवदत्त-अर्हद्दत्ता अगपूर्वाणां कियतां चिदंशानां समभूवन् ज्ञातारः । तदनंतरं समजनि पुण्डूवर्धनपत्तने श्रीमदईदलि:-अंगपूर्वाशदेशज्ञः । तत. श्चांगपूर्वाशदेशज्ञो बभूव माघनीदमुनिः-समाययौ च स स्वर्ग समाधिद्वारेण । तत्पश्चात् कर्मप्राभूतबोधविचक्षणो धरसेनाचार्यः समुत्पेदे । स च भूतवलिपुष्पदंतावध्यापयामास । शिष्यद्वयं चेदं कर्मप्राभृतस्य षखंडशास्त्राणि विरचयामास । ___ गणधर-अतिवृष-उच्चारणाचार्या इति त्रयः सूरयोऽपरेऽपि समुत्पेदिरे । तैश्च क्रमशः कषायप्राभृतगाथा, चूर्णिका, वृत्तिश्च विलिखिताः। संप्राप च पद्मनंदिमुनिः कर्मकषायप्राभृतसिद्धांतद्वयं गुरुपरिपाटीतः कोण्डकुन्दपुरे । अर्थात् इंद्रनंदिसूरिरचितश्रुतावतारालंबनेन प्रादुरभूद्भगवान् कुंदकुंद: भुतवलि-पुष्पदंत-उचारणाचार्यसमनंतरं । परं नाविर्भावितः कदा? तथापि निम्नलिखितपद्यात् सुनिश्चितं समनुमन्यते प्रतिपादिताचार्यमरणानंतरं कियद्वर्षानतरं प्रत्यपादि भगवान् कुंदकुंदः । अन्यथा गुरुपरिपाटीतः सिद्धांतद्वितयमवाप कुंदकुदप्रभुरिति न प्रतिपादयितुं पार्येत । तच्च पद्यमिदं एवं द्विविधो द्रव्यभावपुस्तकगतः समागच्छन् । गुरुपरिपाव्या ज्ञातः सिद्धांतः कुंडकुंदपुरे ॥ १६० ॥ श्रीपद्मनंदिनेत्यादि............. गरीयानयं परितापः श्रुतावताररचयिता श्रीमदिंद्रनंदी नाजीगणत् गुणधरधरसेनाचार्ययोः पूर्वापरक्रम यदि स व्यजिज्ञपत् तयोः गुरुपरिपाटी प्रत्यपादि तदा सुलभतया सुनिश्चितः श्रीमत्कुंदकुंदसमयः । तथा तत्प्रतिपादनानुकंपया नियतमिदं विज्ञायते-अंगपूर्वतदंशयोरवबोधो देशकालदोषतो मंदतमायमानः प्रतिपद्यते स्म । क्रमेण चानेन गुणधरधरसेनाचायौँ प्रादुरभूतां सर्वतःपश्चात् । यौ च-अग्रायणीपूर्वीतर्गतपचमवस्तुनश्चतुर्थप्राभृतस्य, ज्ञानप्रवादपूर्वीतर्गतदशमवस्तुनस्तृतीयकषायप्राभृतस्य च ज्ञातारावास्तां । अयमाशयः-तदेमौ द्वौ विद्वांसौ समजनिषातां यदा समभूत् चरमांगज्ञानी लोहाचार्यः । तदनंतरं समपत्सत च आरातीयचतुर्मुनयः । ततश्च समुत्पेदाते- अर्हद्वलिमाघनंदिनाविति । श्रीलोहाचार्यस्य मरणकालः २१३ तमवैक्रमशताब्दिसन्निकृष्टः । यदि चरमांगज्ञानिवत् विनयधरादिचतुरारातीयमुनयोऽपि केवलमष्टादशवर्षांतःप्रविष्टा एव समभिमन्येरन् । तदनंतरं अर्हद्वलिमाघनंदिनावपिदशवर्षमध्या द्वादशवर्षमध्या वा संगण्येरन् तत्पश्चात् धरसेन-भूतवलि-पुष्पदंत-गुणधर-यतिवृषभ-उच्चारणाचार्यादीनां सत्त्वे गुरुपरिपाटीतस्तद्ग्रंथानां भगवत्कुंदकुंदपर्यंतसमानयने पंचाशद्वर्षाण्येव वा स्वीक्रियेरन् तदा भवति निश्चितः श्रीकुंदकुंदस्वामिसमयः-वैक्रमतृतीयशताब्देश्चरमपादसान्निध्ये । समवगच्छंति तावदिदं सकला जनाः समुपपेदे भगवान् कुंदकुंदो नंदिसंघे सातिशयो विश्रुतश्च विद्वान् । पराचीनजैनग्रंथा अप्यत्र प्रमाणं । अर्थात् समुल्लिखितं समवतिष्ठते तेषु, नंदसंघस्थापना समभूत्तत्परस्तात् । संघस्थापकश्च समजनि श्रीमदर्हद्वलिः । नंदिसंघगुर्वावलीतश्च समवाबोधीदं, यत्कुंदकुंदभगवान् तृतीयाचार्यो नंदिसंघस्य । अर्थात् समजनिषातां तत्पुरस्तात् माघनंदिजिनचंद्रौ। ततोऽर्हद्वलिमाघनंदिसमनंतरं तु लघीयस्तयावश्यक एव भगवत्कुंदस्थितिसमयः स च संपतिष्यति तृतीयशताब्देरुत्तरार्धकालः । एकदा भगवत्कुंदकुंददेवैः सह समजनि गरीयान् विवादो रैवनिकमहीधरे श्वेतांबराचार्याणां । कृता च तदा स्वामिभिः पाषाणनिर्मिता सरस्वतीमूर्तिर्वाचालितेति जागर्ति विश्रुतकथा । तत्र प्रमाणं Page #179 -------------------------------------------------------------------------- ________________ भगवत्कुंदकुंदाचार्यः । पद्मनंदिगुरुर्जातो वलात्कारगणाग्रणीः पाषाणघटिता येन वादिता श्रीसरस्वती । कुंदकुदगुणी येनोर्ज्जयंतिगिरिमस्तके सोऽवताद्वादिता ब्राह्मी पाषाणघटिता कलौ । गुर्वावली - शुभचंद्रकृत पांडवपुराण: प्रमाणेनामुना विनिश्चीयते भगवत्कुंदकुंदस्य पुरस्तादपि जैनधर्मो दिगम्बर श्वेतांबरेतिभागद्वये विभक्त आसीत् । कुंदकुंदविरचितषट् पाहुडप्रथेऽपि श्वेतांबर संप्रदायास्तित्वमाभासते । यथा सिज्ज वच्छधरो जिणसासणे जइ वि होइ तिच्छयरो । गो विमोक्खमग्गो सेसा उम्मग्गया सव्वे ॥ १ ॥ जइ दंसणेण सुद्धा उत्तामग्गेण सावि संजुत्ता । घोरं चरिय चरितं इच्छीसु ण पव्विया भणिया ॥ २ ॥ सूत्र पाहुडप्रथः निर्णेयमिदमत्र दिगंबरसंप्रदाये कदा श्वेतांबर संप्रदायसमुपपत्तिरभिमता । देवसेनसूरिभिः स्वीयदर्शनसारग्रंथे तु गाथेयं प्रकटिता— एकसये छत्तीसे विक्कमरायस्स मरणपत्तस्स । सोरठ्ठे वलहीये उप्पण्णो सेवडो संघो ॥ १ ॥ दर्शनसारे यस्य विक्रमस्य व्यलोखे संवत्सरो भवेदनुमानतः स शकविक्रमः शालिवाहनो वा । जैनग्रंथेषु समस्तीयं शालिवाहन शकसंवत्सरयोर्विक्रमसंवत्सरलेखन परिपाटी । ततो १३६ तमसंवत्सरो यदि शकीयस्तदा तस्मिन् शकसंवत्सरे, १३५ शतोत्तरपंच त्रिशद्वर्षसम्मेलनतः २७१ तम वैक्रमसंवत्सरे निष्पन्ने नियतं श्वेतांबरसमुत्पत्तिस्तत्सान्निध्ये समजनीति निर्विवादनिश्वयः । एवं समनंतरं च श्वेतांबर समुत्पत्तेः प्रतिपादितश्रुतावतारप्रामाण्यात्सिद्ध्यत्यवदाततया भगवत्कुंदकुंदसमयस्तृतीयशताब्देश्वरमभागे । २१३ तमवैक्रमसंवसरात्पूर्वे तु साधयितुमेव नार्हति भगवत्कुंदकुंदोत्पत्तिसमयः । श्रीमद्भगवत्कुंदकुंदसमयविषये विद्वद्वरश्रीमत्पंडित के - बी- पाठकमहोदयानां मतमिदं— कोण्डकोन्दान्वयोदारो गणोऽभूद्भुवनस्तुतः तदैतद्विषयविख्यातं ( ? ) शाल्मलीग्राममावसन् ॥१॥ आसीदतोरणाचार्यस्तपःफलपरिग्रहः । तत्रोपशमसंभूतभावनापास्तकल्मषः ॥ २ ॥ पंडितः पुष्पनंदीति बभूव भुवि विश्रुतः । अंतेवासी मुनेस्तस्य सकलश्चन्द्रमा इव ॥ ३ ॥ प्रतिदिवसभवदुवृद्धिर्निरस्तदोषो व्यपेतहृदयमलः । परिभूतचंद्रविम्बस्तच्छिष्योऽभूत्प्रभाचंद्रः ॥४॥ अमूनि पद्यानि राष्ट्रकूटवंशतृतीयगोविंद महाराज समकालीन ७२४ तमशकसंवत्सरस्य ताम्रपट्टे विलिखितानि प्राप्तानि । तस्यैव गोविंदमहाराजस्य समकालीन ७१९ तमशक संवत्सरस्यापरोऽपि कश्चित्तानपट्टः संप्राप्तस्तत्र च निम्नलिखितानि पद्यानि - आसीदतोरणाचार्यः कोण्ड कुंदान्वयोद्भवः । स चैतद्विषये श्रीमान् शाल्मलीग्राममाश्रितः ॥ १ ॥ १ नापि सिध्यति वस्त्रधरो जिनशासने यद्यपि भवति तीर्थकरः । arat विमोक्षमार्गों शेषा उन्मागांः सर्वे ॥ १॥ यदि दर्शनेन शुद्धा उत्तममार्गेण खापि संयुक्ता । घोरं चरति चरित्रं स्त्रीषु न...... भणिता ॥ २ ॥ एकशते षट् त्रिंशति विक्रमस्य मरण प्राप्तस्य । सौराष्ट्रे वक्रभीके-उत्पन्नः श्वेतविरसंघः ॥१॥ Page #180 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायांनिराकृततमोऽरातिः स्थापयन् सत्पथे जनान् । स्वतेजोद्योतितक्षोणिश्चंडाचिरिव यो वभौ ॥२॥ तस्याभूत्पुष्पनंदी तु शिष्यो विद्वान् गणाग्रणीः । तच्छिष्यश्च प्रभाचंद्रस्तस्येयं वसतिः कृता ॥३॥ अमूभिः पद्यैर्नियतं विज्ञायते कुंदकुंदान्वयि (अ) तोरणाचार्यस्य शिष्यः पुष्पनंदी तच्छिष्यश्च प्रभाचंद्रो यदि, १९ तम शकसांवत्सरिकस्तदा तोरणाचार्यः ६०० तमायां शकशताब्दौ सिद्ध्यति । अनयादिशा तेषां कुंदकुदान्वयित्वे भगवत्कुंदकुंदसमयस्तेषां १५० शतोत्तरपंचाशद्वर्षपूर्व-'अर्थात् ४५० तमे संवस्सरे' सिद्ध्यति । ५०० तमे शकसंवत्सरे शास्ति स्म कश्चित चालुक्यचक्रवर्ती कीर्तिवर्ममहाराजः वादामीनगरे वातापीपुरे वा स च विनाशयामास पराचीनं कदंबवंशं । अर्थात् ५०० तमशकसंवत्सरात्पंचाशद्वर्षपूर्व (४५० तमशकसंवत्सरसान्निध्ये ) प्राचीनकदंबवंशीयः श्रीशिवमृगेशवर्ममहाराजो विधत्तेस्म राज्यमिति निश्चितिः । श्रीशिवकुमारमहाराजप्रतिबोधनार्थ विलिलेख भगवान् कुंदकुंदः स्वीयं ग्रंथमिति समाविर्भावितं च पंचास्तिकायस्य क्रमशः कार्णाटिकसंस्कृतटीकाकारैः श्रीवालचंद्रजयसेनाचार्यैः । ततो युक्त्यानयापि भगवत्कुंदकुदसमयः तस्य शिवमृगेशवर्मसमानकालीनत्वात् ४५० तमशकसंवत्सर एव सिद्ध्यति स्वीकारे चास्मिन् क्षतिरपि नास्ति कापीति । ग्रंथरचना भगवत्कुंदकुंदस्वामिविरचिताः समस्तग्रंथाः प्राकृतभाषायामेवोपलभ्यते । संस्कृतभाषायामपि स्वा मिनिमिताः संति ग्रंथा इत्यत्र न किमपि प्रमाणं । तदात्वे जनता संस्कृतभाषापेक्षया कठिनतममपि विषयं प्राकृतभाषायामषबोर्बु समर्थासीत् । अतः प्रकटयति स्वामिनः प्राकृतप्रेमेदं नासीत्तेषां स्वीयपाण्डित्यप्रकटनाय लक्ष्यं किंतु सर्वजनहितसमीहापूर्ण मनः । इमानि तद्रचितग्रंथरत्नानि १ समयसारप्राभृतं २ पंचास्तिकायप्राभृतं ३ प्रवचनसारप्राभृतं ४ षट्प्राभृतं--(दर्शनपाहुड--सुत्तपाहुड-चारित्तपाहुड-बोधपाहुड-भावपाहुड--मोक्खपाहुडेतिषद्पाहुडग्रंथाः) रयणसारः वारहाणुवेक्खा (द्वादशानुप्रेक्षा) नियमसारश्चेति । तत्राद्यं ग्रंथषद्कं तु मुद्रितं । सप्तमो नियमसारः समुद्रियते संस्कृतटीकालंकृतः स्वोपज्ञभाषाटीकाविभूषितश्च श्रीयुक्तब्रह्मचारिशीतलप्रसादैः । षट्खंडसिद्धांतस्य प्राथमिकत्रिखंडस्य टीकापि महती भगवत्कुंदकुंदस्वामिभिर्विरचिता । तत्परिमाणं च द्वादशश्लोकसहस्रकं । समुल्लेखः खल्वेतस्याः श्रुतावतारे । परं न समस्ता समुपलभ्यते सांप्रतं । व्यज्ञायीदं भगवत्कुंदकुंदैश्चतुरशीतिशास्त्राणि विरचितानि कियतांचित्तु समुल्लेख उपरिष्टात्कृतः । कियतां च शेषाणामिमानि नामानि समुपलब्धानि जोणीसार-क्रियासार-आराहणासार--लब्धिसार--छपणासार--बंधसार--तत्त्वसार--अंगसार--द्रव्यसार--क्रमपाहुड--पयपाहुड--विद्यापाहुड--उघातपाहुड--दृष्टिपाहुड--सिद्धांतपाहुड--तोयपाहुड--चरणपाहुड-- समवायपाहुड--नयपाहुड--प्रकृतिपाहुड--चूर्णीपाहुड--पंचवर्गपाहुड--कर्मविपाकपाहुड--वस्तुपाहुङ -- बुद्धिपाहुड--पयद्धपाहुड--उत्पादपाहुङ- दिव्यपाहुड--सिक्खापाहुड -- जीवपाहुड-आचारपाहुड- स्थानपाहुड-प्रमाणपाहुड--आलापपाहुड--चूलीपाहुड--प्रदर्शनपाहुड:-णोकम्मपाहुड़--संठाणपाहुड्--नितायपाहुड-एयंतपाहुड--विहयपाहुड-सालमीपाहुतिद्विचत्वारिंशग्रंथाः । कुदकुंदश्रावकाचारग्रंथस्य भगवत्कुंदकुंद एव स्चायतेति पूर्वमासीत्प्रसिद्धिः । किंतु परीक्ष्यमाणे तस्मिन् व्यज्ञायीदं न तन्निीमतः स परं स्वाभिमतसिद्धयर्थं केन चिद्भूर्तेन श्वेतांबरसमाजस्य विवेकविलासनामक ग्रंथस्य परावृत्त्य कानिचित्पद्यानि तन्नामतो-विश्रावितः । भगत्कुदकुंदस्य सांप्रतं याः कृतयो दृष्टिपथमवतरंति ताः सरलतमाः सुरसाश्च । ततो विनिर्धायते महात्मनस्तस्य, मामकीनाकृतिः सुलभतमा सर्वजनबोधकरा च भवेदिति प्रतिसमयं लक्ष्यमासीन् । १ विलोक्यतामतन्निबंधादौ एवं द्विविधो दृष्येत्यादि पाद्वयंः । Page #181 -------------------------------------------------------------------------- ________________ भगवस्कुंदकुंदाचार्यः। भगवत्कररचितकृतिषु समयसार-पंचास्तिकाय-प्रवचनसारेति त्रिकृतयः सर्वप्रधानाः । कृतित्रिकमिदं च दिगम्बरसमाजे प्राभृतत्रयनाम्ना च विश्रुतं । अध्यात्मवेदांतविषयः किल जैनधर्मस्य ग्रंथत्रय एवास्मिन् समंजसतया समुपवर्णितः । न काप्यस्युक्तिः स्यात् यदि ग्रंथत्रयमिदं जैनधर्मस्य जीवत्वेन प्राणत्वेन वाभ्युपगतं स्यात् । निश्चयकिलायमास्माकः यावन्न कश्चिदध्यैष्यत ग्रंथत्रयमिदं न प्रत्यपरस्यत स तावज्जैनधर्मज्ञता ततो जैनधर्मज्ञातृत्वमानिभिः तत्समहिमानैश्च नियतमभ्यसनीयमेतद्ग्रंथरत्नत्रयं । टीकाकारी। श्रीमदमृतचंद्रसूरिःनात्र संशीतिः समजनि श्रीमदमृतचंद्रो ग्रंथकारष्टीकाकारश्च । परंतु पावनात्मायं महात्मा कदा ? क ! अनवद्यात्मनीनवैदुष्येण भारतभूमि विभूषयामासेति निर्णयाय न वरीवरीति समीपेऽस्माकं किमपि सुदृढ़ गमकं । केचिदामनंति विद्वांसोऽस्य महात्मनो दशमशताब्दिकालं परं तत्र पुष्कलप्रमाणाभावात् न स हि प्रमाणतामास्कंदति । महात्मायं स्वकरकलितगंथेषु टीकासु वा स्वनामातिरिक्तमात्मनीनगुर्वादिनामापि न विलिलख यतो भवेत् सुगमता तत्समयादिविनिर्णयाय । ततो दुरधिगम्य एवास्य विदुषः समयादिविनिर्णयः । पुरुषार्थसिद्ध्युपायः तत्त्वार्थसारः, इति ग्रंथद्वयं स्वातंत्र्येण तन्निर्मितमवातरति दृष्टिपथं सांप्रतं । भगवत्कुंदकुंदस्वामिरचितसमयसार-पंचास्तिकायसार-प्रवचनसारेतिनाटकत्रयस्य टीकाश्च तिस्रः। ताश्च टीका स्वस्वरूपेण भाष्यतामनुकुर्वति । नात्र संदेहः महात्मायं तात्विकतात्पर्यनिर्णायकवचनरचनातः समवबोधयति यत्संप्रापादिमपदमध्यात्मटीकाकृत्सु सः । विद्यते जैनसमाजे कश्चिदपूर्वः किंत्वपूर्णः पंचाध्यायी ग्रंथः। योऽचिरकालतएव प्रकाशपदवीमुपनीतः यस्य चाध्ययनाध्यापनप्रसारः समजनि न्यायवाचस्पति पंडितप्रवरश्रीगोपालदासपावनजीवनमूलक जैनसिद्धांतमहाविद्यालयमुरैनातः। सोऽप्यस्यैव महात्मनः कृतिरिति विनिर्धारितस्तद्रचनाशैलीविलोकनात् विषयप्रतिपादनशैलीदर्शनाच्च । भवितव्यं चानवद्यप्रतिभामृतचंद्रसूरिकल्पेनैव विदुषा तथाविधगभीरकृतिनिर्माणमिति । . जयसेनाचार्यः नाम्नानेन किल, समजनिषत नैकविद्वांसो भुवि, तत्र भगवज्जिनसेनाचारादिपुराणो यः संस्तुतः स प्रथमः । हरिवंशपुराणप्रशस्तौ च यः सिद्धांतशास्त्रज्ञत्वनोपन्यस्तः स द्वितीयः तृतीयश्च परिवर्तितवर्णिदुलीचंदप्रतिष्ठापाठप्रणेता। गवेषणायां सत्यामन्येपि मिलिष्यति । ततो न निश्चेतुं पार्यते निशंकं कतमो जिनसेनाचार्यस्तात्पर्यवृत्तिप्रणेता। प्रवचनसारपंचास्तिकायसारप्रशस्तौ परिचाययति महात्मायमित्थं अज्ञानतमसा लिप्तो मार्गो रत्नत्रयात्मकः । तत्प्रकाशसमर्थाय नमोऽस्तु कुमुर्देदवे ॥१॥ सूरिः श्रीवीरसेनाख्यो मूलसंघेऽपि सत्तपाः । नैपथ्यदवीं भेजे जातरूपधरोऽपि यः ॥२॥ ततः श्रीसोमसेनोऽभूत-गुणी गुणगणाश्रयः । तद्विनेयोऽस्ति यस्तस्मे जयसेनतपोभृते (!) ॥३॥ इतिपद्यत्रयाद्विज्ञायते वीरसेनशिष्यः सोमसेनस्तच्छिष्यो जयसेनः स च मुनिमूलसंघीयः । अपरश्चैको जयसेनः स्वनिर्मितवसुविंदुप्रतिष्ठापाठे परिचाययतीत्थं कुंदकुंदाग्रशिष्येण जयसेनेन निर्मितः । पाठोऽयं सुधियां सम्यग् कर्तव्यायास्तु योगतः ॥१॥ श्रीदक्षिणे कुंकुणनानिदेशे सह्याद्रिणा संगतसीम्नि पूते । श्रीरत्नभूध्रोपरिदर्घिचैत्यं लालादराज्ञा विधिनोर्जितं यत् तत्कार्यमुद्दिश्य गुरोरनुज्ञामादाय कोल्हापुरवासिहर्षात् दिनद्वये स लिखितः प्रातज्ञापूर्त्यर्थमेवं श्रुतसंविधत्ति॥३॥ ___ वसुविंदुरिति प्राहुस्तदादि गुरवो यतः । जयसेनापराख्यां तन्नमोऽस्तु हितर्षिणां ॥४॥ ___ प्रथमश्लोकस्थ "कुंदकुंदाग्रशिष्ट्येणेति विशेषणेनानुमीयते यत् तात्पर्यवृत्तिकानेनैव जयसेनेन भाव्यं । पर कदा क समभूदयं मुनिराडिति विनिश्चित्यै नास्ति किमपि निष्कल्मषं गमकं । मुनिनानेन स्वनिर्मिततात्पर्यवृत्तौ कियत्सुचित्पद्येषु श्रीमदमृतचंदसूरिटीका वर्णतः समनुकृता शब्दैः परावृत्त्य तात्पर्यमपि यत्र कुत्रचिदमृतचंद्रसूरिनिर्दिष्टमेव समुद्घोषितं ततः समजन्ययं महात्मा श्रीमदमृतचंद्रसूरितःपश्चादिति नियतं विभाव्यते। निवेदयिता-गजाधरकाल: Page #182 -------------------------------------------------------------------------- ________________ अशुद्धिः अचलां प्राप्तां शुद्धिः अमला प्राप्तान् श्रीसमयप्राभृतस्य शुद्ध्यशुद्धिपत्रम् । नारकेति नरनार वर्तते वर्त अनुगृह्णत अथ एवैतस्य स्खलितं १ १ समयप्राभृतमिदं समयप्राभृतमहो १ ४ सबंधमिधेयेति संबंधाभिधेयेति २ णाणविदेति णाणहिदेति " 99 ३ अनुगृह्णतो अत एवैतस्य च्यवेयं चारित्रवत्त्वेन चारित्रवत्वेन अनयोः गतं । गतं ॥ १२ ॥ शेषकाले ॥ १२ ॥ शेषकाले । भतयोः कार्तस्वर्णेति कार्तस्वरेत शुभोपयोग शुभयोगे हेयोपादेयतत्वं हेयोपादेयतत्त्वं ९ परमादितत्त्वेति परमात्मादितत्त्वेति १० अवस्पृष्ठ अबंधस्पृष्टं पर्यायमुख्यतया पर्यायं मुख्यतया ११ "" 19 "" ५ ७ 19 99 ४ २१ वियाणीहि वियाणाहि भावार्थ: "" अपदेशः शब्दाः १२ 39 भावार्थ अपदेश शब्दाः स्वरूपमेव स्वरूप एव सम्यग्ज्ञनादिकं सम्यग्ज्ञानादिकं अवुद्धावा अबुद्धानां व्यच्छेदेन व्यवच्छेदेन वस्त्वत्तरं वस्त्वंतरं सो एव सोचेव पुरुषः पुरुषः अहमेतदेतद- अहमेतदेतदहहमेतस्यास्मि महमेतस्य स्पि१६ 33 पक्तिः 39 ' ३२ ३६ 99 १३ " २६ • ३७ १३ ३१ २५ १७ ४ २२ ७ १८ २७ २६ w ३० ३३ १ ३५ "1 १४ १९ १४ २५ अशुद्धिः पूर्वमेतदेतत् अहमिदंच ३१ 99 गाथाचतुष्टये निश्चये गाथाचतुष्टये ३३ प्रतिबुद्धः । प्रतिबुद्धः २३ प्रतिपत्या प्रतिपच्या ३६ 99 शुद्धात्मस्वरूपस्व शुद्धात्मस्वरूपस्य २४ इति इति । लोभेति लोमेति दर्शनोपपयोग किंचिब किंचिवि २२ शुद्धिः पूर्वमेतत् अहमिदं चापि पृ. दर्शनोपयोगः 99 99 दव्यं दव्वं ५ देहाद्भिन्न देहाद्भिन्नं सब्बहुणाणदिट्ठो सव्वहुणाणदिडो, ७ हारणयो वहारणओ १९ १५ २० तनिश्वयेन तन्निश्चये निश्चयस्तुतिप- निश्चयस्तुतिरिति परिहारं सुखादिमत्वाभावात सुखादिमत्त्वाभावात्,, ३३ तृतीता तृतीया रिहारं २९ २२ १७ १८ १८ पार्षदान् कर्मणोकर्मेति कर्माणभागं कर्मानुभागं संयोगेनापि संयोगेणापि इतरे इतेरे श्यामिकायाअ- श्यामिकायाति तिरिक्तति रिक्तेति नवपुराणवस्थादि नवपुराणावस्थादि चिरस्वावस्य चित्स्वभावस्य विदंति बिंदंति 99 "" 27 39 " २५ "" त्रिशतगाथापर्यंतं त्रिंशद्गाथापर्यंत २६ पार्श्वदान् कर्मनाकर्मेति २३ १८ किंचिदष्वन्यत् किंचिदप्यन्यत् २० 99 २७ "" 11 "1 पंक्ति: २४ २४ ४ 11 "" २ " ३० १३ १४ १५ १० 2 2 2 2 * m १७ १० १२ २८ १९ २३ २७. १६ ३२ ३६ Page #183 -------------------------------------------------------------------------- ________________ संति ३४ दृष्टा भव वृत्तं त सनातनजनप्रथमालायांभशुद्धिः शुद्धिः पृ. पंक्तिः | अशुद्धिः शुद्धिः पृ. पंक्तिः जिणं जिणा ज्ञानीजीवस्वरूपं ज्ञानिजीवस्वरूपं ७१ २ यद्यध्यवसानदयः यद्यध्यवसानादय , ११ भुइता मुइत्ता ७१ ११ एव मय्यगं मप्पगं ७२ १ द्रबहुणेभ्य द्रव्यगुणेभ्यः ३१ ज्ञानमयोऽज्ञानेति ज्ञानमयाज्ञानेति ७२ १३ अज्मप्यहाण अज्झप्यहा ३२ ७ कर्मणः भावस्य ७२ १६ नसंति परिणतत्वाजानिनः परिणतत्वाज्ञानिनः ७२ २१ असंणि असणि ज्ञानमयोः ज्ञानमयो ७२ ३१ तत्रांतरे तंत्रांतरे वहुभवेति वहुभावति ७३ ३ दृष्ट्वा ३५ २६ भावा द्भावात्. ७३ २३ भवे ज्ञानमयः ज्ज्ञानमय प्राप्ताः प्राप्तः समयसारे समयसार जीवोः जीवाः ३८ १८ पुण्यामेवेकां, तेन पुण्यामेवैकांतेन ८६ जीवण जावण सर्वोऽपि स सर्वोऽपि ८ निवृत्तं . तदा न ९१ ३१ सकलात्वात् सकलत्वात् विधायतो विभावयतो अज्ञानीसज्ञानी अज्ञानिसज्ञानि दृष्टा ___ दृष्ट्वा ९५ १२ जीवति जीवेति दिई दि सज्ञानीजीवेति सज्ञान ४५ २३ किं ब्रूयात किं ब्रूयात् ! , २५ ज्ञानी ज्ञानि . ४४ ३४ प्रत्यया कारणं प्रत्ययाः कारणं ९७ २९ लक्षते लक्ष्यते ४४ ३५ उपयोग प्रयोग्य उपयोगप्रायोग्यं १०२ ३१ पर्याये पर्यायैः बध्नति बन्नति । १०३ कर्तृकर्मभावं कर्तृकर्मभाव ४८ ८ शुद्धोत्मोपादेयत्वे शुद्धात्मोपादेयत्वे १०४ २२ जीवेति जीवस्य ४९ ८ बनतिः बनंति परमप्पाणंकुची परमप्पाणमकुची५०१७ बध्येत बध्यते १०७ २७ स तच ५० ३५ मत्झसहावा मज्भसहावा ११० २९ दृढयति दृढयंति ५१ ६ वद्यवेदकभावौ वेद्यवेदकभावौ ११२ १२ परिणमस्कर्मणां परिणमन्कर्मणां अपरिग्रहा अपरिग्गह ११८ ५ करेदिधम्मदि करेदि धम्मादि ५६-३२ नो इंद्रीति नो इंद्रियेति लाई लोहं १२० १० मूलं। १२० २६ वात्मा_त्वेषं ५९ १९ मूचं मूत्रं वादीति वादति ज्ञान्यपि १२१ ३१ करोत्यात्मनः करोत्यात्मा ६१ १८ संक्रमत्येवसोऽपि सक्रमत्येव समादिही सम्मादिही १२४ तंनिरंतरं तन्निरंतरं १३० २८ तथा ६८ २८ आउन आउंण १३२ ७ गाथाष्टकं गाथाष्टकं हवंदि हवंति १३३ २९ एवंम्शुद्धति एवं शुद्धति बा बाह्यं १३७ ३२ सप्तपदार्थानां सप्तपदार्थाना : ७० २८ | दुक्खिदेति दुक्खिदति . १३८ १ २६ शाम्यपि यथा Page #184 -------------------------------------------------------------------------- ________________ ३ अशुद्धिः पापादयेन सक्रः पुगालदव्वस्स पुग्गलदव्वस्स तत्पर्यवृत्तिः तारपर्यवृत्तिः सर्विकल्पमच सविकल्पमत्र सद्धावेऽपि सद्भावेऽपि पूर्वे किमयमेव पूर्व किमययेव आधाकमाद्याः आधाकर्माद्याः शद्वेन शब्देन १४७ २५ foणदो वणिदो १४८ २२ निमित्तत्वापत्तो निमित्तत्वापत्तौ १४९ २० यथ सर्वंविशुद्ध नातिक्राति भवति बध्येऽद्द शुद्धिः पापोदयेन शक्रः कन समादौ परिहारणं शुरूपेति नोर्ध्वमूर्ध्व शुद्धाशुद्धिपत्रम् । पृ. पंक्ति: १३९ १३ १४१ २१ १४५ २ भोक्तृस्वभावं सहाररूपेण भ्रमति वध्येहं केन समाधौ परिहरणं रूपेति नोर्ध्वमूर्ध्व २६ 99 १५१ ५ १५२ १० १४ 19 १५२ २१ १५२ २२ यथा १५४ १६ सर्वविशुद्धः १५६ १४ नातिक्रामति १५६ १६ १५७ १७ १९ ३१ 99 १५८ १५ १५९८ १५९ २४ १६० २३ " अशुद्धिः स्वीकीयगुणैः कम्मफल संख्योपदेशं रागादि थथा पर्यायषु स्वयंशौ शुद्धिः स्वकीयगुणैः कम्पफलं दो विषयात रे तेषामाक्षैव कृतः तासामाक्षेपः कृतः १७१ स्त्रीवेदाख्य चेम अपात्र | शर्म भोक्तृत्वभावं संहाररूपेण षड् संयोगेन जानानि संसारण सुष्ठो स्त्रीवेदाख्यं १७६२९ १७६ ३५ चेत् साख्योपदेशं ३७ 99 रागादी १७९ १२ यथा १८४ १७ तत्वार्थाश्रद्धानेति तत्वार्थश्रद्धानेति १८५ १७ व्यख्यानमुख्यत्वेन व्याख्यान मुख्यत्वेन,, २८ पर्यायेषु १८६३ स्वाम्यंशौ पृ. पंक्ति: १६१ २४ १६३ ३३ दो विषयांतरे १७१ ३१ ३२ अथात्र शर्ममयत्वं १६५ ३० १६६ १४ १६९ १७ संयोगेन जानाति संसारिणां सुष्ठु १८७ ५ १९३ ३८ २०१ २९ २०३७ २०४ ५ २१६ ३९ Page #185 -------------------------------------------------------------------------- ________________ श्रीसमयमाभृतस्य विषयानुक्रमणिका। .. जीवाजीवाधिकारः प्रथमरंगः विषयाः . पृ.सं. गा. सं. | विषयाः पृ.सं. गा.सं. १ मंगलाचरणं ... १ १ | १५ अबद्धत्वाद्यात्मकमात्मानं २ स्वसमयपरसमयनिरूपणं २ . २ । पश्यन् पुमानेव शुद्धनय३ निश्चयतः शुद्धात्मस्वरूपत्वात् __इति प्ररूपणं ... ११ १६ समयशब्देन स्वसमय १६ शुद्धनिश्चयनयेन आत्मानुभू(एकत्वं) एव ग्राह्य इति तिरैव ज्ञानानुभूतिरिति विवृतिः प्रतिपादनं ४ स्वममयस्य (एकत्वस्य) १७ शुद्धात्मभावनायां असुलभत्वनिरूपणं ... ४ ४ सम्यग्ज्ञानादिकं ५ एकत्वप्रदर्शनप्रतिज्ञा ... ४ ५ सर्वमुपलभ्यत इति ६ शुद्धात्मस्वरूपविवरणं ... ५ ६ प्ररूपणं ... १३ १८. ७ व्यवहारतो ज्ञानादीनामात्मतो ९८ पुनरपि भंग्यंतरेण गाथायाः भेदः निश्चयतस्त्वात्मा क्रमशः पूर्वापरार्धेन ज्ञानाद्यात्मैवेति विवरणं ... ५ ७ भेदाभेदरनत्रयभावना प्रतिपादनं ... १३ १९ ८ व्यवहारनयस्य सार्थकत्वं १९ दृष्टांत दार्टीताभ्यां भेदाभे परमार्थोपदशकत्वं ___दरत्नत्रयभावनासमर्थनं १४ २१ चेति प्रदर्शनं ... ६ । २० स्वपरभेदविज्ञानाभावे अज्ञानी ९ कुतः परमार्थोपदेशकत्वं भवन् जीवः कियत्कालव्यवहारस्येति ? सूचनं ... ६ १० | २१ मज्ञानी सम्भवतिष्ठत इति १० क्रमशः पूर्वोत्तरार्धेन भेदा- .. ___ इति कथनं ... १५ २२ भेदरत्नत्रयभावनयोः २२ अचेतनदेहादौ रागादिप्रतिपादनं परिणामाद्वंधो भवतीति ११ भेदाभेदरत्नत्रयभावना प्रतिपादनं ... १५ २३ ___ फलनिदर्शनं. ...७ १२ | २३ अशुद्धनिश्चयनयेनात्मा १२ कुतो व्यवहारो नानु रागादिभावकर्मणां का सारणीयः इति निरूपणं ७ १३ । अनुपचरितासद्भूतव्यवहारेण १३ अपरमार्थिनां व्यवहारोऽपि द्रव्यकर्मणामित्यावेदनं १५ २४ शरणमिति वर्णनं ... ८ १४ | २४ कया रीत्या देहादिषु रागादि १४ अभेदोपचारण सम्यक्त्व | करणादप्रबुद्ध आत्मेति विषयत्वाज्जीवादयोऽर्थाः प्ररूपणं ... १५६ २७ सम्यक्त्वमुच्यंत इति २५ अप्रतिबुद्धबोधनाय विवरणं ... ८ १५ । व्यवसायवर्णनं ... १७ ३. Page #186 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायांविषयाः पृ.सं. गा.सं. | विषयाः पृ.सं. गा.सं. २६ देहमेवात्मानं मन्यमानस्या न शुद्धनिश्चयेन जीवात्मान प्रतिबुद्धस्य प्रश्नः .. १९ ३१ । इति विस्तरतः प्ररूपणं ... ३१ ६० २७ अप्रतिबुद्धप्रतिबोधनोत्तरं १९ ३२ | | ८ तंत्रांतरप्रतिपादिताः वर्णादयो २८ व्यवहारेण देहस्तवनमात्मानं जीवात्मानो व्यवहारेण, न तु लक्षयति-इति निरूपणं १९ ३३ । निश्चयत इति प्रतिपादनं ३४ ६१ २९ निश्चयेन न देहस्तवनेनात्म ९ जीवस्य वर्णादयो न स्तवनमिति प्रतिपादनं २० ३४ ___संतीत्यत्रोत्तरं .... ३४ । १२ ३० देहस्तवनेन कथं तदधिष्ठातुरात्मनः | १०व्यवहारस्य विरोधकत्वोपदर्शनं३९ ६४ स्तवनमित्यत्र दृष्टांतप्ररूपणं २० ३५ ११ जीवस्य वर्णादिभिः सह ता३१ ज्ञेयज्ञायकदोषपरिहारेण निश्चय- ___ दाम्यलक्षणसंबंधपरिहारः ३६ ६६ स्तुतिप्ररूपणं ... २१ ३६ | १२ जीववर्णादीनां तादात्म्यदुराग्रहे ३२ भाव्यभावकपरिहारेण निश्चय । दोषाख्यानं ... ३७ ६७ स्तुतिकथन ... २१ ३७ | १३ संसारिकजीववर्णादीना३३ भाव्यभावकाभावरूपेण ___ मपि तादात्म्यदोषदर्शनं ३७ ६९ निश्चयस्तुतिप्ररूपणं ... २२ ३८ | १४ एकेंद्रियादिप्रकृतीनां वर्णादीनां च ३४ ज्ञानमेव प्रत्याख्यानमिति जीवाद्भेदप्ररूपणं ... ३८ ७१ प्रतिपादः ... २३ ३९ |१५ पर्याप्ताद्यात्मन्ववर्णाद्यात्मकत्व३५ ज्ञातुः प्रत्याख्याने दृष्टांत प्रदर्शनं च जीवस्य व्यवहारेप्रतिपादनं ... ३२ ४० | ऐति प्रतिपादनं ... ३९ ७२ ३६ भावकभावविवेकनिरूपणं २४ ४१ | १६ मिथ्यात्वादिगुणस्थानाद्यभ्यंतरा ३७ ज्ञेयभावविवेकप्ररूपः ... २४ ४२ । अपि न जीवा इति निरूपणं ३९ ७३ ३८ दर्शनज्ञानचारित्रपरिणतस्य इति जीवाजीवधिकारः समाप्तः खरूपसंचेतनप्रकारपूर्वक (मथ कुकर्माधिकार) मुपसंहाराख्यानं ... २५ ४३ | १ यावन्न भेदविज्ञानं तावदज्ञानी इति प्रथमरंगः समाप्तः। जीव इत्युपदर्शनं ... ४१ ५७ . द्वितीयरंगः २ जीवस्य कर्तृकर्मनिवृत्तित्व१ देहादिपरद्रव्याण्येव निश्चयेन __ प्रकारप्रदर्शः ... ४२ ७६ जीव इति पूर्वपक्षप्ररूपः २६ ४८ | ३ ज्ञानादेव बंधनिरोध इति २ पूर्वपक्षपरिहारः ... २७ ४९ | | निरूपणं ३ रागाद्यध्यवसानेषु चैतन्यस्य ४ आत्मनो किलास्रवादिनिवृत्तिकथंचित्प्रतिभासमानत्वेऽपि प्रकारः ते पुद्गलमया एवेति प्रतिपादनं २८ ५० ५ स्वसंवेदनज्ञानास्रवनिवृत्योः ४ अध्यवसानादीनां जीवात्मकत्वं समानकालत्वोपदर्शनं ... ४४ तु व्यवहारमाश्रित्येति कथनं २९ ५१ | आत्मनो ज्ञानित्वपरीक्षण५ अध्यवसानादीनां ब्यवहारेण प्रकार: ___... ४५ ८० जीवात्मकत्वे दृष्टांतोल्लेखः .. २९ ५३ | ७ व्यवहारतः कर्तृत्वं निश्चयतो १ पारमार्थिकजीवस्वरूपप्ररूपणं३० ५४ । ऽकर्तृत्वमिति वर्णनं ... ४५ ८१ ७ बहिरंतुरंगा वर्णादिरागादयः J८ पुद्गलकर्म जानतो जीवस्य ... ४३ ७८ Page #187 -------------------------------------------------------------------------- ________________ समयप्राभृतस्य विषयानुक्रमणिका। विषयाः पृ.सं. गा.सं. | विषयाः पृ.सं. गा.सं. पुद्गलेन सह तादात्म्यसंबंध । त्वोत्पत्ति विवरणं ... ५५ ९९ निषेधोपदर्शः ... ४६ ८२ | २४ ज्ञानात्कर्माकर्तृत्वोपदर्शनं ५५ १०० ९ स्वपरिणामं जानतो जीवस्य | २५ अज्ञानात्कोत्पत्ति पुद्गलेन समं तादात्म्य __प्रकारोपदर्शनं ... ५६ १०२ निषेधनिरूपः ... ४६ ८३ २६ कर्मकर्तृत्वेऽज्ञानं तदकर्तृत्वे १० पुद्गलकर्मावबोद्धर्जीवस्य ___ज्ञानमिति निष्टंकितत्वेनोपदर्शनं५८ १०४ पुद्गलेन तादात्म्यनिषेध २७ आत्मनः परभावानां कर्तृत्वे प्रतिपादः ... ४७ ८४ ___व्यवहारिणां व्यामोह . ११ जीवपरिणामस्वपरिणामा ___ इति प्रतिपादनं ... ५९ १०१ नवबोद्भुः पुद्गलस्य २८ व्यामोहस्यासत्यत्वोपाख्यानं ६९ १०६ तादात्म्यासंभवोपदर्शनं ४७ ५ २९ जीवस्योपादानरूपवन्नि १२ जीवपुद्गलपरिणामयोरन्योऽन्यं मित्तत्वेनापि कर्तृत्व निमित्तत्वेऽपि न तयोः प्रतिषेधोपाख्यानं ... ६० १०७ कर्तृकर्मभाव इति प्ररूपणं ४८ ८ | ३० ज्ञानिनो ज्ञानस्यैव कर्तृत्वोपदेशः६० १०८ १३ जीवस्य निश्चयन स्वपरिणामैरेव | ३१ अज्ञानिनोऽपि परभा कर्तृकर्मभावो भोक्तभोग्य - वाकर्तृत्वोपदेशः ... ६१ १०९ भावश्चेति निरूपः ... ४९ ८९ ३२ परेण परभावाकर्तृत्वनिरूपणं६१ ११० . १४ जीवपुद्गलयोः कर्मकर्तृत्वं लोक- . ३३ निश्चयेन पुद्गलस्याकर्तृत्व व्यवहारत इति प्रतिपादनं १० ९० ___मात्मनः समुपवर्णनं ... ६२ १११ १५ तल्लोकव्यवहारनिराकरणप्ररूपणं५० ९१ ३४ आत्मनो द्रव्यकर्मकरणे १६ आत्मभावपुद्गलभावद्वयकर्तृत्वे ___ उपचार एव शरणमित्युल्लेखः६२ ११२ ..द्विक्रियावादित्वान्मिथ्यादृष्टय ३९ जीवस्य द्रव्यकर्मकर्तृत्वेइति निरूपणं ... ५१ ९२ ____दृष्टांतोपाख्यानं ... ६३ ११२ १७ उपर्युक्तगाथाद्वयस्यैव विशेष ३६ शुद्धनिश्चयेन जीवस्य पुद्गल व्याख्यानं ... ५२ ९३ ___ कर्तृत्वबंधनपरिणमनाभावो१८ चिद्रूपात्मभावानात्मा करोति पाख्यानं . ... ६३ ११४ द्रव्यकर्मादिपरभावान् पुद्गल ३७ अत्र दृष्टांतोल्लेखः ... ६३ ११५ इति व्याख्यानं .... ५२- ९४ ३८ निश्चयतो मिथ्यात्वादि १९ एतत्प्रकरणस्थजीवाजीवभेदाख्यानं५३९५ पौद्गलिकप्रत्यया एव २० शुद्धचैतन्यस्वभावस्य कर्मोत्पादयंतीति विस्तरेण जीवस्य मिथ्यादर्शनादि विवरणं विकारप्रकाराख्यानं ... ५३ ९६ | ३९ एकांतेन जीवाजीवप्रत्यययो २१ आत्मनस्त्रिविधपरिणाम रेकत्वप्रतिषेधोपदर्शनं ६६ १२२ विकारस्य कर्तृत्वोपदर्शनं... ५४ ९७ |४० सांख्यमतानुयायि शिष्यं प्रति २२ आत्मनस्त्रिविधपरिणामविकार ___पुद्गलस्य कथंचित् कर्तृत्वे पुद्गलस्य स्वयं कर्मत्वेन | ४१ परिणामस्वभावत्वोल्लेखः ६७ १२७ परिणमनोपदर्शनं ... ५४ ९८ | जीवस्य परिणामित्वसाधनप्रकारः६९ १३२ २३ कर्मोत्पत्तावज्ञानकारण | ४२ निस्संगसाधुस्वरूपाख्यानं .१ ११५ Page #188 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायांविषयाः पृ.सं. गा.सं. | विषयाः पृ.सं. गा.सं. ४३ जितमोहस्वरूपोपदर्शनं ७१ १३४ | प्रतिषेधाख्यानं .... ८४ १५९ ४४ धर्मसंगविमुक्तस्य स्वरूपप्रतिपादनं७२ १३४ / ५ बंधहेतुः प्रतिषेध्यं चोभयं कर्मेत्यागमेन ४५ ज्ञानाज्ञानमयभावानां याथात्म्येन प्रसाधनं ... ८४ १६. ___ कर्तृत्वप्ररूपणप्रकारः .... ७२ १३६ / ६ विशुद्धज्ञानवाच्यः शुद्धात्मैव मोक्ष४६ ज्ञानमयाज्ञानमययो वयोः, फलो । कारणमिति प्रकटनं .... ८५ १६१ पदर्शनं .... ७२ १३७ | ७ परमार्थज्ञानशून्यस्य व्रततपश्चरणा४७ ज्ञानिनो ज्ञानमय एव अज्ञानिनश्चा- दिकं सर्वं व्यर्थमित्युपदेशः ५ १६२ ज्ञानमय एव भावः कु :? इत्यत्र | ८ ज्ञानाज्ञानयोः क्रमेण मोक्षबंधहेतु समाधानोल्लेखः ७३ १३९| त्वोपदर्शनं .. .... ८६ १६३ ४८ ज्ञानिनो ज्ञानमया एव भावा:- | ९ पुण्यकर्मपक्षपातिन प्रतिबोधनाया अज्ञानिनश्चाज्ञानमया इति । क्षेपाख्यानं .... ८७ १६४ दृष्टातदाष्टीताभ्यां समर्थनं ७४ १४१ / १० अज्ञानिनां मोक्षहेतूपदर्शनं ८७ १६५ ४९ अज्ञानिनः पंचभेदभिन्नोऽज्ञान ११ निश्चयमोक्षमार्गहेतोः परमार्थस्वमय भाव एव बंधकारणमिति रूपादन्यच्छुभाशुभादिकर्मस्वष्टतया प्ररूपणं ७५ १४६ प्रतिषेधोपदेशः .... ८ १६६ ५० पुद्गलद्रव्यात्प्रथग्भूत एव जीवस्य १२ मोक्षहेतुभूतसम्यग्दर्शनादीनां. परिणाम इत्युल्लेखः .... ७६ १४८ मिथ्यत्वादिकर्मभिः दृष्टांतपूर्वक ५१ जीवात्प्रथग्भूतः एव पुद्गलद्रव्यस्य प्रच्छादनोल्लेखः .... ८ १६९ परिणाम इति कथनं ..... ७७ १५० | १३ कमर्णः स्वयं बंधत्वोल्लेखः । ८९ १७० ५२ जीव कम बद्धस्पृष्टमवद्धस्पृष्टं चेति १४ सम्यक्त्वादिगुणाधारभूतो जीवः नयवियागेन प्ररूपणं .... ७६ १५१ | कर्मणा प्रच्छाद्यत इत्युपदेशः ९० १७२ ५३ बद्धाबद्धत्वादिनयपक्षातिक्रांतो। सम तः पुण्यपाफाधिकारः जीव एव समयसार इति प्रति. संवरप्रकरणं .... ७८ १५२ | १ सकलकर्मसंवरणपरमेपाय ५४ नयपक्षातिक्रांतजीवस्य विशेषण | भेदविज्ञाननिरूपणं । ___ .... ९१ १७६ . स्वरूपवर्णनं .... ८. १५३ | २ भेदविज्ञानात-शुद्धात्मोपलंभाख्यानं९२ १७८ ५५ कोटग्जीवः समयसारेऽवतिष्ठते ! ३ शुद्धात्मोपलंभात संवराख्यानं ९३ १७९ इति प्रतिपादनं ..... ८१ १९४ | ४ संवरोत्पत्तिप्रकारोपदर्शनं .... ९४ १८३ इति कर्तृकर्माधिकारः समाप्तः ५ संवरक्रमप्ररूपणं .... ९५ १८४ अथ पुण्यपापाधिकारः ६ उदयप्राप्तद्रव्यस्वरूपाणां रागाद्य१ एकमपि कर्म शुभाशुभपरिणाम ध्यवसानानाभभावे जीवगतसनिमित्तेन द्विधा भवतीति प्रति गादिभावकर्मणामभाव इत्यादि पादन .... ८२ १५५ रूपेण संवरक्रमाख्यानं .... ९६ १९७ २ शुभाशुभकर्मणोरविशेषेण बंध इति संवरप्रकरणं समाप्तं हेतुत्वोपदर्शनं .... ८३ १५६ अथास्त्रवप्रकरणं ३ मोक्षमार्गविषये द्वयोरपि कर्मणोः १ द्रव्यभावास्रवस्वरूपाभिधानं ९८ १८९ प्रतिषेधोपदेशः .... ८३ १५७ / २ ज्ञानिन आस्रवाभावोपदर्शनं ९८ १९० ४ दृष्टांतदाष्टीतपूर्वकमुभयकर्म ३ रागद्वेषमोहानामास्रवत्वनियमापदनं९९ १९१ पादनं Page #189 -------------------------------------------------------------------------- ________________ समयप्राभृतस्य विषयानुक्रमणिका । विषयाः पृ.