________________
समयप्राभृतं ।
इयप्रसिबुद्धोक्ति निरासः । एवमयमनादिमोहसंताननिरूपितात्मशरीरैकत्वं संस्कारतयात्यंतमप्रतिबुद्धापि प्रसभोज्जृंभिततत्त्वज्ञानज्योतिर्नेत्रविकारीव प्रकटोद्घाटितपटलष्टसितिप्रतिबुद्धः । साक्षात् दृष्टारं स्वं स्वयमेव हि विमख श्रद्धाय च तं चैवानुचरितकामः स्वात्मारामस्यास्यान्यद्रव्याणां प्रत्याख्यानं किं स्यादिति पृच्छन्नित्थं वाच्यः । णाणं सव्वे भावे पच्चक्खादि य परेति णादूण |
२३
ता पञ्चक्खाणं गाणं णियमा मुणेदव्वं ॥ ३९॥
ज्ञानं सर्वान् भावान् यस्मात्प्रत्याख्याति च परानिति ज्ञात्वा । तस्मात्प्रत्याख्यानं ज्ञानं नियमात् ज्ञातव्यं ||३९||
तात्पर्यवृत्तिः - णाणं सव्वे भावे पचक्खाई परेत्ति णादूण जानातीति व्युत्पत्त्या स्वसंवेदन ज्ञानमात्मेति भण्यते तं ज्ञानं कर्तृ मिथ्यात्वरागादिभावं परस्वरूपमिति ज्ञात्वा प्रत्याख्याति त्यजति निराकरोति तम्हा पच्चक्खाणं गाणं णियमा मुणेदव्वं तस्मात्काणात् निर्विकल्पस्वसंवेदनज्ञानमेव प्रत्याख्यानं नियमान्निश्वयात् मंतव्यं ज्ञातव्यमनुभवनीयमिति । इदमत्र तात्पर्य्यं - परमसमाधिकाले स्वसंवेदनज्ञानबलेन शुद्धमात्मात्मानमनुभवति तदेवानुभवनं निश्चयप्रत्याख्यानमिति । अथ प्रत्याख्यानविषये दृष्टांतमाह ।
आत्मख्यातिः - यतो हि द्रव्यांतरस्वभावभाविनोऽन्यानखिलानपि भावान् भगवत्ज्ञातृद्रव्यं स्वस्वभावभावाव्याप्यतया परत्वेन ज्ञात्वा प्रत्याचष्टे ततो य एव पूर्वं जानाति स एव पश्चात्प्रत्याचष्टे न पुनरन्य इत्यात्मनि निश्चित्य प्रत्याख्यानसमये प्रत्याख्येयोपाधिमात्रप्रवर्त्तितकर्तृत्वव्यपदेशत्वेपि परमार्थेनाव्यपदेश्य ज्ञानस्वभावादप्रच्यवनात्प्रत्याख्यानं ज्ञानमेवेत्यनुभवनीयं । अथ ज्ञातुः प्रत्याख्याने को दृष्ठांत इत्यत आह ।
जह णाम कोवि पुरिसो परदव्वमिति जाणिदं चयदि । तह सव्वे परभावेणाऊण विमुंचदे णाणी ||४०||
यथानाम कोपि पुरुषः परद्रव्यमिति ज्ञात्वा त्यजति । तथा सर्वान् परभावान् ज्ञात्वा विमुंचति ज्ञानी ||४०॥
तात्पर्यवृत्तिः - जहणाम कोवि पुरिसो परदव्वमिणंति जाणिदुं चयदि यथा नाम अहो स्फुटं वा कश्चित्पुरुषो वस्त्राभरणदिकं परद्रव्यमिदमिति ज्ञात्वा व्यजति तह सव्वे परभावे णाऊण विमुंचदे णाणी तथा तेन प्रकारेण सर्वान् मिथ्यात्वरागादि परभावान् पर्यायान् स्वसंवेदनज्ञानबलेन विशेषेण त्रिशुच्या विमुंचति त्यजति स्वसंवेदनज्ञानीति । अयमत्र भावार्थ: यथा कश्चिद्देवदत्तः परकीयचीवरं भ्रांत्या मदीयमिति मत्वा रजकगृहादानीय परिधाय च शयानः सन् पश्चादन्येन वस्त्रस्वामिना वस्त्रांचलमादायाच्छोद्य नग्नीक्रियमाणः सन् वस्त्रलांच्छनं निरीक्ष्य परकीयमिति मत्वा तद्वस्त्रं मुंचति तथायं ज्ञानी जीवेोपि निर्विण्णेन गुरुणा मिथ्यात्वरागादिविभावा एते भवदीयस्वरूपं न भवंति एकएव त्वमिति प्रतिबोध्यमानः सन् परकीयानिति ज्ञात्वा मुंचति शुद्धात्मानुभूतिमनुभवतीति । एवं गाथाद्वयं गतं । अथ कथं शुद्धात्मानुभूतिमनुभवतीति पृष्टेति मोहादिपरित्याग प्रकारमाह ।
-
आत्मख्यातिः - यथाहि कैश्चित्पुरुषः संभ्रांत्या रजकात्परकीयं चीवरमादायात्मीयप्रतिपत्या परिधाय शैयानः स्वयमज्ञानी सन्नन्येन तदंचलमालंव्य वलान्नग्नीक्रियमाणो मक्षु प्रतिवुध्यस्त्रार्पय परिवर्त्तित मेतद्वस्त्रं मामकमित्यसकृद्वाक्यं शृण्वन्नखिलैश्चिन्हैः सुष्ठु परीक्ष्य निश्चितमेतत्परकीयमिति ज्ञात्वा ज्ञानी सन्मुंचति तच्चीयरमचिरात् तथा ज्ञातापि संभ्रांत्या परकीयान्भावानादायात्मीयप्रतिपत्त्यात्मन्यध्यास्य शयानः स्वयमज्ञानी सन् गुरुणा परभावविवेकं कृत्वैकीक्रियमाणो मंक्षु प्रतिबुध्यस्वैकः खल्वयमात्मेत्यसकृच्छ्रौतं वाक्यं शृण्वन्नखिलैश्चिह्नेः सुष्ठु परीक्ष्य निश्चितमेते परभावा इति ज्ञात्वा ज्ञानी सन् मुंचति सर्वान्भावान चिरात् ।
१ कोऽपि इत्यपि ग. पुस्तके पाठः । २ सुप्यमानः । ३. झटिति ।