________________
सनातनजैनग्रंथमालायांअवतरति न यावद्वृत्तिमत्यंतवेगादनवमपरभावत्यागदृष्टांतदृष्टिः ।
झटिति सकलभावैरन्यदीयैर्विमुक्ता स्वयमियमनुभूतिस्तावदाविर्बभूव ॥ २९ ॥ अथ कथमनुभूतेः परभावविवेको भूत इत्याशंक्य भावकभावविवेकप्रकारमाह । णत्थि मम को वि मोहो बुज्झदि उवओग एव अहमिको। तं मोह णिम्ममत्तं समयस्स वियाणया विति ॥४१॥
नास्ति मम कोपि मोहो बुध्यते उपयोग एवाहमेकः ।
तं मोहनिर्ममत्वं समयस्य विज्ञायकाः विदंति ॥४१॥ तात्पर्यवृत्तिः-पत्थि मम को वि मोहो नास्ति न विद्यते मम शुद्धनिश्चयेन टंकोत्कीर्णज्ञायकैकस्वभावस्य सतो रागादिपरभावेन कर्तृभूतेन भावयितुं रंजयितुमशक्यत्वात्कश्चिद्र्व्यभावरूपो मोहः । बुज्झदि उवओग एव अहमिको बुध्यते जानाति स कः कर्ता ज्ञानदर्शनोपयोगलक्षणत्वादुपयोग आत्मैव । किं बुध्यते यतःकारणादहमेकः ततो मोहंप्रति निर्ममत्वोस्मि निर्मोहो भवामि । अथवा बुध्यते जानाति किं जानाति विशुद्धज्ञानदर्शनोपयोग एवाहमकः । तं मोहणिम्ममत्तं समयस्स वियाणया विति तं निर्मोहशुद्धात्मभावनास्वरूपं निर्ममत्वं ब्रुति वदंति जानंति वा केते समयस्य शुद्धात्मस्वरूपस्स विज्ञापकाः पुरुषा इति किंच विशेषः यत्पूर्व स्वसंवेदनज्ञानमेव प्रत्याख्यानं व्याख्यातं तस्यैवेदं निर्मोहत्वं विशेषव्याख्यानमिति । एवमेव मोहपदपरिवर्त्तनेन रागद्वेषक्रोधमानमायालोमकर्मनोकर्ममनोवचनकायश्रोत्रचक्षुर्घाणरसनस्पर्शनसूत्राणि षोडश व्याख्येयानि । अनेन प्रकारेणान्यान्यप्यसंख्येयलोकमात्रप्रमितानि विभावपरिणामरूपाणि ज्ञातव्यानि। अथ धर्मास्तिकायादिज्ञेयपदार्था अपि मम स्वरूपंन भवंतीतिप्रति पादयति ।
आत्मख्यातिः-इह खलु फलदानसमर्थतया प्रादुर्भूय भावकेन सता पुद्गलद्रव्येणाभिनिवर्त्यमानष्टंकोत्कीर्णैकञ्चायकस्वभावभावस्य परमार्थतः परभावेन भावयितुमशक्यत्वात्कतमोपि न नाम मम मोहोस्ति किंचैतत्स्वयमेव च विश्वप्रकाशचंचुरविकस्वरानवरतप्रतापसंपदा चिच्छक्तिमात्रेण स्वभावभावेन भगवानात्मैवावबुध्यते । यत्किलाहं खल्वेकः ततः समस्तद्रव्याणां परस्परसाधारणावगाहस्य निवारयितुमशक्यत्वान्मज्जितावस्थायामपि दधिखंडावस्थायामिव परिस्फुटस्वदमानस्वादभेदतया माहं प्रति निर्ममत्वोस्मि । सर्वदैवात्मैकत्वगतत्वेन समयस्यैवमेव स्थितत्वात् इतीत्थं भावकभावविवेको भूतः ।
सर्वतः स्वरसनिर्भरभावं चेतये स्वयमहं स्वमिहैकं ।
नास्ति नास्ति मम कश्चन मोहः शुद्धचिद्धनमहोनिधिरस्मि ॥३०॥ एवमेव मोहपदपरिवर्त्तनेन रागद्वेषक्रोधमानमायालोभकर्मनोकर्ममनोवचनकायश्रोत्रचक्षुर्घाणरसनस्पर्श नसूत्राणि षोडश व्याख्येयानि अनया दिशान्यान्यप्यूह्यानि । अथ शेयभावविवेकप्रकारमाह ।
णत्थि मम धम्म आदी बुज्झदि उवओग एव अहमिको । तं धम्मणिम्ममत्तं समयस्स वियाणया विति ॥४२॥ ___नास्ति मम धर्मादिर्बुध्यते उपयोग एवाहमेकः ।
तं धर्मनिर्ममत्वं समयस्य विज्ञापका विदंति ॥४२॥ तात्पर्यवृत्तिः-णत्थि मम धम्म आदी न संति न विद्यते धर्मास्तिकायादिज्ञेयपदार्था ममेति बुज्झदि बुध्यते ज्ञानी तर्हि किमहं उवओगएव अहमिक्को विशुद्धज्ञानदर्शनोपययोग एवाहं अथवा ज्ञान दर्शनोपयोगलक्षणत्वादित्यभेदेनोपयोग एवात्मा स जानाति । केन रूपेण, यतोहं टंकोत्कीर्णज्ञायकैकस्वभाव एकः ततो दधिखंडशिखिरिणीवत् व्यवहारेणैकत्वेपि शुद्धनिश्चयनयेन मम स्वरूपं न भवंतीति परद्रव्यं
१ असख्येयेष्वपि प्रदेशेषु स्वरसेन ज्ञानेन निर्भरः संपूर्णो भावः स्वरूपं यस्य ।