सं. गा.सं. | विषयाः पृ.सं. गा.सं. ४ रागादिरहितशुद्धभावोपदर्शनं १०० - १९२ | १४ परमात्मपदस्वरूपाख्यानं.... ११३ २१९ ५ ज्ञानिनो द्रव्यास्रवाभावोपदर्शनं १०० १९३ | १५ ज्ञानिनः परभावग्रहणाभावे ६ शानिनो निरास्रवत्वे हेत्वाख्यानं १०१ १९४! युक्तिप्रदर्शनं- ' .... ११४ २२० ७ ज्ञानगुणपरिणामस्य कुतो बंधहेतुत्व १६ ज्ञानिनो भेदविज्ञानभावनोप मित्युपदर्शनं ... १०१ १९५ | दर्शनं- ___.... ११४ २२१ ज्ञानगुणपरिणामस्य बंधहेतुत्वे १७ आत्मसुखे संतोषोपदेशः- ११५ २२२ कथं ज्ञानी निरास्रव इत्युपदर्शनं१०१ १९६ | १८ मत्यादिपंचज्ञानाभेदस्वरूप९ द्रव्यप्रत्ययेषु विद्यमानेषु कथं ज्ञानी परमार्थोपदर्शनं ... ११५ २२३ निरास्रवः ? इति निदर्शनं.... १०२ २०० | १९ स्वसंवेदनज्ञानाभावे पंचज्ञानाभेदरूपं १०निरास्रवत्वे कर्मवंधाभावोपदर्शन१०४ २०२ | परमार्थपदं कृतेऽपि व्रतपश्चरणादिके ११ पूर्वबद्धरागादिप्रत्ययाः कयारीत्या नवतरकर्म | या: कयारीत्या नवतरकर्म | दुर्लभमित्यन्वाख्यानं-... ११६ २२४ बध्नंतीति दृष्टांतदार्टीतपूर्वकसमर्थनं१०५ २०४ | २० विशेषपरिग्रहत्यागरूपेण इत्यास्रवो निष्क्रांतः ज्ञानगुणविवरण- ... ११८-२२९ अथ निजराधिकारः २१ परिग्रहत्यागव्याख्यानोपसं १ द्रव्यनिर्जरास्वरूपाख्यानं ... १०६ २०५। हारोपाख्यानं .... ११८ २१० २ भावनिर्जरास्वरूपावेदनं ... १०७ २०६ | २२ ज्ञानिनो वर्तमानभाविभोगाकांक्षा ३ वीतरागस्वसंवेदनज्ञानसा परिहारोपाख्यानं .... ११९ २३१ • सामोपदर्शनं - ... १०७ २०७ २३ अज्ञानी सरागत्वात्कर्मणा ४ संसारशरीरविषये वैराग्य लिप्यते न तु ज्ञानी वीतरागत्वा ___सामोपदर्शनं ... १०८ २०८ दिति विवेचनं ... १२० २३३" ५ वैराग्यस्वरूपाख्यानं .... १०८ २०९ | २४ सकलकर्मनिर्जराभावे कुतो ६ सम्यग्दृष्टेविशेषेण स्वपरविवेक मोक्ष इति प्रश्ने दृष्टांत प्रकारोपाख्यानं ... १०९ २१० पूर्वकं परिहारोपादानं .... १२० २३४ ७ सम्यग्दृष्टेः कुतो न क्रोधादय २५ दार्टीतिकोपादानं २१ २३६ इत्यत्र युक्तिप्रदर्शनं .... १०९ २११ २६ ज्ञानिनः शंखदृष्टांतेन बंधा८ स्वस्वभावं जानन् परभावं मुंचन् सभ्यग्दृष्टिः भावोपदर्शनं .... १२१ २४१ ज्ञानवैराग्याभ्यां संपन्नो २७ सरागपरिणामेन बंधःवीतराभवतीति व्याख्यानं ..... ११०-२१२ | गपरिणामेन मोक्ष इति दृष्टांत ९ सामान्येन सम्यग्दृष्टेः स्वपरविवेक- | ___दा ताभ्यां समर्थनं-.... १२२ २४५ प्रकारोपाख्यानं .... २१० २१३ | २८ घोरोपसर्गसंपातेऽपि सप्तभय१० सम्यग्दृष्टेरागित्वाभावप्रकटी रहितत्वेन निर्विकारस्वानुभवकरणं .... २११ २१५ | स्वरूपं सम्यग्दृष्टयो न त्य११ ज्ञानिनो भाविभोगांकाक्षाऽभावे तीति व्याख्यानं ... १२४ २४६ हेतुप्रदर्शनं . .... ११२ २१६ | २९ निश्शंकितगुणलक्षणं .... १२४ २४७ १२ ज्ञानी-अपध्यानाध्यवसानान्यपि न ३० निःकांक्षितगुणलक्षणं .... १२५ २४८ वांछति इत्याख्यानं .... ११२ २१७ | ३१ निर्विचिकित्सांगलक्षणं .... १२५ ५ २४९ १३ पुनरपि भेदज्ञानवैराग्यशक्तयोः । |.३२ अम्ढदृष्टयंगलक्षणं .... १२५ प्रकटनं ... ११३ २१८ | ३४ उपगृहनांगलक्षणं .... १२६ १५१ Page #190 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायांविषयाः . पृ.सं. गा.सं. | विषयाः पृ.सं. गा.सं. ३४ स्थितिकरणांगलक्षण .... १२६ २५२ | १६ अभ्यवसानस्य स्यार्थकिया ३५ वात्सल्यांगलक्षणं ... १२६ २५३ कारित्वाभावे युक्ति ३६ प्रभावनांगलक्षणं ... १२७ २५४ निरूपणं ... १३८ २८५ समाप्त निर्जराधिकारः १७ अज्ञानिन् ! जीवाः स्वकीय अथ बंधाधिकार: पापोदयेन दुःखिता भवति .१ दृष्टांतदाष्टीतपूर्वकं कर्मबंध न तु भवदीयपरिणामेने प्रकारोपाख्यान ... १२८ २९९ / स्युल्लेखः २ वीतरागसम्यदृष्टंबंधाभावो. १८ सुखिता अपि निश्चयेन स्वकर्मो पदर्शनं ... १३० २६४ | दयेनैवेति निरूपणं ... १३९ २९० ३ हिंस्यहिंसकभावेन ज्ञाना १९ जीवस्य समस्तपरद्रव्यस्यात्मनि ___ शानिनोर्लक्षणं ... १३१ २६५ | नियोजनप्रकारोल्लेख ... १३९ २९२ ४ हिनस्मि हिंस्य इत्यध्यक्सायस्था- २० आत्मनः परद्रव्यनियोजकस्य ज्ञानवोपदर्शनं ... १३२ २६७ | मोहस्याभावे वास्तविकं. ६ जीवयायि जीव इति स्वरूपेण ज्ञाना यतित्वमित्युल्लेखः ... १४० १९३ ज्ञानिनोर्लक्षणं ... १३२ १६८ | २१ आत्मनि परद्रव्यनियोजनस्य ६ जीवयामि जीव इत्यध्यवसायस्वा मर्यादोपदेशः ... १४१ २९४ ज्ञानत्योपदर्शन ... १३२ २७० २१ अध्यवसानस्य नाममालो ७ सुखदुःखाध्यवसायस्वरूपेण लेखः ... १११ २९५ ज्ञानाज्ञानिनोर्लक्षणं ... १३३ २७१ २३ व्ववहारनयस्य निश्चयेन बाध्य ८ सुखदुःखाध्यवसायस्या त्वोपदेशः-निश्चयनयाश्रितं ज्ञानवोपदर्शनं ... १३३ २७४ __ फलं च .... १४१ २९६ ९ परः परस्य मरणदुःखं तदभावं २४ अभव्येन कथमात्रियले व्यवहार वा करोतीत्यादि विकल्पकर्ता नय इति प्रश्नस्योत्तरं ... १४२ २९७ बहिरात्मेति व्यावर्णनं ... १३४ १७६ | २५ अभव्यस्यैकादशांगश्रुतज्ञान १० मारयामीत्यादि विकल्पो मिथ्या मस्ति कथं सोऽज्ञानीति दृष्ठेबंधकारणमित्युल्लेख.... १३५ २७७ / प्रश्नस्योत्तरं .... १४२ २९८ ११ अध्यवसायस्य बंधहेतुत्वेना २६ अभव्यस्य पुण्यरूपधर्मादिश्चद्धा वधारणप्रतिपादनं ... १६५ २७९ नत्वे कथं तस्याश्रद्धान१२ हिंसाध्यवसाय एव हिंसेति मिति प्ररूपणं ... १४३ २९९ प्रतिपादनं ... १३६ १८० | २७ कीदृशौ प्रतिषेध्यप्रतिषेधको १३ अध्यवसायस्य पुण्यपाप व्यवहारनिश्चयनयाविति __ हेतुत्वोपदर्शनं ... १३६ १८२ | प्रश्नस्योत्तरं . .. १४३ ३०१ १४ वाद्य वस्तु रागादिपरिणाम - २८ आहारग्रहणकृतो ज्ञानिनां कारणं रागादिपरिणामो नास्ति बंध इत्युपदेशः ... १४४ ३०३ बंधकारणमिति निरूपणं ... २३७ २८३ | २९ आधाकर्मप्ररूपणं ... १४५ ३०५ १५ बंधहेतुत्वेनावधारितस्याध्यवसा | ३० रागादीनां बंधकारणत्वे । नस्य स्वार्थक्रियाकारित्वेन हेतुत्वोपदर्शनं ... १४६ ३०७ मिथ्यात्वोपदर्शनं १३८ २८४ | ३१ चिदादनंदैकस्वस्वभावज्ञायकज्ञानी Page #191 -------------------------------------------------------------------------- ________________ दाहरणं पतिपाटन समयप्राभृतस्य विषयानुक्रमणिका । विषयाः पृ.सं. गा.सं. | विषयाः ह.सं. गा.सं. रागाद्यर्जनाभावे नवतर- _ | १२ प्रतिक्रमणादिनैव गतार्थत्वात् कर्मणां कर्ता न भवतीत्युल्लेखः१४६ ३०८ शुद्धात्मोपासननैरर्थक्योक्ती ३२ शुद्धस्वभावस्याज्ञाता अज्ञानी समाधानं ... १५९ ३३५ भावरागादिनवतर मोक्षाधिकारः समाप्तः कर्मकर्तेति प्ररूपणं ... १४७ ३०९ सर्वविशुद्धज्ञानाधिकारः ३३ कया रीत्या अज्ञानी रागादीन् १ निश्चयेन जीवस्य कर्माकर्तृबध्नाति इत्युपदेशः ... १४७ ३१० ___त्वोपदेशः .... १६१ ३३९ ३४ सम्यग्ज्ञानिनो रागादीनामकार २ शुद्धविस्य प्रकृतिभिबंधेऽ. कत्वे हेतूपदेशः ... १४८ ३१३ | | ज्ञानमाहात्म्योपदर्शनं ... १६२ ३४१ ३५ द्रव्यभावयोर्निमित्तनैमित्तिको ३ प्रकृत्यर्थरागादिमोचनाऽमोचन ... १४९ ३१५ द्वारा ज्ञानित्वाज्ञानित्वोबंधाधिकारः समाप्तः पदेशः ... १६१ ३४३ अथ मोक्षाधिकारः ४ जीवस्य न भोक्तृत्वस्वभावः १ सामन्यतया बंधस्वरूपोपा अज्ञानादेवायं भोक्तेत्युपदेशः १६३ ३४४ ख्यान .... १५० ३१८ | ५ भज्ञानी कर्मणो वेदक एवेति २ बंधचेतकस्य जीवस्य दृष्टांतपूर्वक .... १६४ ३४६ मोक्षाभावोल्लेखः ... १५१ ३१९ | ६ ज्ञानी न कर्मणां वेदक इति ३ बंधाभावस्य मोक्षहेतुत्वो | निरूपणं ...... १६५ ३४७ पदर्शनं ___... १५१ ३२० | ७ ज्ञानिनः कर्मणां कर्तृत्वभो४ बंधाभावातिरिक्तस्य मोक्षहेत्वं __क्तृत्वनिषेधोपदेशः .... १६५ ३४८ तरस्योपदेशः ... १५२ ३२१ / ८ कर्तृत्वभोक्तृत्वाभाव दृष्टांतः १६६ ३४९ ५ आत्मबंधस्य द्वेधीभावकारणो ९ लोककर्तृत्ववादिनां मोक्षल्लेखः ... १३३ ३२२ | निषेधोपदेशः .... १६८ ३५२ ६ आत्मबंधौ द्विधाकृत्य किंकर्तव्य- | १० निश्चयेनात्मनः पुद्गलेन समं मित्युपदेशः ... १५३ ३२३ | कर्तृकर्मसंबंधाभावे कथं ७ आत्मग्रहणस्योपायोपदेशः १५४ ३२४ कृर्तृत्वव्यवहार इति प्रश्ने ८ चेतयितृत्वदृष्टत्वज्ञातृत्वरूपेणा उत्तरं .... १६९ ३५६ त्मग्रहणप्रकारोपदेशः ... - १५१ २२७ | ११ द्रव्यार्थिकनयेन य एव कर्ता ९ शुद्धबुद्धैकखभावस्य परमात्मनः स एव भोक्ता पर्यायाथिशुद्धचिद्रूप एक एव भावो कनयेनान्यः कर्ताऽन्योभोनतु रागादय इत्युल्लेखः... १५६ ३२८ | तेति स्वीकुर्वन् सम्यग्दृष्टिः १० जीवः मिथ्यात्वरागादिभाव तद्भिन्नो मिथ्यादृष्टिरित्युपदेशः १७१ ३६० स्वीकरण बध्यते, वीतराग १२ प्रकृतिकर्तृत्वविषये सांख्यमपरमचैतन्यस्वस्थभाव तानुसरिशिष्यं प्रति पूर्वोस्वीकारेण मुग्यत इत्यु त्तरपक्षः .... १७२ ३६५ ... १५७ ३६१ | १३ एकांतेन कर्तृत्वं मन्यमानान् प्रति ११ पूर्वोक्तगाथात्रयस्थापराधपदा नयविभागपूर्वकं कथंचित्कर्तृर्थस्य स्वरूपोल्लेखः ... १५८ ३३३। त्वोपदेशः ..... १७५ ३७८ पदेशः Page #192 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायांविषयाः . पृ.सं. गा.सं. | विषयाः पृ.सं. गा.सं. १४ आत्मस्वरूपाज्ञानपूर्वकं शा २२ शुद्धबुद्धकस्वभावपरमात्मतत्त्वस्य रीरिकक्लेशकर्तारं प्रति देहएव नास्ति कथमाहारो भेदज्ञानशिक्षापदेशः ... १७९ ३८४ | भविष्यतीत्युपदेशः .... २०५ ४३७ १५सर्वद्रव्याणां स्वभावोत्पत्त्युपदेशः१८० ३८५ / २३ देहमयद्रव्यलिंगं मुक्तिकारणं १६ व्यवहारनिश्चयाभ्यां कर्तृकर्म- । नेति प्रतिपादनं .... २०५ ४३९ ___णोर्भेदाभेदोपदेशः .... १८२ ३९२ | २8 कुतो न द्रव्यालिंगं मुक्तिका१७ ज्ञेयस्य ज्ञानेऽपि न ज्ञाता ज्ञेय- ___ कारणमित्युपदेशः . ... २०६ ४४० मय इत्युपदेशः .... १८४ ४०२ | २५ द्रव्यलिंगं परित्यज्य दर्शनज्ञानचा१८ निश्चयप्रतिक्रमण-निश्चयप्र. ___रित्रेष्ववस्थानमित्युपदेशः २०६ ४४१ त्याख्यान-निश्चयालोचन २६ सम्यग्दर्शनाद्यात्मकं तत्त्वमेव मोक्षापरिणत तपोधन एव र्थिना सेवितव्यमित्युपदेशः २०७ ४४२ निश्चयचारित्रमित्युपदेशः .... १८८ ४०६ | २७ द्रव्यलिंगे कृतममत्वानां न सम१९ मिथ्याज्ञानी जीव एवेंद्रिय | यसारज्ञानमित्युपदेशः .... २०७ ४४३ मनोविषयेषु रागद्वेषौ क २८ व्यवहारेण द्रव्यभावलिंगद्वयं मोक्षरोतीत्युपदेशः .... १९० ४१६ / मार्गः न तु निश्चयेनेत्युपदेशः २०८ ४४४ २० मिथ्यात्वरागादिपरिणतजीव २९ शुद्धात्मतत्त्वं निर्विकारस्वसंवेदनस्याज्ञानचेतना केवलज्ञा प्रत्यक्षेण भावयन्नात्मा परमाक्षयगुणप्रच्छादकं कर्मबंधं जन सुखं प्राप्नोतीत्युपदेशः .... २१० ४४५ यतीत्युपदेशः- .... १९३ ४१९ | ३० उपायोपेयभावचिंतना (तात्पर्यवृत्तौ) २११ २१ ज्ञानं सर्वतो व्यतिरिक्तमित्यु- |३१ उपायोपेयभावचिंतना(आत्मख्यातौ) २१२ ल्लेखः .... २०२ ४३४ | ३२ सप्तभंग्यवतरणं .... २१६ अक्षा . HA इति विषयानुक्रमणिका समाप्ता। प्रकरणसूची १ जीवाजीवाधिकारः २ कर्तृकर्माधिकारः ३ पुण्यपापाधिकारः ४ आस्रवप्रकरणं ५ संवरप्रकरणं पृष्ठादिः पृष्ठांतः | प्रकरणसूची १ ४० | ६ निर्जराप्रकरणं ८० ८ ७ बंधप्रकरणं ८ ९१ / ८ मोक्षप्रकरणं ९१ ९७/९ सर्वविशुद्धिज्ञानाधिकारः ९७ १०६ /१० उपायोपेयभावप्रकरणं पृष्ठादिः पृष्ठोतः १०६ १२८ १२८ १५० १५० १६० १६० २११ इति प्रकरणसूची समाप्ता AR Page #193 -------------------------------------------------------------------------- ________________ समयप्राभृतं । इत्यादेिगाथामादि कृत्वा चतुर्दशगाथापर्यंत मोक्षपदार्थचूलिकाव्याख्यानं करोति । तत्रादौ निश्चयेन कर्मकर्तृत्वाभावमुख्यत्वेन सूत्रचतुष्टयं । तदनंतरं शुद्धस्यापि यदज्ञानावरणप्रकृतिबंधो भवति तदज्ञानस्य माहात्म्यमिति कथनार्थ चेदा दुपयडि अहं इत्यादि प्राकृतश्लोकचतुष्टयं । अतः परं भोक्तृत्वाभावज्ञापनार्थ अण्णाणी कम्मफलं इत्यादिसूत्रचतुष्टयं । तदनंतर मोक्षचूलिकोपसंहाररूपेण विकुणदि इत्यादि सूत्रद्वयं कथयतीति मोक्षपदार्थचूलिकायां समुदायपातनिका । अथ निश्चयेन कर्मणां कर्ता न भवति–इत्याख्याति दवियं जं उप्पजदि गुणेहि तंतेहि जाणसु अणणं । जह कडयादीहिंदु पन्जएहिं कणयं अणण्णमिह ॥३३६॥ जीवस्साजीवस्सय जे परिणामा दु देसिदा सुत्ते । तं जीवमजीवं वा तेहिमणण्णं वियाणाहि ॥ ३३७ ॥ ण कुदोवि विउप्पण्णो जमा कजं ण तेण सो आदा। उप्पादेदि ण किंचिवि कारणमवि तेण ण सो होदि ॥ ३३८ ॥ कम्मं पडुच्च कता कत्तारं तह पडुच्च कम्माणि । उप्पंजंतिय णियमा सिद्धी दु ण दिस्सदे अण्णा ॥ ३३९ ॥ दव्यं यदुत्पद्यते गुणैस्तत्तैानीनन्यत् । यथा कटकादिभिस्तु पर्यायैः कनकमनन्यदिह ॥३३६॥ जीवस्याजीवस्य तु ये परिणामास्तु दर्शिताः सूत्रे । ते जीवमजीवं वा तैरनन्यं विजानीहि ॥३३७॥ न कुतश्चिदप्युत्पमो यस्मात्कार्य न तेन स आत्मा । उत्पादयति न किंचित्कारणमपि सेन न स भवति ॥३३८॥ कम प्रतीत्य कर्ता कर्तारं तथा प्रतीत्य कर्माणि । उत्पद्यते नियमात्सिद्धिस्तु न दृश्यतेऽन्या ॥३३९॥ तात्पत्तिः -यथा कनकमिह कटकादिपर्यायैः सहानन्यदभिन्न भवति तथा द्रव्यमपि यदुत्पद्यत परिणमति । कैः सह ? स्वकीयस्वीकीयगुणैः, तद्रव्यं तैगुणैःसहानन्यदभिन्नमिति जानीहि इति प्रथमगाथा गता। जीवरसाजीवस्स य जे परिणामा दु देसिदा सुते जीवस्य-अजीवस्य च ये परिणामाः पर्याया देशिताः कथिताः सूत्रे परमागमे तैःसह तेनैव पूर्वोक्तसुवर्णदृष्टांतेन तमेव जीवाजीवद्रव्यमनन्यदभिन्नं विजानीहीति द्वितीयगाथा गता । यस्माच्छु निश्चयनयेन नरनारकादिविभावपर्यायरूपेण कदाचिदपि नोत्पन्नः-कर्मणा न जनितः तेन कारणेन कर्मनोकर्मापेक्षयात्मा कार्य न भवति । न च तत्कर्मनोकर्मोपादानरूपेण किमप्युत्पादयति तेन कारणेन कर्मनोकर्मणां कारणमपि न। भवति यतः कर्मणां कर्ता मोचकश्च न भवति ततःकारणाद्वंधमोक्षयोः शुद्धनिश्चयनयेन कर्ता न भवतीति तृतीयगाथा गता । कम्मं पडुच्च कत्ता कत्तारं तह पडुच्च कम्माणि उप्पंजंते णियमा यतः पूर्व भणितं सुवर्णद्रव्यस्य कुंडलपरिणामेनेव सह जीवपुद्गलयोः स्वपरिणामैः सहैवानन्यत्वमाभिन्नत्वं । पुनश्चोक्तं कर्मनोकर्मभ्यां कर्तृभूताभ्यां जीवो नोत्पाद्यते जीवश्च कर्मनोकर्मणां नोत्पादयति ततो ज्ञायते कर्म प्रतीत्योपचारेण जीवः कर्मकर्ता । तथा कर्माणि २१ Page #194 -------------------------------------------------------------------------- ________________ १६२ समातन जैनग्रंथमालार्या चोत्पद्यंते जीवकर्तारमाश्रित्योपचारेण नियमान्निश्चयात् संदेहो नास्ति सिद्धी दु ण दिस्सदे अण्णा अनेन प्रकारण, अनेन कोsर्थ: : परस्परनिमित्तभावं विहाय शुद्धोपादानरूपेण शुद्धनिश्चयेन जीवस्य कर्मकर्तृत्वविषये । सिद्धिर्निष्पत्तिर्घटना न दृश्यते कर्मवर्गणायोग्यपुद्गलानां च कर्मत्वं न दृश्यते ततः स्थितं शुद्धनिश्चयनयेनाकर्ता जीव इति चतुर्थगाथा गता । एवं निश्चयेन जीवः कर्मणां कर्ता न भवतीति व्याख्यानमुख्यत्वेन प्रथमस्थले गाथाचतुष्टयं गतं । अथ शुद्धस्यात्मनो ज्ञानावरणादिप्रकृतिभिर्यदूर्बधो भवति तदज्ञानस्य माहात्म्यमिति प्रज्ञापयतिआत्मख्यातिः — जीवो हि तावत्क्रमनियमितात्मपरिणामैरुत्पद्यमानो जीव एव नाजीव:, एवमजी - वोऽपि क्रमनियमितात्मपरिणामैरुत्पद्यमानोऽजीव एव न जीवः, सर्वद्रव्याणां स्वपरिणामैः सह तादत्म्यात् कंकणादिपरिणामैः कांचनवत् । एवं हि जीवस्य स्वपरिणामैरुत्पद्यमानस्याप्यजीवन सह कार्यकारणभावो न सिद्ध्यति सर्वद्रव्याणां द्रव्यांतरेणोत्पाद्योत्पादकभावाभावात् । तदसिद्धौ चाजीवस्य जीवकर्मत्वं न सिद्ध्यति । तदसिद्धौ च कर्तृकर्मणोरनन्यापेक्षसिद्धत्वात् - जीवस्याजीवकर्तृत्वं न सिद्ध्यति, अतो जीवोऽकर्ता अवतिष्ठते । अकर्ता जीवोऽयं स्थित इति विशुद्धः स्वरसतः स्फुरच्चि ज्ज्योतिर्भिश्छुरितभुवनाभोगभुवनः । तथाप्यस्यासौ स्याद्यदिह किल बंधः प्रकृतिभिः स खल्वज्ञानस्य स्फुरति महिमा कोपि गहनः । १८६ । चेदा द पयडियs उप्पज्जदि विणस्सदि । दु पयडीवि चेदय उप्पज्जदि विणस्सदि || ३४०|| एवं वंघो दुहंपि अण्णोण्णपच्चयाण हवे | अपणो पयडी एय संसारो तेण जायदे || ३४१॥ पिता तु प्रकृत्यर्थमुत्पद्यते विनश्यति । प्रकृतिरपि चेतकार्थमुत्पद्यते विनश्यति || ३४० || एवं बंधो द्वयोरपि - प्रत्यययोर्भवेत् । आत्मनः प्रकृतेश्व संसारस्तेन जायते || ३४१ ॥ तात्पर्यवृत्तिः - चेदा आत्मा स्वस्थभावच्युतः सन् प्रकृतिनिमित्तं कर्मोदयनिमित्तमुत्पद्यते । विनश्यति च विभावपरिणामैः पर्यायैः । प्रकृतिरपि चेतयितृकार्यं जीवसंबधिरागादि परिणामनिमित्तं ज्ञानावरणादिकर्मपर्यायैरुत्पद्यते विनश्यति च । पूर्वोक्तप्रकारेण बंधो जायते द्वयोः - स्वस्थभावच्युतस्यात्मनः, कर्मवर्गणायोग्यपुद्गल पिंडरूपाया ज्ञानावरणादिप्रकृतेश्च । कथंभूतयोर्द्वयोः ? अन्योऽन्यप्रत्यययोः, परस्परनिमि त्तकारणभूतयोः । एवं रागाद्यज्ञानभावेन बंधो भवति तेन बंधेन संसारो जायते, नच स्वस्वरूपत इत्युक्तं भवति । अथ यावत्कालं शुद्धात्मसंवित्तिच्युतः सन् प्रकृत्यर्थं प्रकृत्युदयरूपं रागादिकं न मुंचति तावत्कालमज्ञानी स्यात् तदभावे ज्ञानी च भवतीत्युपदिशति — आत्मख्यातिः - अयं हि आ संसारत एव प्रतिनियतस्वलक्षणानिर्ज्ञानेन परमात्मनोरेकत्वाध्यासस्य करणात्कर्ता सन् चेतयिता प्रकृतिनिमित्तमुत्पादविनाशावासादयति । प्रकृतिरपि चेतयितृनिमित्तमुत्पत्तिविनाशावासादयति । एवमनयोरात्मप्रकृत्योः कर्तृकर्मभावाभावेप्यन्योन्यनिमित्तनैमितिकभावेन द्वयोरपि बंधो दृष्टः, ततः संसारः, तत एव च तयोः कर्तृकर्मव्यवहारः जासो पडिय चेदगो ण विमुंचदि । अयाणओ हवे तावं मिच्छादिट्ठी असंजदो || ३४२ ॥ Page #195 -------------------------------------------------------------------------- ________________ १६३ समयप्रामृतं । जदा विमुंचदे चेदा कम्मफलमणंतयं । तदा विमुत्तो हवदि जाणगो पस्सगो मुणी ॥३४३॥ यावदेष प्रकृत्यर्थं चेतयिता नैव विमुंचति । अज्ञायको भवेत्ताबन्मिथ्यादृष्टिरसंयतः ॥३४२॥ यदा विमुंचति चेतयिता कर्मफलमनंतकं । तदा विमुक्तो भवति ज्ञायको दर्शको मुनिः ॥३४॥ तात्पर्यवृत्तिः-- यावत्कालमेष चेतयिता जीवः, चिदानंदैकस्वभावपरमात्मसम्यक्श्रद्धानज्ञानानुभवरूपाणां सम्यग्दर्शनज्ञानचारित्राणामभावात्प्रकृत्यर्थं रागादिकर्मोदयरूपं न मुंचति, तावत्कालं रागादिरूपमात्मानं श्रद्दधाति जानात्यनुभवति च ततो मिथ्यादृष्टिर्भवति, अज्ञानी भवति, असंयतश्च भवति, तथा भूतःसन् मोक्षं न लभते । यदा पुनरयमेव चेतयिता मिथ्यात्वरागादिरूपं कर्मफलं शक्तिरूपेणानंतविशेषण सर्वप्रकारेण मुंचति तदा शुद्धबुबैकस्वभावात्मतत्त्वसम्यक्श्रद्धानज्ञानानुभवरूपाणां सम्यग्दर्शनज्ञानचारित्राणां सद्भावात् लाभमिथ्यात्वरागादिभ्यो भिन्नमात्मानं श्रद्दधाति जानात्यनुभवति च । ततः सम्यग्दृष्टिर्भवति, संयतो मुनिश्च भवति तथाभूतः सन् विशेषेण द्रव्यभावगतमूलोत्तरप्रकृतिविनाशेन मुक्तो भवतीति । एवं यद्यप्यात्मा शुद्धनिश्चयेन कर्ता न भवति तथाप्यनादिकर्मबंधवशान्मिथ्यात्वरागाद्यज्ञानभावेन कर्म बनातीति अज्ञान सामर्थ्यज्ञापनार्थ द्वितीयस्थले सूत्रचतुष्टयं गतं ___ अथ शुद्धनिश्चयनयेन कर्मफलभोक्तृत्वं जीवस्वभावो न भवति, कस्मात् ! अज्ञानस्वभावत्वात्-इति कथयति आत्मख्याति:-यावदयं चेतयिता प्रतिनियतस्वलक्षणानि नात् प्रकृतिस्वभावमात्मनो बंधानमित्तं न मुंचति तावत्स्वपरयोरेकत्वज्ञानेनाज्ञायको भवति । स्वपरयोरेकत्वदर्शनेन मिथ्यादृष्टिर्भवति । स्वपरयोरेकत्वपरिणत्या चासंयतो भवति । तावदेव परात्मनोरेकत्वाभ्यासस्य करणारकर्ता भवति । यदा त्वयमेव प्रतिनियतस्वलक्षणनिर्ज्ञानात् प्रकृतिस्वभावमात्मनो बंधनिमित्तं मुंचति तदा स्वपरयोविभागज्ञानेन ज्ञायको भवति । स्वपरयोविभागदर्शनेन दर्शको भवति । स्वपरयोविभागपरिणत्या च संयतो भवति तदैव च परास्मनोरेकत्वाध्यासस्याकरणादकर्ता भवति । भोक्तृत्वं न स्वभावोऽस्य स्मृतः कर्तृत्ववञ्चितः । अज्ञानादेव भोक्तायं तदभावादवेदकः ॥ १८७ ॥ अण्णाणी कम्मफलं पयडिसहावहिदो दु वेदेदि । णाणी पुण कम्मफलं जाणदि उदिदं ण वेदेदि ॥३४४॥ __ अज्ञानी कर्मफलं प्रकृतिस्वभावस्थितस्तु वेदयते । - ज्ञानी पुनः कर्मफलं जानाति-उदितं न घेदयते ॥ ३४४ ॥ तात्पर्यवृत्तिः- अण्णाणी कम्मफलं पयडिसहावाहिदो दु वेदेदि विशुद्धज्ञानदर्शनस्वभावात्मतत्त्वसम्यक्श्रद्धानज्ञानानुष्ठानरूपाभेदरत्नत्रयात्मकभेदज्ञानस्याभावादज्ञानी जीवः उदयागतकर्मप्रकृतिस्वभावे सुखदुःखस्वरूपे स्थित्वा हर्षविषादाभ्यां तन्मयो भूत्वा कर्मफलं वेदयत्यनुभवति । णाणी पुण कम्मफर्ल जाणदि उदिदं ण वेदेदि ज्ञानी पुनः पूर्वोक्तभेदज्ञानसद्भावात् वीतरागसहजपरमानंदरूप सुखरसास्वादेन परमसमरसीभावेन परिणतः सन् कर्मफलमुदितं वस्तुस्वरूपेण जानात्येव नच हर्षविषादाभ्यां तन्मयो भूत्वा वेदयतीति । १ स्थितः इति स. पाठः। Page #196 -------------------------------------------------------------------------- ________________ सनातनजनग्रंथमालायां अथाज्ञानी जीवः सापराधः सशंकितः सन् कर्मफलं तन्मयो भूत्वा वेदयति, यस्तु निरपराधी ज्ञानी समये सति किं करोति ? इति कथयति - १६४ आत्मख्यातिः - अज्ञानी हि शुद्धात्मज्ञानाभावात् स्वपरयोरेकत्वज्ञानेन स्वपरयोरेकत्वदर्शनेन, स्वपरयोरेकत्वपरिणत्या च प्रकृतिस्वभावे स्थितत्वात् प्रकृतिस्वभावमप्यहंतया-अनुभवन् कर्मफलं वेदयते । ज्ञानी तु शुद्धात्मज्ञानसद्भावात्स्वपरयोर्विभागज्ञानेन, स्वपरयोर्विभागदर्शनेन स्वपरयोरेकत्वापरिणत्या च प्रकृति स्वभावादपसृतत्वात् — शुद्धात्मस्वभावमेकमेवाहंतयानुभवन् कर्मफलमुदितं ज्ञेयमात्रत्वात् - जानात्येव न पुनस्तस्याहंतयाऽनुभवितुमशक्यत्वाद्वेदयते । अज्ञानी प्रकृतिस्वभावनिरतो नित्यं भवेद्वेदको ज्ञानी तु प्रकृतिस्वभावविरतो नो जातु चिद्वेदकः । इत्येवं नियमं निरूप्य निपुणैरज्ञानिता त्यज्यतां शुद्धैकात्ममये महस्याचलितैरासेव्यतां ज्ञानिता ॥११८॥ अज्ञानी वेदक एवेति नियम्यते जो पुण णिरावराहो चेदा णिस्संकिदो द सो होदि । दु आराहणाय णिचं वदि अहमिदि वियाणंतो ॥ ३४५ ॥ यः पुनर्निरपराधश्चेतयिता निश्शंकितस्तु स भवति । आराधना नित्यं वर्तते अहमिति विजानन् || ३४५ ॥ तात्पर्यवृत्तिः -- जो पुण णिरवराहो चेदा णिस्संकिदो दु सो होदि यस्तु चेतयिता ज्ञानी जीवः स निरपराधः सन् परमात्माराधनविषये निश्शंको भवति । निश्शंको भूत्वा किं करोति ? आहारणाय णिचं वद्वदि अहमिदि वियाणतो निर्दोषपरमात्माराधनारूपया निश्चयाराधनया नित्यं सर्वकालं वर्तते। किं कुर्वन् ? अनंतज्ञानादिरूपोऽहंमिति निर्विकल्पसमाधौ स्थित्वा शुद्धात्मानं सम्यग्जानन् परमसमरसी भावेन वानुभवति इति । अज्ञानी कर्मणां नियमेन वेदको भवतीति दर्शयति — यदि पडिमभवो सुठुवि अज्झाइदूण सच्छाणि । गुडदुर्द्धपि पिता ण पण्णया निव्विसा होंति ॥ ३४६ ॥ न मुंचति प्रकृतिममव्यः सुष्ठुपि - अधीत्य शास्त्राणि । दुग्धमपि पितो न पन्नगा निर्विषा भवति ॥ ३४६ ॥ तात्पर्यवृत्तिः यथा पन्नगाः सर्पाः शर्करासहितं दुग्धं पिवतोऽपि निर्विषा न भवंति तथा ज्ञानी जीवो मिथ्यात्वरागादिरूपकर्मप्रकृत्युदयस्वभावं न मुंचति । किं कृत्वापि १ अधीत्यापि । कानि ? शास्त्राणि । कथं सुड्डु बिसुष्वपि । कस्मान्न मुंचति ? वीतरागस्वसंवेदनज्ञानाभावात् – कर्मोदये सति मिथ्यात्वरागादीनां तन्मयो भवति यतः कारणात् इति । ज्ञान कर्मणां नियमेन वेदको न भवतीति दर्शयति आत्मख्यातिः -- यथात्र विषधरो विषभाव स्वयमेव न मुंचति, विषभावमोचन समर्थसशर्करक्षीरपानाच न सुचति । तथा काभव्यः प्रकृतिस्वभावं स्वयमेव न मुंचति प्रमोचनसमर्थद्रव्यश्रुतज्ञानाश्च न मुति, नित्यमेव भावश्रुतज्ञानलक्षणशुद्धात्मज्ञानाभावेनाज्ञानित्वात् । अतो नियम्यते ज्ञानी प्रकृतिस्वभावे पर। २ प्रकृतज्ञानावरणादिकायाः स्वभावश्चतुर्गतिशरीररागादिभावसुख दुःखादिका परिणतिस्तत्र निरतः - आत्मीयबुद्धधा परिणतः | २ नेयं गाथायात्मख्याती । Page #197 -------------------------------------------------------------------------- ________________ समयप्राभृतं । ज्ञानी त्यवेदक एवेति नियम्यते णिव्वेदसमावण्णो णाणी कम्मप्फलं वियाणादि । महुरं कंडुवं वहुविहमवेदको तेण पण्णत्तो ॥ ३४७॥ . निर्वेदसमापनो ज्ञानी कर्मफलं विजानाति । मधुरं कटुकं वहुविधमवेदको तेन प्रज्ञप्तः ॥ ३४७ ॥ तात्पर्यहात्तिः-णिव्वेदसपावण्णो णाणी कम्मप्फलं वियाणादि परमतत्त्वज्ञानी जीवः संसारशरीरभोगरूपत्रिविधवैराग्यसंपन्नो भूत्वा शुभाशुभकर्मफलमुदयागतं वस्तुस्वरूपेण विशेषेण निर्विकारस्वशुद्धात्मनो भिन्नत्वेन जानाति । कथं भूतं जानाति ! पहुरं कडवं बहुविहमवेदको तेण पण्णत्तो अशुभकर्मफलं निंबकांजीरविषहलाहलरूपेण कटुकं जानाति । शुभकर्मफलं बहुविधं गुडखंडशर्करामृतरूपेण मधुरं जानाति। नच शुद्धात्मोत्थसहजपरमानंदरूपमतींद्रियसुखं विहाय पंचेन्द्रियसुखे परिणमति, तेन कारणेन ज्ञानी वेदको भोक्ता न भवतीति नियमः । एवं ज्ञानी शुद्धनिश्चयेन शुभाशुभकर्म फलभोक्ता न भवतीति व्याख्यानमुख्यत्वेन तृतीयस्थले सूत्रचतुष्टयं गतं ।। आत्मख्यातिः - ज्ञानी तु निरस्तभेदभावश्रुतज्ञानलक्षणशुद्धात्मज्ञानसद्भावेन परतोऽत्यंतविविक्तत्वात प्रकृतिस्वभावं स्वयमेव मुंचति ततो मधुरं मधुरं वा कर्मफलमुदितं ज्ञातृत्वात् केवलमेव जानाति, न पुनाने सति परद्रव्यस्याहतयाऽनुभवितुमयोग्यत्वाद्वेदयते । अतो ज्ञानी प्रकृतिस्वभावविरक्तत्वादवेदक एव । झानी करोति न न वेदयते च कर्म जानाति केवलमयं किल तत्स्वभावं । जानन्परं करणवेदनयोरभावात् शुद्धस्वभावनियतः स हि मुक्त एव ॥१८॥ णवि कुव्वदि णवि वेददि णाणी कम्माइ बहु पयाराइ । जाणदि पुण कम्मफलं बंधं पुण्णं च पावं च ॥ ३४८ ॥ नापि करोति नापि वेदयते ज्ञानी कर्माणि बहुमकाराणि । जानाति पुनः कर्मफलं बंधं पुण्यं च पापं च ॥३४८॥ तात्पर्यवृत्तिः--णवि कुन्वदि णवि वेददि णाणी कम्माइ बहुपयाराइ त्रिगुप्तिगुप्तत्ववलेन ख्यातिपूजालाभदृष्टश्रुतानुभूतभोगाकांक्षारूपनिदानबंधादिसमस्तपरद्रव्यालंबनशून्येनानंतज्ञानदर्शनसुखवीर्यस्वरूपेण सालंबने भरितावस्थे निर्विकल्पसमाधौ स्थितो ज्ञानी कर्माणि बहुप्रकाराणि ज्ञानावरणादिमलोत्सरप्रकृतिभेदभिन्नानि निश्चयनेन न करोति न च तन्मयो भूत्वा वेदयत्यनुभवति । तर्हि किं करोति ! जाणदि पुण कम्मफलं वंधं पुण्णं पावं च परमात्मभावनोत्थसुखे तृप्तो भूत्वा वस्तुस्वरूपेण जानात्येव । किं जानाति ! सुखदुःखस्वरूपकर्मफलं प्रकृतिबंधादिभेदभिन्नं पुनः कर्मबंध, सद्वेद्यशुभायुर्नामगोत्ररूपं पुण्यं, अतोऽन्यदसवेद्यादिरूपं पापं चेति । तमेव कर्तृत्वभोक्तृत्वभावं विशेषेण समर्थयति आत्मख्यातिः--ज्ञानी हि कर्मचेतनाशून्यत्वेन कर्मफलचेतनाशून्यत्वेन च स्वयमकर्तृत्वादवेदयितृत्वाच्च न कर्म करोति न वेदयते च । किंतु ज्ञानचेतनामयत्वेन केवलं ज्ञातृत्वात्कर्मबंध कर्मफलं च शुभमशुभं वा केवलमेव जानाति । कुत एतत् ? दिडी जह अण्णाणं पाठोयमात्मख्यातौ। Page #198 -------------------------------------------------------------------------- ________________ १६६ सनातन जैन प्रथमालायां दिट्ठी सपि णाणं अकारयं तह अवेदयं चैव । जादिय धमोक्खं कम्मुदयं णिज्जरं चैव ॥ ३४९ ॥ दृष्टिः स्वयमपि ज्ञानमकारकं तथाऽवेदकं चैत्र । जानाति च बंधमोक्षं कर्मोदयं निर्जरां चैव ॥ ३४९ ॥ तात्पर्यवृत्तिः- दिठी सर्यपि णाणं अकारयं तह अवेदयं चैव यथा दृष्टिः कर्त्री दृश्यमग्नि रूप वस्तुसंधुक्षणं पुरुषवन्न करोति तथैव च तप्तायः पिंडवदनुभवरूपेण न वेदयति । तथा शुद्धज्ञानमप्यभेदेन शुद्धज्ञान परिणतजीवो वा स्वयं शुद्धोपादानरूपेण न करोति न च वेदयति । अथवा पाठांतरं दिट्ठी सपि णाणं तस्य व्याख्यानं न केवलं दृष्टिः क्षायिकज्ञानमपि निश्चयेन कर्मणामकारकं तथैवा वेदकमपि। तथाभूतः सन् किंकरोति ? जाणदि य बंधमोक्खं जानाति च । कौ ? बंधमोक्षौ । ने केवलं धमोक्ष कम्मुदयं णिज्जरं चैव शुभाशुभरूपं कर्मोदयं सविपाकाविपाकरूपेण सकामा कामरूपेण वा द्विधा निर्जरां चैव जानाति इति । एवं सर्वविशुद्धपारिणामिकपरमभावग्राहकेण शुद्धोपादानभूतेन शुद्धद्रव्यार्थिकनयेन कर्तृत्व-भोक्तृत्व-बंध - मोक्षादिकारणपरिणामशून्यो जीव इति सूचितं । समुदायपातनिकायां पश्चाद्गाथाचतुष्टयेन जीवस्याकर्तृत्वगुणव्याख्यानमुख्यत्वेन सामान्यविवरणं कृतं । पुनरपि गाथाचतुष्टयेन शुद्धस्यापि यत्प्रकृतिभिर्बंधो भवति तदज्ञानस्य माहात्म्यमित्यज्ञानसामर्थ्यकथनरूपेण विशेषविवरणं कृतं । पुनश्च गाथाचतुष्टयेन जीवस्याभोक्तृत्वगुणव्याख्यानमुख्यत्वेन व्याख्यानं कृतं । तदनंतरं शुद्धनिश्चयेन तस्यैव कर्तृत्वबंध मोक्षादिककारणपरिणामवर्जनरूपस्य द्वादशगाथाव्याख्यानस्योपसंहारंरूपेण गाथाद्वयं गतं । इति समयसारव्याख्यायां शुद्धात्मानुभूतिलक्षणायां तात्पर्यवृत मोक्षाधिकारसंबंधिनी चूलिका समाप्ता । अथवा द्वितीयव्याख्यानेनात्र मोक्षाधिकारः समाप्तः । आत्मख्यातिः: - यथात्र लोके दृष्टिर्दृश्यादत्यंतविभक्तत्वेन तत्करणवेदनयेोरसमर्थत्वात् दृश्यं न करोति न वेदयते च, अन्यथाग्निदर्शनात्संधुक्षणवत् स्वयं ज्वलनकरणस्य, लोहपिंडवत्स्वयमेवौष्ण्यानुभवमस्य च दुर्निवारत्वात् । किंतु केवलं दर्शनमात्रस्वभावत्वात् तत्सर्वं केवलमेव पश्यति । तथा ज्ञानमपि स्वयं दृष्टित्वात् कर्मणोऽत्यंतविभक्तत्वेन निश्चयतस्तत्करणवेदनयोरसमर्थत्वात्कर्म न करोति न वेदयंते च । किंतु केवलं ज्ञानमात्रस्वभावत्वात्कर्मबंधं मोक्षं वा कर्मोदयं निर्जरां वा, केवलमेव जानाति । येतु कर्तारमात्मानं पश्येति तमसा तताः । सामान्यजनवत्तेषां न मोक्षोऽपि मुमुक्षतां ॥ १८९॥ तात्पर्यवृत्तिः—किं च विशेषः— औपशमिकादिपंचभावानां मध्ये केन भावेन मोक्षो भवतीति विचार्यते । तत्रौपशमिकक्षायोपशमिकक्षायिकौदयिकभावचतुष्टयं पर्यायरूपं भवति शुद्धपरिणामिकस्तु द्रव्यरूप इति । तच्च परस्परसापेक्षं द्रव्यपर्यायद्वयमात्मा पदार्थो भण्यते । तत्र तावज्जीवत्वभव्यत्वाभन्यत्वत्रिविधपरिणामिकभावमध्ये शुद्धजीवत्वं शक्तिलक्षणं । यत्पारिणामिकत्वं तच्छुद्धद्रव्यार्थिकनयाश्रितत्वान्निरावरण शुद्धपारिणामिकभावसंज्ञं ज्ञातव्यं तत्त्वबंधमोक्षपर्यायपरिणतिरहितं । यत्पुनर्दशप्राणरूपं जीवत्वं भव्याभव्यत्वद्वयं तत्पर्यायार्थिकनयाश्रितत्वादशुद्धपारिणामिकभावसंज्ञमिति । कथमशुद्धमिति चेत् संसारिणां शुद्धयेन सिद्धानां तु सर्वथैव दशप्राणरूपजीवत्वभव्याभव्यत्वद्वयाभावादिति । तस्य त्रयस्य मध्ये भव्यवलक्षणपारिणामिकस्य तु यथासंभवं सम्यक्त्वादिजीवगुणघातकं देशघातिसर्वघातिसज्ञं मोहादिकर्मसामान्यं पर्यायार्थिकनयेन प्रच्छादकं भवति इति विज्ञेयं । तत्र च यदा कालादिलब्धिवशेन भव्यत्वशक्तेर्व्यक्तिर्भवति तदायं जीवः सहजशुद्धपारिणामिकभावलक्षणनिजपरमात्मद्रव्यसम्यक् श्रद्धानज्ञानानुचरणपर्यायेण परिण Page #199 -------------------------------------------------------------------------- ________________ समयप्राभृतं । १६७ मति । तच परिणमनागमभाषयोपशमिकक्षायोपशमिकक्षायिकं भावत्रयं भण्यते । अध्यात्मभाषया पुनः शुद्धात्माभिमुखपरिणामः शुद्धोपयोग इत्यादि पर्यायसंज्ञां लभते । स च पर्यायः शुद्धपारिणामिकभावलक्षणशुद्धात्मद्रव्यात्कथंचिद्भिन्नः । कस्मात् ? भावनारूपत्वात् । शुद्धपारिणामिकस्तु भावनारूपो न भवति । यद्येकांतेनाशुद्धपारिणामिकादाभिन्नो भवति तदास्य भावनारूपस्य मोक्षकारणभूतस्य मोक्ष प्रस्तावे विनाशे जाते सति शुद्धपारिणामिकभावस्यापि विनाशः प्राप्नोति, नच तथा । ततः स्थितं - शुद्ध पारिणामिकभावविषये या भावना तद्रूपं यदौपशमिकादिभावत्रयं तत्समस्तरागादिरहितत्वेन शुद्धोपादानकारणत्वान्मोक्षकारणं भवति नच शुद्धपारिणामिकः । यस्तु शक्तिरूपो मोक्षः स शुद्धपारिणामिकपूर्वमेव तिष्ठति । अयं तु व्यक्तिरूपमोक्षविचारो वर्तते । तथा चोक्तं सिद्धांते - 'निष्क्रियशुद्धपारिणामिकं' निष्क्रिय इति कोऽर्थः ? बंध कारणभूता या क्रिया रागादिपरिणतिः, तद्रूपो न भवति । मोक्षकारणभूता च क्रिया शुद्धभावना परिणतिस्तद्रूपश्च न भवति । ततो ज्ञायते शुद्धपारिणामिकभावो ध्येयरूपो भवति ध्यानरूपो न भवति । कस्मात् ? ध्यानस्य विनश्वरत्वात् । तथा योगींद्रदेवैरप्युक्तं वि उपज्जह णवि मरइ वंधण मोक्खू करेइ । जिउ परमत्थे जोइया जिणवर एउ भणे ॥ १ ॥ किं च विवक्षितैकदेशशुद्धनयाश्रितेयं भावना निर्विकारस्वसंवेदनलक्षणक्षायोपशमिकान्यत्वेन यदाप्येकदेशव्यक्तिरूपा भवति तथापि ध्याता पुरुषः यदेव सकलनिरावणमखंडैकप्रत्यक्षप्रतिभासमयमविनश्वरं शुद्धपारिणामिकपरमभावलक्षणं निजपरमात्मद्रव्यं तदेवाहमिति भावयति नच खंडज्ञानरूपमिति भावार्थः । इदं तु व्याख्यानं परस्परसापेक्षागमाध्यात्मनयद्वयाभिप्रायस्यानिरोधेनैव कथितं सिद्ध्यतीति ज्ञातव्यं विवेकिभिः । अतः परं जीवादिनवाधिकारेषु जीवस्य कर्तृत्वभोक्तृत्वादिस्वरूपं यथास्थानं निश्चयव्यवहारविभागेन सामान्येन यत्पूर्वं श्रावितं, तस्यैव विशेषविवरणार्थं लोकस्स कुणादि विहू इत्यादि गाथामादिं कृत्वा पाठक्रमेण षडधिकनवतिगाथापर्यंतं चूलिकाव्याख्यानं करोति चूलिकाशब्दस्यार्थः कथ्यते तथाहि - विशेषव्याख्यानं, उक्तानुक्तव्याख्यानं, उक्तानुक्तसंकीर्णव्या ख्यानं चेति त्रिधा चूलिकाशब्दस्यार्थो ज्ञातव्यः । तत्र षण्णवतिगाथासु मध्ये विष्णोर्देवादिपर्यायकर्तृत्वनिराकरणमुख्यत्वेन लोगस्स कुणदि विह्न इत्यादि गाथासप्तकं च भवति । तदनंतरं, अन्यः कर्ता, भुंक्ते चाम्यः— इत्येकांतनिषेधरूपेण बौद्धमतानुसारिशिष्यसंबोधनार्थं केहिंदु पज्जयेहिं इत्यादिसूत्रचतुष्टयं । अतः परं सांख्यमतानुसारिशिष्यं प्रति, एकांतेन जीवस्य भावमिध्यात्वकर्तृत्वनिराकरणार्थं मिच्छत्ता जदि पयडी इत्यादि सूत्र चिकं । ततः परं ज्ञानाज्ञानसुखदुःखादिभावान् कर्मैवैकांतेन करोति नचात्मेति पुनरपि सांख्यमतनिराकरणार्थं - कम्मेहिं अण्णाणी इत्यादि त्रयोदशसूत्राणि । अथानंतरं कोऽपि प्राथमिकशिष्यः शब्दादिपंचेन्द्रियविषयाणां विनाशं कर्तुं वांछति किंतु मनसि स्थितस्य विषयानुरागस्य घातं करोमीति विशेषविवेकं न जानाति तस्य संबोधनार्थे दंसणणाणचरितं इत्यादि सूत्रसप्तकं । तदनंतरं यथा सुवर्णकारादिशिल्पी कुंडलादिकर्म हस्त कुदृकाद्युपकरणैः करोति । तत्फलं मूल्यादिकं भुंक्ते च तथापि तन्मयो न भवति । तथा जीवोऽपि द्रव्यकर्म करोति भुंक्ते च तथापि तन्मयो न भवतीत्यादिप्रतिपादनरूपेण जह सिप्पियो दु इत्यादि गाथा सप्तकं । ततः परं यद्यपि श्वेतमृत्तिका कुड्यादिकं श्वेतं करोति तथापि निश्चयन तन्मयो न भवति । तथा जीवोऽपि व्यवहारेण ज्ञेयभूतं च द्रव्यमेव जानाति पश्यति परिहरति श्रद्दधाति च तथापि निश्चयेन तन्मयो न भवति इति ब्रह्माद्वैतमतानु सारिशिष्यसंबोधनार्थ जहसेडिया इत्यादि सूत्रदशकं । ततः परं शुद्धात्मभावनारूपनिश्चयप्रतिक्रमण— निश्चयप्रत्याख्यान-निश्चयालोचना - निश्चयचारित्रव्याख्यानमुख्यत्वेन कम्मं जं पुव्वकयं इत्यादिसूत्र Page #200 -------------------------------------------------------------------------- ________________ १६८ सनातनजनैग्रंथमालायां चतुष्टयं । तदनंतरं रागद्वेषोत्पत्तिविषये ज्ञानरूपस्वकीय बुद्धिरूपदोष एव कारणं नचाचेतनशब्दादिविषया इति कथनार्थे णिंददि सुंथुदि वयणाणि इत्यादि गाथादशकं । अतः परं उदयागतं कर्म वेदयमानो मदीयमिदं मया कृतं च मन्यते स्वस्थभावशून्यः सुखितो दुखितश्च भवति यः सः पुनरप्यष्टविधं कर्म दुःख बीजं बनातीति प्रतिपादन मुख्यत्वेन वेदंतो कम्मफलं इत्यादि गाथात्रयं । तदनंतरं आचारसूत्रकृतादि द्रव्यश्रुतेंद्रियविषयद्रव्यकर्म धर्माधर्माकाशकालाः शुद्धनिश्वयेन रागादयोऽपि शुद्धजीवस्वरूपं न भवतीति व्याख्यानमुख्यत्वेन सच्छं णाणं ण हवदि इत्यादि पंचदश सूत्राणि । ततः परं यस्य शुद्ध यस्याभिप्रायेण मूर्तिरहितस्तस्याभिप्रायेण कर्मनो कर्माहाररहित इति व्याख्यानरूपेण अप्पा जस्स अमुतो इत्यादि गाथात्रयं । तदनंतरं देहाश्रितद्रव्यलिंगं निर्विकल्पसमाधिलक्षणभावलिंगरहितं यतीनां मुक्तिकारणं न भवति भावलिंगसहितानां पुनः सहकारिकारणं भवतीति व्याख्यानमुख्यत्वेन पाखंडी लिंगाणिय इत्यादि सूत्रसप्तकं । पुनश्च समयप्राभृताध्ययनफलकथनरूपेण ग्रंथसमाप्त्यर्थ जो समय पाहुडमिणं इत्यादि सूत्रमेकं कथयतीति त्रयोदशभिरंतराधिकारैः समयसारचूलिकाधारे समुदायपातनिका - इदानीं त्रयोदशाधिकाराणां यथाक्रमेण विशेषव्याख्यानं क्रियते । तद्यथा-एकांतेनात्मानं कर्तारं ये मन्यते तेषामज्ञानिजनवन्मोक्षो नास्तीत्युपदिशति लोगस्स कुदि वि सुरणारयतिरियमाणु से सत्ते । समणाणंपिय अप्पा जेदि कुव्वदि छव्विहे काए ॥ ३५० ॥ लोगसमणाणमेवं सिंद्धतं पडि ण दिस्सदि विसेसो । लोगस्स कुदि विहू समणाणं अप्पओ कुणदि || ३५१ ॥ एवं कोवि मुक्खो दीसह दुण्हंपि समण लोयाणं । णिच्चं कुव्वंताणं सदेव मणुआसुरे लोगे || ३५२ ॥ लोकस्य करोति विष्णुः सुरनारकतिर्यमानुषान् सत्वान् । श्रमणानामप्यात्मा यदि करोति षडिधान् कायान् ।। ३५० ।। लोकश्रमणानामेवं सिद्धांतं प्रति न दृश्यते विशेषः । लोकस्य कति विष्णुः श्रमणानामध्यात्मा करोति ।। ३५१ ॥ एवं न कोऽपि मोक्षो दृश्यते लोकश्रमणानां द्वयेषां । नित्यं कुर्वतां सदैव मनुजान सुरान् लोकान् ।। ३५२ ।। a तात्पर्यवृत्तिः - लोगस्स कुणदि विह सुरणारयतिरियमाणु मे सत्ते लोकस्य मते विष्णु: करोति । कान् ? सुरनारकतिर्यङ्मानुषान् सत्वान् समणाणंपि य अप्पा जदि कुव्वदि छव्विये काए श्रमणानां मते पुनरात्मा करोति यदि चेत् कान्नू ? षट्जीवनिकायानिति । लोगसमणाणमेवं सिद्धत पडिण दिस्सदि विसेसो एवं पूर्वोक्तप्रकारेण सिद्धांतं प्रति, आगमं प्रति न दृश्यते कोऽपि विशेषः कयोः संबंधी ? लोकश्रमणयोः कस्मात् । इति चेत्-लोगस्स कुणदि विण्हू समणाणं (वि) अप्प - दि लोकमते विष्णुनामा कोऽपि परकल्पितपुरुषविशेषः करोति । श्रमणानां मते पुनरात्मा करोति तत्र विष्णुसंज्ञा श्रमणमते चात्मसंज्ञा नास्ति विप्रतिपत्तिर्नचार्थे । एवं ण कोवि मुक्खो दीसदि दुव्हंपि समणलोयाणं एवं कर्तृत्वे सति को दोषः ? मोक्षः कोऽपि न दृश्यते कयोर्लोकश्रमणयोः । किंविशिष्टयोः ? ११ सिद्धं जइ ण दीसह विसेसं, आत्मख्यातावयं पाठ: । २ दीसह लोयसमणाण दोण्डंपि पाठोयमात्मख्यातौ । Page #201 -------------------------------------------------------------------------- ________________ समयप्राभृतं । १६९ णिचं कुव्वंताणं सदेव मणुत्रासुरे लोगे नित्यं सर्वकालं कर्म कुर्वतोः । क ? लोके । कथंभूते ? देवमनुष्यासुरसहिते । किंच - रागद्वेषमोहरूपेण परिणमनमेव कर्तृत्वमुच्यते । तत्र रागद्वेषमोहपरिणमने सति शुद्धस्वभाव'त्मतत्त्वसम्यक्श्रद्धानज्ञानानुचरणरूपनिश्चयरत्नत्रयात्मकमोक्षमार्गाच्यवनं भवति ततश्च मोक्षो न भवतीति भावार्थः । एवं पूर्वपक्षरूपेण गाथात्रयं गतं । अथोत्तरं निश्चयेनात्मनः पुद्गलद्रव्येण सह कर्तृकर्मसंबंधो नास्ति कथं कर्ता भविष्यतीति कथयति - आत्मख्यातिः - ये त्वात्मानं कर्तारमेव पश्यंति ते लोकोत्तरिका अपि न लौकिकतामतिवर्तते । लौकिकानां परमात्मा विष्णुः सुरनारकादिकार्याणि करोति तेषां तु स्वात्मा तानि करोति इत्यपसिद्धांतस्य समत्वात् । ततस्तेषामात्मनो नित्यकर्तृत्वाभ्युपगमात् - लौकिकानामिव लोकोत्तरिकाणामपि नास्ति मोक्षः । नास्ति सर्वोऽपि संबंधः परद्रव्यात्मतत्त्वयोः । कर्तृत्वसंबंधाभावे तत्कर्तृता कुतः ॥ १९० ॥ ववहार भासिदेण दु परदव्वं मम भणति विदित्था । जाणंति णिच्छयेण दु णय इह परमाणुमि मम किंचि ॥ ३५३ ॥ जह कोवि णरो जंपदि अह्माणं गामविसयपुररखं । य होंति ताणि तस्सदु भणदिय मोहेण सो अप्पा ॥ ३५४ ॥ एमेव मिच्छदिट्ठी णाणी णिस्संसयं हवदि एसो । जो परदव्वं मम इदि जाणतो अप्पयं कुणदि || ३५५॥ तह्माण मेति णच्चा दो एदा कत्ति ववसाओ । परदव्वे जाणतो जाणे जो दिट्ठिरहिदाणं ॥ ३५६ ॥ व्यवहार भाषितेन तु परद्रव्यं मम भर्णत्यविदितार्थाः । जानंति निश्चयेन तु नचेह परमाणुमात्रमपि किंचित् ॥ ३५३ ॥ यथा कोsपि नरो जल्पति अस्माकं ग्रामविषयपुरराष्ट्रं । नच भवंति तस्य तानि तु भणति च मोहेन स आत्मा || ३५४ ॥ एवमेव मिध्यादृष्टिर्ज्ञानी निस्संशयं भवत्येषः । यः परद्रव्यं ममेति जानन्नात्मानं करोति ।। ३५५ ॥ तस्मान्न मे इति ज्ञात्वा द्वयेषामप्येतेषां कर्तृव्यवसायं । परद्रव्ये जानन् जानीयाद्दष्टिरहितानां ।। ३५६ ।। तात्पर्यवृत्तिः — ववहार भासिदेण दु परदव्वं मम भांति विदिदच्छा पर द्रव्यं मम भणति । के ते ? विदितार्थाः-ज्ञातार्थाः तत्त्ववेदिनः । केन कृत्वा भांति ? व्यवहारभाषितेन व्यवहारनयेन । जाणंति णिच्छयेण दु णय इह परमाणुमित्त मम किंचि निश्चयेन पुनर्जानंति । किं ? नचेह परद्रव्यं परमाणुमात्रमपि ममेति । जह कोवि णरो जंपदि अह्माणं गाम विसयपुर र द्वं यथा नाम स्फुटमहो वा कश्चित्पुरुषो जल्पति । किं जल्पति ? वृत्त्यावृतो ग्रामः, देशाभिधानो विषयः, नगराभिधानं पुरं, देशैकदेशसंज्ञं राष्ट्रमस्माकमिति । यहुं ति ताणि तस्सदु भणदिय मोहेण सो अप्पा नच तानि तस्य भवंति राजकीय नगरादीनि तथाप्यसौ मोहेन ब्रूते मदीयं प्रामादिकमिति दृष्टांतः । अथ दातः — एवं पूर्वोक्तदृष्टांतेन ज्ञानी व्यवहार Page #202 -------------------------------------------------------------------------- ________________ १७. सनातनजैनग्रंथमालायांमूढो भूत्वा यदि परद्रव्यमात्मीयं भणति तदा मिथ्यात्व प्राप्तः सन् मिध्यादृष्टिर्भवति निस्संशयं निश्चित संदेहो न कर्तव्यः इति । तमा इत्यादि तह्मा तस्मात् परकीयग्रामादिदृष्टांतेन स्वानुभूतिभावनाच्युतः सन् : योऽसौ परद्रव्यं व्यवहारेणात्मीयं करोति स मिथ्यादृष्टिर्भवतीति भणितं पूर्व तस्मात्कारणाज्ञायते दुई एदाण कत्तिववसाओ परद्रव्ये तयोः पूर्वोक्तलौकिकजैनयोः-आत्मा परद्रव्यं करोतीत्यनेन रूपेण योऽसौ परद्रव्यविषये कर्तृत्वव्यवसायः । किं कृत्वा ? पूर्व ण ममेति णच्चा निर्विकारस्वपरपरिच्छित्तिज्ञानेन परद्रव्यं मम संबंधि न भवति इति ज्ञात्वा जाणतो जाणिज्जो दिहिरहिदाणं इमं लौकिकजैनयोः परद्रव्ये कर्तृत्वव्यवसायं-अन्यः कोऽपि तृतीयतटस्थः पुरुषो जानन् सन् जानीयात् । स कथंभूतं जानीयात् ? वीतरागसम्यक्त्वसंज्ञायां तु निश्चयदृष्टिस्तद्राहितानां व्यवसायोऽयमिति । ज्ञानी भूत्वा व्यवहारेण परद्रव्यमात्मी यं वदन् सन् कथमज्ञानी भवतीति चेत् ? व्यवहारो हि म्लेछानां म्लेच्छभाषेव प्राथमिकजनसंबोधनार्थ काल एवानुसतव्यः । प्राथमिकजनप्रतिबोधनकालं विहाय कतकफलवदात्मशुद्धिकारकान् शुद्धनयाच्च्युतोभूत्वा यदि परद्रव्यमात्मीयं करोति तदा मिथ्यादृष्टिर्भवति । किं च विशेष:-लोकानां मते विष्णुः करोतीति यदुक्तं पूर्व तल्लोकव्यवहारापेक्षया भाणितं । नचानादिभूतस्य देवमनुष्यादिभूतलोकस्य विष्णुवो महेश्वरो वा कोऽपि कर्तास्ति । कथमिति चेत् सर्वोऽपि लोकस्तावदेकेंद्रियादिजीवैभृतस्तिष्ठति । तेषां च जीवानां निश्चयनयेन विष्णुपर्यायेण ब्रह्मपर्यायेण महेश्वरपर्यायेण जिनपर्यायेण च परिणमनशक्तिरस्ति तेन कारणेनात्मैव विष्णुः, आत्मैव ब्रह्मा, आत्मैव महेश्वरः, आत्मैव जिनः । तदपि कथमिति चेत् कोऽपि जीवः पूर्व मनुष्यभवे जिनरूपं गृहीत्वा भोगाकांक्षानिदानबंधेन पापानुबंधि पुण्यं कृत्वा स्वर्गे समुत्पद्य तस्मादागत्य मनुष्यभवे त्रिखंडाधिपतिरर्द्धचक्रवर्ती भवति तस्य विष्णुसंज्ञा नचापरः कोऽपि लोकस्य कर्ता विष्णुरस्ति इति । तथा चापरः कोऽपि जीवो जिनदीक्षां गृहीत्वा रत्नत्रयाराधनया पापानुबंधि पुण्यो पार्जनं कृत्वा विद्यानुवादसंज्ञं दशमपूर्व पठित्वा चारित्रमोहोदयेन तपश्चरणच्युतो भूत्वा हुण्डावसर्पिणीकालप्रभावेण विद्यावलेन लोकस्याहं कर्तेत्यादि चमत्कारमुत्पाद्य मूढजनानां विस्मयं कृत्वा महेश्वरो भवति न सर्वावसर्पिणीषु । सा च हुण्डावसर्पिणी संख्यातीता तत्सर्पिण्यवसर्पिणीषु गतासु समुपयाति तथा चोक्तं सखातीदवसप्पिणि गयासु हुंडावसप्पिणी एय । परसमयह उप्पत्ती तहि जिणवर एव पभणेइ ॥ १॥ नचान्यः कोऽपि जगत्कर्ता महेश्वराभिधानः पुरुषविशेषोऽस्ति इति । तथा चापरः कोऽपि पुरुषो विशिष्टतपश्चरणं कृत्वा पश्चात्तपःप्रभावेण स्त्रीविषयनिमित्तं चतुर्मुखो भवति तस्य ब्रह्मा संज्ञा । नचान्यः कोऽपि जगतः कर्ता व्यापकैकरूपो ब्रह्माविधानोऽस्ति । तथैवापरः कोऽपि दर्शनविशुद्धिविनयसंपन्नतेत्यादि षोडशभावनां कृत्वा देवेंद्रादिविनिर्मितपंचमहाकल्याणपूजायोग्यं तीर्थकरपुण्यं समुपाय॑ जिनेश्वराभिधानो वीतरागसर्वज्ञो भवतीति वस्तुस्वरूपं ज्ञातव्यं । एवं यद्येकांतेन कर्ता भवति तदा मोक्षाभाव इति विष्णुदृष्टांतेन गाथात्रयेण पूर्वपक्षं कृत्वा गाथाचतुष्टयेन परिहारव्याख्यानमिति प्रथमस्थले सूत्रसप्तकं गतं । भय द्रव्यार्थिकनयेन य एव कर्म करोति स एव भुंक्ते । पर्यायार्थिकनयेन पुनरन्यः करोत्यन्यो भुक्ते इति च योऽसौ मन्यते स सम्यग्दृष्टिर्भवतीति प्रतिपादयति-- आत्मख्याति:-- अज्ञानिन एव व्यवहारविमूढा परद्रव्यं ममेदमिति पश्यति । ज्ञानिनस्तु निश्चयप्रतिबुद्धाः परद्रन्यकणिकामात्रमपि न ममेदमिति पश्यति । ततो यथात्र लोके कश्चिद्व्यवहारविमूढः परकीयग्रामवासी ममाय ग्राम इति पश्यन् मिथ्यादृष्टिः । तथा ज्ञान्यपि कथंचिद् व्यवहारविमूढो भूत्वा परद्रव्यं ममेदामिति पश्येत् तदा सोऽपि निस्संशयं परद्रव्यमात्मानं कुर्वाणो मिथ्यादृष्टिरेव स्यात् । अतस्तत्त्वं जानन् पुरुषः सर्वमेव परदन्यं न ममेति ज्ञात्वा लोकश्रमणानां द्वयेषामपि योऽयं परद्रव्ये कर्तृव्यवसायः, स तेषां सम्यग्दर्शनरहितत्वादेव भवति इति सुनिश्चितं जानीयात् । . नायं स. पुस्तके पाठः। - Page #203 -------------------------------------------------------------------------- ________________ - समयप्राभृतं । एकस्य वस्तुन इहान्यतरेण सार्द्ध संबंध एय सकलोऽपि यतो निषिद्धः । तत्कर्तृकर्मघटनास्ति न वस्तुभेदे पश्यंत्वकर्तृमुनयश्च जनाश्च तत्त्वं ॥ १९१ ॥ ये तु स्वभावनियमं कलयंति नेममज्ञानमग्नमहसो वत ते वराकाः । कुंवंति कर्म तत एव हि भावकर्म कर्ता स्वयं भवति चेतन एव नान्यः ।। १९२ ।। केहि चिदु पज्जयेहिं विणस्सदे णेव केहिचिदु जीवो। जमा तह्मा कुव्वदि सो वा अण्णो व णेयंतो ॥ ३५७ ।। केहिचिदु पजयहिं विणस्सदे णेव केहिचिदु जीवो। जमा तह्मा वेददि सोवा अण्णो व यंतो ॥ ३५८ ॥ जो चेव कुणदि सोचेव वेदको जस्त एस सिद्धंतो। सो जीवो णादव्वो मिच्छादिट्ठी अशारिहिदो ॥ ३५९ ॥ अण्णो करेदि अण्णो परिभुंजदि जस्स एस सिद्धंतो। सो जीवो णादव्वो मिच्छादिट्ठी अणारिहदो ॥ ३६० ॥ कैश्चित्पर्यायर्विनश्यति नैव कैश्चिन्तु जीवः । यस्मात्तस्मात्करोति स वा अन्यो वा नै कांत: ३१७ ।। कैश्चित्पर्यायैः-विनश्यति नैव कैश्चित्तु जीवः । यस्मात्तस्माद्वेदयति स वा अन्योवा नैकांतः ।। ३५८ ॥ य एवं करोति सएव वेदको यस्यैष सिद्धांतः । स जीवो ज्ञातव्यो मिथ्यार्टिर नाईतः ॥ ३५९ ॥ अन्यः करोत्यन्यः परिभुक्ते यस्य एष सिद्धांतः । स जीवो ज्ञातव्यो मिथ्यादृष्टिरनाईतः ॥ ३६० ॥ तात्पर्यवृत्तिः केहिचिदु पन्जयहिं विणस्सदे णेव केहिचिदु जीवो कैश्चित्पर्यायैः पयोंयार्थिकनयविभागैर्देवमनुष्यादिरूपैर्विनश्यति जीवः । न नश्यति कैश्चिद्रव्यार्थिकनयविभागैः जमा यस्मादेवं नित्यानित्यस्वभावं जीवरूपं तह्मा तस्मात्कारणात् कुबदि सो वा द्रव्यार्थिकनयेन स एव कर्म करोति। स एव कः ? इति चेत ? यो भुक्ते । अण्णो चा पर्यायार्थिकनयेन पुनरन्यो वा । णिंयतो नचैकातोऽस्ति । एवं कर्तृत्वमुख्यत्वेन प्रथमगाथा गता। केहिचिदु पज्जयहिं विणस्सदे णेव केहिचिद जीवो कैश्चित् पर्यायैः पर्यायार्थिकनयविभागैः देवमनुष्यादिरूपैर्विनश्यति जीवः न नश्यति कैश्चिद्व्यार्थि कनयविभागैः । जमा यस्मादेवं नित्यानित्यस्वभावं जीवस्वरूपं तह्मा तस्मात्कारणात् वेददि सोवा निजशुद्धात्मभावनोत्थसुखामृतरसास्वादमलभमानः स एव कर्मफलं वेदयत्यनुभवति । स एव कः ? इति चेत येन पूर्वकृतं कर्म । अण्णोवा पर्यायार्थिकनयेन पुनरन्यो वा यंतो नचैकांतोऽस्ति । एव भोक्तत्वमुख्यत्वेन द्वितीयगाथा गता । किं च येन मनुष्यभवे शुभाशुभं कर्म कृतं स एव जीवो द्रव्यार्थिकनयन लोके नरके वा भुक्ते । पर्यायार्थिकनयेन पुनस्तद्भवापेक्षया वालकाले कृतं यौवनादिपर्यायातरे भुक्ते । भवांतरापेक्षया तु १ यद्यपीत आरभ्य गाथाचतुष्टयं नात्रात्मरूयातौ तथापि पुरस्ता दर्शना दन्नैव तेषामाक्षेवकृतः । Page #204 -------------------------------------------------------------------------- ________________ १७२ सनातनजैनग्रंथमालायां पर्यायेण कृतं देवादिपर्यायेण भुंक्ते इति भावार्थ: । एवं गाथाद्वयेनानेकांतव्यवस्थापनारूपेण स्वपक्ष सिद्धिः कृता । अथैकांतेन य एव करोति स एव भुक्ते । अथवान्यः करोत्यन्यो भुंक्ते इति यो वदति स मिथ्यादृष्टिरित्युपदिशति जो चैव कुणदि सोचैव वेदको जस्स एस सिद्धांतो य एव जीवः शुभाशुभं कर्म करोति एव चकांतेन भुंक्ते न पुनरन्यः यस्यैष सिद्धांत: - : -आगमः । सो जीवो णादन्वो मिच्छादिट्ठी अणारिहदो स जीवो मिध्यादृष्टिरनार्हतो ज्ञातव्यः । कथं मिध्यादृष्टिः ? इति चेत् यदैकांतेन नित्यकू - टस्थोऽपरिणामी टंकात्कीर्णः सांख्यमतवत् तदा येन मनुष्यभवेन नरकगतियोग्यं पापकर्मकृतं स्वर्गगतियोग्यं पुण्यकर्म कृतं तस्य जीवस्य नरके स्वर्गे वा गमनं न प्राप्नोति । तथा शुद्धात्मानुष्ठानेन मोक्षश्च कुतः ? नित्यैकांतत्वादिति । अण्णो करेदि अण्णो परिभुंनदि जस्स एस सिद्धंतो अन्यः करोति कर्म भुंक्ते चान्यः, यद्येकांतेन ब्रूते सो जीवो णादन्वो मिच्छादिट्ठी अणाग्दिो तदा येन मनुव्यभवे पुण्यकर्म कृतं पापकर्मकृतं मोक्षार्थं शुद्धात्मभावनानुष्ठानं वा तस्य पुण्यकर्मणां देवलोकेभ्यः कोऽपि भोक्ता प्राप्नोति न च स जीवः । नरकेऽपि तथैव । केवलज्ञानादिव्यक्तिरूपं मोक्षं चान्यः कोऽपि लभते ततश्च पुण्यपापमोक्षानुष्ठानं वृथेति बौद्धमतदूषणं, इति गाथाद्वयेन नित्यैकांतक्षणिकैकांतमत निराकृतं । एवं द्वितीयस्थले सूत्रचतुष्टयं गतं । अथ यद्यपि शुद्वनयेन शुद्धबुद्धैकस्वभावात् कर्मणां कर्त्ता जीवस्तथाप्यशुद्धनयेन रागादिभावकर्मणां स एव कर्ता न च पुद्गल इत्याख्याति- - अत्र गाथापंचकेन प्रत्येकं गाथापूर्वार्धेन सांख्यमतानुसारिशिष्यं प्रति पूर्वपक्षः, उत्तरार्धेन परिहार इति ज्ञातव्यं - आत्मख्यातिः - यतो हि प्रतिसमय संभवदगुरुलघुगुणपरिणामद्वारेण क्षणिकत्वादचलित चैतन्यान्व - गुणद्वारेण नित्यत्वाच्च जीवः कैश्चित्पर्यायैर्विनश्यति, कैश्चित्तु न विनश्यतीति द्विस्वभावो जीवस्वभावः । ततो य एव करोति स एवान्यो वा वेदयते । य एव वेदयते स एवान्यो वा करोतीति नास्त्येकांतः । एवमनेकांतेऽपि यस्तत्क्षण वर्तमानस्यैव परमार्थसत्त्वेन वस्तुत्वमिति वस्त्वंशेऽपि वस्तुत्वमध्यास्य शुद्धनयलोभादृजुसूत्रकांते स्थित्वा य एव करोति स एव न वेदयते । अन्यः करोति अन्यो वेदयते इति पश्यति स मिथ्यादृष्टिरेव दृष्टव्यः । क्षणिकत्वेऽपि वृत्त्यंशानां वृत्तिमतश्चैतन्यचमत्कारस्य टंकोत्कीर्णस्यैवांतः प्रतिभासमानत्वात् । आत्मानं परिशुद्धमीप्सुभिरतिव्याप्तिं प्रपद्यांधकैः कालोपाधिवलादशुद्धिमधिकां तत्रापि मत्वा परैः । चैतन्यं क्षणिकं प्रकल्प्य प्रथकैः शुद्धर्जुसूत्रेरितैरात्मा व्युज्भित एव हारवदहो निस्सूत्रमुक्तेक्षिभिः || कर्तुर्वेदयतुश्च युक्तिवशतो भेदोऽस्त्वभेदोपि वा कर्ता वेदयिता च मा भवतु वा वस्त्वेव संचित्यतां । प्रोता सूत्र इवात्मनीह निपुणैर्भर्त्तुं न शक्या कचिश्चिञ्चितामणिमालिकेयमभितोप्येका चकास्त्येव नः ॥ मिच्छत्ता जदि पयडी मिच्छादिट्टी करेदि अप्पाणं । तह्मा वेदणा दे पडी गणु कारगो पत्ता || ३६१ ॥ सम्मत्ता जदि पयडी सम्मादिट्ठी करेदि अप्पाणं । तह्मा अचेदणा दे पयडी णणु कारगो पत्तो ॥ ३६२ ॥ अहवा एसो जीवो पोग्गलदव्वस्त कुणदि मिच्छत्तं । तह्मा पोग्गलदव्वं मिच्छादिट्ठी ण पुण जीवो || ३६३ ॥ १ बोद्धैरित्यर्थः । २ अवेदणा पाठोयं ख. पुस्तके । ३ नेयमात्मख्यात गाथा ततो नैतस्या मात्मख्यातिष्टीका । Page #205 -------------------------------------------------------------------------- ________________ समयप्राभृतं । अह जीवो पयडी विय पोग्गलदव्वं कुणंति मिच्छंत्तन तह्मा दोहिकदत्तं दोण्णिवि भुंजति तस्स फलं ॥ ३६४ ॥ अह ण पयडी ण जीवो पोग्गलदव्वं करेदि मिच्छत्तं । तमा पोग्गलदव्वं मिच्छत्तं तंतु णहु मिच्छा ॥ ३६५ ॥ मिथ्यात्वं यदि प्रकृतिमिथ्यादृष्टिं करोत्यात्मानं । तस्मादचेतना ते प्रकृतिननु कारकः प्राप्तः ॥ ३६१ ।। सम्यकत्वं यदि प्रकृतिः सम्यग्दृष्टिं करोत्यात्मानं । तस्मादचेतना ते प्रकृतिर्ननु कारकः प्राप्तः ॥ ३६२ ॥ अथवैषः जीवः पुद्गलद्रव्यस्य करोति मिथ्यात्वं । ' तस्मात्पुद्गलद्रव्यं मिथ्यादृष्टिर्न पुनर्जीवः ॥ ३६३ ।। अथ जीवः प्रकृतिरपि पुद्गलद्रव्यं कुरुते मिथ्यात्वं । तस्माद्याभ्यां कृतं द्वावपि भुंजाते तस्य फळ ॥ ३६४ ॥ अथ न प्रकृतिनं च जीवः पुद्गलद्रव्यं करोति मिथ्यात्वं । तस्मात्पुद्गलद्रव्यं मिथ्यात्वं तत्तु न खलु मिथ्या ॥३६५॥ पंचकलं । तात्पर्यवृत्तिः-मिच्छता जदि पपडी मिच्छादिही करेदि अप्पाणं द्रव्यमिथ्यात्वप्रकृतिः कर्ता यद्यात्मानं स्वयमपरिणामिनं हठान्मिथ्यादृष्टिं करोति तह्मा अचेदणादे पपडी गणु करगो पत्तो तस्मात्कारणादचेतना तु या द्रव्यमिथ्यात्वप्रकृतिः सा तव मते नन्वहा भावमिथ्यात्वस्य की प्राप्ता जीवश्चैकांतेनाकर्ता प्राप्तः। ततश्च कर्मबंधाभावः, कर्मबंधाभावे संसाराभावः । सच प्रत्यक्षविरोधः । सम्मत्ता जदि पपड़ी सस्मादिही करेदि अप्पाणं सम्यक्त्वप्रकृतिः कर्ची यद्यात्मानं स्वयमपरिणामिनं सम्यग्दृष्टिं करोति तमा अचेदणादे पयडी णणु कारगो पत्तो तस्मात्कारणात अचेतना प्रकृतिः दे तव मते नन्वहो की पश्चैकांतन सम्यक्त्वपरिणामस्याकतति ततश्च वेदकसम्यक्त्वाभावो वेदकसम्यक्त्वाभावे क्षायिकसम्यक्त्वाभावः स च प्रत्यक्षविरोध आगमावरोधश्च । अत्राह शिष्यः-प्रकृतिस्तावत्कर्मविशेषः सच सम्यक्त्वमिथ्यात्वतदुभयरूपस्य त्रिविधदर्शनमोहस्य सम्यक्त्वाख्यः प्रथमविकल्पः सच कर्मविशेषः कथं सम्यक्त्वं भवति । सम्यक्त्वं तु निर्विकारसदानंदैकलक्षणपरमात्मतत्त्वादिश्रद्धानरूपो मोक्षबीजहेतुर्भव्यजीवपरि. णाम इति । परिहारमाह-सम्यक्त्वप्रकृतिस्तु कर्मविशेषोभवति तथापि यथा निर्विषीकृत विषं मरणं न करोति तथा शुद्धात्माभिमुख्यपरिणामेन मंत्रस्थानीयविशुद्धिविशेषमात्रेण विनाशितमिथ्यात्वशक्तिः सन् क्षायोपशामकादिलब्धिपंचकजानतप्रथमोपामिकसम्यक्त्वानंतरोत्पन्नवेदकसम्यक्त्वस्वभावं तत्त्वार्थश्रद्धानरूपं जीवपरिणामं न हंति तेन कारणेनोपचोरण सम्यक्त्वहेतुत्वात्कर्मविशेषोऽपि सम्यक्त्वं भण्यते स च तीर्थकरनामकर्मवत् परंपरया मुक्तिकारणं भवतीति नास्ति दोषः । अहवा एसो जीवो पुग्गलदव्वस्स कुणदि मिच्छत्तं अथवा पूर्वदूषणभयादेष प्रत्यक्षीभूतोजीवः, द्रव्यकर्मरूपस्य पुद्गलद्रव्यस्य शुद्धात्मतस्वादिषु विपरीताभिनिवेषजनकं भावमिथ्यात्वं करोति, न पुनः स्वयं भावमिथ्यात्वरूपेण परिणमति इति मतं तमा पुग्गलदव्वं मिच्छादिही ण पुण जीवो तहर्ये कांतेन पुद्गलद्रव्यं मिथ्यादृष्टिर्न पुनर्जीवः । कर्मबंधः तस्यैव, संसारोऽपि तस्यैव, नच जीवस्य, स च प्रत्यक्ष विरोध इति । अह जीवोपपर्ड पिय पुग्गलदव्वं कुणंति मिच्छत्तं अथ पूर्वदूषणभयाज्जीवः प्रकृतिरपि पुद्गलद्रव्यं कर्मतापन्नं भावमिथ्यात्वं कुरुतइति मतं तह्मा दोहि कदत्तं तस्मात्कारणाजीवपुद्गलाभ्यामुपादानकारणभूताभ्यां कृतं तन्मिथ्यात्वं । प्राप्ता Page #206 -------------------------------------------------------------------------- ________________ १७४ सनातनजनग्रंथमालायांदुण्णिवि भुति तस्स फलं तर्हि द्वौ जीवपुद्गलौ तस्य फलं भुंजाते ततश्चाचेतनायाः प्रकृतेरपि भोक्तृत्वं प्राप्तं स च प्रत्यक्षविरोध इति । अह ण पपडी ण जीवो पुग्गलदव्यं करेदि मिच्छत्तं अथ मतं न प्रकृतिः करोति नच जीव एकांतेन । किं ? पुद्गलद्रव्य कर्मतापन्नं । कथंभूतं । न करोति ? मिथ्यात्वं भावमिध्यावरूपं तमा पुग्गलदव्वं मिच्छत्तं तंतु णहु मिच्छा तर्हि यदुक्तं पूर्वसूत्रे अहवा एसो पुग्गल दध्वस्स कुणदि मिच्छत्तं तद्वचनं तु पुनः हु स्फुटं किं मिथ्या न भवति ? अपि तु भवत्यव । किं चयद्यपि शुद्धनिश्चयेन शुद्धोजीवस्तथापि पर्यायाथिकनयेन कथंचित्परिणामित्वे सत्यनादिकर्मोदयवशाद्रागा ग्रुपाधिपरिणामं गृह्णाति स्फटिकवत् । यदि पुनरेकांतेनापरिणामी भवति तदोपाधिपरिणामो न घटते । जपापुष्पोपाधिपरिणमनश तौ सत्यां स्फाटिके जपापुष्पमुपाधिं जनयति नच काष्ठादौ, कस्मादिति चेत् तदुपाधिपरिणमनशक्त्यभावात् इति । एवं यदि द्रव्यमिथ्यात्वप्रकृतिः कर्वी एकांतेन यदि भावमिथ्यात्वं करोति तदा जीवो भावमिथ्यात्वस्य कर्ता न भवति । भावमिध्यात्वाभावे कर्मबंधाभावः ततश्च संसाराभावः सच प्रत्यक्षविरोधः । इत्यादि व्याख्यानरूपेण तृतीयस्थले गाथापंचकं गतं ।। भथ ज्ञानाज्ञानसुखदुःखादिकसैंकांतेन कर्मैव करोति नचात्मेति सांख्यमतानुसारिणो वदति तान्प्रति पुनरपि नयविभागेनात्मनः कथंचित्कर्तृत्वं व्यवस्थापयति तत्र त्रयोदशगाथासु मध्ये कर्मैवैकांतेन कर्तृ भवति इति कथनमुख्यत्वेन कम्महिंदु अण्णाणी इत्यादि सूत्रचतुष्टयं । ततः परं साख्यमतेप्येवं भणितमास्ते--इति संवाददर्शनार्थं ब्रह्मचर्यस्थापनमुख्यत्वेनं पुरुसिच्छियाहिलासी इत्यादि गाथाद्वयं । अहिंसास्थापनमुख्यत्वेन जमा घादेदि परं इत्यादि गाथाद्वयं । प्रकृतेरेव कर्तृत्वं नचात्मन इत्येकांतनिराकरणार्थ-अस्यैव गाथाचतुष्टयस्यैव दूषणोपसंहाररूपेण एवं संखुवदेसं इत्यादि गाथैका इति सूत्रपंचकसमुदायेन द्वितीयमंतरस्थलं । तदनंतरं~-आत्मा कर्म न करोति कर्मजनितभावांश्च कित्वात्मानं करोतीत्येकगाथायां पूर्वपक्षो गाथात्रयेण परिहार इति समुदायेन अहवा मण्णसि मज्झं इत्यादि सूत्रचतुष्टयं । एवं चतुरांतराधिकारे स्थलत्रयेण समुदायपातनिका । आत्मख्यातिः - जीव एव मिथ्यात्वादिभावकर्मणः कर्ता तस्याचेतनप्रकृतिकार्यत्वे चेतनत्वानुषंगात् । स्वस्यैव जीवो मिथ्यात्वादिभावकर्मणः कर्ता जीवेन पुद्गलद्रव्यस्य मिथ्यात्वादिभावकर्मणि क्रियमाणे पुद्गलद्रव्यस्य चेतनानुषंगात् । नच जीवश्च प्रकृतिश्च मिथ्यात्वादिभावकर्मणो द्वौ कर्तारौ जीववदचेतनायाः प्रकृतेरपि तत्फलभोगानुषंगात् । नच जीवश्च प्रकृतिश्च मिथ्यात्वभावकर्मणो द्वौ कर्तारौ स्वभावत एव पुद्गलद्रव्यस्य मिथ्यात्वादि-भावानुषंगात् । ततो जीवः कर्ता स्वस्य कर्म कार्यमिति सिद्धं । कार्यत्वादकृतं न कर्म नच तज्जीवप्रकृत्योर्द्वयोरज्ञायाः प्रकृतेः स्वकार्यफलभगभावानुषगात्कृतिः । नैकस्याः प्रकृतेरचित्त्वलसन जीवोऽस्य कर्ता ततो जीवस्यैव च कर्म तच्चिदनुगं ज्ञाता नयत्पुद्गलः ॥१९३॥ कर्मैव प्रवितर्य कर्तृहतकैः क्षिप्वात्मनः कर्तृतां कात्मैव कथंचिदित्यचलिता कैश्चिच्छतिः कोपिता । तेषामुद्धतमोहमुद्रितधियां बोधस्य संशुद्धये स्याद्वादप्रतिबंधलब्धविजया वस्तुस्थितिः स्तूपते ॥ १९४ ॥ कम्महि दु अण्णाणी किनदि णाणी तहेव कम्मेहिं । कम्महिं सुवाविजदि जग्गाविजदि तहेव कम्मेहिं ॥३६६।। कम्मेहि सुहाविजदि दुक्खाविजदि तहेव कम्भेहिं । कम्मेहिय मिच्छत्तं णिजदिय अजयं च ॥३६७॥ कम्मेहिं भमाडिजदि उड्डमहं चाति तिरियलोचम्मि । कम्मेहि चेव किजदि सुहासुहं जत्तियं किंचि ॥३६८॥ Page #207 -------------------------------------------------------------------------- ________________ समयप्राभृतं । जमा कम्मं कुब्वदि कम्मं देदित्ति हरदि जं किंचि । तमा सव्वे जीवा अकारया हुंति आवण्णा ॥३६९॥ पुरुसिच्छियाहिलासी इच्छी कम्मं च पुरिसमहिलसदि । एसा आयरियपरंपरागदा एरिसी दु सुदी ॥३७०॥ तमा ण कोवि जीवो अवह्मयारी दु तुह्म मुवदेसे।। जमा कम्मं चेवहि कम्मं अहिलसदि जं भणियं ॥३७१॥ जमा घादेदि परं परेण घादिजदेदि सापयडी। एदेणच्छेण दुकिर भण्णदि परघादणामेति ॥३७२॥ तह्मा ण कोवि जीवो उवघादगो अत्थि तुम उवदेसे । जमा कम्मं चेवहि कम्मं घादेदि जं भणियं ॥३७३॥ एवं संखुवदेसं जेदु परूविंति एरिसं समणा। तेसि पयडी कुव्वदि अप्पा य अकारया सव्वे ॥३७४॥ अहवा मण्णसि मज्झं अप्पा अप्पाण अप्पणो कुणदि । एसो मिच्छसहावो तुझं एवं भणंतस्स ॥ ३७५ ॥ अप्पा णिच्चो असंखिजपदेसो देसिदो दु समयम्मि । णवि सो सक्कदि तत्तो हीणो अहियोव कादं जे ॥ ३७६ ॥ जीवस्स जीवरूवं विच्छरदो जाण लोगमित्तं हि । तत्तो किं सो हीणो अहियोव कदं भणसि दव्यं ॥ ३७७ ॥ जह जाणगोदु भावो णाणसहावेण अस्थि देदि मदं । तमा णवि अप्पा अप्पयं तु सयमप्पणो कुणदि ॥ ३७८.॥ कर्मभिस्तु अज्ञानी क्रियते ज्ञानी तथैव कर्मभिः । । कर्मभिःस्वाप्यते जागर्यते तथैव कर्मभिः ।। ३६६ ॥ . कर्मभिः सुखीक्रियते दुःखीक्रियते च कर्मभिः।। कर्मभिश्च मिथ्यात्वं नीयते नीयतेऽ संयम चव ॥ ३६७ ।। कर्मभिधीम्यते ऊवमधश्चापि तिर्यग्लोकं च । कभिश्चैव क्रियते शुभाशुभं यावत्किंचित् ।। ३६८ ।। यस्मात् कर्म करोति कर्म ददाति कर्म हरतीति किंचित् । तस्मात्तु सर्वजीवा अकारका भवत्यापनाः ॥ ३६९ ॥ पुरुषःस्च्यभिलाषी स्त्रीकर्म च पुरुषमभिलपति । १ भणंतस्त्र क. पुस्तके पाठः। Page #208 -------------------------------------------------------------------------- ________________ १७६ सनातनजनैग्रंथमालायाँ-.एषाचार्यपरंपरागतेदृशी श्रुतिः ॥ ३७० ।। तस्मान्न कोऽपि जीवोऽब्रह्मचारी युष्माकमुपदेशे । यस्मात्कमैव हि कर्माभिलपतीति यद्भणितं ॥ ३७१ ॥ यस्माद्धंति परं परेश हन्यते च सा प्रकृतिः । एतेनार्थेन भण्यते परशतं नामेति ॥ ३७२ ।। तस्मान्न कोऽपि जीव उपघातको युष्माकमुपदेशे । यस्मात्कर्मैव हि कर्म हंतीति भणितं ।। ३७३ ॥ एवं सांख्योपदेशे ये तु प्ररूपयंतीदृशं श्रमणाः । तेषां प्रकृतिः करोत्यात्मानश्चाकारकाः सर्वे ।। ३७४ ॥ अथवा मन्यसे ममात्मात्मानमात्मनः करोति । एष मिथ्यास्वभावस्तवैतन्मन्यमानस्य ॥ ३७५ ॥ . आत्मा नित्योऽसंख्येयप्रदेशो दर्शितस्तु समये ।। नापि स शक्यते ततो हीनोऽधिकश्च कर्तुं यत् ।। ३७६ ॥ जीवस्य जीवस्वरूपं विस्तरतो जानीहि लोकमानं हि । ततः स किं हीनोऽधिको वा कथं करोति द्रव्यं ॥ ३७७ ।। अथ ज्ञायकस्तु भावी ज्ञानस्वभावेन मतं । तस्मान्नाप्यात्मात्मानं स्वयमात्मनः करोति ॥ ३७८ ॥ तात्पर्यवृत्तिः-कर्मभिरज्ञानी क्रियते जीव एकांतेन तथैव च ज्ञानी क्रियते कर्मभिः । स्वापं निद्रा नीयते जागरणं तथैवेति प्रथमगाथा गता। कर्मभिः सुखीक्रियते दुःखीक्रियते तथैव च कर्मभिः । कर्मभिश्च मिथ्यात्वं नीयते तथैवासंयमं चैवैकांतेन द्वितीयगाथा गता । कर्मभिश्चैवोद्धोधस्तिर्यग्लोकं च भ्राम्यते कर्मभिश्चैव क्रियते शुभाशुभं यदन्यदपि किंचिदिति तृतीयगाथा गता। यस्मादेवं भाणितः कर्मैव करोति कर्मैव ददाति कर्मैव हरति यत्किंचिच्छुभाशुभं तस्मादेकांतेन सर्वे जीवा अकारका प्राप्ताः, ततश्च कर्माभावः कर्माभावे संसाराभावः सच प्रत्यक्षविरोधः-इति कमैकांतकर्तृत्वदूषणमुख्यत्वेन सूत्रचतुष्टयं गतं । कमैत्र करोत्येकांतेनेति पूर्वोक्तमर्थं श्रीकंदकुंदाचार्यदेवाः सांख्यमतसंवाद दर्शयित्वा पुनरपि समर्थयति । वयं ब्रमो द्वेषेणैव न भवदीयमतेऽपि भणितमास्ते पुंवेदाख्यं कर्म कर्तृ स्त्रीवेदकर्माभिलाषं करोति, स्त्रीवेदाख्यं कर्म पुंवेदकर्माभिलषत्येकांतेन नच जीवः । एवमाचार्यपरंपरायाः समागता श्रुतिरीदृशी। श्रुतिः कोऽर्थः ! आगमो भवतां सांख्यानामिति प्रथमगाथा गता । तथा सति किं दूषणं चेति ? एवं न कोपि जीवोऽस्त्यब्रह्मचारीयुष्माकमुपदेशे किंतु यथा शुद्धनिश्चयेन सर्वे जीवा ब्रह्मचारिणो भवंति तथैकांतेनाशुद्धनिश्चयेनापि ब्रह्मचारिण एव यस्मात्पुंवेदाख्यं कर्म स्त्रीवेदाख्यं कर्माभिलषति नच जीव इत्युक्तं पूर्व सच प्रत्यक्षविरोधः । इत्यब्रह्मकथनरूपेण गाथाद्वयं गतं । यस्मात्कारणात् परं कर्मस्वरूपं प्रकृतिः कर्बी हंति परेण कर्मणा सा प्रकृति रपि हन्यते न च जीवः । एतनार्थेन किल जैनमते परघातनामकर्मेति भण्यते । परं किंतु जैनमते जीवो हिंसा भावेन परिणमति परघातनाम साहकारिकारणं भवति इति नास्ति विरोध इति प्रथमगाथा गता। तस्मारिक दूषणं ? शुद्धपरिणामिकपरमभावग्राहकेण शुद्धद्रव्यार्थिकनयेन तावदपरिणामी हिंसापरिणामरहितो जीवो जैनागमे कथितः, कथं ? इति चेत् सव्वे सुद्धा हु सुद्धणया इति वचनात् व्यवहारेण तु परिणामीति । भवदीयमते पुनर्यथा शुद्धनयेन चाशुद्धनयेनाप्युपघातको हिंसकः कोऽपि नास्ति । कस्मात् ! इति चेम यस्मादेकांतेन कर्म चैवहिं स्फुटमन्यत् कर्म हंति, नचात्मेति पूर्वसूत्रे भणितमिति । एवं हिंसाविचारमुख्यत्वेन गाथाद्वयं गतं । एवं संखुवदेशं जे दु परूविंति एरि संसपणा एवं पूर्वोक्तं संख्योपदेशमीदृशमे Page #209 -------------------------------------------------------------------------- ________________ समयप्राभूतं । १७७ कातरूपं ये केचन परमागमोक्तं नयविभागमजानंतः समणा श्रमणाभासाः द्रव्यलिंगिनः प्ररूपयंति कथयति । तसि पयडी कुव्यादि अप्पाय अकारया सव्वे तेषां मतेनैकांतेन प्रकृतिः की भवति । आत्मानश्च पुनरकारकाः सर्वे । ततश्च कर्तृत्वाभावे कर्माभावः, कर्माभावे संसाराभावः । ततो मोक्षप्रसंगः । स च प्रत्यक्षविरोध इति । जैनमते पुनः परस्परसापेक्षनिश्चयव्यवहारनयद्वयेन सर्व घटत इति नास्ति दोषः । एवं सांख्यमतसंवाद दर्शयित्वा जीवस्यकांतेनाकर्तृत्वदूषणद्वारण सूत्रपंचकं गतं । अहवामण्णसि मज्झं अप्पा अप्पाणमप्पणो कुणदि हे सांख्य ! अथवा मन्यसे त्वं पूर्वोक्तकर्तृत्वदूषणभयान्मदीयमते जीवो ज्ञानी ज्ञानित्वे च कर्मकर्तृत्वं न घटते यतः कारणादज्ञानिनां कर्मबंधो भवति । कित्वात्मा कर्ता आत्मानं कर्मतापन्नं आत्मना करणभूतेन करोति ततः कारणादकर्तृवे क्षणं न भवति ? इति चेत् एसो मिच्छ. सहावो तुझं एवं मुणंतस्स अयमपि मिथ्यास्वभाव एवं मन्यमानस्य तव इति पूर्वपक्षगाथा गता। . अथ सूत्रत्रयेण परिहारमाह कस्मान्मिथ्यास्वभावः १ इति चेत् जे यस्मात् कारणात् अप्पा णिचासं खजपदेसो देसिदो दु समयम्मि आत्मा द्रव्यार्थिकनयेन नित्यस्तथा चासंख्यातप्रदेशो देशितः समये परमागमे तस्यात्मनः शुद्धचैतन्यान्वयलक्षणद्रव्यत्वं तथैवासंख्यातप्रदेशत्वं च पूर्वमेव तिष्ठति णवि सो सकदि तत्तो हीणो अहियो व कादं जे तद्द्व्यं प्रदेशत्वं च तत्प्रमाणादधिकं हीन वा कर्तुं नायाति-इति हेतोरात्मा करोतीति वचनं मिथ्येति । अथ मतं असंख्यातमानं जघन्यमध्यमोत्कृष्टभेदेन बहुभेदं तिष्ठति तेन कारणेन जघन्यमध्यमोत्कृष्टरूपेण संख्यातप्रदेशत्वं जीवः करोति तदपि न घटते यस्मात्कारणात् नीवस्स जीवरूवं वित्थरदो जाण लोगमित्तं हि जीवस्य जीवरूपं प्रदेशापेक्षया विस्तरतो महामस्यकाले लोकपूरणकाले वा अथवा जघन्यतः सूक्ष्मनिगोदकाले नानाप्रकारमध्यमावगाहशरीरप्रहणकाले वा प्रदीपवद्विस्तारोपसंहारयशेन लोकमात्रप्रदेशमेव जानीहि हि स्फुटं तत्तो सो किं हीणो अहिभो व कदं भणसि दव्वं तस्माल्लोकमात्रप्रदेशप्रमाणात्स जीवः किं हीनोऽधिको वा कृतो येन त्वं भणसि आत्म द्रव्यं कृतं किंतु नैवेति । अह जाणगो दु भावोणाणसहावेण अस्थि देदिमदं अथ हे शिष्य ! ज्ञायको भावः पदार्थः आत्मा ज्ञानरूपेण पूर्वमेयास्तीति मतं । सम्मत्तमेव तह्मा णवि अप्पा अप्पयं तु सयमप्पणो कुणदि यस्मानिर्मलानंदैकज्ञानस्वभावशुद्धात्मा पूर्वमेवास्ति तस्मादारमा कर्ता आत्मानं कर्मतापन्नं स्वयमेवात्मना कृत्वा नैव करोतीत्येकं दूषणं । द्वितीयं च निर्विकारपरमतत्त्वज्ञानी तु कर्ता न भवतीति पूर्वमेव भणितमास्ते । एवं पूर्वपक्षपरिहाररूपेण तुतीयांतररूपगाथाचतुष्टयं गतं । कश्चिदाहजीवात्प्राणा भिन्ना अभिन्ना वा यद्यभिन्नास्तदा यथा जीवस्य विनाशो नास्ति तथा प्राणानामापि विनाशो नास्ति कथं हिंसा ! । अथ भिन्नास्तहि जीवस्य प्राणघातेऽपि किमायातं ? तत्रापि हिंसा नास्तीति । तन कायादिपरिणामैः सह कथंचिद्भेदाभेदः । कथं ! इति चेत् तप्तायःपिंडवदर्तमानकाले पृथक्त्वं कर्तुं ना. याति तेन कारणेन व्यवहारेणाभेदः । निश्चयेन पुनर्मरणकाले कायादिप्राणा जीवेन सहैव न गच्छंति तेन कारणेन भेदः । यद्येकांतेन भेदो भवति तर्हि यथा परकीये काये छिद्यमाने भिद्यमानेऽपि दुःखं न भवति । तथा स्वकीयकायेऽपि दुःखं न प्राप्नोति न च तथा ? प्रत्यक्षविरोधात् । ननु तथापि व्यवहारेण हिंसा जाता नतु निश्चयेनेति ? सत्यमुक्तं भवता व्यवहारेण हिंसा तथा पापमपि नारकादिदुःखमपि व्यवहारेणेत्यस्माकं सम्मतमेव । तनारकादि दुःखं भवतामिष्टं चेत्तर्हि हिंसां कुरुत । भीतिरस्ति ! इति चेत् तर्हि त्यज्यतामिति । ततः स्थितमेतत् एकांतेन सांख्यमतवदकर्ता न भवति किं तर्हि रागादिविकल्परहितसमाधिलक्षणभेदज्ञानकाले कर्मणः कर्ता न भवति शेषकाले कर्तेति व्याख्यानमुख्यतयांतरस्थलत्रयेण चतुर्थस्थले त्रयोदश सूत्राणि गतानि । अथ यावत्कालं निजशुद्धात्मानमात्मत्वेन न जानाति पंचेंद्रियविषयादिकं परद्रन्यं च परत्वेन न जानात्ययं जीवः-तावत्कालं रागद्वेषाभ्यां परिणमतीत्यानेदयति-अथवा बाहिरंगपत्रंद्रियविषयमागसहका Page #210 -------------------------------------------------------------------------- ________________ १७८ सनातनजैनप्रथमा कार्या रित्वेनाविक्षिप्तचित्त भावनोत्पन्न निर्विकारसुखामृतरसास्वाद वलेन विषयकर्मकायानां विघातं करोम्यहमिति-भजानन् स्वसंवित्तिरहित कायक्लेशनात्मानं दमयति तस्य भेदज्ञानार्थं शिक्षां प्रयच्छति - --- आत्मख्यातिः -- कर्मैवात्मानमज्ञानिनं करोति ज्ञानावरणाख्यकर्मोदयमंतरेण तदनुपपत्तेः । कर्मैत्र ज्ञानिनं करोति ज्ञानावरणाख्यकर्मक्षयोपशममंतरेण तदनुपपत्तेः । कर्मैव स्वापयति निद्राख्यकर्मोदयमंतरेण तदनुपत्तेः । कर्मैव जागरयति निद्राख्यकर्मोदयक्षयोपशममंतरेण तदनुपपत्तेः । कर्मैव सुखयति सद्वेदाख्यकर्मोदयमतरेण तदनुपपत्तेः । कर्मैव दुःखयति असद्वेदाख्यकमार्दयमंतरेण तदनुपपत्तेः । कर्मैव मिथ्यादृष्टिं करोति मिथ्यात्वकर्मोदयमंतरेण तदनुपपत्तेः । कर्मैवासंयतं करोति चारित्रमोहाख्यकर्मोदयमंतरेण तदनुपपत्तेः । कर्मैवोद्भूधिस्तिर्यग्लोकं भ्रमयति आनुपूर्व्याख्यकर्मोदयमंतरेण तदनुपपत्तेः । अपरमपि यद्यावत्किचिच्छुभाशुभभेदं तत्तावत्सकलमपि कर्मैव करोति प्रशस्ताप्रशस्तरागाख्यकर्मोदयमंतरेण तदनुपपत्तेः । यत एवं समस्तमपि स्वतंत्र कर्म करोति कर्म ददाति कर्म हरति च ततः सर्व एव जीवाः नित्यमेवैति नाकर्तार एवेति निश्विनुमः । किंच - श्रुतिरप्येनमर्थमाह पुंवेदाख्यं कर्म स्त्रियमभिलषति स्त्रीदाख्यं कर्म पुमांसमभिलषति इति वाक्येन कर्मण एव कर्माभिलाषकर्तृत्वसमर्थनेन जीवस्याब्रह्मकर्तृत्वसमर्थनेन प्रतिषेधात् । तथा यत्परेण हंति, येन च परेण हन्यते तत्परघातकर्मेति वाक्येन कर्मण एव कर्मघातकर्तृस्वसमर्थनेन जीवस्य घातकर्तृत्वप्रतिषेधाच्च सर्वथैवाकर्तृत्वज्ञापनात् । एवमीदृशं सांख्यसमयं स्वप्रज्ञापराधेन सूत्रार्थमबुध्यमानाः केचिच्छ्रमणाभासाः प्ररूपयंति तेषां प्रकृतेरेकांतेन कर्तृत्वाभ्युपगमेन सर्वेषामेव जी - वानामेकांतेनाकर्तृत्वापत्तेः-- जीवः कर्तेति कोपो दुःशक्यः परिहर्तुं । यस्तु कर्म, आत्मनो ज्ञानादिसर्वभावान् पर्यायरूपान् करोति, आत्मा त्वात्मानमेवैकं करोति ततो जीवः कर्तेति श्रुतिकोपो न भवतीत्यभिप्रायः स मिथ्यैव । जीवो हि द्रव्यरूपेण तावन्नित्योऽसंख्येयप्रदेशो लोकपरिमाणश्च । तत्र न तावन्नित्यस्यकार्यत्वमुपपन्नं कृतकत्वनित्यत्वयोरेकत्वविरोधात् । नचावस्थिताऽसंख्येयप्रदेशस्यैकस्य पुन स्कंधस्येव प्रदेशप्रक्षेपणाकर्षणद्वारेणापि कार्यत्वं प्रदेशप्रक्षेपणाकर्षणे सति तस्यैकत्वव्याघातात् । नचापि सकल लोकवस्तुविस्तारपरिमितनियतनिजाभोगसंग्रहस्य प्रदेशसंकोचनविकाशद्वारेण तस्य कार्यत्वं, प्रदेशसंकोचविकाशयोरपि शुष्कार्द्रचर्मवत्प्रतिनियत निजविस्ताराद्धीनाधिकस्य तस्य कर्तुमशक्यत्वात् । यस्तु वस्तुस्वभावस्य सर्वथापोढुमशक्यत्वात् ज्ञायको भावो ज्ञानस्वभावेन तिष्ठति, तथातिष्ठंश्च ज्ञायककर्तृत्वयोरत्यंतविरुद्धत्वान्मिथ्यात्वादिभावानां न कर्ता भवति । भवति च मिथ्यात्वादिभावाः ततस्तेषां कर्मैव कर्तृ प्ररूप्यत इति वासनोन्मेषः स तु नितरामात्मानं करोतीत्यभ्युपगममुपहत्येव ततो ज्ञायकस्य भावस्य सामान्या पेक्षया ज्ञानस्वभावावस्थितत्वेऽपेि कर्मजानां मिथ्यात्वादिभावानां ज्ञानसमयेऽनादिज्ञेयज्ञानशून्यत्वात् परमात्मेति जानतो विशेषापेक्षया त्वज्ञानरूपस्य ज्ञानपरिणामस्य करणात्कर्तृत्वमनुमंतव्यं तावद्यावत्तदादिज्ञेयज्ञानभेदविज्ञानपूर्णत्वादात्मानमेवात्मेति जानतो विशेषापेक्षयापि ज्ञानरूपेणैव ज्ञानपरिणामेन परिणममानस्य केवलं ज्ञातृत्वात्साक्षादकर्तृत्वं स्यात् । मा कर्तारममी स्पृशं पुरुषं सांख्या इवाप्यार्हताः कर्तारं कलयंतु तं किल सदा भेदावबोधादधः । तूद्धतबोधधामनियतं प्रत्यक्षमेनं स्वयं पश्यंतु च्युतकर्तृभावमचलं ज्ञातारमेकं परं ॥ ९५ ॥ क्षणिकमिदमिहैकः कल्पयित्वात्मतत्त्वं निजमनसि विधत्ते कर्तृभोक्त्रोर्विभदं । अपहरति विमोहं तस्य नित्यामृतौघैः स्वयमयमभिषिंचश्चिचमत्कार एव ॥ ९६ ॥ वृत्त्यंशभेदतोऽत्यंतं वृत्तिमन्नाशकल्पनात् अन्यः करोति भुंक्तेऽन्यः इत्येकांतश्चकास्तु मा । १ व्याघातात् पाठोऽयं ख. पुस्तके | २ ऊर्ध्वं मिध्यात्वरूपविभाव परिणामध्वंसानंतरं - उद्धतम विलंबेन ज्ञेयमाहि यद्बोधधाम ज्ञानतेजस्तत्र नियतं तत्परं । Page #211 -------------------------------------------------------------------------- ________________ समयप्रारलं । १७९ दंसणणाणचरितं किंचिवि णत्थि दु अचेदणे विसए । तमा किं घादयदे चेदयिदा तेसु विसएसु ॥३७९॥ दसणणाणचरित्तं किंचिवि णाथि दु अचेदणे कम्मे । तह्मा किं घादयदे चेदयिदा तेसु कम्मेसु ॥३८०॥ दसणणाणचरित्तं किंचिवि णत्थि दु अचेदणे काये । तह्मा किं घादयदे चेदयिदा तेसु कायेसु ॥३८१॥ णाणस्स दंसणस्स य भणिदो घादो तहा चरित्तस्स । णवि तझि कोणव पुग्गलदव्वे घादो दु णिहिट्ठो ॥३८॥ जीवस्स जे गुणा केई णत्थि ते खलु परेसु दव्वेसु । तह्मा सम्मादिहिस्स पत्थि रागो दु विसएसु ॥३८३॥ रागो दोसो मोहो जीवस्सेवदु अणण्ण परिणामा। एदेण कारणेण दु सदादिसु णत्थि रागादि ॥३८४॥ दर्शनज्ञानचरित्रं किचिदपि नास्ति त्वचेतने विषये । तस्माकि यातयति चेतयिता तेषु कायेषु ।।३७९।। दर्शनज्ञानचरित्रं किंचिदपि नास्ति त्वचेतने कर्मणि । तस्माकिं घातयति चेतयिता तेषु कर्मसु ॥३८०॥ दर्शनज्ञानचरित्रं किंचिदपि नास्ति त्वचेतने काये । तस्मात् किं घातयति चेतयिता तेषु कायेषु ॥३८१॥ ज्ञानस्य दर्शनस्य भणितो घातस्तथा चरित्रस्य । नापि तत्र पुद्गलद्रव्यस्य कोऽपि घातो निर्दिष्टः ॥३८२॥ जीवस्य ये गुणाः केचिन्न संति खलु ते परेषु द्रव्येषु । तस्मात्सम्यग्दृष्टर्नास्ति रागस्तु विषयेषु ॥३८३॥ रागो द्वषो मोहो जीवस्यैव चानन्यपरिणामाः एतेन कारणेन तु शब्दादिषु न संति रागादयः ॥३८४॥ सात्पर्यवृत्तिः-दर्शनज्ञानचारित्रं किमपि नास्ति । केषु शब्दादिपंचेंद्रियविषयेषु ज्ञानावरणादि द्रव्यकर्मसु औदारिकादिपंचकायेषु । कथंभूतेषु तेषु ? अचेतनेषु । तस्मात्किं घातयते चेतयिता आत्मा सेषु जडस्वरूपविषयकर्मकायेषु ! न किमपि । किंच शब्दादिपंचेंद्रियाभिलाषरूपो ज्ञानावरणादिद्रव्यकर्मबंधकारणभूतः कायममत्वरूपश्च योऽसौ मिथ्यात्वरागादिपरिणामो. मनसि तिष्ठति तस्य घातः कर्तव्यः ते च शब्दादयो रागादीनां बहिरंगकारणभूतास्त्याज्याः-इति भावार्थः । तस्यैव पूर्वोक्तगाथात्रयस्य विशेषविवरणं करोति-तद्यथा णाणस्स दंसणस्स य भणिदो घादो सहा चरित्तस्स शब्दादिपंचेंद्रियाभिलाषरूपेण कायममत्वरूपेण वा ज्ञानावरणादिकर्मबंधनिमित्तमनंतानुबंध्यादिरागद्वेपरूपं यन्मनसि मिथ्याज्ञानं तिष्ठति तस्य मिथ्याज्ञानस्य निर्विकल्पसमाधिप्रहरणेन सवे|तो भणितः न केवलं मिथ्याज्ञानस्य मिथ्या Page #212 -------------------------------------------------------------------------- ________________ सनातमजैमग्रंथमालायादर्शनस्य च । तथैव मिथ्यात्वचारित्रस्य च णवि तमि कोधि पुग्गलदव्वे पादोदु णिविटा नच चेतने शन्दादिविषयकर्मकायरूपे पुद्गलद्रव्ये कोऽपि घातो निर्दिष्टः । किं च यथा घटाधारभूते हते सति घटो हतो न भवति तथा रागादिनिमित्तभूते शब्दादिपंचेंद्रियहतेऽपि सति मनसि गता रागादयो हता न भवंति नचान्यस्य घाते कृते सत्यन्यस्य घातो भवति । कस्मात् ? अतिप्रसंगादिति भावः । जीवस्स जे गुणा केई णत्थि ते खलु परेसु दव्येसु यस्माज्जीयस्य ये केचन सम्यक्त्वादयो गुणास्ते परेषु परद्रव्येषु शब्दादिविषयेषु न संति खल स्फुटं तमा सम्मादिहिस्स पत्थि रागो दु विसयेसु तस्मात्कारणानिर्विषयस्वशुद्धात्मभावानोत्थसुखतृप्तस्य सम्यग्दृष्टेर्विषयेषु रागो नास्तीति रागो दोसो मोहो जीवस्स दु जे अणण्णपरिणामा रागद्वेषमोहा यस्मादज्ञानिजीवस्याशुद्धनिश्चयेनाभिम परिणामाः । एदेण कारणे ण दु सदादिमु णत्थि रागादी तेन कारणेन शब्दादिमनोज्ञामनोज्ञपंचें द्रियविषयेष्ववेतनेषु यद्यप्यज्ञानी जीवो भ्रांतिज्ञानेन शब्दादिषु रागादीन् कल्पयत्यारोपयति तथापि शब्दा दिषु रागादयो न संति। कस्मात् शब्दादीनामचेतनत्वात् ततःस्थितं तावदेव रागद्वेषद्वयमुदयते बहिरात्मनो यावन्मनसि त्रिगुप्तिरूपं स्वसंवेदनज्ञानं नास्ति । इति गाथाषट्कं गतं । एवमेतदायाति शब्दादींद्रियविषया अचेतनाश्चेतना रागाद्युत्पत्तौ निश्चयेन कारणं न भवंति आत्मख्यात्तिः-यद्धि यत्र भवति तत्तद्वाते हन्यत एव यथा प्रदीपघाते प्रकाशो हन्यते । यत्र च यद्भवति तत्तद्घाते हन्यते यथा प्रकाशघाते प्रदीपो हन्यते । यत्तु यत्र न भवति तत्तद्घाते न हन्यते यथा घटप्रदीपघाते घटो न हन्यते । तथात्मनो धर्मा ज्ञानदर्शनचारित्राणि पुद्गलद्रव्यघातेऽपि न हन्यते, नच दर्शनज्ञानचारित्राणां घातेऽपि पुद्गलद्रव्यं हन्यते, एवं दर्शनज्ञानचारित्राणि पुद्गलद्रव्ये न भवंतीत्यायाति अन्यथा तराते पुद्गलद्रव्यघातस्य, पुद्गलद्रव्यघाते तद्घातस्य दुर्निवारत्वात् । यत एवं ततो ये यावतः केचनापि जीवगुणास्ते सर्वेऽपि परद्रव्येषु न संतीति सम्यक् पश्यामः । अन्यथा अत्रापि जीवगुणघाते पुद्गलद्रव्यघातस्य पुद्गलद्रव्यघाते जीवगुणघातस्य च दुर्निवारत्वात् । यद्येवं तर्हि कुतः सम्यग्दृष्टे र्भवति रागो विषयेषु ! न कुतोऽपि । तर्हि रागस्य कतरा खानिः रागद्वेषमोहादि जीवस्यैवाज्ञानमयाः परिणामास्ततः परद्रव्यत्वाद्विषयेषु न संति, अज्ञानाभावात्सम्यग्दृष्टौ तु न भवंति एवं ते विषयेष्वसंतःसम्यदृष्टेन भवंतो न भवत्येव । रागद्वेषाविह हि भवति ज्ञानमज्ञानभावात् तौ वस्तुत्वं प्रणहितदृशा दृश्यमानौ न किंचित् । सम्यग्दृष्टिः क्षपयतु ततस्तत्त्वदृष्टया स्फुटंतो ज्ञानज्योति लति सहजं येन पूर्णाचलार्चिः ॥९॥ रागद्वेषोत्पादकं तत्त्वदृष्टया नान्यद् द्रव्यं वीक्ष्यते किंचनापि । सर्वद्रव्योत्पत्तिरंतश्चकास्ति व्यक्तात्यतं स्वस्वभावेन यस्मात् ॥९॥ अण्णदवियेण अण्णदवियस्स णो कीरदे गुणविघादो। तमा दु सव्वदव्वा उप्पजंते सहावेण ॥३८५॥ अन्यद्रव्येणान्यद्रव्यस्य न क्रियते गुणोत्पादः । तस्मात्तु सवेद्रव्याण्युत्पद्यते स्वभावेन ॥३८५॥ तात्पर्यवृत्तिः-अण्णदविएण अण्णदवियस्स णो कीरदे गुणविघादो अन्यद्रव्येण बहिरंगनिमित्तभूतेन कुंभकारादिनाऽन्यद्रव्यस्योपादानरूपस्य मृत्तिकादेर्न क्रियते स कः ? चेतनस्याचेतनरूपेण, अचेतनस्य चेतनरूपेण वा चेतनाचेतनगुणघातो विनाशो न क्रियते यस्मात् । तह्मा दु सव्वदचा उप. १भतश्र परिणामाः ख. २ नास्त्येष पाठःख पुस्तकं । Page #213 -------------------------------------------------------------------------- ________________ समप्रभूतं । १८१ ते सहावेण तस्मात्कारणान्मृत्तिकादिसर्वद्रव्याणि कर्तॄणि घटादिरूपेण जायमानानि स्वकीयोपादानकारणेन मृत्तिकादिरूपेण जायंते नच कुंभकारादिबहिरंगनिमित्तरूपेण । कस्मात् ? इति चेत् उपादानकारण सदृशं कार्ये भवतीति यस्मात् । तेन किं सिद्धं १ यद्यपि पंचेंद्रियविषयरूपेण शब्दादीनां बहिरंगनिमिभूतेनाज्ञानिजीवस्य रागादयो जायंते तथापि जीवस्वरूपा एव चेतना न पुनः शब्दादिरूपा अचेतना भवतीति भावार्थः । एवं कोऽपि प्राथमिक शिष्यचित्तस्थानुरागादीन जानाति बहिरंगशब्दादिविषयाणां रागादिनिमित्तानां घातं करोमीति निर्विकल्पसमाधिलक्षणभेदज्ञानाभावाचिंतयति तस्य संबोधनार्थ पूर्व गाथान सह सूत्रसप्तकं गतं । अथ व्यवहारेण कर्तृकर्मणोर्भेदः, निश्चयेन पुनर्यदेव कर्तृ तदेव कर्मेत्युपदिशति - आत्मख्यातिः - १ - न च जीवस्य परद्रव्यं रागादीन्युत्पादयतीति शक्यं - अन्यद्रव्येणान्यद्रव्यगुणोस्पादककरणस्यायोगात्। सर्वद्रव्याणां स्वभावेनैवोत्पादात् । तथा हि मृत्तिका कुंभभावेनोत्पद्यमाना किं कुंभकार स्वभावेनोत्पद्यते किं मृत्तिकास्वभावेन ! यदि कुंभकारस्वभावेनोत्पद्यते तदा कुंभकरणाहंकारनिर्भरपुरुषाधिष्ठितव्यापृतकरपुरुषशरीराकारः कुंभः स्यात्, नच तथास्ति द्रव्यांतरस्वभावेन द्रव्यपरिणामोत्पादस्यादर्शनात् । यद्येवं तर्हि मृत्तिका कुभाकारस्वभावेन नोत्पद्यते किंतु मृत्तिकास्वभावेनैव, स्वस्वभावेन द्रव्यपरिणामोत्पादस्य दर्शनात् । एवं च सति स्वस्वभावानतिक्रमान्न कुंभकारः कुंभस्योत्पादक एव मृत्तिकैव कुंभकारस्वभावमस्पृशंती स्वस्वभावेनोत्पद्यते । एवं सर्वाण्यपि द्रव्याणि स्वपरिणामपर्यायेणोत्पद्यमानानि किं निमित्तभूतद्रव्यांतरस्वभावेनोत्पद्यंते किं स्वस्वभावेन ? यदि निमित्तभूतद्रव्यांतरस्वभावेनोत्पद्यते तदा निमित्तभूतपरद्रव्याकारस्तत्परिणामः स्यात् नच तथास्ति द्रव्यांतरस्वभावेन द्रव्यपरिणामोत्पादस्यादर्शनात् । यद्येवं तर्हि न सर्वद्रव्याणि निमित्तभूतपरस्वभावेनोत्पद्यंते किंतु स्वस्वभावेनैव, स्वस्वभावेन द्रव्यपरिणामोत्पादस्य दर्शनात् एवं च सति सर्वद्रव्याणां निमित्तभूतद्रव्यांतराणि स्वपरिणामस्योत्पादकान्येव सर्वद्रव्याण्येव निमित्तभूतद्रव्यांतरस्वभावमस्पृशंति स्वस्वभावेन स्वपरिणामभावेनोत्पद्यते अतो न परद्रव्यं जीवस्य रागादीनामुत्पादकमुत्पश्यामो यस्मै कुप्यामः । यदिह भवति रागद्वेषदोषप्रसूतिः कतरदपि परेषां दूषणं नास्ति तत्र । स्वयमयमपराधी तत्र सर्पत्यबोधो भवतु विदितमस्तं यात्वबोधोऽस्मि बोधः ॥९९९॥ रागजन्मनि निमित्ततां परद्रव्यमेव कलयंति ये तु ते । उत्तरति न हि मोहवाहिनीं शुद्धबोधविधुरांधबुद्धयः ॥ १०० ॥ जह सिपिओ दु कम्मं कुव्वदि णय सोदु तम्मओ होदि । तह जीवोविय कम्मं कुव्वदि णय तम्मओ होदि ॥ ३८६ ॥ जह सिपिओ दु करणेहिं कुव्वदि णय सोदु तम्मओ होदि । तह जीव करणेहिं कुव्वदि णय तम्मओ होदि ॥ ३.८७॥ जह सिप्पि करणाणि गिहृदि णय सो दु तम्मओ होदि । तह जीव करणाणिय गिदि णय तम्मओ होदि ॥ ३८८ ॥ जह सिपिउ कम्मफलं भुंजदि णय सोदु तम्मओ होदि । तह जीवो कम्मफलं भुंजदि णय सोवि तम्मओ होदि ॥ ३८९ ॥ एवं ववहारस्स दु वत्तव्वं दंसणं समासेण । १ एवं च सति मृत्तिकायाः स्वस्वभावेन कुंभभावी नोपवद्यते इति ख. पुस्तके पाठोऽधिकः । Page #214 -------------------------------------------------------------------------- ________________ सनातनमैमप्रथमालापासुणु णिच्छयस्स वयणं परिणामकदं तु जं होदि ॥३९०॥ जह सिप्पिओ दु चिटं कुव्वदि हवदिय तहा अणण्णो सो । तह जीवोवि य कम्मं कुव्वदि हवदि य अणण्णो सो ॥३९१॥ जह चिठं कुव्वंतो दु सिप्पिओ णिच दुक्खिदो होदि । तत्तोसेय अणण्णो तह चेटुंतो दुही जीवो ॥३९२॥ यथा शिल्पिकस्तु कर्म करोति नच स तु तन्मयो भवति । तथा जीवोऽपि च कर्म करोति नच तन्मयो भवति ॥३८॥ यथा शिल्पिक करणैः करोति न स तु तन्मयो भवति । तथा जीवः करणः करोति नच तन्मयो भवति ॥३८७॥ यथा शिल्पिकस्तु करणानि गृह्णाति न स तु तन्मयो भवति । तथा जीवः करणानि च गृहाति नच तन्मयो भवति ॥३८८॥ यथा शिल्पिकः कर्मफलं भुंक्त नच स तु तन्मयो भवति । तथा जीवः कर्मफलं भुक्ते नच तन्मयो भवति ॥३८९॥ एवं व्यवहारस्य तु वक्तव्यं दर्शनं समासेन । शृणु निश्चयस्य वचनं परिणामकृतं तु यद्भवति ॥३९०॥ यथा विल्पिकस्तु चेष्टां करोति भवति च तथानन्यस्तस्याः। तथा जीवोऽपि च कर्म करोति भवति चानन्यस्तस्मात् ॥३९१।। यथा चेष्टां कुर्वाणस्तु शिल्पिको नित्यदुःखितो भवति । तस्माच स्यादनन्यस्तथा चेष्टमानो दुःखी जीवः ॥३९२॥ तात्पर्यवृत्तिः - यथा लोके शिल्पी तु सुवर्णकारादिः सुवर्णकुंडलादिकर्म करोति, कैः कृत्वा ? हस्तकुटकाद्युपकरणैः । हस्तकुटकाद्युपकरणानि च हस्तेन गृह्णाति, तथापि तैः सुवर्णकुंडलादिकर्महस्तकुहकादिकरणैरुपकरणैः सह तन्मयो न भवति । तथैव ज्ञानी जीवोऽपि निष्क्रियवीतरागस्वसंवेदन ज्ञानच्युतः सन् ज्ञानावरणादिद्रव्यकर्माणि करोति । कैः कृत्वा ? मनोवचनकायव्यापाररूपैः कर्मोत्पादकरणैरुपकरणैः तथैव च कर्मोदयवशान्मनोवचनकायव्यापाररूपाणि कर्मोत्पादकरणान्युपकरणानि संश्लेषरूपेण व्यवहारनयेन गृह्णाति तथापि ज्ञानावरणादिद्रव्यकर्ममनोवचनकायव्यापाररूपकर्मोत्पादकोपकरणैः सह टंकोत्कीर्णज्ञायकत्वेन भिन्नत्वात्तन्मयो न भवति । तथैव च स एव शिल्पी सुवर्णकारादिः सुवर्ण कुडलादिकर्मणि कृते सति यत्किमप्यशनपानादिक मूल्यं लभते भुक्ते च तथापि तेनाशनपानादिना तन्मयो न भवति । तथा जीवोऽपि शुभाशुभकर्मफलं बहिरंगेन दृष्टाशनपानादिरूपं निजशुद्धात्मभावनोत्थमनोहरानंदसुखास्वादमलभमानो भुक्ते न च तन्मयो भवति । एवं ववहारस्स दु वत्तव्वं दसणं समासेण एवं पूर्वोक्तप्रकारेण गाथाचतुष्टयेन द्रव्यकर्मकर्तृत्वभोक्तृत्वरूपस्य व्यवहारनयस्य दर्शनं दृष्टांत उदाहरणं हे शिष्य ! वक्तव्यं व्याख्येयं कथनीयं समासेन संक्षेपेण मुणु णिच्छ यस्स वयणं परिणाम कदंतु जं हवदि इदं त्वग्रे वक्ष्यमाणं निश्चयस्य वचनं व्याख्यानं शृणु, कथंभूतं ? परिणामकृतं रागादिविकल्पेन निष्पादितमिति । जह सिप्पिओ दु चेठं कुन्धादि हवदि य तहा अणण्णोसो यथा सुवर्णकारादिशिल्पी कुंडलादिकमेवमेवं करोमीति मनसि चेष्टां. करोति इति तया चेष्टया सह भवति चानन्यस्तन्मयः तहजीवोविय कम्मं कुन्चदि हवदि य अणण्णो सो तथैवाज्ञानी जीवः केवलज्ञानादिव्यक्तिरूपस्य Page #215 -------------------------------------------------------------------------- ________________ समयप्राभूतं । कार्यसमयसारस्य यो ऽसौ साधको निर्विकल्पसमाधिरूपः कारणसमयसारस्तस्याभावे सत्यशुद्धनिश्वयनयेन अशुद्धोपादानरूपेण मिथ्यात्वरागादिरूपं भावकर्म करोति तेन भाषकर्मणा सह भवति चानन्यः इति भावकर्मकर्तृत्वगाथा गता । जह चेट्टं कुतो दु सिप्पिओ णिच्च दुःखिदो होदि यथा स एव शिल्पी कुंडलादिकमेवमेत्रं करोमीति मनसि चेष्टां कुर्वाणः सन् चित्तखेदेन नित्यं दुःखितो भवति । न केवलं दुःखितः । तत्तोसेय अणण्णो तस्माद्दुः खविकल्पादनुभवरूपेणानन्यश्च स स्यात् तह चेद्वंतो दुही जीवो तथैवाज्ञानिजावोऽपि विशुद्धज्ञानदर्शनादिव्यक्तिरूपस्य कार्यसमयसारस्य साधको योऽसौ निश्चयरत्नत्रयात्मक कारणसमयसारः, तस्यालाभे सुखदुःखभोक्तृत्वकाले हर्षविषादरूपां चेष्टां कुर्वाणः सन्मनसि दुःखितो भवति इति । तया हर्षविषादचेष्टया सह अशुद्धनिश्वयेनाशुद्धोपादानरूपेणानन्यश्च भवति इति । एवं पूर्वोक्तप्रकारेणाज्ञानिजीवो निर्विकल्पस्य सवंदेनज्ञानात् च्युतो भूत्वा सुवर्णकारादिदृष्टांतेन व्यवहारनयेन द्रव्यकर्म करोति भुंक्ते च । तथैवाशुद्धनिश्चयेन भावकर्म चेति व्याख्यानमुरव्यत्वेन षष्ठस्थले गथासप्तकं गतं । अथ ज्ञानं ज्ञेयं वस्तु जानाति तथापि धवलकुड्येष्वेतन्मृत्तिकावनिश्चयेन तन्मयं न भवति इति निश्चयमुख्यत्वेन गाथापंचकं । यथैव च श्वतमृत्तिका कुड्यं श्वतं करोतीति व्यवह्रियते तथैव च ज्ञानं ज्ञेयं वस्तु जानात्येवं व्यवहारोऽस्तीति व्यवहारमुख्यत्वेन गाथापंचकं । एवं समुदायेन दशकं । तद्यथा आत्मख्यातिः: - यथा खलु शिल्पी सुवर्णकारादि: कुंडलादिपरद्रव्यपरिणामात्मकं कर्म करोति । हस्तकुदृकादिभिः परद्रव्यपरिणामात्मकैः करणैः करोति । हस्तकुट्टकादीनि परदव्यपरिणामात्मकानि करणानि गृह्णाति । ग्रामादिपरद्रव्यपरिणामात्मकं कुंडलादिककर्मफलं भुंक्तं नत्वनेकद्रव्यत्वेन ततोऽन्यत्वे सति तन्मयो भवति ततो निमित्तनैमित्तिकभावमात्रेणैव तत्र कर्तृकर्म भोक्तृभोग्यत्वव्यवहारः । तथात्मापि पुण्यपापादि पुद्गलपरिणामात्मकं कर्म करोति । कायवाङ्मनोभिः पुद्गलद्रव्यपरिणामात्मकैः करणैः करोति कायबाङ्मनांसि पुद्गलपरिणामात्मकानि करणानि गृह्णाति सुखदुःखादिपुद्गलद्रव्यपरिणामात्मकं पुण्यपापादिकर्मफलं भुंक्ते च नत्वनेकद्रव्यत्वेन ततोऽन्यत्वे सति तन्मयो भवति ततोनिमित्तनैमित्तिकभावमात्रेणैव तत्र कर्तृकर्भभोक्तृभोग्यत्वव्यवहारः । यथा च स एव शिल्पी चिकीर्षुः चेष्टानुरूपमात्मपरिणामात्मकं कर्म करोति । दुःखलक्षणमात्मपरिणामात्मकं चेष्टानुरूपकर्मफलं भुंक्ते च एकद्रव्यत्वेन ततोऽनन्यत्वे सति तन्मयश्च भवति ततः परिणमपरिणामिभावेन तत्रैव कर्तृकर्मभोक्तृभोग्यत्वनिश्चयः । तथात्मापि चिकीर्षुश्चेष्ट/रूपमात्मपरिणामात्मकं करोति । दुःखलक्षणमात्मपरिणामात्मकं चेष्टारूपकर्मफलं भुंक्ते च एकद्रव्यस्त्रेन ततोनन्यत्वे सति तन्मयश्च भवति ततः परिणामपरिणामिभावेन तत्रैव कर्तृकर्मभोक्तृभोग्यत्वनिश्चयः । १८३ तु परिणामि एव किल कर्मविनिश्चयतः स भवति नापरस्य परिणामिन एव न भवेत् । न भवति कर्तृशून्यमिह कर्म चैकतया स्थितिरिह वस्तुनो भवतु कर्तृत्वादेव ततः (१) ॥ १०१ ॥ बहिर्लुठति यद्यपि स्फुटदनंतशक्तिः स्वयं तथाप्यपरवस्तुनो विशति नान्यवस्त्वंतरं । स्वभावनियतं यतः सकलमेव वस्त्विष्यते स्वभावचलनाकुलः किमिह मोहितः क्लिश्यते ॥१०२॥ वस्तु चैकमिह नान्यवस्तुनो येन तेन खलु वस्तु वस्तु तत् । निश्चयोयमपरोऽपरस्य कः किं करोति हि बहिर्लुठन्नपि ॥ १०३ ॥ यत्तु वस्तु कुरुतेऽन्यवस्तुनः किंचनापि परिणामिनः स्वयं । व्यावहारिकदृशैव तन्मतं नान्यदस्ति किमपीह निश्चयात् ॥ १०४॥ जह सेटिया दुण परस्स सेटिया सेटिया य सा होदि । तह जाणगो दु ण परस्स जागो जागो सोदु || ३९३॥ जह सेटिया दु ण परस्स सेटिया सेटिया य सा होदि । तह पस्सगो दु ण परस्स पस्सगो पस्सगो सोदु ॥ ३९४॥ Page #216 -------------------------------------------------------------------------- ________________ समातमजैनग्रंथमालायाजह सेटिया दु ण परस्स सेटिया सेटिया दु सा होदि । तह संजदो दु ण परस्स संजदो संजदो सोदु ॥३९५॥ जह सेटिया दु ण परस्स सेटिया सेटिया दु सा होदि । तह दंसणं दु ण परस्स दंसणं दसणं तंतु ॥३९६॥ एवं तु णिच्छयणयस्स भासियं णाणदंसणचरित्ते । सुणु ववहारणयस्सय वत्तव्यं से समासेण ॥३९७॥ जह परदव्वं सेटदि हु सेटिया अप्पणो सहावेण । तह परदव्वं जाणदि णादा विसएण भावेण ॥३९॥ जह परदव्वं सेटदि हु सेटिया अप्पणो सहावेण । तह परदव्वं पस्सदि जीवोवि सएण भावेण ॥३९९॥ जह परदव् सेटदि हु सेटिया अप्पणो सहावेण । तह परदव्वं विरमदि णादावि सर्पण भावेण ॥४०॥ जह परदव्वं सेटदि हु सेटिया अप्पणो सहावेण । तह परदव्वं सदहदि सम्मादिट्ठी सहावेण ॥४०१॥ एसो ववहारस्स दु विणिच्छओ णाणदंसणचरित्ते । भणिदो अण्णेसु वि पज्जएसु एमेव णादवो ॥४०२॥ थथा सेटिका तु न परस्य सेटिका सेटिका च सा भवति । तथा ज्ञायकस्तु न परस्य ज्ञायको ज्ञायकः स तु ॥३९३॥ यथा सेटिका तु न परस्य सेटिका सेटिका तु सा भवति । तथा दर्शकस्तु न परस्य दर्शको दर्शकस्तु स भवति ॥३९४॥ यथा सेटिकास्तु न परस्य सेटिका सेटिका च सा भवति । तथा संयतस्तु न परस्य संयतः संयतः स तु ॥३९५॥ यथा सेटिका तु न परस्य सेटिका सेटिका च सा भवति । तथा दर्शनं तु न परस्य दर्शनं दर्शनं तत्तु ।।३९६॥ एवं तु निश्चयनयस्य भाषितं ज्ञानदर्शनचरित्रे । शृणु व्यवहारस्य च वक्तव्यं तस्य समासेन ॥३९७॥ यथा परद्रव्यं सेटयति खलु सेटिकात्मनः खभावेन । तथा परद्रव्यं जानाति ज्ञातापि खकेन भावेन ॥३९८॥ यथा परद्रव्यं सेटयति सेटिकात्मनः स्वभावेन । तथा परद्रव्यं पश्यति ज्ञातापि स्वकेन भाबेन ॥३९९।। यथा परद्रव्यं सेटयति सोटिकात्मनः स्वभावेन । Page #217 -------------------------------------------------------------------------- ________________ समयप्राभूतं । तथा परद्रव्यं विजहाति ज्ञातापि स्वकेन भावेन ॥४०० ॥ यथा परद्रव्यं सेटयति सेटिकात्मनः स्वभावेन । तथा परद्रव्यं श्रद्धत्ते ज्ञातापि स्वकेन भावेन || ४०१ ॥ एवं व्यवहारस्य तु विनिश्चयो ज्ञानदर्शनचरित्रे | भणितोऽन्येष्वपि पर्यायेषु एवमेव ज्ञातव्यः ||४०२ || १८५ तात्पर्यवृत्तिः तः - यथा लोके श्वेतिका श्वेतमृत्तिका खटिका परद्रव्यस्य कुड्यादेर्निश्वयेन श्वेतमृत्तिका न भवति तन्मंयो न भवति बहिर्भागे तिष्ठतीत्यर्थः । तर्हि किं भवति ? श्वेतिका श्वेतिकैव स्वस्वरूपे तिष्ठती त्यर्थः । तथा श्वेतमृत्तिकादृष्टांतेन ज्ञानात्मा घटपटादिज्ञेयपदार्थस्य निश्चयेन ज्ञायको न भवति तन्मयो न भवतीत्यर्थः । तर्हि किं भवति ? ज्ञायको ज्ञायक एव स्वस्वरूपे तिष्ठतीत्यर्थः । एवं ब्रह्माद्वैतवादिवत् - ज्ञानं ज्ञेयरूपेण न परिणमति-इति कथनमुख्यत्वेन गाथा गता । तथा तेनैव च श्वेतमृतिका दृष्टांतेन दर्शकभात्मा दृश्यस्य घटादिपदार्थस्य निश्वयेन दर्शको न भवति, तन्मयो न भवतीत्यर्थः । तर्हि किं भवति १ दर्शको दर्शक एव स्वस्वरूपेण तिष्ठतीत्यर्थः । एवं सत्तावलोकनदर्शनं दृश्यपदार्थरूपेण न परिणमतीति कथनमुख्यत्वेन गाथा गता । तथा तेनैव श्वेतमृत्तिकादृष्टांतेन संयत आत्मा त्याज्यस्य परिग्रहादेः परद्रव्यस्य निश्वयेन त्याजको न भवति, तन्मयो न भवतीत्यर्थः । तर्हि किं भवति ? संयतः संयत एव निर्विकारनिजमनोहरानंद लक्षणस्वस्वरूपे तिष्ठतीत्यर्थः । एवं वीतरागचारित्रमुख्यत्वेन गाथा गता । तथैव च तेनैव श्वेतमृत्तिकादृष्टांतेन तत्त्वार्थश्रद्धानरूपं सम्यग्दर्शनं श्रद्धेयस्य बहिर्भूतजीवादिपदार्थस्य निश्चयनयेन श्रद्धानकारकं न भवति, तन्मयं न भवतीत्यर्थः । तर्हि किं भवतिं ? सम्यग्दर्शनं सम्यग्दर्शनमेव स्वस्वरूपे तिष्ठतीत्यर्थः । एवं तत्त्वार्थाश्रद्धानलक्षणसम्यग्दर्शन मुख्यत्वेन गाथा गता । एवं तु णिच्छयणस्स भासिदं णाणदंसणचरित्ते एवं पूर्वोक्तगाथाचतुष्टयेन भाषितं न्याख्यानं कृतं । कस्य संबंधित्वेन ? निश्चयनयस्य । क ! विषये ज्ञानदर्शनचारित्रे । सुणु ववहारणयस्सय वत्तव्वं इदानीं हे शिष्य ! शृणु समाकर्णय किं ? वक्तव्यं व्याख्यानं । कस्य संबंधित्वेन ? व्यवहारनयस्य । कस्प संबंधिव्यवहारः ? से तस्य पूर्वोक्तज्ञानदर्शनचारित्रत्रयस्य । केन ? समासेण संक्षेपेण । इति निश्चयनय व्यख्यानमुख्यत्वेन सूत्रपंचकं गतं । 1 अथ व्यवहारः कथ्यते- - यथा येन प्रकारेण लोके परद्रव्यं कुड्यादिकं व्यवहारनयेन श्वेतयते श्वतं करोति नच कुड्यादिपरद्रव्येण सह तम्मयी भवति । का ? कर्त्री श्वेतिका श्वेतमृत्तिका खटिका । केन कृत्वा श्वेतं करोति ? स्वकीयश्वेतभावेन । तथा तेन श्वेतमृत्तिकादृष्टांतेन परद्रव्यं घटादिकं ज्ञेयं वस्तु व्यवहारेण जानाति नच परद्रव्येण सह तन्मयो भवति । कोऽसौ ? कर्ता झोतात्मा । केन जानाति ? स्वकीय ज्ञानभावेनेति, प्रथमगाथा गता । तथैव च तेनैव श्वेतमृतिकादृष्टांतेन घटादिकं दृश्यं परद्रव्यं व्यवहारेण पश्यति न च परद्रव्येण सह तन्मयो भवति । कोऽसौ ? ज्ञांतात्मा । केन पश्यति ? स्वकीयदर्शनभावेनेति द्वितीयगाथा गता । तथैव च तेनैव श्वतमृत्तिकादृष्टांतेन परिप्रहादिकं परद्रव्यं व्यवहारेण विरमति त्यजति न च परद्रव्येण सह तन्मयो भवति स कः ? कर्ता ज्ञातात्मा । केन कृत्वा त्यजति ? स्वकीयनिर्विकल्प समाधिपरिणामेनेति तृतीयगाथा गता । तथैव च तेनैव श्वेतमृत्तिकादृष्टांतेन जीवादिकं परद्रव्यं व्यवहारेण श्रद्दधाति न च परद्रव्येण सह तन्मयो भवति । स कः ? कर्ता सम्यग्दृष्टिः । केन कृत्वा ? स्वकीय श्रद्धानपरिणामेनेति चतुर्थगाथा गता । एसो वबहारस्स दु विणिच्छियो णाणदंसणचरित्ते भणिदो भणितः कथितः कोऽसौ ? कर्मतापन्नः, एष प्रत्यक्षीभूतः, पूर्वोक्तगाथाचैतुष्टयेन निर्दिष्टो विनिश्चयः, व्यवहारानुयायी निश्चय इत्यर्थः । कस्य संबंधी ? व्यवहारनयस्य । क ? विषये ज्ञानदर्शनचारित्रत्रये । १ अत्र क. पुस्तके ज्ञानात्मेति पाठ: । २ अत्रापि क. ज्ञानात्मेत्येव पाठः । ३ चतुष्टये पाठोयं . पुस्तके | २४ Page #218 -------------------------------------------------------------------------- ________________ १८६ सभातनजमग्रंथमालायांअण्णेसु वि पज्जएस एमेव णादव्यो इदमोदनादिकं मया भुक्तं, इदमहिविषकंटकादिकं त्यक्तं, इदं गृहादिकं कृतं, तत्सर्व व्यवहारण । निश्चयेन पुनः स्वकीयरागादिपरिणाम एव कृतो भुक्तश्च । एवमित्याधन्येष्वपि पर्यायषु निश्चयव्यवहारनयविभागो ज्ञातव्य इति । यदि व्यवहारेण परद्रव्यं जानाति सर्हि निश्चयेन सर्वज्ञो न भवतीति पूर्वपक्षे परिहारमाह - यथा स्वकीय सुखादिकं तन्मयो भूत्वा जानाति तथा बहिर्द्रव्यं न जानाति तेन कारणेन व्यवहारः । यदि पुनः परकीयसुखादिकमात्मसुखादिवत्तन्मयो भूत्वा जानाति तर्हि यथा स्वकीयसंवेदने सुखी भवति तथा परकीयसुखदुःखसंवेदनकाले सुखी दुःखी च प्राप्नोति न च तथा । यद्यपि स्वकीयसुखसंवेदनापेक्षया निश्चयः, परकीयसुखसंवेदनापेक्षया व्यवहारस्तथापि छमस्थजनापेक्षया सोऽपि निश्चय एवेति । ननु सौगतोऽपि ब्रूतं व्यवहारेण सर्वज्ञः, तस्य किमिति दूषणं दीयते भवद्भिरिति ? तत्र परिहारमाह-सौगतादिमते यथा निश्चयापेक्षया व्यवहारो मृषा, तथा व्यवहार रूपणापि व्यवहारो न सत्य इति । जैनमते पुनर्व्यवहारनयो यद्यपि निश्चयापेक्षया मृषा तथापि व्यवहाररूपेण सत्य इति । यदि पुनर्लोकव्यवहाररूपेणापि सत्यो न भवति तर्हि सर्वोऽपि लोकव्यवहारो मिथ्या भवति, तथा सत्यतिप्रसंगः । एवमात्मा व्यवहारेण परद्रव्यं जानाति पश्यति निश्चयेन पुनः स्वद्रव्यमेवेति । तत एतदायाति प्रामारामादि सर्वं खल्विदं ब्रह्म ज्ञेयवस्तु किमपि नास्ति यद् ब्रह्माद्वैतवादिनो वदंति तन्नि षिद्धं । यदपि सौगतो वदति ज्ञानमेव घटपटादिज्ञेयाकारेण परिणमति नच ज्ञानाद्भिन्नं ज्ञेयं किमप्यस्ति सदपि निराकृतं । कथं ! इति चेत् यदि ज्ञानं ज्ञेयरूपेण परिणमति तदा ज्ञानाभावः प्राप्नोति यदि वा क्षेयं ज्ञानरूपेण परिणमति तदा ज्ञेयाभावस्तथा सत्युभयशून्यत्वं, स च प्रत्यक्षविरोधः । एवं निश्चयव्यवहारव्याख्यानमुख्यतया समुदायेन सप्तमस्थले सूत्रदशकं गतं । अथ निश्चयप्रतिक्रमणनिश्चयप्रत्याख्याननिश्चयालोचनपरिणतस्तपोधन एवाभेदेन निश्चयचारित्रं भवतीत्युपदिशति आत्मख्याति:-सेटिकात्र तावच्छेतगुणनिर्भरस्वभावं द्रव्यं तस्य तु व्यवहारेण श्वैत्यं कुड्यादिपर द्रव्यं । अथात्र कुड्यादेः परद्रव्यस्य श्वैत्यस्य श्वेतयित्री सेटिका किं भवति किं न भवतीति तदुभयतत्त्वसंबंधो मीमांस्यते-यदि सेटिका कुड्यादेर्भवति तदा यस्य यद्भवति तत्तदेव भवति यथात्मनो ज्ञानं भवदास्मैव भवतीति तत्त्वसबंधे जीवति सेटिका कुड्यादेर्भवती कुड्यादिरेव भवेत् , एवं सति सेटिकायाः स्वद्रव्योच्छेदः । नच द्रव्यांतरसंक्रमस्य पूर्वमेव प्रतिषिद्धत्वाव्यस्यास्त्युच्छेदः, ततो न भवति सेटिका कुड्यादेः । यदि न भवति सोटिका कुड्यादेस्तर्हि कस्य सेटिका भवति ? सेटिकाया एव सेटिका भवति । ननु कतरान्या सेटिका ? यस्याः सेटिका भवति ? न खल्वन्या सेटिका सेटिकायाः । किंतु स्वस्वाम्यंशावेवान्यौ । किमत्र साध्यं स्वस्वाम्यंशव्यवहारेण ? न किमपि । तर्हि न कस्यापि सेटिका, सेटिका सेटिकैवेति निश्चयः । यथा दृष्टांतस्तथायं दाष्टांतिकः । चेतयितात्र तावद्ज्ञानगुणनिर्भरस्वभावं द्रव्यं तस्य तु व्यवहारेण ज्ञेयं पुद्गलादि द्रव्यं । अथात्र पुद्गलादेः परद्रव्यस्य ज्ञेयस्य ज्ञायकश्चेतयिता किं भवति किं न भवतीति ? तदुभय तत्त्वसंबंधो मीमांस्यते । यदि चेतयिता पुद्गलादेर्भवति तदा यस्य यद्भवति तत्तदेव भवति यथात्मनो ज्ञानं भवदात्मैव भवति इति तत्त्वसंबंधे जीवति, चेतयिता पुद्गलादेर्भवन् पुद्गलादेरेव भवेत् एवं सति चेतयितुः स्वद्रव्योच्छेदः । नच द्रव्यांतरसंक्रमस्य पूर्वमेव प्रतिषिद्धत्वाद्र्व्यस्यास्त्युच्छेदः । ततो न भवति चेतयिता पुद्गलादेः । यदि न भवति चेतयिता पुद्गलादेस्तर्हि कस्य चेतयिता भवति ? चेतयितुरेव चेतयिता भवति । ननु कतरोन्यश्चेतयिता चेतयितुर्यस्य चेतयिता भवति ? न खल्वन्यश्चेतयिता चेतयितुः, किंतु स्वस्वाम्यंशावेवान्यौ । किमत्र साध्यं स्वस्वाम्यंशव्यवहारेण ? न किमपि । तर्हि न कस्यापि ज्ञायकः । ज्ञायको ज्ञायक एवेति निश्चयः । किंच सेटिकात्र तावच्छेतगुणनिर्भरस्वभावं द्रव्यं तस्य तु व्यवहारेण श्वैत्यं कुड्यादि परद्रव्यं । अथात्र कुड्यादेः परद्रव्यस्य श्वेतस्य श्वेतयित्री सेटिका किं भवति किं न भवतीति ? तदुभयतत्त्वसंबंधो सांगता वदंति इति ख. पुस्तके पाठः । २ सूत्रसप्तकं पाठोऽयं क. पुस्तके । ३ श्वैत्यस्य पाठोऽयं क. मात्मख्यातौ । Page #219 -------------------------------------------------------------------------- ________________ समयप्राभृतं । मीमास्यते । यदि सेटिका कुड्यादेर्भवति तदा यस्य यद्भवति तत्तदेव भवति यथात्मनो ज्ञानं भवदारमैव भवतीति तत्त्वसंबंधे जीवति सेदिका कुड्यादेर्भवंती कुड्यादिरेव भवेत् एवं सति सेटिकायाः स्वद्रव्योच्छेदः । नच द्रव्यांतरसंक्रमस्य पूर्वमेघ प्रतिषिद्धत्वादस्त्युच्छेदः । ततो न भवति सेटिका कुड्यादेः । यदि नं भवति सेटिका कुड्यादेस्तर्हि कस्य सेटिका भवति ? सेटिकाया एव सेटिका भवति । ननु कतरान्या सेटिका सेटिकायाः यस्याः सेटिका भवति ! न खल्वन्या सेटिका सेटिकायाः किंतु स्वस्वम्यंशावेवान्यौ । किमत्र साध्यं स्वस्वाम्यंशव्यवहारेण । न किमपि । तर्हि न कस्यापि सेटिका सेटिका, सेटिकैवेति निश्चयः । यथायं दृष्टांतस्तथायं दाष्टातिकः-चेतयितात्र तावदर्शनगुणनिर्भरस्वभावं द्रव्यं तस्य तु व्यवहारेण दृश्यं पुद्गलादि परद्रव्यं । अथात्र पुद्गलादेः परद्रव्यस्य दृश्यस्य दर्शकश्चेतयिता किं भवति किं न भवतीति ? तदुभयतत्त्वसंबंधो मीमांस्थते-यदि चेतयिता पुद्गलादेर्भवति तदा यस्य यद्भवति तत्तदेव भवति यथात्मनो ज्ञानं भवदात्मैव भवति इति तत्त्वसंबंधे जीवति चेतयिता पुद्गलादेर्भवन् पुद्गलादिरेव भवेत् एवं सति चेतयितुः स्वद्रव्योच्छेदः । नच द्रव्यांतरसंक्रमस्य पूर्वमेव प्रतिषिद्धत्वाद्रव्यस्यास्त्युच्छेदः ? ततो न भवति चतयिता पुद्गलादेः । यदि न भवति चतयिता पुद्गलादेःस्तर्हि कस्य चेतयिता भवति ? चेतयितुरेव चेतयिता भवति । ननु कतरोन्यश्चेतयिता चेतयितुर्यस्य चेतयिता भवति ? न खल्वन्यश्चेतयिता चेतयितुः किंतु स्वस्वाम्यंशावेवान्यौ । किमत्र साध्यं स्वस्वाम्यंशव्यवहारेण ? न किमपि । तर्हि न कस्यापि दर्शकः, दर्शको दर्शक एवेति निश्चयः । . ___ अपि च सेटिका तावच्छेतगुणनिर्भरस्वभावं द्रव्यं तस्य तु व्यवहारेण श्वत्यं कुड्यादि परद्रव्यं अथात्र । कुड्यादेः परद्रव्यस्य श्वैत्यस्य श्वेतयित्री सेटिका किं भवति किं न भवतीति ? तदुभयतत्त्वसंबंधो मीमांस्यते । यदि सेटिका कुड्यादेर्भवति तदा यस्य यद्भवति तत्तदेव भवति यथात्मनो ज्ञानं भवदात्मैव भवति इति तत्वसंबंधे जीवति सेटिका कुड्यादेर्भवती कुड्यादिरेव भवेत् । एवं सति सेटिकायाः स्वद्रव्योच्छेदः । नच द्रव्यांतरसंक्रमस्य पूर्वमेव प्रतिषिद्धत्वाद्र्व्यस्यास्त्युच्छेदः ! ततो न भवति सेटिका कुड्यादेः । यदि न भवति सेटिका कुड्यादस्तहि कस्य सेटिका भवति ! सेटिकाया एव सेटिका भवति । ननु कतरान्या सेटिका सेटिकाया यस्याः सेटिका भवति ? न स्वल्वन्या सेटिका सेटिकायाः किंतु स्वस्वाम्यंशावेवान्यौ । किमत्र साध्यं स्वस्वाम्यंशव्यवहारेण ? न किमपि तर्हि न कस्यापि सेटिका, सेटिका सेटिकैवेति निश्चयः । यथायं दृष्टांतस्तथाय दाष्टीतिकः-चेतयितात्र तावद् ज्ञानदर्शनगुणनिर्भरपरापोहनात्मकस्वभाव द्रव्यं । तस्य तु व्यवहारेणापोह्यं पुद्गलादिपरद्रव्यं । अथात्र पुद्गलादेः परद्रव्यस्यापोह्यस्यापोहकः किं भवति किं न भवसीति ! तदुभयतत्त्वसंबंधो मीमांस्यते । यदि चेतयिता पुद्गलादेर्भवति तदा यस्य यद्भवति तत्तदेव भवति यथा स्मनो ज्ञानं भवदात्मैव भवति इति तत्त्वसंबंधे जीवति चेतयिता पुद्गलादेर्भवन् पुद्गलादिरेव भवेत् । एवं सति चेतयितुः स्वद्रव्योच्छेदः । नच द्रव्यांतरसंक्रमस्य पूर्वमेव प्रतिषिद्धत्वाव्यस्यास्त्युच्छेदः । ततो न भवति चेतयिता पुद्गलादेः । यदि न भवति चेतयिता पुद्गलादस्तहिँ कस्य चेतयिता भवति ! चेतयितुरेव चेत. यिता भवति । ननु कतरोऽन्यश्चेतयिता चेतयितुर्यस्य चेतयिता भवति ? न खल्वन्यश्चेतयिता चेतयितुः किंतु स्वस्वाम्यंशावेवान्यौ । किमत्र साध्यं स्वस्वाम्यंशव्यवहारेण ! न किमपि । तर्हि न कस्याप्यपोहकः, अपोहकोऽपोहक एवेति निश्चयः । यथा च सैव सेटिका श्वेतगुणनिर्भरस्वभावा स्वयं कुड्यादिपरद्रव्यस्वभावेनापरिणममाना कुड्यादिपरद्रव्यनिमित्तकेनात्मनः श्वेतगुणनिर्भरस्वभावस्य परिणामेनोत्पद्यमानमात्मस्वभावेन श्वेतयतीति व्यवह्रियते तथा चेतयितापि ज्ञानगुणनिर्भरस्वभावः स्वयं पुद्गलादिपरद्रव्यस्वभावेनापरिणममानः पुद्गलादिपरद्रव्यं चा- - त्मस्वभावेनापरिणमयन् पुद्गलादिपरद्रव्यनिमित्तकेनात्मनो ज्ञानगुणनिर्भरस्वभावस्य परिणामेनोत्पद्यमानः पुद्गलादिपरद्रव्यं चेतयितृनिमित्तकेनात्मनः स्वभावस्य परिणामेनोत्पद्यमानमात्मनः स्वभावेन जानातीति व्यवह्रियते । किंच यथा च सेटिका श्वेतगुणनिर्भरस्वभावा स्वयं कुड्यादिपरद्रव्यस्वभावेनापरिणममाना कुड्यादिपरद्रव्यं चात्मस्वभावेनापरिणमयंती कुड्यादिपरद्रव्यनिमित्तकेनात्मनः श्वेतगुणानभरखभावस्य परि Page #220 -------------------------------------------------------------------------- ________________ १४८ सनातनजैनग्रंथमालायांणामेनोपयमाना कुग्यादिपरद्रव्यं सेटिकानिमित्तकेनात्मनः स्वभावस्य परिणामेनोत्पद्यमानमात्मनः स्वभावेन श्रेतयतीति व्यवाहियते । तथा चेतयितापि दर्शनगुणनिर्भरस्वभावः स्वयं पुद्गलादिपरद्रव्यस्वभावेनापरिणम मानः पुद्गलादिपरद्रव्यं चात्मस्वभावेनापरिणमयन् पुद्गलादिपरद्रव्यनिमित्तकेनात्मनो दर्शनगुणनिर्भरस्व. भावस्य परिणामेनोत्पद्यमानः पुद्गलादिपरद्रव्यं चेतयितृनिमित्तकेनात्मनो दर्शनगुणनिर्भरस्वभावस्य परिणामेनोत्पयमानमात्मनः स्वभावेन पश्यतीति व्यवाहियते । अपि च यथा च सैव सेटिका श्वेतगुणानिर्भरस्वभावा स्वयं कुड्यादिपरद्रव्यस्वभावेनापरिणममाना कुड्यादिपरद्रव्यं चात्मस्वभावेनापरिणामयंती कुड्यादिपरद्रव्यनिमित्तकेनात्मनः श्वेतगुणानिर्भरस्वभावस्य परिणामेनोत्पद्यमाना कुड्यादिपरद्रव्यं सेटिकानिमित्तकेनात्मनः स्वभावस्य परिणामेनोत्पद्यमानमात्मनः स्वभावेन श्वेतयतीति व्यवाहियते । तथा चेतयितापि ज्ञानदर्शनगुणनिर्भरपरापोहनात्मकस्वभावः स्वयं पुद्गलादिपरद्रव्यस्वभावेनापरिणममानः पुद्गलादिपरद्रव्यं चात्मस्वभावेनापरिणामयन् पुद्गलादिपरद्रव्यनिमित्तकेनात्मनो ज्ञानदर्शनगुणनिर्भरपरापोहनात्मकस्वभावस्य परिणामेनोत्पद्यमानः पुद्गलादिपरद्रव्यं चेतयितृनिमित्तकेनात्मनः स्वभावस्य परिणामेनोत्पद्यमानमात्मनः स्वभावेनापोहतीति व्यवाहियते । एवमयमात्मनो ज्ञानदर्शनचरित्रपर्यायाणां निश्चयव्यवहारप्रकारः । एवमेवान्येषां सर्वेषामपि पर्यायाणां दृष्टव्यः । शुद्धद्रव्यनिरूपणार्पितमतेस्तत्त्वं समुत्पश्यतो नैकद्रव्यगतं चकास्ति किमपि द्रव्यांतरं जातुचित् । ज्ञानं ज्ञेयमवैति यत्तु तदयं शुद्धस्वभावोदयः किं द्रव्यांतरचुंबनाकुलधियस्तत्त्वाच्च्यवंते जनाः ॥१०॥ शुद्धद्रव्यस्वरसभवनास्किं स्वभावस्य शेष-मन्यदृव्यं भवति यदि वा तस्य किं स्यात्स्वभावः । ज्योत्स्नारूपं स्वपयति मुवं नैव तस्यास्तिभूमिमा॑नं ज्ञेयं कलयति सदा ज्ञेयमस्यास्ति नैव ॥१०६॥ रागद्वेषद्वयमुदयते तावदेतन यावद् ज्ञानं ज्ञानं भवति न पुनर्बाध्यतां याति बोध्यं । शान बानं भवतु तदिदं न्यक्कृताज्ञानभावं भावोभावो भवति तिरयन्येन पूर्णस्वभावः ॥१०७॥ कम्मं जं पुवकयं सुहासुहमणेयवित्थरविसेसं । तत्तो णियत्तदे अप्पयं तु जो सो पडिकमणं ॥४०३॥ कम्मं जं सुहमसुहं जझिय भावेण वज्झदि भविस्सं । तत्तो णियत्तदे जो सो पकक्खाणं हवे चेदा ॥४०४॥ जं सुहमसुहमुदिण्णं संपडिय अणेयवित्थरविसेसं । तं दोसं जो चेददि स खलु आलोयणं चेदा ॥४०५॥ णिचं पञ्चक्खाणं कुव्वदि णिचंपि जो पडिक्कमदि । णिचं आलोचेयदि सो हु चरित्तं हवदि चेदा ॥४०॥ कर्म यत्पूर्वकृतं शुभाशुभमनेकविस्तरविशेषं । । तस्माभिवर्तयत्यात्मानं तु यः स प्रतिक्रमणं ॥४०३॥ कर्म यच्छुभमशुभं यस्मिंश्च भावे बध्यते भविष्यत् । सस्माभिवर्तते यः स प्रत्याख्यानं भवति चेतयिता ॥४०४॥ यच्छुभमशुभमुदीर्ण संप्रति चानेकविस्तरविशेषं । तं दोषं चेतयते स खल्वालोचनं चेतयिता ॥४०५॥ ददि पाठोऽयं स. पुस्तके। Page #221 -------------------------------------------------------------------------- ________________ समयसारप्राभृतं । नित्यं प्रत्याख्यानं करोति नित्यमपि यः प्रतिक्रामति । नित्यमालोचयति स खलु चरित्रं भवति चेतयिता ॥४०६॥ तात्पर्यवृत्ति:-णियत्तदे अप्पयंतु जो इहलोकपरलोकाकांक्षारूपख्यातिपूजालाभदृष्टश्रुतानुभूतभोगाकांक्षालक्षणनिदानबंधादिसमस्तपरद्रव्यालंबनोत्पन्नशुभाशुभसंकल्पविकल्परहिते शून्ये विशुद्धज्ञानदर्शनस्वभावात्मतत्त्वसम्यक्श्रद्धानज्ञानानुभवनरूपाभेदरत्नत्रयात्मनिर्विकल्पपरमसमाधिसमुत्पन्नवीतराग सहजपरमानंदस्वभावसुखरसास्वादसमरसीभावपरिणामेन सालंबने भरितावस्थे केवलज्ञानाद्यनंतचतुष्टयव्यक्तिरूपस्य कार्यसमयसारस्योत्पादके कारणसमयसारे स्थित्वा यः कर्ता, आत्मानं कर्मतापन्नं निकतयति । कस्मात्सकाशात् ? कम्मं जं पुवकयं सुहासुहमणेयवित्थरविसेसं तत्तो . शुभाशुभमूलोत्तरप्रकृतिभेदनानेकविस्तरविस्तीर्ण पूर्वकृतं यत्कर्म तस्मात् सो पडिक्कमणं स पुरुष एवाभेदनयेन निश्चयप्रतिक्रमणं भवतीत्यर्थः । णियत्तदे जो अनंतज्ञानादिस्वरूपात्मद्रव्यसम्यक्श्रद्धानज्ञानानुभूति स्वरूपाभेदरत्नत्रयलक्षणे परमसामायिके स्थित्वा यः कर्ता आत्मानं निवर्तयति । कस्मात्सकाशात् ! कम्मं जं सुहमसुई जह्मियभावेण वज्झदि भविस्सं तत्तो शुभाशुभानेकविस्तरविस्तीर्ण भविष्यकर्म यस्मिन्मिथ्यात्वादिरागादिपरिणामे सति बध्यते तस्मात् सो पच्चक्खाणं हवे चेदा स एवंगुणविशिष्टस्तपोधन एवाभेदनयेन निश्चयप्रत्याख्यानं भवतीति विज्ञेयं । जो वेददि नित्यानंदैकस्वभाव शुद्धात्मसम्यश्रद्धानज्ञानानुष्ठानरूपाभेदरत्नत्रयात्मके सुखदुःखजीवितमरणादिविषये सर्वोपेक्षासंयमे स्थित्या यः कर्ता वेदयत्यनुभवति जानाति । किं जानाति । जं यत्कर्म तं तत् । केन रूपेण ! दोसं दोषोयं मम स्वरूपं न भवति । कथं भूतं कर्म ! उदिण्णं उदयागतं । पुनरपि कथभूतं ? सुहमसुहं शुभाशुभं । पुनश्च किंरूपं ! अणेयवित्थरबिसेसं मूलोत्तरप्रकृतिभेदेनानेकविस्तरविस्तीर्ण । संपडिय संप्रति काले खलु स्फुटं । सो आलोयणं चेदा स चेतायता पुरुष एवाभेदनयेन निश्चयालोचनं भवतीति ज्ञातव्यं । णिचं पच्चक्खाणं कुव्वादि णिच्चंपि जो पडिक्कमदि णिच्च अलोचेदिय निश्चयरत्नत्रयलक्षणे शुद्धात्मस्वरूपे स्थित्वा यः कर्ता पूर्वोक्तनिश्चयप्रत्याख्यानप्रतिक्रमणालोचनानुष्ठानानि नित्यं सर्वकालं करोति सोदु चरित्तं हवदि चेदा स चेतयिता पुरुष एवाभेदनयेन निश्चयचारित्रं भवति । कस्मात् ! इति चेत् शुद्धात्मस्वरूपे चरणं चारित्रमिति वचनात् । एवं निश्चयप्रतिक्रमणप्रत्याख्याना लोचनाचारित्रव्याख्यानरूपेणाष्टमस्थले गाथाचतुष्टयं गतं ।। अथेंद्रियमनोविषयेषु रागद्वेषौ मिथ्याज्ञानपरिणतमेव जीवं करोतीत्याख्याति आत्मख्यातिः - यः खलु पुद्गलकर्मविपाकभवेभ्यो भावेम्यश्चेतयितात्मानं निवर्तयति स तत्कार णभूतं पूर्वकर्म प्रतिक्रामन् स्वयमेव प्रतिक्रमणं भवति । स एव तत्कार्यभूतमुत्तरं कर्म प्रत्याचक्षाणः प्रत्याख्यानं भवति । स एव वर्तमान कर्मविपाकमात्मनोऽत्यंतभेदेनोपलभमानः, आलोचना भवति । एवमयं नित्यं प्रतिक्रामन् , नित्यं प्रत्याचक्षाणो नित्यमालोचयंश्च पूर्वकर्मकार्येभ्य उत्तरकर्मकरणेभ्या भावेभ्योत्यंत निवृत्तः, वर्तमानं कर्मविपाकमात्मनोऽत्यंतभेदेनोपलभमानः स्वस्मिन्नेव खलु ज्ञानस्वभावे निरंतरचरणा चारित्रं भवति । चारित्रं तु भवन् स्वस्य ज्ञानमात्रस्य चेतनात् स्वयमेव ज्ञानचेतना भवतीति भावः । ज्ञानस्य संचेतनयैव नित्यं प्रकाशते ज्ञानमतीव शुद्धं । अज्ञानसंचेतनया तु धावन् बोधस्य शुद्धिं निरुणद्धि बंधः ॥१०॥ णिदिदसंथुदवयणाणि पोग्गला परिणमंति वहुगाणि । ताणि सुणिदण रूसदि तूसदिय अहं पुणो भणिदो ॥४०७॥ पोग्गलदव्वं सदुत्तह परिणदं तस्स जदि गुणो अण्णो । Page #222 -------------------------------------------------------------------------- ________________ १९• सनातन जैमग्रंथमालार्या ताण तुमं भणिदो किंचिवि कि रूससे अहो ||४०८॥ अहो सुहोव सोणतं भणदि सुणसु मंति सो चैव । यदि विणिग्गहिदु सोदु विसयमागदं सद्दं ॥ ४०९ || असुहं सुहं च रूवं ण तं भणदि पेच्छ मंति सो चेव । य एदि विणिग्गहिदं चक्खुविसयमागदं रूपं ॥ ४१० ॥ अहो सुहोय गंधो ण तं भणदि जिग्घ मंति सो चेव । य एदि विणिग्गहिदूं घाणविसयमागदं गंधं ॥ ४९९ ॥ अहो सुहोय रसोणतं भणदि रसय मंति सो चैव । णय एदि विणिग्गहिदुं रसणविसयमागदं तु रसं ||१२|| अहो सुहोय फासो ण तं भणदि फासमंति सो चेव । य एदि विणग्गहिदु कायविसयमागदं फासं ॥ ४१३|| असुहो सुहोव गुणो ण तं भणदि वुज्झ मंति सो चेव । यदि विणिग्गहिदु बुद्धिविसयमागदं तु गुणं ॥ ४१-४ ॥ असुहं सुहं च दव्वं ण तं भणदि वुज्झमंति सो चेव । यदि विणग्गहि वुद्धिविसयमागदं दव्वं ॥ ४९५ ॥ एवं तु जणि दव्वस्स उवसमेणेव गच्छदे मूढो । णिग्गहमणा परस्सय सयंच बुद्धिं विमपत्तो ॥ ४१६ || निंदितसंस्तुतवचनानि पुद्गलाः परिणमंति बहुकानि । तानि श्रुत्वा रुष्यति तुष्यति च पुनरहं भणितः || ४०७ || लद्रव्यं शब्दत्वपरिणतं तस्य यदि गुणोऽन्यः । तस्मान्न त्वां भणितः किंचिदपि किं रुष्यस्यबुद्धः ॥ ४०८ ॥ • अशुभः शुभो वा शब्दः न त्वां भणति शृणु मामिति स एव । नचैति विनिर्गृहीतुं श्रोत्रविषयमागतं शब्दं ॥ ४०९ ॥ अशुभं शुभं वा रूपं न त्वां भणति पश्य मामिति स एव । नचैति विनिगृहीतुं चक्षुर्विषयमागतं रूपं ॥ ४१० ॥ अशुभः शुभोवा गंधो न त्वां भणति जिघ्र मामिति स एव । नचैति विनिगृहीतुं घ्राणविषयमागतं गंधं ॥ ४११ || अशुभः शुभो वा रसो न त्वां भणति रसय मामिति स एव । नचैति विनिगृहीतुं बुद्धिविषयमागतं तु रमं ।।४१२ || अशुभः शुभोवा स्पर्शो न त्वां भणति स्पृश मामिति स एव । Page #223 -------------------------------------------------------------------------- ________________ समयसारप्राभृतं । नचैति विनिहीतुं कायविषयमागतं तु स्पर्श ॥ ४१३ ॥ अशुभः शुभो वा गुणो न त्वां भणति बुध्यस्त्र मामिति स एव । नचैति विनिहीतुं बुदिविषयमागतं तु गुणं ॥ ४१४॥ अशुभं शुभं वा द्रव्यं न त्वां भणति बुध्वस्व मामिति स एव ।। मचैति विनिगृहीतुं बुद्धिविषयमागतं तु द्रव्यं ।। ४१५ ॥ एवं तु ज्ञातव्यस्य उपशमेनैव गच्छति मूढः ।। विनिग्रहमनाः परस्य तु स्वयं च बुद्धिं शिवामप्राप्तः ॥ ४१६ ।। तात्पर्यवृत्ति:-- रूसदि तूसदिय एकेंद्रियविकलेंद्रियादिदुर्लभपरंपराक्रमणातीतानंतकाले दृष्टश्रुतानुभूतमिथ्यात्वविषयकषायादिविभावपरिणामाधानतया अत्यंतदुर्लभेन कथंचित्कालादिलब्धिवशेन मिध्यात्वादिसप्तप्रकृतीनां तथैव चरित्रमोहनीयस्य चोपशमक्षयोपशमक्षये सति षड्द्रव्यपंचास्तिकायसप्ततत्त्वनवपदार्थादिश्रद्धानज्ञानरागद्वेषपरिहाररूपेण भदरत्नत्रयात्मकव्यवहारमोक्षमार्गसंज्ञेन व्यवहारकारणसमयसारेण साध्येन विशुद्धज्ञानदर्शनस्वभावशुद्धात्मतत्त्वसम्यक्श्रद्धानज्ञानानुचरणरूपाभेदरत्नत्रयात्मकनिर्विकल्पसमाधिरूपेणानंतकेवलज्ञानादिचतुष्टयव्यक्तिरूपस्य कार्यसमयसारस्योत्पादकेन निश्चयकारणसमयसारेण विना खल्यज्ञानिजीवो रुष्यति तुष्यति च । किं कृत्वा ! सुणिऊण श्रुत्वा । पुनः पश्चात् केन रूपेण ! अहं भणिदो अनेनाहं भणित इति । कानि श्रुत्वा ? णिदिदसंथुदवयणाणि निंदितसंस्तुतवचनानि ताणि तानि । किं विशिष्टानि ? पोग्गलापरिणमंति बहुगाणि भाषावर्गणायोग्यपुद्गलाः कतीरा यानि कर्मतापन्नानि बहुविधानि परिणमंति । ज्ञानी पुनर्व्यवहारमोक्षमार्ग निश्चयमोक्षमागभूतं पूर्वोक्तद्विविधकारणसमयसारं ज्ञात्वा बहिरंगेष्टानिष्टविषये रागद्वेषौ न करोतीति भावार्थः । पुग्गलदव्वं सदुत्तहपरिणदं भाषावर्गणायोग्यपुद्गलद्रव्यं कर्तृ म्रियस्वेति जीयस्त्वमिति रूपेण निंदितसंस्तुतब्दरूपत्वपरिणतं तस्स जदि गुणो अण्णो तस्य पुद्गलद्रव्यस्य शुद्धात्मस्वरूपाद्यदि गुणोऽन्यो भिन्नो जडरूपः, तर्हि जीवस्य किमायातं ? न किमपि । तस्यैवा निजीवस्य पूर्वोक्तव्यवहारकारणसमयसारनिश्चयसमयसारकारणरहितस्य संबोधनं क्रियते । कथं ? इति चेत् यस्मानिंदितसंस्तुतवचनेन पुद्गलाः परिणमंति तह्मा ण तुमं भणिदो किं. चिवि तस्मात्कारणात्त्वं न भणितः किंचिदपि कि रूससे अवुहो कि रुष्यसे अबुध ! बहिरात्मन्निति । स चैवाशानिजीवो व्यवहारनिश्चयकारणसमयसाराभ्यां रहितः पुनरपि संबोध्यते । हे अज्ञानिन् ! शब्दरूपगंधरसस्पर्शरूपा मनोज्ञामनोज्ञपंचेंद्रियविषयाः कर्तारः, त्वां कर्मतापन्नं किमपि न भणति । किं न भणंति ! हे देवदत्त ! मां कर्मतापन्नं शृणु, मां पश्य, मां जिघ्र, मां स्वादय, मां स्पृशेति । पुनरप्यज्ञानी ब्रूते एते शब्दादयः कर्तारो मां किमपि न भणंति, परं किंतु मदीयश्रोत्रादिविषयस्थानेषु समागच्छंति ? आचार्या उत्तरमाहुः-हे मूढ ! नचायांति विनिर्गृहीतुं-एते शब्दादिपंचेंद्रियविषयाः । कथंभूताः संतः ! श्रोत्रंद्रियादिस्वकीयस्वकीयविषयभावमागच्छंतः । कस्मात् ! इति चेत् वस्तुस्वभावादिति । यस्तु परमतत्त्वज्ञानी जीवः स पूर्वोक्तव्यवहारनिश्चयकारणसमयसाराभ्यां बाह्याभ्यंतररत्नत्रयलक्षणाभ्यां सहितः सन् मनोज्ञामनोशशब्दादिविषयेषु समागतेषु रागद्वेषौ न करोति । किंतु स्वस्थभावेन शुद्धात्मस्वरूपमनुभवतीति भावार्थः । यथा पंचेंद्रियविषये मनोज्ञामनोजेंद्रियसंकल्पवशेन रागद्वेषौ करोत्यज्ञानी जीवः । तथा परकीयगुणपरिच्छेदरूपे परद्रव्यपरिच्छेद्यरूपे च मनोविषयेऽपि रागद्वेषौ करोति तस्याज्ञानिजीवस्य पुनरपि संबोधनं क्रियते तद्यथा--परकीयगुणः शुभोऽशुभो वा चेतनोऽचेतनो वा । द्रव्यमपि परकीय कर्तृत्वं कर्मतापन्नं न भणति हे मनोबुद्धे हे अज्ञानिजनचित्त ! मां कर्मतापन्नं बुध्यस्व जानीहि । अज्ञानी वदति-एवं न ते किंतु मदीयमनास परकीयगुणो द्रव्यं वा परिच्छित्तिसंकल्परूपेण स्फुरति प्रतिभाति । तत्रोत्तरं दीयते स चैव परकीयगुणः परकीयद्रव्यं वा मनोबुद्धिविषयमागतं विनिगृहीतुं नायाति । कस्मात् ? ज्ञेयवायकसंब Page #224 -------------------------------------------------------------------------- ________________ १९२ सनातन जैनग्रंथमालायां धस्य निषेधयितुमशक्यत्वात् इति हेतोः - यद्रागद्वेषकरणं तदज्ञानं । यस्तु ज्ञानी स पुनः पूर्वोक्तव्यवहारनिश्चयकारणं समयसारं जानन् हर्षविषादौ न करोतीति भावार्थ: । एवं तु एवं पूर्वोक्तप्रकारेण मनोज्ञामनोज्ञशब्दादिपचेंद्रियविषयस्य परकीयगुणद्रव्यरूपस्य मनोविषयस्य वा । कथंभूतस्य ! जाणिदव्वस्स ज्ञातद्रव्यस्य पंचेंद्रियमनोविषयभूतस्येत्यर्थः । तस्य पूर्वोक्तप्रकारेण स्वरूपं ज्ञात्वापि उवसमेणैव गच्छदे मूढो उपशमेनैव गच्छति मूढो बहिरात्मा स्वयं कथंभूतः ? णिग्गहमणा निग्रहमनाः निवारणबुद्धिः । कस्य संबंधित्वेन ! परस्सय परस्य पंचेंद्रियमनोविषयस्य । कथंभूतस्य ! परकीयशब्दादिगुणरूपस्य । पुनरपि कथंभूतस्य स्वकीयविषयमागतस्य प्राप्तस्य । पुनरपि किं रूपश्चाज्ञानी जीवः । सयं च बुद्धिं सित्रमपत्तो स्वयं च शुद्धात्मसंवित्तिरूपां बुद्धिमप्राप्तः । वीतरागसहजपरमानंदरूपं शिवशब्दवाच्यं सुखं चाप्राप्त इति । किंच यथायस्कांतापलाकृष्टा सूची स्वस्थानात्प्रच्युत्यायस्कंतोपलपाषाणसमीपं गच्छति तथा शब्दादयश्चित्तक्षोभरूपविकृतिकरणार्थं जीवसमीपं न गच्छति । जीवोऽपि तत्समीपं न गच्छति किं तु स्वस्थाने स्वस्वरूपेणैव तिष्ठति । एवं वस्तुस्वभावे सत्यपि यदज्ञानी जीव उदसीनभावं मुक्त्वा रागद्वेषौ करोति तदज्ञानमिति । हे भगवन् पूर्वं बंधाधिकारे भणितं— एवं णाणी सुद्धो ण स परिणमदि रायमादीहिं । राइज्जदि अहिंदु सोरत्ता दिएहिं भावेहिं ॥ १ ॥ इत्यादि रागादीनामकर्ता ज्ञानी, परद्रव्यजनिता रागादयः इत्युक्तं । अत्र तु स्वकयबुद्धिदोषजनिता रागादयः परेषां दूषणं नास्तीति पूर्वापरविरोध: ? । अत्रोत्तरमाह तत्र बंधाधिकारव्याख्याने ज्ञानिजीवस्य मुख्यत्वात् ज्ञानी तु रागादिभिर्न परिणमति तेन कारणेन परद्रव्यजनिता भणिताः । अत्र चाज्ञानिजीवस्य मुख्यता स चाज्ञानी जीवः स्वकीयबुद्धिदोषेण परद्रव्यनिमित्तमात्रमाश्रित्य रागादिभिः परिणमति, तेन कारणेन परेषां शब्दादिपंचेंद्रियविषयाणां दूषणं नास्तीति भणितं । ततः कारणात् पूर्वापरविरोधो नास्ति इति । एवं निश्चयव्यवहारमोक्षमार्गभूतं निश्चयकारणसमयसार व्यवहारकारणसमय सारद्वयमजानन् सन्नज्ञानी जीवः स्वकीयबुद्धिदोषेण रागादिभिः परिणमति । परेषां शब्दादीनां दूषणं नास्तीति व्याख्यानमुख्यत्वेन नवमस्थले गाथादशकं गतं । अथ मिध्यात्वरागादिपरिणत जीवस्याज्ञानचेतना केवलज्ञानादिगुणप्रच्छादकं कर्मबंधं जनयतीति प्रतिपादयति आत्मख्यातिः - यथेह बहिरर्थो घटादिः, देवदत्तो यज्ञदत्तमिव हस्ते गृहीत्वा 'मां प्रकाशय' इति स्वप्रकाशने न प्रदीपं प्रयोजयति । नच प्रदीपोप्ययः कांतोपलकृष्टायः सूचीवत स्वस्थानात्प्रच्युत्य तं प्रका- शयितुमायाति । किं तु वस्तुस्वभावस्य परेणोत्पादयितुमशक्यत्वात् परमुत्पादयितुमशक्तत्वाच्च यथा तदसन्निधाने तथा तत्संनिधानेऽपि स्वरूपेणैव प्रकाशते । स्वरूपेणैव प्रकाशमानस्य चास्य वस्तुस्वभावादेव विचित्रां परिणतिमासादयन् कमनीयोऽकमनायो वा घटपटादिर्न मनागपि विक्रियायै कल्पते । तथा बहिरर्थः शब्दो रूपं गंधो रसः स्पर्शो गुणद्रव्ये च देवदत्तो यज्ञदत्तमिव हस्ते गृहीत्वा मां शृणु मां पश्य मां जिघ्र मां रसय मां स्पर्श मां बुध्यस्वेति स्वज्ञाने नात्मानं प्रयोजयति । नचात्माप्ययः कांतो पलकृष्टायः सूचीवत् स्वस्थानास्प्रच्युत्य तान् ज्ञातुमायाति । किंतु वस्तुस्वभावस्य परेणोत्पादयितुमशक्यत्वात् परमुत्पादयितुमशक्तत्वाच्च यथा तदसन्निधाने तथा तत्सन्निधानेऽपि स्वरूपेणैव जानीते । स्वरूपेण जानतश्चास्य वस्तुस्वभावादेव विचित्रां परिणतिमासादयंतः कमनीया अकमनीया वा शब्दादयो बहिरर्था न मनागपि विक्रियायै कल्प्येरन् । एवमात्मा परं प्रति उदासीनो नित्यमेवेति वस्तुस्थितिः, तथापि यद्रागद्वेषौ तदज्ञानं । पूर्णैकाच्युतशुद्धबोधमहिमा बोधो न बोध्यादयं । यायात्कामपि विक्रियां तत इतो दीपः प्रकाश्यादिव । Page #225 -------------------------------------------------------------------------- ________________ १९३ समयप्राभृतं । तद्वस्तुस्थितिबोधबध्यधिषणा एते किमज्ञानिनो । रागद्वषमयीं भवंति सहजा मुंचत्युदानितां ॥ १०९ ॥ रागद्वेषविभावमुक्तमहसो नित्यं स्वभावस्पृशः पूर्वागामिसमस्तकर्मविकला भिन्नास्तदात्वोदयात् । दूरारूढचरित्रवैभववलाचंचञ्चिदर्मियीं विंदन्ति स्वरसाभिषिक्तभुवनां ज्ञानस्य संचेतनां ॥ ११० ॥ वेदंतो कम्मफलं अप्पाणं जो दु कुणदि कम्मफलं। सो तं पुणोवि वंधदि वीयं दुक्खस्स अट्टविहं ॥ ४१७ ॥ वेदंतो कम्मफलं मयेकदं जो दु मुणदि कम्मफलं । सो तं पुणोवि वंधदि वीयं दुक्खस्स अट्ट विहं ॥ ४१८ ॥ वेदंतो कम्मफलं सुहिदो दुहिदो दु हवदि जो चेदा । सो तं पुणोवि वंधदि वीयं दुक्खस्स अट्टविहं ॥ ४१९ ॥ वेदयमानः कर्मफलमात्मानं यस्तु करोति कर्मफलं । स तत्पुनरपि बनाति बीजं दुःखस्याष्टविधं ॥ ४१७ ॥ वेदयमानः कर्मफलं मया कृतं यस्तु जानाति कर्मफलं । स तत्पुनरपि पधाति बीजं दुःखस्याष्टविधं ॥ ४१८ ॥ वेदयमानः कर्मफलं सुखितो दुःखितश्च भवति चेतयिता । स तत्पुनरपि बनावि बीनं दुःख स्याष्टविधं ॥ ४१९ ॥ - तात्पर्यवृत्तिः-ज्ञानाज्ञानभेदेन चेतना तावद्विविधा भवति । इयं तावदज्ञानचेतना गाधानयेण कथ्यते–उदयागतं शुभाशुभं कर्म वेदयन्ननुभवन् सन्नज्ञानिजीवः स्वस्थभावाद् भ्रष्टो भूत्वा मदीयं कर्मेति भणति । मया कृतं कर्मेति च भणति । स जीवः पुनरपि तदष्टविधं कर्म बनाति । कथंभूतं ! बीजं कारणं । कस्य ? दुःखस्य । इति गाथाद्वयेनाज्ञानरूपा कर्मभावचेतना व्याख्याता । कर्मचेतना कोऽर्थः ? इति चेत् मदीयं कर्म मया कृतं कर्मेत्याद्यज्ञानभावेन-ईहापूर्वकमिष्टानिष्टरूपेण निरुपरागशुद्धात्मानुभूतिच्युतस्य मनोबचनकायव्यापारकरणं यत्, सा बंधकारणभूता कर्मचेतना भण्यते । उदयागतं कर्मफलं वेदयन् शुद्धारमस्वरूपमचेतयन् मनोज्ञामनोजेंद्रियविषयनिमित्तेन यः सुखितो दुःखितो वा भवति स जीवः पुनरपि तदएविधं कर्म बन्नाति । कथंभूतं? बीजं कारणं । कस्य ? दुःखस्य । इत्येकगाथया कर्मफलचेतना व्याख्याता । कर्मफलचेतना कोऽर्थः ! इति चेत् स्वस्थभावरहितेनाज्ञानभावेन यथा संभवं व्यक्ता, व्यक्तस्वभावेनेहापूर्वकमिष्टानिष्टविकल्परूपेण हर्षविषादमयं सुखदुःखानुभवनं यत, सा बंधकारणभूता कर्मफलचेतना भण्यते । इयं कर्मचेतना कर्मफलचेतना द्विरूपापि त्याज्या बंधकारणत्वादिति । तत्र तयोर्द्वयोः कर्मचेतनाकर्मफलचेतनयोर्मध्ये पूर्व तावन्निश्चयप्रतिक्रमण-निश्चयप्रत्याख्यान-निश्चयालोचनास्वरूपं यत्पूर्व व्याख्यातं तत्र स्थित्वा शुद्धज्ञानचेतनावलेन कर्मचेतनासन्यासभावनां नाटयति । कर्मचेतनात्यागभावनां कर्मबंधविनाशार्थ करोतीत्यर्थः । तद्यथा यदमहमकार्ष यदहमचीकरं यदहं कुर्वतमप्यन्यं प्राणिनं समन्वज्ञासिषं । केन ! मनसा याचा कायेन तन्मिथ्या मे दुष्कृतमिति षसंयोनेगैकभंगः । यदहमकार्षे यदहमचीकरं यदहं कुर्वतमप्यन्यं प्राणिनं समनुज्ञासिषं । केन मनसा वाचा तन्मिथ्या मे दुष्कृतमिति पंचसंयोगेन, एकैकापनयनेन भंगत्रयं भवति । संयोगेनेत्याद्यक्षसंचारेणैकोनपंचाशद्भगा भवंतीति टीकाभिप्रायः । अथवा त एव सुखोपायेन कथ्यते । कथं: इति चेत् कृतं कारितमनुमितमिति प्रत्येकं भंगत्रयं भवति । कृतकारितवयं कृतानुमतद्वयं कारितानुमत, २५ Page #226 -------------------------------------------------------------------------- ________________ १९४ सनातनजैनग्रंथमालायांद्वयमिति द्विसंयोगेन च भंगत्रयं जातं । कृतकारितानुमतत्रयमिति संयोगेनैको भंग इति सप्तभंगी । तथैव मनसा वाचा कायेनेति प्रत्येकभंगत्रयं भवति । मनोवचनद्वयं मनःकायद्वयं वचनकायद्वयमिति द्विसंयोगेन भंगत्रयं जातं । मनोवचनकायत्रयमिति च त्रिसंयोगेनैको भंग इयमपि सप्तभंगी। कृतं मनसा सह, कृतं वाचा सह, कृतं कायेन सह, कृतं मनोवचनद्वयेन सह, कृतं मनःकायद्वयन सह, कृतं वचनकायद्वयेन सह, कृतं मनोवचनकायत्रयेण सहेति कृते निरुद्धे विवक्षिते सप्तभंगी जाता यथा । तथा कारितेऽपि तथा-अनुमतेऽपि, तथा कृतकारितद्वयेऽपि, तथा कृतानुमतद्वयेऽपि, तथा कारितानुमतद्वयेऽपि, तथा कृतकारितानुमतत्रये चेति प्रत्येकमनेन क्रमेण सप्तभंगी योजनीया । एवं-एकोनपंचाशद्भगा भवंतीति प्रतिक्रमणकल्पः समाप्तः । इदानीं प्रत्याख्यानकल्पः कथ्यते-तथाहि-यदहं करिष्यामि यदहं कारयिष्यामि यदहं कुर्वतमप्यन्यं प्राणिनं समनुज्ञास्यामि । केन मनसा वाचा कायेन तन्मिथ्या मे दुष्कृतमिति पूर्ववत् षट्संयोगेनको भंगः । यथा यदहं करिष्यामि यदहं कारयिष्यामि यदहं कुर्वतमप्यन्यं प्राणिनं समनुज्ञास्यामि । केन ? मनसा वाचा चेति तन्मिथ्या मे दुष्कृतमिति पूर्ववदेकैकापनयनेन पंचसंयोगेन भंगत्रयं भवति । एवं पूर्वोक्तक्रमेणएकोनपंचाशद्धंगा ज्ञातव्याः । इति प्रत्याख्यानकल्पः समाप्तः । इदानीमालोचनाकल्पः कथ्यते तद्यथा-यदहं करोमि यदहं कारयामि यदहं कुर्वतमप्यन्यं प्राणिनं समनुजानामि । केन ? मनसा वाचा कायेनेति तन्मिथ्या मे दुष्कृतमिति पूर्ववत षट्संयोगेनैकभंगः । तथा यदहं करोमि यदहं कारयामि यदहं कुर्वतमप्यन्यं प्राणिनं समनुजानामि केन? मनसा वाचेति तन्मिथ्या में दुष्कृतमिति-एकैकापनयनेन पंचसंयोगेन भंगत्रयं भवति । एवं पूर्वोक्तप्रकारेण एकोनपंचाशद्धंगा ज्ञातव्याः । इत्यालोचनाकल्पः समाप्तः। कल्पः पर्व परिच्छेदोऽधिकारोऽध्यायः प्रकरणमित्याद्येकार्था ज्ञातव्याः । एवं निश्चयप्रतिक्रमण-निश्चयप्रत्याख्यान-निश्चयालोचनाप्रकारेण शुद्धज्ञानचेतनाभावनारूपेण गाथाद्वयव्याख्यानेन कर्मचेतनासन्यासभावना समाप्ता । इदानीं शुद्धज्ञानचेतनाभावनावलेन कर्मफलचेतनासन्यासभावनां नाटयति करोतीत्यर्थः । तद्यथा-नाहं मतिज्ञानावरणीयकर्मफलं मुंजे । तर्हि किं करोमि ? शुद्धचैतन्यस्वभावमात्मानमेव संचेतये सम्यगनुभवे इत्यर्थः । नाहं श्रुतज्ञानावरणीयकर्मफलं भुंजे । तर्हि किं करोमि ? शुद्धचैतन्यस्वभावमात्मानमेव संचेतये । नाहमवधिज्ञानावरणीयकर्मफलं मुंजे । तर्हि किं करोमि ? शुद्धचैतन्यस्वभावमात्मानमेव संचेतये । नाहं मनःपर्ययज्ञानावरणीयफलं भुंजे । तर्हि किं करोमि ? शुद्धचैतन्यस्वभावमात्मानमेव संचेतये । नाहं केवलज्ञानावरणीयफलं भुंजे । किं तर्हि करोमि ? शुद्धचैतन्यस्वभावमात्मानमेव संचेतये इति पंचप्रकारज्ञानावरणीयरूपेण कर्मफलसंज्ञाभावना व्याख्याता। नाहं चक्षुर्दर्शनावरणीयफलं भुजे । तर्हि किं करोमि ? शुद्धचैतन्यस्वभावमात्मानमेव संचेतये । एवं टीकाकथितक्रमण पण णव दु अट्ठवीसा चउ तिय णउ दीय दुण्णि पंचेव । वावण्णहीण वियसय पयडिविणासेण होंति ते सिद्धा ॥ १ ॥ इमां गाथामाश्रित्य अष्टचत्वारिंशदधिकशतप्रमितोत्तरप्रकृतीनां कर्मफलसन्यासभावना नाटयितव्या, कर्तव्येत्यर्थः । किंच जगत्त्रयकालत्रयसंबंविमनोवचनकायकृतकारितानुमतख्यातिपूजालाभदृष्टश्रुतानुभूत भोगाकांक्षारूपनिधानबंधादिसमस्तपरद्रव्यालंबनोत्पन्न शुभाशुभसंकल्पविकल्परहितन शून्येन चिदानंदैकस्वभावशुद्धात्मतत्त्वसम्यक्त्रद्धानज्ञानानुचरणरूपाभेदरत्नत्रयात्मकनिर्विकल्पसमाधिसंजातवीतरागसहजपरमानंदरूपसुखरसास्वादपरमसमरसीभावानुभवसालंबेन भरितावस्थेन केवलज्ञानाद्यनंतचतुष्टयव्यक्तिरूपस्य साक्षादुपादेयभूतस्य कार्यसमयसारस्योत्पादकेन निश्चयकारणसमयसाररूपेण शुद्धज्ञानचेतनाभावानावष्टंभेन कृत्वा कर्मचेतनासन्यासभावना कर्मफलचेतनासन्यासभावना च मोक्षार्थिना पुरुषेण कर्तव्येति भावार्थः । एवं गाथाद्वयं कर्मचेतनासन्यासभावनामुख्यत्वेन, गाथैका कर्मफलचेतनासन्यासभावनामुख्यत्वेनेति दशमस्थले गाथात्रयं गतं । Page #227 -------------------------------------------------------------------------- ________________ समयसारप्राभृतं । अथेदानी व्यवहारिकजीवादिनवपदार्थभ्यो भिन्नमपि टंकोत्कीर्णज्ञायकैकपारमार्थिकपदार्थसई गद्यपद्यादिविचित्ररचनारचितशास्त्रैः शब्दादिपंचेद्रियविषयप्रभृतिपरद्रव्यैश्च शून्यमपि रागादिविकल्पोपाधिरहितं सदानदैकलक्षणसुखं तरसास्वादेन भरितास्थपरमात्मतत्त्वं प्रकाशयति । आत्मख्याति:-ज्ञानादन्यत्रेदमहमिति चेतनं अज्ञानचेतना । सा द्विधा कर्मचेतना कर्मफलचेतना च । तत्र ज्ञानादन्यत्रेदमहं करोमीति चेतनं कर्मचेतना । ज्ञानादन्यत्रेदं वेदयेऽहमिति चेतनं कर्मफलचेतना। सा तु समरसापि संसारबीजं । संसारबीजस्याष्टविधकर्मणो बीजत्वात् । ततो मोक्षार्थिना पुरुषेणाज्ञानचेतना प्रलयाय सकलकर्मसन्यासभावनां सकलकर्मफलसन्यासभावनां च नाटयित्वा स्वभावभूता भगवती ज्ञानचेतनैवैका नित्यमेव नाटयितव्या । तत्र तावत्सकलकर्मफलसन्यासभावनां नाटयति कृतकरितानुमननैस्त्रिकालविषय मनोवचनकायैः । परिहत्यकर्म सर्व परमं नैष्कर्म्यमवलंबे ॥ १११ ।। यदहमकार्षे यदचीकरं यत्कुर्वतमप्यन्यं समन्वज्ञासिषं मनसा वाचा च कायेन चेति तन्मिथ्या मे दुष्कतमिति १ यदहमकार्षे यदचीकर यत्कुर्वतमप्यन्यं समन्वज्ञासिषं मनसा वाचा च तन्मे मिथ्या दुष्कृतमितिर यदहमकार्ष यदाकरं यत्कुर्वतमप्यन्यं समन्वज्ञासिषं मनसा च कायेन चेति तन्मिथ्या मे दुष्कृतमिति ३ यदहमकार्षे यदचीकर यत्कुर्वतमप्यन्य समन्वज्ञासिषं वाचा च कायेन चेति तन्मिथ्या मे दुष्कृतमिति ४ यदहमकार्ष यदचीकरं यत्कुर्वतमप्यन्यं समन्वज्ञासिंघ मनसा च तन्मिथ्या मे दुष्कृतमिति ५ यदहमकार्ष यदचीकरं यत्कुर्वतमप्यन्यं समन्वज्ञासिषं वाचा च तन्मे मिथ्या दुष्कृतमिति ६ यदहमकार्ष यदचीकर यत्कुर्वतमप्यन्यं समन्वज्ञासिषं कायेन च तन्मिथ्या मे दुष्कृतमिति ७ यदहमकार्ष यदचीकरं मनसा वाचा च कायेन च तन्मिथ्या मे दुष्कृतमिति ८ यदहमकार्ष यत्कुर्वतमप्यन्यं समन्वज्ञासिषं मनसा च वाचा च कायेन च तन्मिथ्या मे दुष्कृतमिति ९ यदहमचीकरं यत्कुर्वतमप्यन्यं समन्वज्ञासिषं मनसा च वाचा च कायेन तन्मिथ्या मे दुष्कृतमिति १० यदहमकार्षे यदचीकरं मनसा च वाचा च तन्मिथ्या मे दुष्कृतमिति ११ यदहमकार्ष यत्कुर्वतमप्यन्यं समन्वज्ञासिषं मनसा च वाचा च तन्मिथ्या मे दुष्कृतमिति १२ यदहमचीकरं यत्कुर्वतमप्यन्यं समन्वज्ञासिषं मनसा च वाचा च तन्मे मिथ्या दुष्कृतमिति १३ यदहमकार्ष यदधीकरं मनसा कायेन च तन्मिथ्या मे दुष्कृतमिति १४ यदहमकार्ष यत्कुर्वतमप्यन्यं समन्वज्ञासिषं मनसा च कायेन च तन्मिथ्या मे दुष्कृतमिति १५ यदहमचीकरं यत्कुर्वतमप्यन्यं समन्वज्ञासिषं मनसा च कायेन च तन्मिथ्या मे दुष्कृतमिति १६ यदहमकार्ष यदचीकरं वाचा च कायेन च तन्मिथ्या मे दुष्कृतमिति १७ यदहमकार्ष यत्कुर्वतमप्यन्यं समन्वज्ञासिषं वाचा च कायेन च तन्मिथ्या मे दुष्कृतमिति १८ यदहमचीकर यत्कुर्वतमप्यन्य समन्वज्ञासिषं वाचा च कायेन च तन्मिथ्या मे दुष्कृतमिति १९ यदहमकार्ष यदचीकर मनसा च तन्मिथ्या मे दुष्कृतमिति २० यदहमकार्ष यत्कुर्वतमप्यन्यं समन्वज्ञासिषं मनसा च तन्मिध्या में दुष्कृतमिति २१ यदहमचीकर यत्कुर्वतमप्यन्यं समन्वज्ञासिषं मनसा च तन्मिथ्या मे दुष्कृतमिति २२ यदहमकार्ष यदचीकरं वाचा.च तन्मिथ्या मे दुष्कृतमिति २३ यदहमकार्ष यत्कुर्वतमप्यन्यं समन्वज्ञासिषं वाचा च तन्मिथ्या मे दुष्कृतमिति २४ यदहमचीकरं यत्कुर्वतमप्यन्यं समन्वज्ञासिषं वाचा च तन्मिथ्या मे दुष्कृत २५ यदहमकार्ष यदचीकरं कायेन च तन्मिथ्या मे दुष्कृतमिति २६ यदहमकार्ष यत्कुर्वतमप्यन्य समन्वज्ञासिष कायेन च तन्मिध्या मे दुष्कृतं २७ यदहमचीकरं यत्कुर्वतमप्यन्यं समन्वज्ञासिषं कायेन तन्मिध्या मे दुष्कृतमिति २८ यदहमकार्ष मनसा च वाचा च कायेन च तन्मिथ्या मे दुष्कृतमिति २९ यदचीकरं मनसा च वाचा च कायेन च तन्मिथ्या मे दुष्कृतं ३० यत्कुर्वतमप्यन्यं समन्वज्ञासिषं मनसा च वाचा च कायेन च तन्मिथ्या मे दुष्कृतमिति ३१ यदहमकार्ष ‘मनसा च वाचा च कायेन च तन्मिथ्या मे दुष्कृतमिति ३२ यदहमचीकरं मनसा च वाचा च तन्मिथ्या मे दुष्कृतमिति ३३ यत्कुर्वतमप्यन्यं समन्वज्ञासिषं मनसा च वाचा च तन्मिध्या मे दुष्कृत Page #228 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायांमिति ३४ यदहमकार्ष मनसा च कायेन च सन्मिथ्या मे दुष्कृतमिति ३५ यदहमचीकर मनसा च कायेन च तन्मिथ्या मे दुष्कृतमिति ३६ यत्कृर्वतमप्यन्यं समन्वज्ञासिषं मनसा च कायेन च तन्मिथ्या भे दुष्कृतमिति ३७ यदहमकार्ष वाचा च कायेन च तन्मिथ्या मे दुष्कृतमिति ३८ यदहमचीकरं वाचा च कायेन च तन्मिथ्या मे दुष्कृतमिति ३९ यत्कुर्वतमप्यन्य समन्वज्ञासिषं वाचा च कायेन च तन्मिथ्या मे दुष्कृतमिति ४० यदहमकार्ष मनसा च तन्मिध्या मे दुष्कृतं ४१ यदहमचीकरं मनसा च तन्मिथ्या मे दुष्कृतं ४२ यत्कुर्वतमप्यन्यं समन्वज्ञासिषं मनसा च तन्मिथ्या मे दुष्कृतमिति ४३ यदहमकार्ष वाचा च तन्मिथ्या मे दुष्कृतमिति ४४ यदहमचीकरं वाचा च तन्मिथ्या मे दुष्कृतमिति ४५ तत्कुर्वतमप्यन्यं समन्त्रज्ञासिषं वाचा च तन्मिध्या मे दुष्कृतमिति ४६ यदहमकार्ष कायेन च तन्मिथ्या मे दुष्कृतमिति ४,७. यदहमचीकर कायेन च तन्मिथ्या मे. दुष्कृतमिति ४८ यत्कुर्वतमप्यन्यं समन्वज्ञासिषं कायेन च तन्मिथ्या मे दुष्कृतमिति ४९ । मोहाद्यदहमकार्षे समस्तमपि कर्म तत्प्रतिक्रम्य । आत्मनि चैतन्यात्मनि निष्कर्मणि नित्यमात्मना वर्ते ॥ ११२ ।। इति प्रतिक्रमणकल्पः समाप्तः। न करोमि न कारयामि न कुर्वतमप्यन्यं समनुजानामि मनसा च वाचा च कायेन चेति १ न करोमि न कारयामि नै कुर्वतमप्यन्यं समनुजानामि मनसा च वाचा चेति २ न करोमि न कारयामि न कुर्वतमप्यन्यं समनुजानामि वाचा च कायेन चेति ३ न करोमि न कारयामि न कुर्वतमप्यन्यं समनुजानानि मनसा कायेन चेति ४ न करोमि न कारयामि न कुर्वतमप्यन्यं समनुजानामि मनसा चेति ५ न करोमि न कारयामि न कुर्वतमप्यन्यं समनुजानामि वाचा चेति ६ न करोमि न कारयामि न कुर्वतमप्यन्यं सम्नुजानामि कायेन चेति ७ न करोमि न कारयामि मनसा च वाचा च कायेन चेति ( न करोमि न कुर्वसमप्यन्यं समनुजानामि मनसा च वाचा च कायेन चेति ९ न कारयामि न कुर्वतमप्यन्यं समनुजानामि मनसा च वाचा च कायेन चेति १० न करोमि न कारयामि मनसा च याचा चेति ११ नं करोमि न कुर्वतमप्यन्यं समनुजानामि मनसा च वाचा चेति १२ न कारयामि न कुर्वतमप्यन्यं समनुजानामि मनसा च वाचा चेति १३ न करोमि न कारयामि मनसा च कायेन चेति १४ न करोमि न कुर्वतमप्यन्यं समनुजानामि मनसा च कायेन चेति १५ न कारयामि न कुर्वतमप्यन्यं समनुजानामि मनसा च कायेन चेति. १६ न करोमि न कास्यामि वाचा च कायेन चेति १७ न करोमि न कुर्वतमप्यन्यं समनुजानामि वाचा घ कायेन चेति १८ नं कारयामि न कुर्वतमप्यन्यं समनुजानामि वाचा च कायेन चेति १९ न करोमि न कारयामि मनसा चेति २० न करोमि न कुर्वतमप्यन्यं समनुजानामि मनसा चेति २१ न कारयामि न कुर्वतमप्यन्यं समनुजानामि मनसा चेति २२ न करोमि न कारयामि वाचा चेति २३ न करोमि न कुर्वतमप्यन्यं समनुजानामि वाचा चेति २४ न कारयामि न कुर्वतमप्यन्यं समनुजानामि वाचा चेति २५ न करोमि न कारयामि कायेन चेति २६ न करोमि न कुर्वतमप्यन्यं समनुजानामि कायेन चेति २७ न कारयामि न कुर्वतमप्यन्यं समनुजानामि कायेन चेति २८ न करोमि मनसा च वाचा च कायेन चेति २९ न कारयामि मनसा च वाचा च कायेन चेति ३० न कुर्वतमप्यन्यं समनुजानामि मनसा च वाचा व कायेन चेति ३१ नं करोमि मनसा च वाचा च कायेन चेति ३२ न कारयामि मनसा च वाचा चेति ३३ न कुर्वतमप्यन्यं समनुजानामि मनसा च वाचा चेति ३४ न करोमि मनसा च वाचा चेति. ३५ न कारयामि मनसा च कायेन चेति ३६ न कुर्वतमप्यन्यं समनुजानामि मनसा च कायेन चेति ३७ न करोमि वाचा च कायेन चेति ३८ न कारयामि वाचा च कायेन चेति ३९ न कुर्वतमप्यन्यं समनुजानामि वाचा च कायेन चेति ४० न करोमि मनसा चेति ४१ न कारयामि मनसा चेति ४२ न कुर्वतमप्यन्यं समनुजानामि मनसा चेति ४३ नं करोमि वाचा चेति ४४ न कारयामि वाचा चेति ४५. न कुर्वतमप्यन्यं सम् - १ न करोमि मनसा याचा चति संशोधितं । Page #229 -------------------------------------------------------------------------- ________________ १९७ समयसारप्राभृतं । नुजानामि वाचा चेति ४६ न करोमि कायेन चेति ४७ न कारयामि कायेन चेति ४८ न कुर्वतमप्यन्यं समनुजानामि कायेन चेति ४९ । मोहविलासविजृंभितमिदमुदयत्कर्म सकलमालोच्य । आत्मनि चैतन्यात्मनि निष्कर्माणि नित्यमात्मना वर्ते ॥ ११३ ॥ इत्यालोचनाकल्पः समाप्तः ॥ न करिष्यामि न कारयिष्यामि न कुर्वतमप्यन्यं समनुज्ञास्यामि मनसा च वाचाच कायेन चेति १ न करिष्यामि न कारयिष्यामि न कुर्वतमप्यन्यं समनुज्ञास्यामि मनसा च वाचा चेति २ न करिष्यामि न कारयिष्यामि न कुर्वतमप्यन्यं समनुज्ञास्यामि मनसा च कायेन चेति ३ न करिष्यामि न कारयिष्यामि न कुर्वंतमप्यन्यं समनुज्ञास्यामि वाचा च कायेन चेति ४ न करिष्यामि न कारयिष्यामि न कुर्वतमप्यन्यं समनुज्ञास्यामि मनसा चेति ५ न करिष्यामि न कारयिष्यामि न कुर्वतमप्यन्यं समनुज्ञास्यामि वाचा चेति ६ न करिष्यामि न कारयिष्यामि न कुर्वेतमप्यन्यं समनुज्ञास्यामि कायेन चेति ७ न करिष्यामि न कारयिष्यामि मनसा वाचा च कायेन चेति ८ न करिष्यामि न कुर्वतमप्यन्यं समनुज्ञास्यामि मनसा च वाचा च कायेन च ९ न कारयिष्यामि न कुर्वतमप्यन्यं समनुज्ञास्यामि मनसा च वाचाच कायेन चेति १० न करिष्यामि न कारयिष्यामि मनसा च वाचा चेति ११ न करिष्यामि न कुर्वेतमप्यन्यं समनुज्ञास्यामि मनसा च वाचा चेति १२ न कारयिष्यामि न कुर्वतमप्यन्यं समनुज्ञास्यामि मनसा च वाचा चेति १३ न करिष्यामि न कारयिष्यामि मनसा च कायेन चेति १४ न करिष्यामि नः कुर्वतमप्यन्यं समनुज्ञास्यामि मनसा च कायेन चेति १५ न करिष्यामि न कुर्वतमप्यन्यं समनुज्ञास्यामि मनसा च कायेन चेति १६ न करिष्यमि न कारयिष्यामि वाचा च कायेन चेति १७ न करिष्यामि न कुवैतमप्यन्यं समनुज्ञास्यामि मनसा च कायेन चेति १८ न कारयिष्यामि न कुर्वतमप्यन्यं समनुज्ञास्यामि बाचा च कायेन चेति १९ न करि यामि न कारयिष्यामि मनसा चेति २० नं करिष्यामि न कुर्वतमप्मन्यं समनुज्ञास्यामि मनसा चेति २.१ न कारयिष्यामि न कुर्वतमप्यन्यं समनुज्ञास्यामि मनसा चेति २२ न करिष्यामि न कारयिष्यामि वाचा चिति २३ न करिष्यामि न कुर्वतमप्यन्यं समनुज्ञास्यामि वाचा चेति २४ न कारयिष्यामि न कुर्वतमप्यन्यं समनुज्ञास्यामि वाचा चेति २५ न करिष्यामि न कारयिष्यामि कायेन चेति २६ न करिष्यामि न कुर्वत - मप्यन्यं समनुज्ञास्यामि कायेन चेति २७ न कारयिष्यामि न कुर्वेतमप्यन्यं समनुज्ञास्यामि कायेन चेति २८ न करिष्यामि मनसा वाचा कायेन चेति २९ न कारयिष्यामि मनसा वाचा कायेन चेति ३० न कुर्वतमप्यन्यं जनं समनुज्ञास्यामि मनसा वाचा कायेन चेति ३१ न करिष्यामि मनसा वाचा चेति ३२ न कारयिष्यामि मनसा वाचा चेति ३३ न कुर्वतमप्यन्यं समनुज्ञास्यामि मनसा वाचा चेति ३४ न करिष्यामि मनसा च कायेन चेति ३५ न कारयिष्यामि मनसा च कायेन चेति ३६ न कुर्वतमप्यन्यं समनुज्ञास्यामि मनसा च कायेन चेति ३७ न करिष्यामि वाचा च कायेन चेति ३८ न कारयिष्यामि वाचा च कायेन ति ३९ न कुर्वेतमप्यन्यं समनुज्ञास्यामि वाचाच कायेन चेति ४० न करिष्यामि मनसा चेति ४१ न कारयिष्यामि मनसा चति ४२ न कुर्वतमप्यन्यं समनुज्ञास्यामि मनसा चेति ४३ न करिष्यामि वाचा चेति ४४ न कारयिष्यामि वाचा चेति ४५ न कुर्वतमप्यन्यं समनुज्ञास्यामि वाचा चेति ४६ न करिष्यामि कायेन चेति ४७ न कारयिष्यामि कायेन चेति ४८ न कुर्वेतमप्मन्यं समनुज्ञास्यामि कायेन चेति ४९ प्रत्याख्याय भविष्यत्कर्म समस्तं निरस्तसंमोहः । आत्मनि चैतन्यात्मनि निष्कर्मणि नित्यमात्मना वर्ते ॥ ११४ ॥ . इति प्रत्याख्यानकल्पः समाप्तः । समस्तमित्येवमपास्य कर्म त्रैकालिकः शुद्धनयावलंबी । बिनमा रहितो विकारैश्विन्मात्रमात्मानमथावलंबे ॥ ११५ ॥ Page #230 -------------------------------------------------------------------------- ________________ १९८ सनातनजेनग्रंथमालायांअथ सकलकर्मफलसन्यासभावनां नाटयति । विगतस्तलं तु कर्म विषतरुफलानि मम भुक्तिमंतरेणैव । संचेतयेऽहमचलं चैतन्यात्मानमात्मानं ॥ ११६ ॥ नाहं मतिज्ञानावरणीयकर्मफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये १ नाहं श्रुतज्ञानावरणीयकर्म फलं भुजे चैतन्यात्मानमात्मानमेव संचेतये २ नाहमवधिज्ञानावरणीयकर्मफलं भुजे चैतन्यात्मानमात्मान मेव संचेतये ३ नाहं मनःपर्ययज्ञानावरणीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ४ नाहं केवलज्ञानावरणीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ५ नाहं चक्षुर्दर्शनावरणीयकमफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ६ नाहमचक्षुर्दर्शनावरणीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ७ नाहमवधिदर्शनावरणीयकर्मफलं भुजे चैतन्यात्मानमात्मानमेव सचेतये । नाई केवलदर्शनावरणीयकर्मफलं भुंजे चैतन्यात्मानमात्म.नमेव संचेतये ९ नाहं निद्रादर्शनावरणीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये १० नाहं निद्रानिद्रादर्शनावरणीयकर्मफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ११ नाहं प्रचलादर्शनावरणीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये १२ नाहं प्रचलाप्रचलादर्शनावरणीयकर्मफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये १३ नाहं स्त्यानगृद्धिदर्शनावरणीय कर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये १४ नाहं सातवेदनीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये १५ नाहमसातवेदनीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये १६ नाहं सम्यक्त्वमोहनीयफलं भजे चैतन्यात्मानमात्मानमेव संचेतये १७ नाहं मिथ्यात्वमोहनीयफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये १८ नाहं सम्यक्त्वमिथ्यात्वमोहनीयफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये १९ नाहं अनंतानुबंधिक्रोधकषायवेदनीयफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये २० नाहं अप्रत्याख्यानावरणीयक्रोधकषायवेदनीयमोहनीयफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये २१ नाहं प्रत्याख्यानावरणीयक्रोधवेदनीयमोहनीयफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये २२ नाहं संज्वलनक्रोधकषायवेदनीयमोहनीयकर्मफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये २३ नाह मनंतानुबंधिमानकषायवेदनीयमोहनीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये २४ नाहमप्रत्याख्यानावरणीयमानकषायवेदनीयमोहनीयफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये २५ नाहं प्रत्याख्यानावरणीयमानकषायवेदनीयमोहनीयकर्मफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये २६ नाहं संज्वलन मानकषायवेदनीयमोहनीयफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये २७ नाहमनंतानुबंधिमायाकषाय वेदनीयमोहनीयफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये २८ नाहमप्रत्याख्यानावरणीयमायाकषाय वेदनीयमोहनीयफलं भुंजे चैतन्यात्मानमात्मनमेव संचेतये २९ नाहं प्रत्याख्यानावरणीयमायाकषाय वेदनीयफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ३० नाहं संज्वलनमायाकषायवेदनीयमोहनीयफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ३१ नाहमनंतानुबंधिलोभकषायवेदनीयमोहनीयफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ३२ नाहमप्रत्याख्यानावरणीयलोभकषायवेदनीयमोहनीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचतये ३३ नाहं प्रत्याख्यानावरणीयलोभकषायवेदनीयमोहनीयकर्मफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ३४ नाहं संज्वलनलोभकषायवेदनीयमोहनीयकर्मफलं मुंजे चैतन्यात्मानमात्मानमेव संचेतये ३५ नाहं हास्यनोकषायवेदनीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेक संचेतये ३६ नाहं रतिनोकषायवेदनीयमोहनीयकर्मफलं मुंजे चैतन्यात्मानमात्मानमेव संचेतये ३७ नाहमरातनोकषायवेदनीयमोहनीयफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ३८ नाहं शोकनोकषाय वेदनीयमोहनीयफलं मुंजे चैतन्यात्मानमात्मानमेव संचेतये ३९ नाहं भयनोकषायवेदनीयमोहनीयफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ४० नाहं जुगुप्सानोकषायवेदनीयमोहनीयफलं भुंजे चैतन्यात्मान १ मदखेदखापविनोदाथैः खापो. निदा. अस्या उपर्युपरि वृत्तिनिद्रानिद्रा । २ या क्रिया. आत्मानं प्रचल यति सा प्रचला शोकमदश्रभादसातस्यापि भत्रमात्रीवीक्रयासूत्रिका व पुनरावर्त्तमाना प्रचलाप्रचला । Page #231 -------------------------------------------------------------------------- ________________ समयप्राभृतं । १९९ मात्मानमेव संचेतये ४१ नाहं स्त्रीवेदनोकषायवेदनीयमोहनीयफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ४२ नाहं पुंवेदनोकषायवेदनीयमोहनीयफलं मुंजे चैतन्यात्मानमात्मानमेव संचेतये ४३ नाहं नपुंसकवेदनोकषायवेदनीयमोहनीयफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ४४ नाहं नरकायुःफलं भुजे चैतन्यात्मानमात्मानमेव सचेतये ४५ नाहं तिर्यगायुः फलं भुंजे चैतन्यात्मानमात्मानमेव संचतये ४६ नाहं मानुषायुःफलं भुजे चैतम्यात्मानमात्मानमेय संचेतये ४७ नाहं देवायुःफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ४८ नाहं नरकगतिनामफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ४९ नाहं तिर्यग्गतिनाम फलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ५० नाहं मनुष्यगतिनामफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ५१ नाहं देवगतिनामफलं भुंजे चैतन्यात्मानमात्मानमेव संचतये ५२ नाहमेकेंद्रियनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ५३ नाहं द्वींद्रियजातिनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ५४ नाहं त्रीद्रियजातिनामफलं भुजे चैतन्यात्मानमात्मानमेव संचतये ५५ नाहं चतुरिंद्रियजासिनामफलं भुजे चैतन्यात्मानमात्मानमेव ? संचेतये ५६ नाहं पंचीद्रयजातिनामफलं भुंजे चैतन्यात्मानमात्मानमव संचेतये ५७ नाहमौदारिकादिशरीरनामकर्मफलं भुजे चैतन्यात्मानमात्मानमेव सचेत्ये ५८ नाहं वैक्रियकशरीरनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतपे ५९ नाहमाहारकशरीरनामकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ६० नाहं तैजसशरीनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ६१ नाहं कार्माणशरीरनामफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ६२ नाहमौदारिकशरीरांगो पांगनामफलं भुंजे चैतन्यात्मानमात्मानमेव संचतये ६३ नाहं वैक्रियकशरीरांगोपांगनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ६४ नाहमाहारकशरीरांगोपांग नामफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ६५ नाहमौदारिकशरीरबँधननामफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ६६ नाहं वैक्रियकशरीरबंधननामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ६७ नाहमाहारकशरीरबंधननामकर्मफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ६८ नाहं तैजसशरीरबंधननामफलं भुजे चैतन्यात्मानमात्मानमेव संचतये ६९ नाहं कार्मणशरीरबंधननामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ७० नाहमौदारिकशरीरसंघातनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ७१ नाहं वैक्रियकशरीरसंघातनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ७२ नाहमाहारकशरीरसंघातनामफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ७३ नाहं तैजसशरीरसंघातनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ७४ नाहं कार्माणशरीरसंघातनामफलं भुंजे चैतन्यात्मानमास्मानमेव संचेतये ७५ नाहं समचतुरसंस्थाननामफलं भुजे चैतन्यात्मानमात्मानमेव संचतये ७६ नाहं न्यग्रोधपरिमंडलसंस्थाननामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ७७ नाहं सातिसंस्थाननामफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ७८ नाहं कुब्जसंस्थाननामफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ७९ नाहं वामननामसंस्थाननामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ८० नाहं हुंडकसंस्थाननामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ८१ नाहं ब्रजर्षभनाराचसहनननामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ८२ नाहं बज्रनाराचसहननामफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ८३ नाहं नाराचनामफलं भुजे चैतन्यात्मानमात्मानमेव संचतये ८४ नाहमर्धनाराचसंहनननामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ८५ नाहं कीलिकासहनननामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ८६ नाहमसंप्राप्तसंहनननामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ८७ नाहं निग्धस्पर्शनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ८८ नाहं सूक्ष्मस्पर्शनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ८९ नाहं शीतस्पर्शनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ९० नाहमुष्णस्पर्शनामफलं भुजे चैतन्यात्मानमात्मानमेव सचेतये ९१ नाहं गुरुस्पर्शनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ९२ नाह लघुस्पर्श नामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ९३ नाहं मृदुस्पर्शनामफलं भुजें चैतन्यात्मानमात्मानमेव संचेतये ९४ नाहं कर्कशस्पर्शनामफलं भुमे चैतन्यात्मानमात्मानमेव संचेतये ९५ नाहं मधुररसनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ९६ नाहमम्लरसनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ९७ Page #232 -------------------------------------------------------------------------- ________________ २०० सनातनजैनग्रंथमालायांनाहं तिक्तरसनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ९८ नाहं कटुकरसनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ९९ नाहं कषायरसनामफलं भुजे चैतन्यात्मानमात्मानमेव सचेतये १०० नाहं सुरभिनामगंधफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये १०१ नाहमसुरभिनामगंधफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये १०२ नाहं शुक्लवर्णनामफलं भुजे चैतन्यात्मानमानमेव संचेतये १०३ नाह रक्तवर्णनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये १०४ नाहं पीतवर्णनांमफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये १०५ नाहं हरितवर्णनामफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये १०६ नाहं कृष्णवर्णनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये १०७ नाहं नरकगत्यानुपुर्वानामफलं भुजे चैतन्यात्मानमास्मानमेव संचेतये १०८ नाहं तिर्यग्गत्यानुपुर्वीनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये १०९ नाहं मनुष्यगत्यानुपुर्वीनामफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ११० नाहं देवगत्यानुपुर्वीनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये १११ नाहं निर्माणनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ११२ नाहमगुरुलघुनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ११३ नाहमुपघातनामफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ११४ नाहं परघातनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ११५ नाहमातपनामफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ११६ नाहमुद्योतनामफलं भुंजे चैतन्यात्मानमानमेव संचेतये ११७ नाहमुच्छासनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ११८ नाहं प्रशस्तविहायोगतिनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ११९ नाहमप्रशस्तविहायोगतिनामफलं भुजे चैतम्यात्मानमात्मानमेव संचेतये १२० नाहं साधारणशरिनामफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये १२१ नाहं प्रत्येकनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये १२२ नाहं स्थावरनामफलं भुजे. चैतन्यात्मानमात्मानमेव संचेतये १२३ नाहं त्रसनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये १२४ नाहं सुभगनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये १२५ नाहं दुर्भगनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये १२६ नाहं सुस्वरनामकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये १२७ नाहं दुःस्वरनामफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये १२८ नाहं शुभनामफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये १२९ नाहमशुभनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये १३० नाहं सूक्ष्मशरीरनामफलं मुंजे चैतन्यात्मानमात्मानमेव संचेतये १३१ नाहं वादरशरीरनामफलं भुजे चैतन्यात्मानमात्मानमेव संचतये १३२ नाहं पर्याप्तनामफलं भुजे चैतन्यात्मानमात्मान मेव संचेतये १३३ नाहमपर्याप्तनामफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये १३४ नाहं स्थिरनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये १३५ नाहमस्थिरनामफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये १३६ नाहमादेयनामफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये १३७ नाहमनादेयनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये १३८ नाहं यशःकार्तिनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये १३९ नाहमयशःकीर्तिनामफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये १४० नाहं तीर्थकरत्वनामफलं भुजे चैतन्यात्मानमात्मानमेवं संचेतये १४१ नाहमुच्चैर्गोत्रनामफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये १४२ नाहं नीचे!त्रनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये १४३ नाहं दानांतरायनामफलं भुंजे चैतन्यात्मान मात्मानमेव संचेतये १४४ नाहं लोभांतरायनामफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये १४५ नाहं भोगांतरायनामफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये १४६ नाहमुपभोगांतरायनामफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये १४७ नाहं वीर्यातरायनामफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये १४८ ॥ .. निश्शेषकर्मफलसन्यसनान्ममैव सर्वक्रियांतरविहारनिवृत्तवृत्तेः । चैतन्यलक्ष्म भजतो भृशमात्मतत्त्वं कालावलीयमचलस्य वहत्वनंतं ॥ ११७ ॥ १ खर्वं यत्कियांतरं शुद्ध चेतनातिरिकविभावरूपं न तु विहरण नाम शुद्धसंवित्तः सत्त्वेन भवनं तस्मानिवृत्ता वृत्ति निचेतना यस्य तस्य तथाभूतस्येत्यर्थः । Page #233 -------------------------------------------------------------------------- ________________ समयप्राभृतं । यः पूर्वभावकृतकर्मविषद्रुमाणां भुंक्ते फलानि न खलु स्वत एष तृप्तः । आपातकालरमणीयमुदर्करम्यं निष्कर्मशर्ममयमेति दशांतरं सः ॥ ११८ ॥ अत्यंत भावयित्वा विरतिमविरतं कर्मणस्तत्फलाच्च । प्रस्पष्टं नाटयित्वा प्रलपनमखिलाज्ञानसंचेतनायाः ॥ पूर्ण कृत्वा स्वभावं स्वरसपरिगतं ज्ञानसंचेतनां स्वां । सानंदं नाटयंतः प्रशमरसमित: सर्वकालं पिवंतु ॥ ११९ ॥ इतः पदार्थ प्रथनावगुंठिता विना कृतेरेकमनाकुलं ज्वलत् । समस्तवस्तुव्यतिरेकनिश्चयात् विवेचितं ज्ञानमिहावतिष्ठते ॥ १२० ॥ सेत्थं गाणं ण हवदि जह्मा सत्थं ण याणदे किंचि । ता अण्णं गाणं अण्णं सत्थं जिणा विंति ॥ ४२० ॥ सो गाणं ण हवदि जह्मा सद्दो ण याणदे किंचि । ता अण्णं गाणं अण्णं सद्दं जिणा विंति ॥ ४२१ ॥ रूवं गाणं ण हवदि जह्मा रूवं ण याणदे किंचि । ता अण्णं गाणं अण्णं रूवं जिणा विंति ॥ ४२२ ॥ वो णाणं ण हवदि जसा वण्णो ण याणदे किंचि । ता अण्णं गाणं अण्णं वण्णं जिणा विंति ॥ ४२३ ॥ गंध णाणं ण हवदि जमा गंधो ण याणदे किंचि । ता गाणं अण्णं अण्णं गंधं जिणा विंति ॥ ४२४ ॥ रसो दु होदि णाणं जह्मा दु रसो अदणो णिचं | तह्मा अण्णं णाणं रसं च अण्णं जिणा विंति ॥ ४२५ ॥ फासो गाणं ण हवदि जह्ना फासो ण याणदे किंचि । तह्मा अण्णं णाणं अण्णं फासं जिणा विंति ॥ ४२६ ॥ कम्मं णाणं ण हवदि जह्मा कम्मं ण याणदे किंचि । ता अण्णं गाणं अण्णं कम्मं जिणा विंति ॥ ४२७ ॥ धम्मच्छिओ ण णाणं जा धम्मो ण याणदे किंचि । तला अण्णं गाणं अण्णं धम्मं जिणा विंति ॥ ४२८ ॥ ण हवदि णाणमधम्मच्छिओ जं ण याणदे किंचि । ता अण्णं गाणं अण्णमधम्मं जिणा विंति ॥ ४२९ ॥ २०१ १ स्वर्गादिसुखं हि कर्मजन्यं मोक्षे तु तदभावात् अनाकुलत्वलक्षणशर्मसद्भावाच्च निष्कर्मशमर्मयत्वमिति । २ सच्चमिति पाठ आत्मख्याती । ३ धम्मो णाणं ण हव पाठोयमात्मख्यातौ । ४ णाणमधम्मो ण हवाई जह्मा धम्मो याणए किंचि, आत्मख्यातौ पाठः । २६ Page #234 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायांकालोवि णत्थि णाणं जमा कालो ण याणदे किंचि । तमा ण होदि णाणं जमा कालो अचेदणो णिचं ॥४३०॥ आयासंपि य णाणं ण हवदि जमा ण याणदे किंचि । तमा अण्णायासं अण्णं णाणं जिणा विति ॥ ४३१ ॥ अज्भवसाणं णाणं ण हवदि जमा अचेदणं णिचं । तमा अण्णं णाणं अज्झवसाणं तहा अण्णं ॥ ४३२ ॥ जमा जाणदि णिच्चं तह्मा जीवो दु जाणगो णाणी। णाणं च जाणयादो अव्वदिरित्तं मुणेयव्वं ॥ ४३३ ॥ णाणं सम्मादिट्ठी दु संजमं सुत्तमंगपुवगयं । धम्माधम्मं च तहा पव्वजं अज्झति वुहा ॥ ४३४ ॥ शास्त्रं ज्ञानं न भवति यस्माच्छास्त्रं न जानाति किंचित् । तस्मादन्यज्ज्ञानमन्यच्छास्त्रं जिना वदंति ॥ ४२० ॥ शब्दो ज्ञानं न भवति यस्माच्छब्दो न जानाति किंचित । तस्मादन्यज्ज्ञानमन्यं शब्द जिना वदंति ॥ ४२१॥ रूपं ज्ञानं न भवति यस्मादूपं न जानाति किंचित । तस्मादन्यज्ज्ञानमन्य द्रूपं जिना वदंति ॥ ४२२ ॥ वर्णों ज्ञानं न भवति यस्माद्वों न जानाति किंचित । तस्मादन्यज्ज्ञानमन्यं वर्ण जिना वदंति ॥ ४२३ ॥ गंधो ज्ञानं न भवति यस्माद्धो न जानाति किंचित् । तस्माज्ज्ञानमन्यदन्यं गंधं जिना वदंति ॥ ४२४॥ न रसस्तु भवति ज्ञानं यस्मात्तु रसो अचेतनो नित्यं । तस्मादन्यज्ज्ञानं रसं चान्यं जिना वदति ॥ ४२५ ॥ स्पों ज्ञानं न भवति यस्मात्स्पर्शो न जानाति किंचित । तस्मादन्यज्ज्ञानमन्यं स्पर्श जिना वदंति ॥ ४२६ ॥ कर्म ज्ञानं न भवति यस्मात्कर्म न जानाति किंचित् । तस्मादन्यज्ज्ञानमन्यत्कर्म जिना वदंति ॥ ४२७ ॥ धर्मास्तिकायो न ज्ञानं यस्मादर्मो न जानाति किंचित् । तस्मादन्यज्ज्ञानमन्यं धर्म जिना वदंति ॥ ४२८॥ न भवति ज्ञानमधर्मास्तिकायो यस्मान जानाति किंचित । तस्मादन्यज्ज्ञानमन्यमधर्म जिना वदंति ॥ ४२९ ॥ १ णज्भवमाणं गाणं अज्झवसाणं अचेदणं जमा पाठः खल्वयमात्मख्यातौ । २ संस्कृतच्छायाया अस्यास्तात्पर्य पुत्तिटीकायामप्युल्लेखः तस्याश्चात्मख्यातिच्छाययैव गतार्यत्वानो पार्थक्येनोल्लेखस्तात्पर्यवती कृतः । Page #235 -------------------------------------------------------------------------- ________________ समयप्राभृतं । कालोऽपि नास्ति ज्ञानं यस्मात्कालो न जानाति किंचित् । तस्मान्न भवति ज्ञानं यस्मात्कालोऽचेतनो नित्यं ॥ ४३० ।। आकाशमपि ज्ञानं न भवति यस्मान्न जानाति किंचित् । तस्मादन्याकाशमन्यज्ञानं जिना वदंति ॥ ४३१ ।। अध्यवसानं ज्ञानं न भवति यस्मादचेतनं नित्यं । तस्मादन्यज्ज्ञानमध्यवसानं तथान्यत् ।। ४३२ ।। यस्माज्जानानि नित्यं तस्माज्जीवस्तु ज्ञायको ज्ञानी । ज्ञानं च ज्ञायकादव्यतिरिक्तं ज्ञातव्यं ।।४३३॥ ज्ञानं सम्यग्दृष्टिं तु संयमं सूत्रमंगपूर्वगतं । धर्माधर्म च तथा प्रवज्यामभ्युपयंति बुधाः ॥४३४॥ तात्पर्यवृत्तिः-न श्रुतं ज्ञानं-अचेतनत्वात् ततो ज्ञानश्रुतयोतिरेकः । न शब्दो ज्ञानमचेतनत्वात् ततो ज्ञानशब्दयोर्व्यतिरेकः । न रूपं ज्ञानमचेतनत्वात् ततो ज्ञानरूपयोर्व्यतिरेकः । न वर्णो ज्ञानमचेतनत्वात् ततो ज्ञानवर्णयोर्व्यतिरेकः । न गंधो ज्ञानमचेतनत्वात् ततो ज्ञानगंधयोर्व्यतिरेकः । न रसो ज्ञानमचेतनत्वात् ततो ज्ञानरसयोर्व्यतिरेकः । न स्पर्शो ज्ञानमचेतनत्वात् तता ज्ञानस्पर्शयोतिरकः । न कर्म ज्ञानं अचेतनत्वात् ततो ज्ञानकर्मणोर्व्यतिरेकः । न धर्मो ज्ञानमचेतनत्वात् ततो ज्ञानधर्मयोर्व्यतिरेकः। नाधर्मो ज्ञानमचेतनत्वात् ततो ज्ञानाधर्मयोर्व्यतिरेकः । न कालो ज्ञानमचेतनत्वात् ततो ज्ञानकालयोर्व्यतिरेकः । नाकाशं ज्ञानमचेतनत्वात् ततो ज्ञानाकाशयोर्व्यतिरेकः । नाध्यवसानं ज्ञानमचेतनत्वात् ततो शानाध्यवसानयोर्व्यतिरकः । इत्येवं ज्ञानस्य सर्वैरेव परद्रव्यैः सह व्यतिरेकः निश्चयसाधितो दृष्टव्यः । अथ जीव एवैको ज्ञानं चेतनत्वात् ततो ज्ञानजीवयोरेवाव्यतिरेकः । नच जीवस्य स्वयं ज्ञानत्वात् ततो व्यतिरेकः कश्चनापि शंकनीयः । एवं सति ज्ञानमेव सम्यग्दृष्टिः, ज्ञानमेव संयमः, ज्ञानमेवांगपूर्वरूपं सूत्रं, शानमेव धर्माधर्मों, ज्ञानमेव प्रवृज्येति ज्ञानस्य जीवपर्यायैरपि सहाव्यतिरेकोनिश्चयसाधितो दृष्टव्यः । अथैवं सर्वपरद्रव्यव्यतिरेकेण सर्वदर्शनादिजीवस्वभावाव्यतिरेकेण चातिव्याप्तिमव्याप्तिं च परिहरमाणमनादिविभ्रममूलं धर्माधर्मरूपं परमसमयमुद्दम्य स्वयमेव प्रवृज्यारूपमापाद्य दर्शनज्ञानचारित्रस्थितिस्वरूपं स्वसमयमवाप्य मोक्षमार्गमात्मन्येव परिणतं कृत्वा समवाप्तसंपूर्णविज्ञानघनभावं हानोपादानशून्यं साक्षात्समयसारभूतं परमार्थरूपं शुद्धज्ञानमेकमेवावस्थितं दृष्टव्यं । अन्येन्यो व्यतिरिक्तमात्मनियतं विभ्रत्पृथग्वस्तुतामादानोज्झनशून्यमेतदमलं ज्ञान तथावस्थितं । मध्याद्यंतविभागमुक्तसहजस्फारप्रभाभास्वरः शुद्धज्ञानघनो यथास्य महिमा नित्योदितस्तिष्ठति ॥ २ ॥ उन्मुक्तमुन्मोच्यमशेषतस्तत्तथात्तमादेयमशेषतस्तत् यदात्मनः संहृतसर्वशक्तेः पूर्णस्य संधारणमात्मनीह । तपश्चरणं नयन् केन नयेन एतत्सर्वं ज्ञानं मन्यते ? इति चेत् मिथ्यादृष्टयादिक्षीणकषायपर्यंतस्वकीयस्वकीयगुणस्थानयोग्यशुभाशुभशुद्धोपयोगाविनाभूतविवक्षिताशुद्धनिश्चयनयेनाशुद्धोपादानरूपेणेति । ततः स्थितं शुद्धपारिणामिकपरमभावग्राहकेण शुद्धद्रव्यार्थिकनयेन शुद्धोपादानरूपेण जीवादिव्यावहारिक नवपदार्थेभ्योभिन्नमादिमध्यांतमुक्तमेकमखंडप्रतिभासमयं निजनिरंजनसहजशुद्धपरमसमयसाराभिधानं सर्वप्रकारोपादेयभूतं शुद्धज्ञानस्वभावं शुद्वात्मतत्त्वमेव श्रद्धेयं ज्ञेयं ध्यातव्यमिति । एवं व्यावहारिकनवपदार्थमध्ये भूतार्थनयेन शुद्धजीव एकएव. वास्तवःस्थित इति व्याख्यानमुख्यत्वेन एकादशमस्थले पंचदश गाथा गताः। ___किंच-मत्यादिसंज्ञानपंचकं पर्यायरूपं तिष्ठति शुद्धपारिणामिकभावस्तु द्रव्यरूपः । जीवपदार्थों हि न च केवलं द्रव्यं, न च पर्यायः, किंतु परस्परसापेक्षद्रव्यपर्यायधर्माधर्मभूतो धर्मी । तत्रेदानी केन Page #236 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालायांधर्मेण मोक्षो भवतीति विचार्यते--केवलज्ञानं तावत्फलभूतमग्रे भविष्यति । अवधिमनःपर्ययज्ञानद्वयश्च रुपिश्ववधेः। तदनंतभागे मनः पययस्य इति वचनात्-मूर्तविषयत्वादेव मूर्तः मोक्षकारणं न भवति । ततःसा मादेव बहिर्विषयमतिज्ञानश्रुतज्ञानविकल्परहितत्वेन स्वशुद्धात्माभिमुखपरिच्छित्तिलक्षणं निश्चयनिर्विकल्पभावरूपमानसमतिज्ञानश्रुतज्ञानसंज्ञं पंचेद्रियाविषयत्वेनातींद्रियं शुद्धपारिणामिकभावीवषये तु या भावना तद्रूपं निर्विकारस्वसंवेदनशब्दवाच्यं संसारणां क्षायिकज्ञानाभावात् । क्षायोपशमिकमपि विशिष्टभेद ज्ञानं मुक्तिकारणं न भवति कस्मात् ? इति चेत् समस्तमिथ्यात्वरागादिविकल्पोपाधिरहितस्वशुद्धात्मभावनोत्थपरमाहादैकलक्षण सुखामृतरसास्वादैकाकारपरमसमरसीभावपरिणामेन कार्यभूतस्यानंतज्ञानसुखादिरूपस्य मोक्षफलस्य विवक्षितैकशुद्धनिश्चयनयेन शुद्धोपादानकारणत्वादिति । तथा चोक्तं भेदविज्ञानतः सिद्धाः सिद्धा ये किल के चन। तस्यैवाभावतो बद्धा बद्धा ये किल केचन ॥ १॥ अतः परमेवं सति शुद्धबुद्धकस्वभावपरमात्मतत्त्वस्य देह एव नास्ति कथमाहारो भविष्यत्युपदिशति आत्मख्यातिः-न श्रुतं ज्ञानमचेतनत्वात् ततो ज्ञानश्रुतयोर्व्यतिरेकः । न शब्दो ज्ञानमचेतनत्वात् ततो ज्ञानशब्दयोर्व्यतिरेकः । न रूपं ज्ञानमचेतनत्वात् ततो ज्ञानरूपयोव्यतिरेकः । न वर्णो ज्ञानमचतनत्वात् ततो ज्ञानवर्णयोर्व्यतिरेकः । न गंधो ज्ञानमचेतनत्वात् ततो ज्ञानगंधयोर्व्यतिरेकः । न रसो ज्ञानमचतनत्वात् ततो ज्ञानरसयोर्व्यतिरेकः । न स्पर्शो ज्ञानमचतनत्वात् ततो ज्ञानर्पयोर्व्यतिरेकः । न कर्म ज्ञानमचे तनत्वात् ततो ज्ञानकर्मणोर्व्यतिरेकः।न धर्मो ज्ञानमचेतनत्वात् ततो ज्ञानधर्मयोव्यतिरेकः । नाधर्मो ज्ञानमचेतन त्वात् ततो ज्ञानाधर्मयोर्व्यतिरेकः । न कालो ज्ञानमचेतनत्वात् ततो ज्ञानकालयोर्व्यतिरेकः । नाकाशं ज्ञानमचेतनत्वात् ततो ज्ञानाकाशयोर्व्यतिरेकः। नाध्यवसानं ज्ञानमचतनत्वात् ततो ज्ञानाध्यवसानयोव्यतिरेकः । इत्येवं ज्ञानस्य सर्वैरेव परद्रव्यैः सह व्यतिरेकोनिश्चयसाधितो भवति । अथ जीव एवैको ज्ञानं चेतनत्वात् ततो ज्ञानजीवयोरेवाव्यतिरेकः, नच जीवस्य स्वयं ज्ञानत्वात्ततो व्यतिरेकःकश्चनापि शंकनीयः । एवं तु सति ज्ञानमेव सम्यग्दृष्टिः, ज्ञानमेव संयमः, ज्ञानमेवांगपूर्वरूपं सूत्रं, ज्ञानमेव धर्माधर्मों, ज्ञानमेव प्रवृज्येति ज्ञानस्य जीवपर्यायैरपि सहाव्यतिरेकोनिश्चयसाधितो दृष्टव्यः । ___ अथैवं सर्वव्यव्यतिरेकेण सर्वदर्शनादिजीवस्वभावाव्यतिरेकेण वा अतिव्याप्तिमव्याप्तिं च परिहरमाणम- । नादिविभ्रममूलं धर्माधर्मरूपं परमसमयमुद्दम्य स्वयमेव प्रवृज्यारूपमापाद्य दर्शनज्ञानचरित्रस्थितित्वरूपं समयमैवाप्य मोक्षमार्गमात्मन्येव परिणतं कृत्वा समवाप्तसंपूर्णविज्ञानघनभावं हानोपादानशून्यं साक्षात्समयसारभूतं शुद्धज्ञानमेकमेव स्थितं द्रष्टन्यं । अन्येभ्यो व्यतिरिक्तमात्मनियतं विभ्रत्पृथग्वस्तुतामादानोज्झनशून्यमेतदमलं ज्ञानं तथावस्थितं । मध्याद्यतविभागमुक्तसहजस्फारप्रभावं पुरः शुद्धज्ञानघनो यथास्य महिमा नित्योदितस्तिष्ठति ॥१२१॥ उन्मुक्तमुन्मोच्यामशेषतस्तत्तथात्तमादेयमशेषतस्तत् । यदात्मनः संहृतसर्वशक्तेःपूर्णस्य संधारणमात्मनीह ॥१२२॥ व्यतिरिक्तं परद्रव्यादेवं ज्ञानमवस्थितं । कथमाहारकं तत्स्यायेतदेवाऽस्य शंक्यते ॥१२३॥ अत्ता जस्स अमुत्तो णहु सो आहारओ हवदि एवं । आहारो खलु मुत्तो जमा सो पुग्गलमओ दु ॥४३५॥ णवि सक्कदि घित्तं जे ण मुंचदे चेव जं परं दव्वं । सो कोवि य तस्स गुणो पाउग्गिय विस्ससो वापि ॥४३६॥ १ नाजीवएवैको ज्ञानमेचतनत्वा ततो ज्ञानाजीवयोर्व्यतिरेकः ग पु. पाठः । २ अभिव्याप्य पाठोऽयं ख. पुस्तके । ३ णवि मोत्तुं जं परं दव्वं पाठोयमात्मख्याती । Page #237 -------------------------------------------------------------------------- ________________ २०५ समयसारप्राभृतं । तमा दु जो विसुद्धो चेदा सो णेव गिढदे किंचि । णेव विमुंचदि किंचिंवि जीवाजीवाणदव्वाणं ॥४३७॥ आत्मा यस्यामूर्ती न खलु स आहारको भवत्येवं । आहारः खलु मूर्ती यस्मात्स पुद्गलमयस्तु ॥४३५॥ नापि शक्यते गृहीतुं यन मुंचति चैव यत्परं द्रव्यं । स कोऽपि च तस्य गुणो प्रायोगिको वैस्रो वापि ॥४३६॥ तस्मात्तु यो विशुद्धश्चेतयिता स नैव गृह्णाति किंचित् । नैव विमुंचीत किंचिदपि जीवाजीवयोव्ययोः ॥४७॥ तात्पर्यवृत्तिः -अत्ता जस्स अमुत्तो आत्मा यस्य शुद्धनयस्याभिप्रायेण मूर्तो न भवति णहु सो आहारगो हवदि एवं स एवममूर्तत्वे सति हु स्फुटं तस्य शुद्धनयस्याभिप्रायेणाहारको न भवति । अहारो खल मुत्तो आहारः कथंभूतः ! खलु स्फुटं मूर्तः । जह्मा सो पुग्गलमओ दु यस्मात् स नोकर्माहारः पुद्गलमयः । सो कोविय तस्स गुणो स कोपि तस्य गुणोऽस्त्यात्मनः । कथं ! पाउग्गिय विस्ससो वापि प्रायोगिको वैस्रसिकश्चेति । प्रायोगिकः कर्मसंयोगजनितः । वैस्रसिकः स्वभावजः । येन गुणेन किं करोति ? णवि सक्कदि घित्तुं जे ण मुंचिदं चेव जं परं दव्वं परद्रव्यमाहारादिकं गृहीतुं मोक्तुं च न शक्नोति । अहो भगवन् ! कर्मजनितप्रायोगिकगुणेन आहारं गृहंतस्ते कथमनाहारका भवंति इति । हे शिष्य ! भद्रमुक्तं त्वया परं किंतु निश्चयेन तन्मयो न भवनि स व्यवहारनयः । इदं तु निश्चयव्याख्यानमिति ।। तमादु जो विशुद्धो चेदा यस्मान्नियश्चयनयेनानाहारकः तस्मात्कारणात् यस्तु विशेषेण शुद्धो रागादिरहितश्चेतयितात्मा सोणेव गिद किंचि व विमुंदि किंचिवि जीवाजीवाणदव्वाणं कर्माहार-नोकर्माहार-लेप्याहार-ओजआहार-मानसाहाररूपेण जीवाजीवद्रव्याणां मध्ये सचित्ताचित्ताहारं नैव किंचिद्गृह्णाति न मुंचति । ततः कारणान्नोकर्माहारमयशरीरं जीवस्वरूपं न भवति । शरीराभावे शरीरमयद्रव्यलिंगमपि जीवस्वरूपं न भवति इति । एवं निश्चयेन जीवस्याहारो नास्ति, इति व्याख्यानमुख्यत्वेन द्वादशस्थले गाथात्रयं गतं । अथैवं विशुद्धज्ञानदर्शनस्वभावस्य परमात्मनो नोकर्माहाराद्यभावे सत्याहारमयदेहो नास्ति । देहाभावे देहमयद्रव्यलिंग निश्चयेन मुक्तिकारणं न भवतीति प्रतिपादयति आत्मख्याति:- ज्ञानं हि परद्रव्यं किंचिदपि न गृह्णाति न मुंचति प्रायोगिकगुणसामर्थ्यात् वैस्रसिकगुणसामर्थ्याद्वा ज्ञानेन परद्रव्यस्य गृहीतुं मोक्तुं चाशक्यत्वात् । परद्रव्यं च न ज्ञानस्यामूर्तात्मद्रव्यस्य मूर्तपुद्गलद्रव्यत्वादाहारः ततो ज्ञानं नाहारकं भवत्यतो ज्ञानस्य देहो नाशंकनीयः ।। एवं ज्ञानस्य शुद्धस्य देह एव न विद्यते । ततो देहमयं ज्ञातुर्न लिंगं मोक्षकारणं ॥ १२४ ॥ पाखंडियलिंगाणि य गिहलिंगाणिय वहुप्पयाराणी । घित्तुं वदति मूढा लिंगमिणं मोक्स्वमग्गोत्ति ॥ ४३८॥ णय होदि मोक्खमग्गो लिंगं जं देहणिम्ममा अरिहा । लिंगं मुइत्तु दंसणणाणचरित्ताणि सेवंति ॥४३९॥ Page #238 -------------------------------------------------------------------------- ________________ २०६ समासनजैनग्रंथमालायांपाखंडिलिंगानि च गृहलिंगानि च बहुप्रकाराणि । गृहीत्वा वदंति मूढा लिंगमिदं मोक्षमार्ग इति ॥ ४३८ ।। न तु भवति मोक्षमागों लिंगं यद्देहनैर्ममका अर्हतः। लिंगं मुक्त्वा दर्शनज्ञान चरित्राणि सेवते ॥ ४३९ ॥ तात्पर्यवृत्तिः-पाखंडिलिंगानि गृहस्थलिंगानि बहुप्रकाराण गृहीत्वा वदंति मूढाः । किंवदंति ! इदं द्रव्यमयलिंगमेव मुक्तिकारणं । कथंभूताः संतः ? रागादिविकल्पोपाधिरहितं परमसमाधिरूपं भावलिंगमजानंतः णय होदि मोक्खमग्गो लिंगं भावलिंगरहितं द्रव्यलिंगं केवलं मोक्षमार्गो न भवति कस्मात ? इति चेत्-जं यस्मात्कारणात् देहणिम्ममा अरिहा अहंतो भगवंतो देहनिर्ममाः संतः किं कुर्वति ! लिंगं मुइत्तु लिंगाधारं यच्छरीरं तस्य शरीरस्य मन्ममत्वं तन्मनोवचनकायैर्मुक्त्वा । पश्चात् दसणणाण चरित्ताणि सेवंते सम्यग्दर्शनज्ञानचरित्राणि तानि सेवंते भावयतीत्यर्थः । अथैतदेव व्याख्यानं विशेषेण दृढयति । आत्मख्याति:-केचिद्रव्यलिंगमज्ञानेन मोक्षमार्ग मन्यमानाः संतो मोहेन द्रव्यलिंगमेवोपाददते । तदप्यनुपपन्नं सर्वेषामेव भगवतामहदेवानां शुद्धज्ञानमयत्वे सति द्रव्यलिंगाश्रयभूतशरीरममकारत्यागात् । तदाश्रितद्रव्यलिंगत्यागेन दर्शनज्ञानचरित्राणां मोक्षमार्गत्वेनोपासनस्य दर्शनात् । अथैतदेव साधयति णवि एस मोक्खमग्गो पाखंडी गिहमयाणि लिंगाणि । दंसणणाणचरित्ताणि मोक्खमग्गं जिणा विति ॥ ४४० ॥ नाप्येष मोक्षमार्गः पाखंडिगृहमयानि लिंगानि। दर्शनज्ञानचरित्राणि मोक्षमार्ग जिना वदंति ॥ ४४० ॥ तात्पर्यवृत्तिः–णवि एस मोक्खमग्गो नवैष मोक्षमार्गः । एष कः ? पाखंडिगिहमयाणि लिंगाणि निर्विकल्पसमाधिरूपभावलिंगनिरपेक्षाणि रहितानि यानि पाखंडिगृहिमयानि द्रव्यलिंगानि । कथंभूतानि ? निग्रंथकौपीनग्रहणरूपाणि बहिरंगाकारचिह्नानि । तर्हि को मोक्षमार्गः ? इति चेत् सण. णाणचरित्ताणि मोक्खमरगं जिणा विति शुद्धबुद्धकस्वभाव एव परमात्मतत्त्वश्रद्धानज्ञानानुभूतिरूपाणि सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग जिना वदंति कथयति । यत एवं आत्मख्यातिः - न खलु द्रव्यलिंग मोक्षमार्गः शरीराश्रितत्वे सति परद्रव्यत्वात् । तस्माद्दर्शनज्ञानचारित्राण्येव मोक्षमार्गः, आत्माश्रितत्वे सति स्वद्रव्यत्वात् । यत एवंजमा जहित्तु लिंगे सागारणगारि एहि वा गहिदे । दंसणणाणचरित्ते अप्पाणं जुज मोरखपहे ॥ ४४१ ॥ तस्मात्तु हित्वा लिंगानि सागारैरनगारिकैर्वा गृहीतानि । दर्शनज्ञानचारित्रे आत्मानं युंक्ष्व मोक्षपथे ॥ ४४१॥ तात्पर्यवृत्तिः-तह्मा जहित्तु लिंगे सागारणगारि एहि वा गहिदे यस्मात्पूर्वोक्तप्रकारे सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गे जिनाः प्रतिपादयंति तस्मात्त्यक्त्वा कानि निर्विकारस्वसंवेदनरूपभाव १ चइत्तु अयमपि पाठः। Page #239 -------------------------------------------------------------------------- ________________ २०७ समयसारप्राभृतं । लिंगरहितानि सागारानगारवर्गे : समूह: - गृहीतानि बहिरंगाकारद्रव्यलिंगानि । पश्चात् किं कुरु ! दंसणः णाणचरिते अप्पाणं जुंज मोक्खपहे हे भव्य ! आत्मानं योजय संबंधं कुरुष्व केवलज्ञानाद्यनंतचतुष्टयस्वरूपशुद्धात्मसम्यक्श्रद्धानज्ञानानुष्ठानरूपाभेदरत्नत्रयलक्षणे मोक्षपथे मोक्षमार्गे । अथ निश्चयरत्नत्रयात्मकः शुद्धात्मानुभूतिलक्षणो मोक्षमार्गो मोक्षार्थिना पुरुषेण सेवितव्य इत्युपदिशतिआत्मख्यातिः - यतो द्रव्यलिंगं न मोक्षमार्गः, ततः समस्तमपि द्रव्यलिंगं त्यक्त्वा दर्शनज्ञानचारित्रे व मोक्षमार्गत्वात् आत्मा योक्तव्य इति सूत्रानुमतिः । दर्शनज्ञानचारित्रत्रयात्मा तत्त्वमात्मनः । एक एव सदा सेव्यो मोक्षमार्गे मुमुक्षुणा ॥ १२५ ॥ मुक्खप अप्पाणं ठवेहि वेदयदि झायहि तं चैव । तत्व विहर णिचं माविरहसु अण्णदव्वेसु || ४४२ ॥ मोक्षपथे आत्मानं स्थापय वेदय ध्याय हि तं चैव । ate विहर नित्यं मा विहार्षीरन्यद्रव्येषु ।। ४४२ ॥ तात्पर्यवृत्तिः- मोक्खपद्दे अप्पाणं ठबेहि हे भव्य ! आत्मानं स्थापय क ? शुद्धज्ञानदर्शनस्वभाबात्मतत्वसम्यक्श्रद्धानज्ञानानुचरणरूपाभेदरत्नत्रयस्वरूपे मोक्षपथे । वेदयहि तमेव मोक्षपथं चेतयस्व परमसमरसीभावेन अनुभवस्व झायहि तं चैव तमेव ध्याय निर्विकल्पसमाधौ स्थित्वा भाव । त्व बिहर णिच्चं तत्रैव विहर वर्तनापरिणतिं कुरु । नित्यं सर्वकालं । माविहरसु अण्णदव्वेसु दृष्टश्रुतानु-: भूतभोगाकांक्षारूपनिदानबंधादिपरद्रव्यालंबनात्पन्नशुभाशुभंसकल्पविकल्पेषु मा विहार्षीः, मा गच्छ मा परिणतिं कुर्बिति । अथ सहजशुद्ध परमात्मानुभूतिलक्षणभावलिंगरहिता ये द्रव्यलिंगे ममतां कुर्वति तेऽद्यापि समयसारं न जानतीति प्रकाशयति आत्मख्यातिः - आ संसारात्परद्रव्ये रागद्वेषादौ नित्यमेव स्वप्रज्ञादोषेणावतिष्ठमानमपि स्वप्रज्ञागुणेनैव ततो व्यावर्त्य दर्शनज्ञानचारित्रेषु नित्यमेवात्रस्थापयंति निश्चितमात्मानं । तथा चित्तांतर निरोधेनात्यंतमेकाम्रो भूत्वा दर्शनज्ञानचारित्राण्येव ध्यायस्व । तथा सकलकर्मकर्मफलचेतनासंन्यासेन शुद्धज्ञानचेतना - मयोभूत्वा दर्शनज्ञानचारित्राण्येव चेतयस्व । तथा द्रव्यस्वभाववशतः प्रतिक्षणविजृंभमाणपरिणामतया तन्मयपरिणामो भूत्वा दर्शनज्ञानचारित्रेष्वेव विहर । तथा ज्ञानरूपमेकमेवाचलितमवलंबमानो ज्ञेयरूपेणोपाधितया सर्व एव प्रधावत्स्वपि परद्रव्येषु सर्वेष्वपि मनागपि मा विहार्षीः । एको मोक्षपथो य एष नियतो दृग्ज्ञप्तिवृत्तात्मकस्तत्रैव स्थितिमेति यस्तमनिशं ध्यायेच्च तं चेतति । तस्मिन्नेव निरंतरं विहरति द्रव्यांतराण्यस्पृशन् सोऽवश्यं समयस्य सारमचिरान्नित्योदयं विंदति ॥ १२६॥ ये त्वेनं परिहृत्य संवृत्तिपथप्रस्थापितेनात्मना लिंगे द्रव्यमये च हंति ममतां तत्त्वावबोधच्युताः । नित्योद्योतमखंड मेक मतुलालोकं स्वभावप्रभाप्राग्भारं समयस्य सारममलं नाद्यापि पश्यंति ते ॥१२७॥ पाखंडियलिंगेसु व गिहलिंगेसु व वहुप्पयारेसु । कुव्वंति जे ममत्तिं तेहिं ण णादं समयसारं ॥ ४४३ ॥ पाखंडिलिंगेषु वा गृहिलिंगेषु वा बहुप्रकारेषु । कुर्वेति ये ममतां तैर्न ज्ञातः समयसारः ॥ ४४३ ॥ १ तत्वज्ञान बहिर्भूता इत्यर्थः । Page #240 -------------------------------------------------------------------------- ________________ २०८ सनातनजैनग्रंथमालायांतात्पर्यवृत्तिः-पाखंडियलिंगेसु व गिहलिंगेसु व बहुप्पयारेमु कुव्वंति जे ममत्ति वीतरागस्वसंवेदनज्ञानलक्षणभावलिंगरहितेषु निग्रंथरूपपाखडिद्रव्यलिंगषु कौपीनचिह्नादिगृहस्थलिगेषु बहुप्रकारेषु ये ममतां कुर्वति तेहि ण णादं समयसारं जगत्नयकालत्रयवर्तिख्यातिपूजालाभमिथ्यात्वकामक्रोधादिसमस्तपरद्रव्यालंबनसमुत्पन्नशुभाशुभसंकल्पविकल्परहितः शून्यः चिदानंदैकस्वभावशुद्धात्मतत्त्वसम्यक्श्रद्धानज्ञानानुचरणरूपाभदरत्नत्रयात्मनिर्विकल्पसमाधिसंजातवीतरागसहजापूर्वपरमाह्लादरूपसुखरसानुभवपरमसमरसीभावपरिणामेन सालंबनपूर्णकलशवद्भरितावस्थः केवलज्ञानाद्यनंतचतुष्टयव्याक्तिरूपस्य साक्षा दुपादेयभूतस्य कार्यसमयसारस्योत्पादको योऽसौ निश्चयकारणसमयसारः स खलु तैर्न ज्ञात इति । अथ निर्विकारशुद्धात्मसंवित्तिलक्षणभावलिंगसहितं निर्ग्रथयतिलिंगं कौपीनकरणादिबहुभेदसहितं गृहि लिंगं चेति द्वयमपि मोक्षमार्गो व्यवहारनयो मन्यते । निश्चयनयस्तु सर्वद्रव्यलिंगानि न मन्यत इत्याख्याति आत्मख्यातिः--ये खलु श्रमणोऽहं श्रमणोपासकोऽहमिति द्रव्यलिंगममकारेण मिथ्याहंकारं कुर्वति तेऽनादिरुढ़व्यवहारविमूढाः प्रौदविवेकं निश्चयमनारुदाः परमार्थसत्यं भगवंतं समयसारं न पश्यति । व्यवहारविमूढदृष्टयः परमार्थ कलयंति नो जनाः । तुषबोधविमुग्धबुद्धयः कलयंतीह तुषं न तंदुलं ॥ १२८ ।। द्रव्यलिंगममकारमीलितैः दृश्यते समयसार एव न । द्रव्यलिंगमिह यत्किलान्यतो ज्ञानमेकमिदमेव हि स्वतः ॥ १२९ ॥ ववहारिओ पुण णओ दोण्णिवि लिंगाणि भणदि मोक्खपहे। णिच्छयणओ दु णिच्छदि मोक्खपहे सवलिंगाणि ॥४४४॥ व्यावहारिकः पुनर्नयो द्वे भपि लिंगे भणति मोक्षपथे । निश्चयनयस्तु नेच्छति मोक्षपथे सर्वलिंगानि ॥ ४४४ ॥ तात्पर्यवृत्तिः--चवहरिओ पुण णो दोण्णिवि लिंगाणि भणदि मोक्खपहे व्यावहारिकनयो द्वे लिंगे मोक्षपथे मन्यते । केन कृत्वा ? निर्विकारस्वसंवित्तिलक्षणभावलिंगस्य बहिरंग सहकारिकारणत्वेनेति । णिच्छयणओ दुणेच्छदि मुक्खपहे सम्बलिंगाणि निश्चयनयस्तु निर्विकल्पसमाधिरूपत्रिगुप्तिगुप्तवलेन अहं निर्ग्रथलिंगी, कौपीनधारकोऽहमित्यादि मनसि सर्वद्रव्यविकल्पं रागादिविकल्पवन्नेच्छति । कस्मात् ? स्वयमेव निर्विकल्पसमाधिस्वभावत्वात् इति । किंच-अहो शिष्य ! पाखंडीलिंगाणि य इत्यादि गाथा सप्तकेन द्रव्यलिंगं निषिद्धमेवेति त्वं मा जानाहि किं तु निश्चयरत्नत्रयात्मकनिर्विकल्पसमाधिरूपं भावलिंगरहितानां यतीनां संबोधनं कृतं । कथं ? इति चेत् अहो तपोधनाः ! द्रव्यलिंगमात्रेण संतोषं मा कुरुत किं तु द्रव्यलिंगाधारेण निश्चयरत्नत्रयात्मकनिर्विकल्पसमाधिरूपभावनां कुरुत ।। ननु भवदीयकल्पनेयं, द्रव्यलिंगनिषेधो न कृत इति ग्रंथे लिखितमास्ते णय होदि मोक्खमग्गो लिंगमित्यादि ? नैव णयहोदि मोक्खमग्गो लिंगमित्यादिवचनेन भवलिंगरहितं द्रव्यलिंग निषिद्धं न च भावलिंगसहितं । कथं ? इति चेत् द्रव्यलिंगाधारभूतो योऽसौ देहस्तस्य ममत्वं निषिद्धं । नच द्रव्यलिंगं निषिद्धं । केन रूपेण ? इति चेत् पूर्व दीक्षाकाले सर्वसंगपरित्याग एव कृतो न च देहत्यागः । कस्मात् ? देहधारणध्यानज्ञानानुष्ठानं भवति इति हेतोः। नच देहस्य पृथक्त्वं कर्तुमायाति शेषपरिग्रहवदिति । वीतरागध्यानकाले पुनर्मदीयो देहोऽहं लिंगीत्यादिविकल्पो व्यवहारेणापि न कर्तव्यः । देह निर्ममत्वं कृतं कथं ज्ञायते ? इति चेत् जं देह णिम्ममा अरिहा दंसमणाणचरित्ताणि सेवंते इत्यादि वचननेति । न हि शालितंदुलस्य बहिरंगतुषे विद्यमाने सत्यभ्यंतरतुषस्य त्यागः कर्तुमायाति । Page #241 -------------------------------------------------------------------------- ________________ समयप्राभृत । २०९ अभ्यंतरतुषत्यागे सति बहिरंगतुषत्यागो नियमेन भवत्येव । अनेन न्यायेन सर्वसंगपरित्यागरूपे बहिरंग द्रव्यलिंगे सति भावलिंगं भवति न भवति वा नियमो नास्ति । अभ्यंतरे तु भावलिंगे सति सर्वसंगपरित्यागरूपं द्रव्यलिंगं भवत्येवेति । हे भगवन् भावलिंगे सति बहिरंग द्रव्यलिंगं भवतीति नियमो नास्ति साहारणासाहारणे त्यादि वचनादिति ? परिहारमाह-कोऽपि तपोधनो ध्यानारुढस्तिष्ठति तस्य केनापि दुष्टभावेन वस्त्रवेष्टनं कृतं । आभरणादिकं वा कृतं तथाप्यसौ निग्रंथ एव । कस्मात् ? इति चेत् बुद्धिपूर्वकममत्वाभावात् पांडयादिवत् । येऽपि घटिकाद्वयेन मोक्षं गता भरतचक्रवर्त्यादयस्तेऽपि निग्रंथरूपेणैव । परं किंतु तेषां परिग्रह स्यागं लोका न जानंति स्तोककालत्वादिति भावार्थः । एवं भावलिंगरहितानां द्रव्यलिंगमात्रं मोक्ष कारणं न भवति । भावलिंगसंहितानां पुनः सहकारिकारणं भवतीति व्याख्यानमुख्यत्वेन त्रयोदशस्थले गाथासप्तकं गतं । अत्राह शिष्यः-केवलज्ञानं शुद्धं छमस्थज्ञानं पुनरशुद्धं शुद्धस्य केवलज्ञानस्य कारणं न भवति । कस्मात् ? इति चेत् सुदं तु वियाणतो सुदमेवप्पयं लहदि जीवो इति वचनात् इति ? नैवं छमस्थज्ञानस्य कथंचिच्छुद्धाशुद्धत्वं । तद्यथा यद्यपि केवलज्ञानापेक्षया शुद्धं न भवति तथापि मिथ्यात्वरागादिरहितत्वेन वीतराग सम्यक्त्वचारित्रसहितत्वेन च शुद्धं । अभेदनयेन पुनः छद्मस्थानां संबंधि भेदज्ञानमात्मस्वरूपमेव ततः कारणात्तेनैकदेशव्यक्तिरूपेणापि सकलव्यक्तिरूपं केवलज्ञानं जायते नास्ति दोषः । अथ मतं सावरणत्वात्क्षायोपशमिकत्वाद्वा शुद्धं न भवति तर्हि मोक्षोऽपि नास्ति । कस्मात् ! छमस्थानां ज्ञानं यद्यप्येकदेशेन निरावरणं तथापि केवलज्ञानापेक्षया नियमेन सावरणमेव क्षायोपशमिकमेवेति । अथाभिप्रायः पारिणामिकभाव शुद्धः तेन मोक्षो भविष्यति तदपि न घटते । कस्मात् ? इति चेत् केवलज्ञानात्पूर्व पारिणामिकभावस्य शक्तिमात्रेण शुद्धत्वं न व्यक्तिरूपणेति तथाहि जीवत्वभव्यत्वाभव्यत्वरूपेण त्रिविधोहि पारिणामिकः । तत्र तावदभव्यत्वं मुक्तिकारणं न भवति यत्पुनर्जीवत्वभव्यत्वद्वयं तस्य द्वयस्य तु यदायं जीवो दर्शनचारित्रमोहिनीयोपशमक्षयोपशमक्षयलाभेन वीतरागसम्यग्दर्शनज्ञानचारित्रत्रयेण परिणमति तदा शुद्धत्वं । तच्च शुद्धत्वं-औपशमिकक्षायोपशमिकक्षायिकभावत्रयस्य संबंधि मुख्यवृत्त्या, पारिणामिकस्य पुनर्गौणत्वेनेति । तत्र शुद्धपारिणामिकस्य बंधमोक्षस्य कारणरहितत्वं पंचास्तिकायेऽनेन श्लोकेन भणितमास्ते मोक्षं कुर्वति मिश्रौपशमिकक्षायिकाभिधाः । बंधमौदयिको भावो निष्क्रियः पारिणामिकः ॥ १॥ तत एव स्थितं निर्विकल्पशुद्धात्मपरिच्छित्तिलक्षणं वीतरागसम्यक्त्वचारित्राविनाभूतमभेदनयेन तदेव शुद्धात्मशब्दवाच्यक्षायोपशमिकमपि भावश्रुतज्ञानं मोक्षकारणं भवतीति । शुद्धपारिणामिकभावः पुनरेकदेशव्यक्तिलक्षणायां कथंचिद्भेदाभेदरूपस्य द्रव्यपर्यायात्मकस्य जीवपदार्थस्य शुद्धभावनावस्थायां ध्येयभूतद्रव्यरूपेण तिष्ठति नच ध्यानपर्यायरूपेण, कस्मात् ? ध्यानस्य विनश्वरत्वात् इति । अथेदं शुद्धात्मतत्त्वं निर्विकारस्वसंवेदनप्रत्यक्षेण भावयन्नात्मा परमाक्षयसुख प्राप्नोतीत्युपदिशति आत्मख्यातिः - यः खलु श्रमणश्रमणोपासकभेदेन द्विविधं द्रव्यालिंगम्भवति मोक्षमार्ग इति प्ररूपणप्रकारः स केवलं व्यवहार एव न परमार्थ स्तस्य स्वयमशुद्धद्रव्यानुभवनात्मकत्वे सति परमार्थत्वाभावात् । यदेव श्रमणश्रमणोपासकविकल्पानातक्रांतं दृशिज्ञप्तिप्रवृत्तिमात्रं शुद्धज्ञानमेकमेवैकमिति निस्तुषसंचेतनं परमार्थः, तस्यैव स्वयं शुद्धद्रव्यानुभवात्मकत्वे सति परमार्थकत्वात् ततो ये व्यवहारमेव परमार्थबुद्ध्या चेतयंते ते समयसारमेव न संचेतयंते । य एव परमार्थ परमार्थबुद्ध्या चेतयंते ते एव समयसारं चेतयंते । . Page #242 -------------------------------------------------------------------------- ________________ २१० सनातन जैनग्रंथमालायां भलमलमतिजल्पैर्दुर्विकल्पैरनल्पैरयमिह परमार्थश्चित्यतां नित्यमेकः । स्वरसविसरपूर्णज्ञानविस्फूर्तिमात्रान्न खलु समयसारादादुत्तरं किंचिदस्ति ॥ १२९ ॥ इदमेकं जगच्चक्षुरक्षयं याति पूर्णतां । विज्ञानघनमानंदमयमध्यक्षतां नयत् ॥ १३० ॥ जो समयपाहुड मिणं पठिदूणय अच्छतचदो णादुं । अच्छे ठाहिदि चेदा सो पावदि उत्तमं सुक्खं ॥ १४५॥ यः समयसारप्राभृतमिदं पठित्वा अर्थतत्त्वतो ज्ञात्वा । अर्थे स्थास्यति चेतयिता स प्राप्नोत्युत्तमं सौख्यं || ४ ४५ ॥ तात्पर्यवृत्तिः - श्री कुंदकुंदाचार्यदेवा समयसार प्रथसमाप्तिं कुर्वतः फलं दर्शयति - तद्यथाजो समयपाहुणमिणं पठितॄणय यः कर्ता समयप्राभृताख्यमिदं शास्त्रं पूर्वं पठित्वा न केवलं पठित्वा अस्थ तच्चदो णादुं ज्ञात्वा च कस्मात् ? ग्रंथार्थतः न केवल ग्रंथार्थतः १ तत्त्वता भावपूर्वेण अत्थे ठाहिदि पश्चादुपादेयरूपे शुद्धात्मलक्षणेऽर्थे निर्विकल्पसमाधौ स्थास्यति चेदा सो पावदि उत्तमं सोक्खं सचेतयितात्मा भाविकाले प्राप्नोति लभते । किं लभते ? वीतरागसहजापूर्वपरमाह्लादरूपं आत्मोपादानसिद्धं * स्वयमतिशयवद्वतबाधं विशालवृद्धिहासव्यपेतं विषयविरहितं निःप्रतिद्वंद्वभावं अन्यद्रव्यानपेक्षं निरुपमं, अमितं, शाश्वतं सर्वकालमुत्कृष्टानंतसारं परमसुखं सिद्धस्य जातमिति । अत्राह शिष्यः- हे भगवन् ! अतींद्रियसुखं निरंतरं व्याख्यातं भवद्भिस्तच्च जनैर्न ज्ञायते ? भग`वानाह कोऽपि देवदत्तः स्त्रीसेवनाप्रभृतिपंचेंद्रियविषयव्यापाररहितप्रस्तावे निर्व्याकुलचित्तः, तिष्ठति स केनापि पृष्टः भो देवदत्त ! सुखेन तिष्ठसि त्वमिति ? तेनोक्तं सुखमस्तीति तत्सुखमतींद्रियं कस्मात ! इति चेत् संसारिकसुखं पंचेंद्रियप्रभवं । यत्पुनरतींद्रियसुखं तत्पंचेंद्रियविषयव्यापाराभावेऽपि दृष्टं इदं तावत्सामान्येनातींद्रियसुखमुपलभ्यते । यत्पुनः पंचेद्रियमनोभव समस्त विकल्पजालरहितानां समाधिस्थपरमयोगिनां स्वसंवेदनगम्यमतीन्द्रियसुखं ताद्वशेषेणेति । यच्च मुक्तात्मनामतींद्रियसुखं तदनुमानगम्यमगम्यं च । तथाहि - मुक्तानामिंद्रियविषयव्यापाराभावेऽपि अतींद्रियसुखमस्तीति पक्षः । कस्मात् ? इति चेत् इदानीं तेन विषयव्यापारातीत निर्विकल्पसमाधिरतपरममुनींद्राणां स्वसंवेद्यात्मसुखोपलब्धिरिति हेतुः । एवं पक्षहेतुरूपेण द्वयंगमनुमानं ज्ञातव्यं । आगमे तु प्रसिद्धमेवात्मोपादान सिद्धमित्यादि वचनेन । अतः कारणात् अतींद्रियसुखे संदेहो न कर्तव्य इति । उक्तंच- यद्देवमनुजाः सर्वे सौख्यमक्षार्थसभवं । निर्विशति निराबाधं सर्वाक्षप्रीणनक्षमं ॥ १ ॥ सर्वेणातीतकालेन यच्च भुक्तं महर्द्धिकं । भाविनो ये च भोक्ष्यंति स्वादिष्टं स्वतिरंजकं ॥ २ ॥ अनंतगुणिनं तस्मादत्यक्षं स्वस्वभावजं । एकस्मिन् समये भुक्तं तत्सुखं परमेश्वरः || ३ || एवं पूर्वोक्तप्रकारेण विष्णुकर्तृत्वनिराकरण मुख्यत्वेन गाथासप्तकं । तदनंतरमन्यः करोति अन्योभुंक्ते- इति बौद्धमतैकांतनिराकरण मुख्यत्वेन गाथाचतुष्टयं । ततः परमात्मा रागादिभावकर्म न करोति इति सांख्यमतनिरकरणरूपेण सूत्रपंचकं । ततः परं कर्मैव सुखादिकं करोति न चात्मेति पुनरपि सांख्यमतैकांतनिराकरणमुख्यत्वेन गाथात्रयोदश । तदनंतरं चित्तस्थरागस्य घातः कर्तव्य - इत्यजानन्वहिरंग शब्दादिविषयाणां घातं करोमीति यौऽसो चिंतयति तत्संबोधनार्थ गाथासप्तकं । तदनंतरं द्रव्यकर्म व्यवहारेण करोति भावकर्म निश्चयेन करोतीति मुख्यत्वेन गाथासप्तकं । ततः परं ज्ञानं ज्ञेयरूपेण न परिणमति 1 Page #243 -------------------------------------------------------------------------- ________________ समयप्राभृतं । इति कथनरूपेण सूत्रदशकं । तदनंतरं शुद्धात्मोपलब्धिरूपनिश्चयप्रतिक्रमणप्रत्याख्यानालोचनाचारित्र न्याख्यानमुख्यत्वेन सूत्रचतुष्टयं । तदनंतरं पंचेद्रियविषयनिरोधकथनरूपेण सूत्रदशकं । तदनंतरं कर्मचेतनाकर्मफलचेतनाविनाशरूपेण मुख्यत्वेन गाथात्रयं । ततः परं शास्त्रंद्रियविषयादिकं ज्ञानं न भवतीति प्रतिपादनरूपेण गाथापंचदश । ततः परं शुद्धात्मा कर्मनोकर्माहारादिकं निश्चयेन न गृह्णाति इति व्याख्यानमुख्यत्वेन गाथात्रयं । तदनंतरं शुद्धात्मभावनारूपं भावलिंगनिरपेक्षं द्रव्यलिंग मुक्तिकारणं न भवतीति प्रतिपादनमुख्यत्वेन गाथासप्तकं । तदनतरं मुख्यरूपफलदर्शनमुख्यत्वेन सूत्रमेकं । इति समयसारव्याख्यायां शुद्धात्मानुभूतिलक्षणायां तात्पर्यवृत्तौ समुदायेन षडधिकनवतिगाथाभिस्त्रयोदशाधिकारैः समयसार चूलिकाभिधानो दशमाऽधिकारः समाप्तःआत्मख्याति:-- यः खलु समयसारभूतस्य भवतः परमात्मनोऽस्य विश्वप्रकाशकत्वेन विश्वसमयस्य प्रतिपादनात् स्वयं शब्दब्रह्मायमाणं शास्त्रमिदमीत्य विश्वप्रकाशनसमर्थपरमार्थभूतचित्प्रकाशरूपपरमात्मानं निश्चिन्वन् अर्थतस्तत्त्वतश्च परिच्छिद्य अस्यैवार्थभूतं भगवति एकस्मिन् पूर्णविज्ञानघने परमब्रह्मणि सर्वारभेण स्थास्यति चेतयिता, स साक्षात्तत्क्षणविजृभमाणचिदेकरसनिर्भयस्वभावसुस्थितनिराकुलात्म रूपतया परमानंदशब्दवाच्यमुत्तममनाकुलत्वलक्षणं सौख्यं स्वयमेव भविष्यतीति । इतीदमात्मनस्तत्त्वं ज्ञानमात्रव्यवस्थितं । अखंडमेकमचलं स्वसंवेद्यमबाधितं ॥१३१॥ तात्पर्यवृत्तिः अत्र स्यावादसिद्ध्यर्थं वस्तुतत्वव्यवस्थितिः । उपायोपेयभावश्च मनाग्भूयोऽपि चिंत्यते ॥ चित्यते विचार्यते कथ्यते मनाक् संक्षेपेण भूयः पुनरपि काऽसौ ? वस्तुतत्वव्यवस्थितिः ! वस्तुतत्त्वस्थ वस्तुतत्त्वस्वरूपस्य व्यवस्थितिाख्या । किमर्थं ? स्याद्वादशुद्ध्यर्थं स्याद्वादनिश्चयार्थे । अत्र समयसार म्याख्याने समाप्तिप्रस्तावेन केवलं वस्तुतत्त्वव्यवास्थितिश्चिंत्यते । उपायोपेयभावश्च । उपायो मोक्षमार्गः उपेयो मोक्ष इति । ___ अतः परं स्याद्वादशब्दार्थः कः !-इति प्रश्ने सत्याचार्या उत्तरमाहुः-स्थाकथंचित विवक्षित. प्रकारेणानेकांतरूपेण वदनं वादो जल्पः कथनं प्रतिपादनमिति स्याद्वादः सच स्याद्वादो भगयतोऽर्हतः शासनमित्यर्थः । तच्च भगवतः शासनं किं करोति ! सर्व वस्तु, अनेकांतात्मकमित्यनु शास्ति । अनेकांत इति कोऽर्थः ! इति चेत् एकवस्तुनि वस्तुत्वनिष्पादकं-अस्तित्वनास्तित्वद्वयादिस्वरूपं परस्परविरूद्धसापेक्षशक्तिद्वयं यत्तस्य प्रतिपादने स्यादनेकांतो भण्यते । सचानेकांत: किं करोति ? ज्ञानमात्रो योऽसौ भावो जीवपदार्थः शुद्धात्मा स तदतद्रूप एकानेकात्मकः सदसदात्मको नित्यानित्यादि स्वभावात्मको भवतीति कथयति । तथाहि झानरूपेण तद्रूपो भवति । श्रेयरूपेणातद्रूपो भवति । द्रव्यार्थिकनयेनकः । पर्यायार्थिकनयेनानेकः । स्वद्रव्यक्षेत्रकालभावचतुष्टयेन सद्रूपः । परद्रव्यक्षेत्रकाकभावचतुष्टयेनासद्रूपः । द्रव्यार्थिकनयेन नित्यः । पर्यायार्थिकनयेनाऽनित्यः । पर्यायार्थिकनयेनः भेदात्मकः द्रव्यार्थिकनयेनाभेदात्मको भवतीत्यद्यानेकधर्मात्मक इति । - तदेव स्याद्वादस्वरूपं तु समंतभद्राचार्यदेवैरपि भाणितमास्ते संदकनित्यवक्तव्यास्तद्विपक्षाश्च ये नयाः । सर्वथेति प्रदुष्यंति पुष्यंति स्यादितीह ते ॥ १॥ . सर्वथानियमत्यागी यदादृष्टमपेक्षकः। स्याश्छन्दस्तावके न्याये नान्येषामात्मविद्विषां ॥ २ ॥ Page #244 -------------------------------------------------------------------------- ________________ २११ सनातनजैनग्रंथमालायांअनेकांतोप्यनेकान्तः प्रमाणनयसाधनः । अनकांतः प्रमाणात्ते तदेकांतोऽर्पितान्नयात् ।। ३ ॥ धर्मिणोऽनंतरूपत्वं धर्माणां न कथंचन । अनेकांतोप्यनेकांत इति जैनमतं ततः ॥ ४ ॥ एवं कथंचिच्छब्देन वाचकस्यानेकांतात्मकवस्तुप्रतिपादकस्य स्याच्छब्दस्यार्थः संक्षेपण ज्ञातव्यः । सवमनेकांतव्याख्यानन ज्ञानमात्रभावो जीवपदार्थः एकानेकात्मको जातः। तस्मिन्नेकानेकात्मके जाते. सति ज्ञानमात्रभावस्य जीवपदार्थस्य नयविभागेन भेदाभेदरत्नत्रयात्मकं निश्चयव्यवहारमोक्षमार्गद्वयरूपेणोपायभूतं साधकरूपं घटते । मोक्षरूपेण पुनरुपेयभूतं साध्यरूपं च घटत इति ज्ञातव्यं । अथ प्राभृताध्यात्मशब्दयोरर्थः कथ्यते। तद्यथा-यथा कोऽपि देवदत्तो राजदर्शनार्थ किंचित्सारभूतं वस्तु राजे ददाति तत्प्राभृतं भण्यते। तथा परमात्माराधकपुरुषस्य निर्दोषिपरमात्मराजदर्शनार्थमिदमपि शास्त्रं प्राभृतं । कस्मात् ? सारभूतत्वात् इति प्राभृतशब्दस्यार्थः । रागादिपरद्रव्यनिरालंबनत्वेन निजशुद्धात्मनि विशुद्धाधारभतेऽनुष्ठानमध्यात्मं । इदं प्राभृतशास्त्रं ज्ञात्वा किं कर्तव्यं ? सहजशुद्धज्ञानानंदैकस्वभावोऽहं निर्विकल्पोऽहं, उदासीनोऽहं निजनिरंजनशुद्धात्मसम्यक्श्रद्धानज्ञानानुष्ठानरूपनिश्चयरत्नत्रयात्मकनिर्विकल्पसमाधिसंजातवीतरागसहजानदरूपसुखानुभूतिमात्रलक्षणेन स्वसंवेदनेन संवेद्यो गम्यः प्राप्यो भरितावस्थोऽहं । राग-द्वेष-मोह-क्रोध-मान-माया-लोभ-पचेंद्रियाविषयव्यापार-मनोक्चनकायव्यापार-भावकर्म-द्रव्यकर्म-नोकर्म-ख्याति-पूजा-लाभ-दृष्टश्रुतानुभूतभोगाकांक्षारूपनिदानमाया-मिथ्या-शल्यत्रयादिसर्वविभावपरिणामरहितशून्योऽहं । जगत्त्रयेऽपि कालत्रयेऽपि मनोवचनकायैः कृतकारितानुमतैश्च शुद्धनिश्चयेन तथा सर्वजीवा । इति निरन्तरं भावना कर्तव्या। ____अत्र ग्रंथे प्रचुरेण पदानां सधिन कृता वाक्यानि च भिन्नाभिन्नानि कृतानि सुखबोधार्थ । तेन कारणेन लिंग-वचन-क्रिया-कारक-संधि-समास विशेष्य-विशेषेण-वाक्यसमाप्त्यादिकं दूषणं न ग्राह्यं विवेकिभिः । शुद्धात्मादितत्त्वप्रतिपादनविषये यदज्ञानात् किंचिद्विस्मृतं तदपि क्षमितव्यमिति । जय उरसि पउमणंदी जेण महातच्च पाहुणस्सेलो । वुद्धिसिरेणुद्धरिओ समप्पिओ भव्वलोयस्स ॥ १ जं से लीणा जीवा तरंति संसार सायरमणंतं । तं सव्वजीवसरणं णंदउ जिण सासणं सुइरं ॥ २ ॥ इति श्रीकुंदकुंददेवाचार्यविरचितसमसारमाभृत्ताभिधानग्रंथस्य संबंधिनी दशाधिकारैरेकोनचत्वारिंशदधिकगाथा शतचतुष्टयेन तात्पर्यवृत्तिः समाप्ता ॥ यश्चाभ्यस्यति संशृणोति पठति प्रख्यापयत्यादरात् । तात्पर्याख्यमिदं स्वरूपरसिकैः सर्वर्णितं प्राभृतं । सश्वद्रूपमलं विचित्रसकलं ज्ञानात्मकं केवलं । ___ संप्राप्याप्रपदेऽपि मुक्तिललनारक्तः सदा वर्तते ।। ॥ इति सतात्पर्यवृत्तिसमयसारपाभृतं समाप्तं ।। अत्र स्यावादशुद्ध्यर्थं वस्तुतत्वव्यवस्थितिः । उपायोपेयभावश्च मनाग भूयोऽपि चिंत्यते ॥१॥ ___ स्याद्वादो हि समस्तवस्तुतत्त्वसाधकमेवमेकमस्खलितं शासनमहत्सर्वज्ञस्य । स तु सर्वमनेकांतात्मकमित्यनुशास्ति सर्वस्यापि वस्तुनोऽनेकांतस्वभावत्वात् । अत्र त्वात्मवस्तुनो ज्ञानमात्रतया-अनुशास्यमानेऽपि न Page #245 -------------------------------------------------------------------------- ________________ समयप्राभृतं । २१३ तत्परिदोषः ज्ञानमात्रस्यात्मवस्तुनः स्वयमेवानेकांतत्वात् । तत्र यदेव तत्तदेवातत् यदेवैकं तदेवानेकं यदेव - सप्तदेवासत्यदेव नित्यं तदेवानित्यमित्येकवस्तुवस्तुत्वनिष्पादकं परस्परविरुद्धशक्तिद्वयप्रकाशनमनेकांतः । तत्स्वात्मकवस्तुनो ज्ञानमात्रत्वेऽप्यतश्चकचकायमानज्ञानस्वरूपेण तत्त्वात्, बहिरुन्मिषदनंतज्ञेयतापन्नस्वरूपातिरिक्तपररूपेणातत्त्वात्, सहक्रमप्रवृत्तानंत चिदंशसमुदयरूपाविभागद्रव्येणैकत्वात्, अविभागैकद्रव्यव्याप्तसहक्रमप्रवृत्तानंतचिदंशरूपर्यायैरनेकत्वान् स्वद्रव्यक्षेत्रकालभवभवनशक्तिस्वभाववत्त्वेन सत्त्वात् परद्रव्यक्षेत्रकालभवभवनशक्तिस्वभावत्त्वेनाऽसत्त्वात् अनादिनिधनाविभागकवृत्तिपरिणतत्वेन नित्यत्वात्, क्रमप्रवृत्तैकसमयावच्छिन्नानेकवृत्त्यंशपरिणतत्वेनानित्यत्वात्तत्तत्त्वमेकानेकत्वं सदसत्त्वं नित्यानित्यत्वं च प्रकाशत एव । ननु यदि ज्ञानमात्रत्वेऽपि आत्मवस्तुनः स्वयमेवानेकांतः प्रकाशते तर्हि किमर्थमर्हद्भिस्तत्साधनत्वेनाऽनुशास्यतेऽनेकांतः ?। अज्ञानिनां ज्ञानमात्रात्मवस्तुप्रसिद्ध्यर्थमिति ब्रूमः । न खलु अनेकांतमंतरेण ज्ञानमात्रमात्मवस्त्वेव प्रसिद्ध्यति तथाहि इह हि स्वभावत एव बहुभावनिर्भर विश्वे सर्वभावानां स्वभावेनाद्वैतेऽपि द्वैतस्य निषेद्धुमशक्यत्वात् समस्तमेव वस्तु स्वपररूपप्रवृत्तिव्यावृत्तिभ्यामुभयभावाध्यासितमेव । तत्र यदायं ज्ञानमात्रो भावः शेषभावैः सह स्वरसभरप्रवृत्तज्ञातृज्ञेय संबंधतयाऽनादिज्ञेय परिणमनात् ज्ञानत्वं पररूपेण प्रतिपद्याज्ञानी भूस्वा तमुपैति । तदा स्वरूपेण तत्त्वं द्योतयित्वा ज्ञातुत्वेन परिणमनाज्ज्ञानी कुर्वन्ननेकांत एव तमुद्गमयति १ । यदा तु सर्वं वै खल्विदमात्मेति अज्ञानत्वं ज्ञानस्वरूपेण प्रतिपद्य विश्वोपादानेनात्मानं नाशयति तदा पररूपेणातत्त्वं द्योतयित्वा विश्वाद्भिन्नं ज्ञानं दर्शयन् अनेकांत एव नाशयितुं न ददाति २ । यदानकज्ञेयाकारैः खंडितसकलैकञ्चानाकारो नाशमुपैति तदा द्रव्येणैकत्वं द्योतयन् अनेकांत एव तमुज्जीवयतीति ३ । यदा त्वेकज्ञानाकारोपादानायानेकज्ञेयाकारत्यागेनात्मानं नाशयति तदा पर्यायैरनेकत्वं द्योतयन् अनेकांत एव नाशयितुं न ददाति ४ । यदा ज्ञायमानपरद्रव्यपरिणमनाद् ज्ञातृद्रव्यं परद्रव्यत्वेन प्रतिपद्य नाशमुपैति तदा स्वद्रव्येण सत्त्वं द्योतयन् अनेकांत एव तमुज्जीवयति ५ । यदा तु सर्वद्रव्याणि अहमेवेति परद्रव्यं ज्ञातृद्रव्यत्वेन प्रतिपाद्यात्मानं नाशयति तदा परद्रव्येणासत्त्वं द्योतयन् अनेकांत एव नाशयितुं न ददाति ६ । यदा परक्षेत्रगतज्ञेयार्थपरिणमनात् परक्षेत्रेण ज्ञानं सत् प्रतिपद्य नाशमुपैति तदा स्वक्षेत्रेणास्तिकं द्योतयन्ननेकांत एव तमुज्जीवयति ७। यदा तु स्वक्षेत्रे भवनाय परक्षेत्रे ज्ञेयाकारत्यागेन ज्ञानं तुच्छीकुर्वन्नात्मानं नाशयति तदा स्वक्षेत्र एव ज्ञानस्य परक्षेत्रगत ज्ञेयाकारपरिणमनस्वभावत्वात्परक्षेत्रेण नास्तित्वं द्योतयन् अनेकांत एव नाशयितुं न ददाति । ८ । यदा पूर्वलंबितार्थविनाशकाले ज्ञानस्यासत्त्वं प्रतिपद्य नाशमुपैति तदा स्वकालेन सत्त्वं द्योतयन्ननेकांत एव तमुज्जीवयति । ९ । यदा त्वर्थालंबनकाल एव ज्ञानस्य सत्त्व प्रतिपद्यात्मानं नाशयति तदा परकालेनासत्त्वं द्योतन्ननेकांत एव नाशयितुं न ददाति १०। यदा ज्ञायमानपरभावपरिणमनात् ज्ञायकभावं परभावत्वेन प्रतिपद्य नाशमुपैति तदा स्वभावेन सत्त्वं द्योतयन् अनेकांत एव तमुज्जीवयति ११ यदा तु सर्वे भावा अहमेवेति परभावं ज्ञायकभावत्वेन प्रतिपाद्यात्मानं नाशयति तदा परभावं द्योतयन्ननेकांत एव नाशयितुं न ददाति १२ यदाऽनित्यज्ञानविशेषैः खंडितनित्यज्ञानसामान्यो नाशमुपैति तदा ज्ञानसामान्यरूपेण नित्यत्वं द्योतयन्ननेकांत एव नाशयितुं न ददाति १३ यदा तु नित्यज्ञान सामान्योपादानायानित्यज्ञान विशेषत्यागेनात्मानं नाशयति तदा ज्ञानविशेषरूपेणानित्यत्वं द्योतयन्ननेकांत एवं तं नाशयितुं न ददाति १४ । भवति चात्र श्लोकाः बाह्यार्थैः परिपातमुज्झितनिजप्रव्यंक्तिरिक्तभिवद्विश्रांतं पररूप एव परितो ज्ञानं पशोः सीदति । यत्तत्तत्तदिह स्वरूपत इति स्याद्वादिनस्तत्पुनर्दूरान्मग्नघनस्वभाव भरतः पूर्णः समुन्मज्जति ॥ १३२ ॥ विष्वं ज्ञानमिति प्रतर्क्य सकलं दृष्ट्रा स्वतत्त्वाशया भूत्वा विश्वमयः पशुः पशुरिव स्वच्छंद माचेष्टते । तत्तत्तत्पररूपतो न तदिति स्याद्वाददर्शी पुनर्विश्वाद्भिन्नमविश्वविश्वपरितं तस्य स्वतत्त्वं स्पृशेत् ॥ १३३ ॥ बाह्यार्थग्रहणस्वभावभरतो विश्वग्विचित्रोल्लसज्ज्ञेयाकारविशीर्णशक्तिरभितस्त्रुटयन् पशुर्नश्यति । एकं द्रव्यतया सदाप्युदितया भेदभ्रमं ध्वंसयन्नेकं ज्ञानमबाधितानुभवन पश्यत्यनेकांतवित् ॥१३४॥ १ यत्किमपि पाठः ख, पुस्तके | Page #246 -------------------------------------------------------------------------- ________________ २१४ सनातनजैनग्रंथमालायांज्ञेयाकारकलंकमेचकचितिप्रक्षालनं कल्पयन्नेकाकारचिकिर्षया स्फुटमपि झानं पशुर्नेच्छेति । वैचित्र्येप्यविचित्रतामुपगतं ज्ञानं स्वतः क्षालित पर्यायस्तदनेकतां परिमृशन पश्यत्यनेकांवित् ॥१३५॥ . प्रत्यक्षालिखितस्फुटस्थिरपरद्रव्यास्तितावंचितः स्वद्रव्यानवलोकनेन परितः शून्यः पशुनंश्यति । स्वद्रव्यास्तितया निरूप्य निपुणं सद्यः समुन्मजता स्याद्वादी तु विशुद्धबोधमहसा पूर्गोभवन् जीवति॥१६॥ सर्वद्रव्यमयं प्रपद्य पुरुषं दुर्वासनावासितः स्वद्रव्यभ्रमतः पशुः किल परद्रव्येषु विश्राम्यति । स्याद्वादी तु समस्तवस्तुषु परद्रव्यात्मना नास्तितां जानन्निर्मलशुद्धबोधमहिमा स्वद्रव्यमेघाश्रयेत् ॥१३७॥ भिन्नक्षेत्रनिषण्णबोध्यनियतव्यापारनिष्ठः सदा सीदत्येव बहिः पतंतम भतः पश्यन्युमसि पशुः । स्वक्षेत्रास्तितया निरुद्धरभसः स्याद्वादवेदी पुनस्तिष्ठत्यात्मनि खातबोध्यनियतव्यापारशक्तिर्भवन् ॥१३॥ स्वक्षेत्रस्थितये पृथग्विधपरक्षत्रस्थितार्थोज्झना तुच्छीभूय पशुः प्रणश्यति चिदाकारान्महाथैर्वमन् । स्याद्वादी तु वसन् स्वधामिनि परक्षेत्रे विदन्नास्तितां त्यक्तार्थोऽपि न तुच्छतामनुभवत्याकारकर्षी परान्॥१३९।। पूर्वालंबितबोध्यनाशसमये ज्ञानस्य नाशं विदन् सीदत्येव न किंचनापि कलयन्नत्यंततुच्छः पशुः । अस्तित्वं निजकालतोऽस्य कलयन् स्याद्वादवेदी पुनः पूर्णस्तिष्ठति बाह्यवस्तुषु मुहुर्भूत्वा विनश्यत्यपि।।१४०॥ अर्यालंबनकाल एव कलयन् ज्ञानस्य सत्त्वं बहिर्जुयालंबनलालसेन मनसा भ्राम्यन् पशुनश्यति । नास्तित्वं परकालतोऽस्य कलयन् स्याद्वादवेदी पुनस्तिष्ठत्यात्मनिखातनित्यसहजज्ञानकपुंजीभवन् ॥१४१॥ विश्रांतः परभावभावकलनान्नित्यं बहिर्वस्तुषु नश्यत्येव पशुः स्वभावमहिमन्येकांतनिश्चेतनः । सर्वस्मान्नियतस्वभावभवनाज्ज्ञानाद्विभक्तोभवन् स्याद्वादी तु न नाशमेति सहजस्पष्टीकृतप्रत्ययः ॥१४२॥ अध्यास्यात्मनि सर्वभावभवनं शुद्धस्वभावच्युतः सर्वत्रापनिवारितो गतभयः स्वैरं पशुः क्रीड़ति । स्याद्वादी तु विशुद्ध एव लसति स्वस्य स्वभाव भरादारूढः परभावभावविरहव्यालोकनिष्कंपितः ।।१४३॥ प्रादुर्भावविराममुद्रितवहन् ज्ञानाशनानात्मतानिर्ज्ञानात्क्षणभंगसंगपतितः प्रायः पशुर्नश्यति । स्याद्वादी तु चिदात्मना परिमृशंश्चिद्वस्तु नित्योदितं टंकोत्कीर्णधनस्वभावमहिमज्ञानं भवन् जीवति ।।१४४।। टंकोत्कीर्णविशुद्धोधविसराकारात्मतत्त्वाशया वांछत्युच्छलदच्छवित्परिणतेभिन्नः पशुः किंचन । ज्ञानं नित्यमनित्यता परिगमेऽप्यासादयत्युज्ज्वलं स्याद्वादी तदनित्यतां परिमृशंश्चिद्वस्तुवृत्तिकमात् ॥१४॥ इत्यज्ञानविमूढानां ज्ञानमात्रं प्रसाधयन् । आत्मतत्त्वमनकांतः स्वयमेवानुभूयते ॥ १४६ ॥ एवं तत्त्वव्यवस्थित्या स्वं व्यवस्थापयन् स्वयं । आलंब्य शासनं जैनमनकांतो व्यवस्थितः ॥ १४७ ॥ नन्यनकांतमयस्यापि किमर्थमत्रात्मनो ज्ञानमात्रतया व्यपदेशः ! लक्षणप्रसिद्ध्या लक्ष्यप्रसिद्ध्यर्थे । आत्मनो हि ज्ञानं लक्षणं तदसाधारणगुणत्वात्तन ज्ञानप्रसिद्ध्या तल्लक्ष्यस्यात्मनः प्रसिद्धिः । ननु किमनया लक्षणप्रसिद्ध्या लक्ष्यमेव प्रसाधनीयं नाप्रसिद्धलक्षणस्य लक्ष्यप्रसिद्धिः ? प्रसिद्धिलक्षणस्यैव तत्प्रसिद्धः । ननु किं तल्लक्ष्यं यज्ज्ञान प्रसिद्ध्या ततो भिन्नं प्रसिद्धयति न ज्ञानाद्भिनं लक्ष्यं ज्ञानात्मनोव्यत्वेनाप्रसिद्धत्वात् तर्हि किं कृतो लक्षणविभागः? प्रसिद्धप्रासाभ्यमानत्वात् कृतः । प्रसिद्ध हि ज्ञानं ज्ञानमात्रस्य स्वसंवेदनसिद्धत्वात् तेन प्रसिद्धेन प्रसाध्यमानस्तदविनाभूतानंतधर्मसमुदयमूर्तिरात्मा ततो ज्ञानमात्राचलितनिखातया दृष्टया क्रमाक्रमप्रवृत्तं तदविनाभूतं अनंतधर्मज्ञानं यद्यावलक्ष्यते तत्तावत्समस्तमेवैकः खल्वात्मा एतदर्थमेवात्रास्य ज्ञानमात्रतया व्यपदेशः । . ननु क्रमाक्रमप्रवृत्तानंतधर्ममयस्यात्मनः कथं ज्ञानमात्रत्वं परस्परव्यतिरिक्तानंतधर्मसमुदायपरिणैतकज्ञप्तिमात्रभावरूपेण स्वयमेव भवनात् अत एवास्य ज्ञानमात्रैकभावांतःपातिन्योऽनताः शक्तयः उत्प्लवंते । आत्मद्रव्यहेतुभूतचैतन्यमात्रभावधारणलक्षणा जीवत्वशक्तिः । अजडत्वात्मिका चितिशक्तिः । अनाकारोपयोगमयी दृष्टिशक्तिः । साकारोपयोगमयी ज्ञानशक्तिः । अनाकुलत्वलक्षणा सुखशक्तिः । स्वरूपनिर्वतनसामर्थ्यरूपा वार्यशक्तिः । अखंडितप्रतापस्वातंत्र्यशालिवलक्षणा प्रभुत्वशक्तिः । सर्वभावव्यापकैकरूपा विभुत्वशाक्तिः । विश्वविश्वसामान्यभावपरिणात्ममयी सर्वदर्शित्वशक्तिः । विश्वविश्वविशेषभावपरिणात्मज्ञानमयी Page #247 -------------------------------------------------------------------------- ________________ समयप्राभृतं । २१५ सर्वज्ञत्वशक्तिः । नरूिपात्मप्रदेश प्रकाशमान लोकाकारमेचकोपयोगलक्षणा स्वच्छत्वशक्तिः । स्वयंप्रकाशमान बिशदस्वसंवित्तिमयी प्रकाशशक्तिः । क्षेत्रकालानवच्छिन्नचिद्विलासात्मिकाऽसंकुचितविकाशत्वशक्तिः । अन्या- . क्रियमाणाऽन्याकारकैकद्रव्यात्मिका अकार्यकारणशक्तिः । परात्मनिमित्तकज्ञेयज्ञानाकारग्राहणग्रहणस्वभावरूपा परिणम्यपरिणामकत्वशक्ति । अन्यूनातिरिक्तस्वरूपनियतरूपा त्यागोपादानशून्यत्वशक्तिः । षट्स्थानपतितवृद्धिहानिपरिणतस्वरूपप्रतिष्ठत्वकारणविशिष्टगुणात्मिका - अगरूलघुत्वशक्तिः । क्रमाक्रमवृत्तिवृत्तित्वलक्षणोत्पादव्ययवत्वशक्तिः । द्रव्यस्वभावभूतधाव्यन्ययोत्पादलिंगित सदृशविसदृश रूपैकाऽस्तित्वमात्रमयी परिणामशक्तिः । कर्मबंधव्यपगमत्र्यंजित सहजस्पर्शादिशून्यात्मप्रदेशात्मिका अमूर्तत्वशक्तिः । सकलकर्मकृत ज्ञातृत्वमात्रातिरिक्तपरिणामकरणोपरमात्मिका अकर्तृत्वशक्तिः । सकलकर्मकृतज्ञातृत्वमात्रातिरिक्तपरिणामानुभवोपरमात्मिका अभोक्तृत्वशक्तिः । सकलकर्मोपरमप्रवृत्तात्मप्रदेश नैष्पद्यरूपा निष्क्रियत्वशक्तिः । आसंसार संहरणविस्तरणलक्षितकिंचिदूनचरमशरीर परिणामावस्थितलोकाकाशसम्मितात्मावयवत्वलक्षणा नियतप्रदेशत्वशक्तिः । सर्वशरीरकस्वरूपात्मिका स्वधर्मव्यापकत्वशक्तिः । विलक्षणानंतस्वभावभावितैकभावलक्षणानंत धर्मःवशक्तिः । तदतद्रूपमयवलक्षणा विरुद्धधर्मशक्तिः । तद्रूपभवनरूपा तत्त्वशक्ति: । अतद्रूपाऽभवनरूपा अतत्त्वशक्तिः । अनेकपर्यायव्यापकैकद्रव्यमयत्वरूपा एकत्वशक्तिः । एकद्रव्यव्याप्यानेकपर्यायमयत्वरूपा अनेकत्वशक्तिः । भूतावस्थत्वरूपा भावशक्तिः । शून्यावस्थत्वरूपाऽभावशक्तिः । भवत्पर्यायभवनरूपा भावाभावशक्तिः । अभवत्पर्यायाऽभवनरूपाऽभाव भावशक्तिः । कारकानुगतक्रियाभिनिष्क्रांतभवनमात्रमयी भावशक्तिः । कारकानुगतभवत्ता रूपभावगत क्रियामयी क्रियाशक्तिः । प्राप्यमाणसिद्धरूपभावमयी कर्मशक्तिः । भवत्तारूपसिद्धरूपभावभविकत्वमयी कर्तृशक्तिः । भवद्भावभवन साधकतमत्वमयी करणशक्तिः । स्वयं दीयमानभावोपेयत्वमयी संप्रदानशक्तिः । उत्पादव्ययालिंगितभावापायनिरपायध्रुवत्वमयी अपादानशक्तिः । भाग्यमानभावाधारत्वमयी अधिकरणशक्तिः । स्वभावमात्रस्वस्वामित्वमयी संबंधशक्तिः । इत्याद्यनेकनिजशक्ति सुनिर्भरोऽपि यो ज्ञानमात्रमयतां न जहाति भावः । एकं क्रमाक्रमविवर्तिविवर्तचित्रं तद्द्रव्यपर्ययमयं चदिहास्ति वस्तु ॥ १४८ ॥ "नैकांतसंगतदृशा स्वयमेव वस्तु तत्त्वव्यवस्थितिमिति प्रविलोकयतः । स्याद्वादशुद्धिमांधकामधिगम्य संतो ज्ञानीभवंति जिननीतिमलंघयंतः ॥ १४९ ॥ अथास्योपायोपेयभावश्चित्यते । आत्मवस्तुनो हि ज्ञानमात्रत्वे ऽप्युपायोपेयभावो विद्यत एव । तस्यैकस्यापि स्वयं साधकसिद्धरूपाभयपरिणामित्वात् । तत्र यत्साधकं रूपं स उपायः । यत्सिद्धं रूपं स उपेयः । अतोऽस्यात्मनोऽनादिमिथ्या दर्शनज्ञानचरित्रैः स्वरूपप्रच्यवनात्संसरतः सुनिश्चल परिगृहीतव्यवहारसम्यग्दर्शन चारित्रपाकप्रकर्षपरंपरया क्रमेण स्वरूपमारोप्यमाणस्यांतर्मग्ननिश्चय सम्यग्दर्शनज्ञानचरित्र विशेषतया साधकरूपेण तथा परमप्रकर्ष मैकरिकाधिरूढरत्नत्रयातिशयप्रवृत सकलकर्मक्षयप्रज्वलितास्रवलितविमलस्वभावभावतया सिद्धरूपेण च स्वयं परिणममानज्ञानमात्रमेकमैवोपायोपेयभावं साधयति । एवमुभयत्रापि ज्ञानमात्रस्यानन्यतया नित्यमस्वलितैकत्रस्तुनो निष्कंपपरिग्रहणात् तत्क्षण एवं मुमुक्षूणामासंसारालब्धभूमिकानामपि भवति भूमिकालाभः । ततस्तत्र नियदुर्ललितास्ते स्वत एव क्रमाक्रमवृत्तानेकांतमूर्तयः साधकभाव संभवपरमप्रकर्षको टिसिद्धिभाव भाजनं भवति । ये तु मामतन तानेकांतज्ञानमात्रकभावरूपां भुमिमुपलभते ते नित्यमज्ञानिनो भवंतो ज्ञानमात्र भावस्य स्वरूपेणाभवनं पररूपेण भवनं पश्यंतो जानतोऽनुचरंतश्च मिध्यादृष्टयो मिथ्याज्ञानिनो मिथ्याचरित्राश्च भवतोऽन्यतमुपायेोपेयभ्रष्टा विभ्रमत्येव । ये ज्ञानमात्रनिजभावमयीमकंपां भूमिं श्रयंति कथमप्यपनीतमोहाः । साधकत्वमधिगम्य भवंति सिद्धा मूढास्त्वमूमनुपलभ्य परिभ्रमति ॥ १५० ॥ स्याद्वाद कौशलसुनिश्चलसंयमाभ्यां यो भावयत्यहरहः स्वमिहोपयुक्तः । १ मकर। एव मकरिका मर्यादा - इत्यर्थः । Page #248 -------------------------------------------------------------------------- ________________ सनातन जनग्रंथमालायां ज्ञानक्रियानयपरस्परतीत्रमैत्रीपात्रीकृतः श्रयति भूमिमिमां स एकः ॥ १५१ ॥ चित्पिंडचंडिमविलासिबिकासहास शुद्धप्रकाशभर निर्भरसुप्रभातः । आनंदसुस्थितसदास्वलितैकरूपस्तस्यैव चायमुदयत्यचलार्चिरात्मा ॥ १५२ ॥ स्याद्वाददीपितलसन्महसि प्रकाशशुद्धस्वभाव महिमन्युदिते मयीति । किं बंधमोक्षपथपातिभिरम्यभावनित्योदयं परमयं स्फुरतु स्वभावः ।। १५३ ।। चित्रात्मशक्तिसमुदायमयोऽयमात्मा सद्यः प्रणश्यति नयेक्षेणखंड्यमानः । तस्मादखंडमनिराकृतंखडमेकमेकांतशांतमचलं चिदहं महोऽस्मि ॥ १५४ ॥ न द्रव्येण खंडयामि । न क्षेत्रेण खंडयामि । न भावेन खंडयामि । सुविशुद्ध एको ज्ञानमात्रभाबोऽस्मि । योऽयं भावो ज्ञानमात्रोऽहमस्मि ज्ञेयो ज्ञेयः ज्ञानमात्रः स नैव । ज्ञेयो ज्ञेयज्ञानकल्लोलवेलान् ज्ञानज्ञयज्ञातृमद्वस्तुमात्रं ॥ १५५ ॥ कचिलसति मेचकं क्वचिन्मेचका मेचकं क्वचित्पुनरमेचकं सहजमेव तत्त्वं मम । तथापि न विमोहत्यमलमेधसां तन्मनः परस्परसुसंहतप्रकटशक्तिचक्रं स्फुरत् ॥ १५६ ।। इतो गतमनेकतां दधदितः सदाप्येकतामितः क्षणविभंगुरं ध्रुवमितः सदैवोदयात् । इतः परमविस्तृतं धृतमितः प्रदेशैर्निजैरहो सहजमात्मनस्तदिदमद्भुतं वैभवं ॥ १५७ ॥ कषायकलिरेकत स्खलति शांतिरस्त्येकतो भवोपहतिरेकतः स्पृशति मुक्तिरप्येकतः । जगत्त्रितयमेकतः स्फुरति चिच्चकास्त्येकतः स्वभावमहिमात्मनो विजयते द्रुतादद्भुतः ॥ १५८ ॥ जयति सहजपुंजः पुंजमज्जत्त्रिलोकी स्खलद खिलविकल्पोऽप्येक एक स्वरूपः । स्वरसविसरपूर्णाच्छिन्नतत्त्वोपलंभः प्रसभनियमितार्चिचिचमत्कार एषः ॥ १५९ ॥ अविचलितचिदात्मन्यात्मनात्मानमात्मन्यनवरत निमग्नं धारयदूध्वस्तमोहं । मुदितममृतचद्रज्योतिरेतत्समंताज्ज्वलतु विमलपूर्ण निःसपत्नस्वभावं ॥ १६० ॥ मुक्तामुक्तैकरूपो यः कर्मभिः संविदादितः । अक्षयं परमात्मानं ज्ञानमूर्तिं नमाम्यहं ॥ १६९ ॥ २१६ अथ द्रव्यस्यादेशवशेनोक्तां सप्तभंगी मवतारयाम : स्यादस्ति द्रव्यं १ स्यान्नास्ति द्रव्यं २ स्यादस्ति नास्ति च द्रव्यं ३ स्यादवक्तव्यं द्रव्यं ४ स्यादस्ति चावक्तव्यं च द्रव्यं ५ स्यान्नास्ति चावक्तव्यं च द्रव्यं ६ स्यादस्ति च नास्तिचावक्तव्यं च द्रव्यं ७ इति अत्र सर्वथात्वनिषेधेको नैकांतद्योतकः कथंचिदर्थः स्याच्छब्दो निपातः । तत्र स्वद्रव्यक्षेत्रकालभावैरादिमस्ति द्रव्यं । परद्रव्यक्षेत्रकालभावैरादिष्टं नस्ति द्रव्यं । स्वपरद्रव्यक्षेत्र कालभावैरादिष्टमास्ति च नास्ति च द्रव्यं । स्वद्रव्यक्षेत्रकालभावैः परद्रव्यक्षेत्रकालभावैश्च युगपदादिष्टमवक्तव्यं स्व- द्रव्यं क्षेत्र -काल- भावैर्युगपत्स्वपर द्रव्यक्षेत्रकालभावैश्चादिष्टमस्ति चावक्तव्यं द्रव्यं । परद्रव्यक्षेत्रकालभावैः युगपत्स्नपर द्रव्यक्षेत्र कालभाव - चादिष्टं नास्ति चावक्तव्यं द्रव्यं । स्वद्रव्यक्षेत्रकालभावैः परद्रव्यक्षेत्रकालभावैश्च युगपत्स्वपरद्रव्यक्षेत्रकालभावै श्वादिष्टमस्ति च नास्ति चावक्तव्यं च द्रव्यमिति । इति सप्तभंगी समाप्ता । इति समयसारव्याख्यायामात्मख्यातौ नवमऽकः । . यस्माद्वैतमभूत्पुरा स्वपरयोर्भूतं यतोऽत्रांतरं रागद्वेषपरिग्रहे सति यतो जातं क्रियाकारैकः । भंजाना च यतोऽनुभूतिरखिलं खिन्नाक्रियायाः फलं तद्विज्ञानघनौघमग्नमधुना किंचिन्न किंचित्खलु ॥ १६२ ॥ स्वशक्तिसंसूचितवस्तुतत्त्वैर्व्याख्या कृतेयं समयस्य शब्दैः । स्वरूपगुप्तस्य न किंचिदस्ति कर्तव्यमेवामृतचंद्रसूरेः ॥ १६३ ॥ इत्यात्माख्यातिनाम्नी समयसारव्याख्या समाप्ता ॥ तात्पर्यवृत्ति-आत्मख्यातीति टीकाद्वयोपेतं श्रीसमयप्राभृतं समाप्तिमगमत् - दर्प्रकाशे भरे नि भैरमत्यंतं शुद्धो भातः सुष्ठुो उद्दीप्तः। शर्कल तत्किचित्क्रियायाः फलं। अधुना विज्ञानघनोषमनं न किंश्चित् । Page #249 -------------------------------------------------------------------------- ________________ सनातनजैनग्रंथमालाकी नियमावली। १. इस ग्रंथमालामें मूल संस्कृत प्राकृत तथा संस्कृतटीका सहित दिगंबरजैनाचार्यकृत दर्शन, सिद्धांत, न्याय, अध्यात्म, व्याकरण, काव्य, साहित्य, पुराण, इतिहास, गणित, ज्योतिष, वैद्यकप्रभृति सर्वप्रकारके प्राचीन ग्रंथही छपते हैं । २. इसे ग्रंथमालाका प्रत्येक अंके (खंड) दश फारमसे (८० पृष्टसे) कम नहीं होगा। और प्रत्येक खंड में एक दो या तीनसे अधिक ग्रंथ नहिं रहेंगे। ३. इस ग्रंथमालाका मूल्य १२ अंकोंका सर्वसाधारणसे ८) रु. प्रथम ही ले लिया जायगा और नैयायिक, वैदांतिक और संरकृतपुस्तकालयोंकी सेवामें यह ग्रंथमाला विना मूल्य भी भेजी जायगी। परंतु पोष्टेज खर्च प्रत्येक अंकका तीन आने वी. पी. से सबको देना होगा। ४. जो महाशय एक साथ १००) रु. भेजेंगे वे यापंजीव स्थायी ग्राहक समझे जावेंगे अर्थात् उहें यह ग्रंथमाला उमर पर्यंत विना मूल्य भेजी जायगी। परंतु मार्गव्यय उनको भी जुदा देना होगा। ५. जो दानी महाशय पुस्तकालयों, मंदिरों, विद्यार्थियों वा विद्वानोंको वितरण करनेकेलिये दानी ग्राहक बनेंगे उनको १००) रु. पेशगी भेजनेसे १२ अंक तक पंद्रह २ प्रति प्रत्येक अंककी भेजी जांयगी। मार्गव्यय पृथक् देना होगा। ऐसे ग्राहकों का नाम संस्थाके प्रचारकोंमें लिखा जायगा । नोट-समाका माम पलटकर अब ऐसा करदिया गया है। मूल्य व पत्र भेजने का पता- पन्नालाल जैन, व्यवस्थापक-भारतीयजैन सिद्धांतप्रकाशिनीसंस्था । पोष्ट बनारस सिटी। जैनी भाइयोंसे प्रार्थना। यह ग्रंथमाला प्राचीन जैनग्रंथोंके जीर्णोद्धारार्थ व जैनधर्मके प्रचारार्थ प्रकाशित की जाती है । इसमें जो कुछ द्रव्यलाभ होगा वह भी धर्मप्रचार व परोपकारमें ही लगाया जायगा। इसकारण प्रत्येक धर्मात्मा उदार महाशयोंको चाहिये कि प्रथम तो एक एक दो दो ग्रंथ छपाकर जीर्णोद्धार करनेकेलिये अथवा अपने पिता आदिकी स्मृतिकोलिये द्रव्य प्रदान करें । दूसरे प्रत्येक मंदिरजीके शास्त्रभंडारमेंसे ग्राहक बनकर इन सब ग्रंथोंका संग्रह करके रक्षा करें अथवा स्वयं दानी ग्राहक (प्रचारक ) बनकर अपने यहांके संस्कृत पढनेवाले विद्यार्थियोंको अथवा संस्कृतज्ञ अन्यमती विद्वानोंको दान देकर सत्यार्थ पदार्थोंका प्रचार करें । शास्त्रदानी महाशयांकालये ही हमने पांचवां नियम बनाया है। प्रार्थी-पन्नालाल बाकलीवाल। Page #250 -------------------------------------------------------------------------- ________________ इस ग्रंथमालामें क्रमशः नीचे लिखे ग्रंथ छपेंगे। जैनदर्शनग्रंथ / ग्रंथनाम टीकाकार व ग्रंथकर्ताओंके नामतत्त्वार्थाधिगममोक्षशास्त्रपर गंधहस्तमहाभाष्य (84000 श्लोक) श्रीमत्स्वामी समंतभद्राचार्य , श्लोकवार्तिकालंकार स्याद्वादविद्यापति श्रीमद्विद्यानंदस्वामी जैनसिद्धांतग्रंथ / गोमट्टसार टीका श्रीमदभयचंद्रसिद्धांतचक्रवर्ती गोमट्टसार टीका श्रीकेशव वर्णी परमात्माप्रकाश सटीक श्रीयोगींद्रदेव नाटकत्रय सटीक श्रीमदमृतचंद्रसूरिप्रभृति नन्यायग्रंथ / न्यायविनिश्चयालंकार श्रीमद्भट्टाकलंकदेव न्यायकुमुदचंद्रोदय श्रीमत्प्रभाचंद्राचार्य आप्तमीमांसालंकृति (अष्टसहस्री) स्याद्वादविद्यापति श्रीमद्विद्यानंदस्वामी जैनव्याकरणग्रंथ / शब्दानुशासन (शाकटायन व्याकरण ) श्रुतकेवलिदेशीय श्रीमत् शाकटायनाचार्य शब्दानुशासन अमोघवृत्तिसहित अमोघाचार्य (?) शब्दार्णवचंद्रिका (जैनेंद्र लघुवृत्ति) सोमदेवसूरि शब्दार्णव (जैनेंद्रमहावृत्ति सहित) श्रीमत्पूज्यपादस्वामी देवनंद्याचार्य प्राकृतलक्षण शब्दचिंतामणिः खोपज्ञटीकासह शुभचंद्राचार्य जनसाहित्यग्रंय / अलंकारचिंतामणि सटीक श्रीमदजितसेनाचार्य (वादीभसिंहमूरि) विक्रांतकौरवीय नाटक महाकवि हस्थिमल्ल अंजनापवनंजय नाटक मैथिलीपरिणयनाटक मुभद्रा नाटिका च चतुःसंधान, सप्तसंधान, चतुर्विशतिसंधान श्रीमत्पंडितराज जगन्नाथ महाकवि पौराणिक काव्यग्रंथ / / त्रिषष्ठिशलाका महापुराण (प्राकृत) श्रीमत्पुष्पदंताचार्य हरिवंशपुराण और पद्मपुराण पद्मपुराण (जैनरामायण 18,000 श्लोक) संस्कृत श्रीमदूरविषेणाचार्य पांडवपुराण ( जैनमहाभारत ) पार्श्वपुराण , महाकविश्रीमद्वादिराजसूरि गणितज्योतिष ग्रंथ / गणितस रसंग्रह गणिताचायशिरोमणि श्रीवीराचार्य त्रिलोकसार सटीक (प्राकृत) श्रीनेमिचंद्राचार्य जैनसिद्धांतचक्र ती भद्रबाहुसंहिता , सार्द्धद्वयद्वीपप्रज्ञप्ति ज्योतिषाचार्य श्रीमद्भद्रवाहुखामी जबूद्वीपप्रज्ञप्ति श्रीपद्मनंद्याचार्य चदप्रज्ञप्ति और सूर्यप्रज्ञप्ति,, श्रीमदमितगत्याचार्य इत्यादि 2 C. D. I ress, Benares City